२१ बलि-निग्रहः

॥ ८.२१.१ ॥

श्री-शुक उवाच—

सत्यं समीक्ष्याब्ज-भवो नखेन्दुभिर्

हत-स्वधाम-द्युतिर् आवृतोऽभ्यगात् ।

मरीचि-मिश्रा ऋषयो बृहद्-व्रताः

सनन्दनाद्या नर-देव योगिनः ॥

**श्रीधरः : **

एक-विंशे पदापूर्ति- मिषेण बलि-बन्धनम् ।

विष्णुना कृतम् उत्कर्षं तस्य ख्यापयितुं जने ॥

उरुक्रमस्याङ्घ्रिस् तपसः परं गत इत्य् उक्तं, ततः किं वृत्तम् ? तद् आह—सत्यं सत्य-लोकं स्वयं च तैर् आवृतश् छन्नः । हे नर-देव, बृहद्-व्रता योगिनश् च ॥१॥

**क्रम-सन्दर्भः : **सत्यम् इति सार्ध-युग्मकम् ॥१॥

विश्वनाथः :

आनर्च चरणं ब्रह्मा दैत्यान् युद्धान् न्यवारयत् ।

बलिं तं गरुडोऽवध्नद् एकविंशेऽर्थ-कोविदः ॥

अङ्घ्रिः सत्य-लोकं गत इत्य् उक्तं, ततः किं वृत्तम् ? इत्य् अत आह—सत्यम् इति । नखा एव इन्दवस् तैः सह सत्यं सत्य-लोकं समीक्ष्याब्ज-भवो ब्रह्मा अभ्यगात्, मरीच्य्-आदयश् चाभ्यगुः । ववन्दिरे अब्ज-भवश् च ववन्दे इत्य् उभयेषाम् उभयोरु-भय-क्रियान्वयः । कीदृशः ? नखेन्दुभिर् हता तिरस्कृताः स्व-धाम-द्युतयो यस्य सः । स्वयं च तैर् आवृतश् छन्न इति नखेन्दुभिर् इत्य् अस्य त्रिष्व् अप्य् अन्वयः ॥१॥

—ओ)०(ओ—

॥ ८.२१.२ ॥

वेदोपवेदा नियमा यमान्वितास्

तर्केतिहासाङ्ग-पुराण-संहिताः ।

ये चापरे योग-समीर-दीपित-

ज्ञानाग्निना रन्धित-कर्म-कल्मषाः ॥

**श्रीधरः : **अङ्गानि शिक्षादीनि । पुराणानि तत्-संहिताश् च । योग एव समीरस् तेन दीपितं ज्ञानम् एवाग्निस् तेन रन्धितं दग्धं कर्म-कल्मषं कर्म-मलं येषाम् ॥२॥

**क्रम-सन्दर्भः : **संहिताः ब्रह्म-संहिताद्याः ॥२॥

विश्वनाथः : तर्को न्याय-शास्त्रम् । इतिहासो भारतादिः । अङ्गानि शिक्षादीनि । पुराणानि ब्राह्मादीनि । संहिताः ब्रह्म-संहिताश् च ॥२॥

—ओ)०(ओ—

॥ ८.२१.३ ॥

ववन्दिरे यत्-स्मरणानुभावतः

स्वायम्भुवं धाम गता अकर्मकम् ।

अथाङ्घ्रये प्रोन्नमिताय विष्णोर्

उपाहरत् पद्म-भवोऽर्हणोदकम् ।

समर्च्य भक्त्याभ्यगृणाच् छुचि-श्रवा

यन्-नाभि-पङ्केरुह-सम्भवः स्वयम् ॥

**श्रीधरः : **ते च सर्वे तम् अङ्घ्रिं ववन्दिरे । यस्याङ्घ्रेः स्मरणानुभावतः । अकर्मकं कर्मभिर् अप्राप्यम् । विष्णोर् अङ्घ्रये स्वयं यस्य नाभि-पङ्केरुह-संभवस् तस्य विष्णोर् अङ्घ्रिं समर्च्य ॥३॥

**क्रम-सन्दर्भः : **अकर्मकं कर्म-बन्ध-रहितं यथा स्यात्, तथा गताः । अनन्तरं ब्रह्मणा सह मोक्षात् ॥३॥

**विश्वनाथः : **अकर्मकं न विद्यन्ते कर्मकाणि निकृष्ट-कर्माणि साधनत्वेन यस्य तत् । अभ्यगृणात् तुष्टाव ॥३॥

—ओ)०(ओ—

॥ ८.२१.४ ॥

धातुः कमण्डलु-जलं तद् उरुक्रमस्य

पादावनेजन-पवित्रतया नरेन्द्र ।

स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि

लोक-त्रयं भगवतो विशदेव कीर्तिः ॥

**श्रीधरः : **लोक-त्रयं निमार्ष्टि पवित्रयति ॥४॥

**क्रम-सन्दर्भः : **धातुर् इति । पञ्चम-स्कन्धे [भा।पु। ५.१७.९] तु सुमेरु-वर्णने वाम-पदाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-बहिस्थ-जल-निर्झर एव गङ्गेयं जाता । सा च सहस्र-युग-क्रमेणैव सुमेरु-पृष्ठम् अवततारेत्य् उक्तम् । तत्रेदं प्रतिपद्यामहे यथाधुना गङ्गाविर्भवति, तथाऽन्यदापीति श्रूयते । वर्ण्यते हि पुराणान्तरे बाष्कलि-यज्ञे बलि-यज्ञवत् श्री-वामन-देव-गमनादिकम् । एवम् एव बन्ध-च्छलनम् । तस्मात् पूर्वं तथा व्यवहारः । सम्प्रति त्व् एवम् एवेति स्थिते सती-देह-त्यागानन्तरं कैलासे गङ्गा-वर्णनं सम्भवतीति । विशदा शुभ्रा ॥४॥

विश्वनाथः : कमण्डलु-जलं पादावनेजनेन पवित्रं भूत्वा गङ्गाभूत् । पञ्चम-स्कन्धे तु सुमेरु-वर्णने वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-बहिर्-जलधारैव गङ्गा । क्वचित् तु साक्षान् नारायण एव द्रव-रूपेण गङ्गेत्य् अतो जल-त्रितयम् एव मिलितं गङ्गाभूत् इति ज्ञेयम् । पतती पतन्ती निमार्ष्टि पवित्रयति ॥४॥

—ओ)०(ओ—

॥ ८.२१.५-७ ॥

ब्रह्मादयो लोक-नाथाः स्व-नाथाय समादृताः ।

सानुगा बलिम् आजह्रुः सङ्क्षिप्तात्म-विभूतये ॥

तोयैः समर्हणैः स्रग्भिर् दिव्य-गन्धानुलेपनैः ।

धूपैर् दीपैः सुरभिभिर् लाजाक्षत-फलाङ्कुरैः ॥

स्तवनैर् जय-शब्दैश् च तद्-वीर्य-महिमाङ्कितैः ।

नृत्य-वादित्र-गीतैश् च शङ्ख-दुन्दुभि-निःस्वनैः ॥

**श्रीधरः : **सङ्क्षिप्ता उपसंहृतात्म-विभूतिः स्व-विस्तारो येन तस्मै । यथा-पूर्वं वामन-रूपेण स्थितायेत्य् अर्थः ॥५॥

**क्रम-सन्दर्भः : **ब्रह्मादय इति त्रिकम् ॥५॥

**विश्वनाथः : **सङ्क्षिप्तात्म-विभूतये त्रिविक्रम-स्वरूपम् अन्तर्धाप्य वामन-स्वरूपेणैव स्थितायेत्य् अर्थः । तद् एव ब्रह्मादयस् तत्रैवागत्य तोयादिभिः पाद्यादिभिर् बलिं पूजाम् आजह्रुर् उपकल्पयामासुः ॥५॥

—ओ)०(ओ—

॥ ८.२१.८ ॥

जाम्बवान् ऋक्ष-राजस् तु भेरी-शब्दैर् मनो-जवः ।

विजयं दिक्षु सर्वासु महोत्सवम् अघोषयत् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.९ ॥

महीं सर्वां हृतां दृष्ट्वा त्रिपद-व्याज-याच्ञया ।

ऊचुः स्व-भर्तुर् असुरा दीक्षितस्यात्यमर्षिताः ॥

**श्रीधरः : **त्रि-पद-विषया या व्याज-याच्ञा कपट-याच्ञा तया स्व-भर्तुर् बलेर् महीं हृतां दृष्ट्वा अत्यमर्षिताः सन्त ऊचुः ॥९॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ—

॥ ८.२१.१० ॥

न वायं ब्रह्म-बन्धुर् विष्णुर् मायाविनां वरः ।

द्विज-रूप-प्रतिच्छन्नो देव-कार्यं चिकीर्षति ॥

**श्रीधरः : **किम् ऊचुः ? तद् आह—न वै इति सार्धैस् त्रिभिः ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ—

॥ ८.२१.११ ॥

अनेन याचमानेन शत्रुणा वटु-रूपिणा ।

सर्वस्वं नो हृतं भर्तुर् न्यस्त-दण्डस्य बर्हिषि ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : बर्हिषि यज्ञे ॥११॥

—ओ)०(ओ—

॥ ८.२१.१२-१५ ॥

सत्य-व्रतस्य सततं दीक्षितस्य विशेषतः ।

नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः ॥

तस्माद् अस्य वधो धर्मो भर्तुः शुश्रूषणं च नः ।

इत्य् आयुधानि जगृहुर् बलेर् अनुचरासुराः ॥

ते सर्वे वामनं हन्तुं शूल-पट्टिश-पाणयः ।

अनिच्छन्तो बले राजन् प्राद्रवन् जात-मन्यवः ॥

तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप ।

प्रहस्यानुचरा विष्णोः प्रत्यषेधन्न् उदायुधाः ॥

**श्रीधरः : **अनुचराश् च ते असुराश् च ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ—

॥ ८.२१.१६ ॥

नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।

कुमुदः कुमुदाक्षश् च विष्वक्सेनः पतत्त्रिराट् ॥

जयन्तः श्रुतदेवश् च पुष्पदन्तोऽथ सात्वतः ।

सर्वे नागायुत-प्राणाश् चमूं ते जघ्नुर् आसुरीम् ॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **नन्द इत्य्-आदि युग्मकम् । एषाम् अकस्माद् आविर्भावेन नित्य-भगवत्-पार्श्व-वर्तित्वं बोधयति—गुप्ततया व्यवस्थानात् । जय-विजयाव् इमौ वैकुण्ठान्तर-सम्बन्धिनौ, नागा अत्र वैकुण्ठ-स्था एव ज्ञेयाः । अनुस्मरन् अनुस्मारयन् ॥१६-१७॥

विश्वनाथः : जय-विजय इति भगवतो ब्रह्मण्यत्वस्य भक्तानाम् अपराध-विभीषिकायाश् च प्रदर्शनार्थम् एवानयोः प्रकाशाव् एव वैकुण्ठाद् अधः पेततुर् इति तृतीये वैकुण्ठ-वर्णन एव व्याख्यातम् । नागा हस्तिनः, ते च लोकालोकोपरि-वर्तिनो भगवद्-विभूति-रूपा वैकुण्ठ-वर्तिनो वा ज्ञेयाः ॥१६-१७॥

—ओ)०(ओ—

॥ ८.२१.१८ ॥

हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर् बलिः ।

वारयाम् आस संरब्धान् काव्य-शापम् अनुस्मरन् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.१९ ॥

हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः ।

मा युध्यत निवर्तध्वं न नः कालोऽयम् अर्थ-कृत् ॥

**श्रीधरः : **अर्थ-कृद् अनुकूलः ॥१९॥

**क्रम-सन्दर्भः : **हे विप्रचित्ते! इत्य्-आदि-वाक्यान्य् अपि तत्-सान्त्वन-तात्पर्याण्य् एव, न तु परमार्थ-विचार-तात्पर्याणि । अत एवैतान् विजेष्याम इत्य् उक्तम् ॥१९॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.२० ॥

यः प्रभुः सर्व-भूतानां सुख-दुःखोपपत्तये ।

तं नातिवर्तितुं दैत्याः पौरुषैर् ईश्वरः पुमान् ॥

**श्रीधरः : **पौरुषैस् तं कालम् अतिवर्तितुं पुमान् ईश्वरः समर्थो न भवति ॥२०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.२१ ॥

यो नो भवाय प्राग् आसीद् अभवाय दिवौकसाम् ।

स एव भगवान् अद्य वर्तते तद्-विपर्ययम् ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **तद्-विपर्ययं यथा स्यात्, तथा ॥२१॥

—ओ)०(ओ—

॥ ८.२१.२२ ॥

बलेन सचिवैर् बुद्ध्या दुर्गैर् मन्त्रौषधादिभिः ।

सामादिभिर् उपायैश् च कालं नात्येति वै जनः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कालं काल-रूपिणं प्रभुम् ॥२२॥

—ओ)०(ओ—

॥ ८.२१.२३ ॥

भवद्भिर् निर्जिता ह्य् एते बहुशोऽनुचरा हरेः ।

दैवेनर्द्धैस् त एवाद्य युधि जित्वा नदन्ति नः ॥

**श्रीधरः :**हरेर् अनुचरा देवाः । दैवेन र्द्धैः समृद्धैर् भवद्भिः ॥२३॥

**क्रम-सन्दर्भः : **दैवेन दैवात्मकेन कालेन ॥२३॥

विश्वनाथः : एवं तत्त्वोपदेशम् अगृह्णतस् तमो-ग्रस्तान् सुरान् आलक्ष्य प्रोत्साहनेन दैत्यानुकूलम् अत्रोपदेशेन निवर्तयितुम् आह—भवद्भिर् इति । दैवेन ऋद्धैः समृद्धैर् भवद्भिः ॥२३॥

—ओ)०(ओ—

॥ ८.२१.२४ ॥

एतान् वयं विजेष्यामो यदि दैवं प्रसीदति ।

तस्मात् कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते ॥

**श्रीधरः : **अर्थत्वायानुकूल्याय ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अर्थत्वायार्थ-साधकत्वाय ॥२४॥

—ओ)०(ओ—

॥ ८.२१.२५ ॥

श्री-शुक उवाच—

पत्युर् निगदितं श्रुत्वा दैत्य-दानव-यूथपाः ।

रसां निर्विविशू राजन् विष्णु-पार्षद ताडिताः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रसां रसातलम् ॥२५॥

—ओ)०(ओ—

॥ ८.२१.२६ ॥

अथ तार्क्ष्य-सुतो ज्ञात्वा विराट् प्रभु-चिकीर्षितम् ।

बबन्ध वारुणैः पाशैर् बलिं सूत्येऽहनि क्रतौ ॥

**श्रीधरः : **विषु पक्षिषु राजत इति विराट्प्रभोश् चिकीर्षितं ज्ञात्वा । अयम् अर्थः—अस्य सर्व-स्वापहारेण ममेत्य् अभिमानं सन्त्याज्येदानीं देह-स्वीकारेणाहङ्कारम् अपि त्याजयित्वा परमानुग्रहं कर्तुम् इच्छति, न चानेन तुल्योऽन्यः कोऽपि सत्य-सङ्घो धीरो वास्तीति तद् यशः-प्रख्यापनार्थं किञ्चित् पातयितुम् अपीच्छतीति प्रभोर् अभिप्रायं ज्ञात्वा तं बबन्धेतिसूत्येऽहनि सोमाभिषव-दिने ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विषु पक्षिषु राजत इति विराट्प्रभोश् चिकीर्षितं ज्ञात्वेति । अस्य ममतास्पदं सर्वम् अङ्गीकृत्य अहन्तास्पदम् अप्य् अङ्गीकर्तुम् इच्छति, मत्-प्रभुः प्रतिदानासामर्थ्यम् अभिद्योतास्य ऋणी भवन् द्वारपालो बुभूषति । स्वस्य भक्ताधीनत्वं भक्तस्य च सर्वोत्कर्षं लोकेषु ख्यापयितुम् अतो दण्डेनाप्य् अनश्वरम् अस्य धैर्यं दर्शयामि सर्व-लोकान् इति बबन्धसूत्येऽहनि सोमाभिषव-दिने ॥२६॥

[अत्रानुरूपार्थकं ५.२४.२३श-गद्यं द्रष्टव्यम्।]

—ओ)०(ओ—

॥ ८.२१.२७ ॥

हाहाकारो महान् आसीद् रोदस्योः सर्वतो दिशम् ।

निगृह्यमाणेऽसुर-पतौ विष्णुना प्रभविष्णुना ॥

**श्रीधरः, विश्वनाथः : **रोदस्योर् द्याव्-आपृथिव्योः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.२८ ॥

तं बद्धं वारुणैः पाशैर् भगवान् आह वामनः ।

नष्ट-श्रियं स्थिर-प्रज्ञम् उदार-यशसं नृप ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भ्रष्ट-श्रियं विगत-सम्पत्कम् । तद् अपि स्थिर-प्रज्ञम् अक्षुब्ध-धियम् । यत उदार-यशसं सम्पत्तेर् अपचयेऽपि यशसोऽत्युपचयं प्राप्तम् इत्य् अर्थः ॥२८॥

—ओ)०(ओ—

॥ ८.२१.२९ ॥

पदानि त्रीणि दत्तानि भूमेर् मह्यं त्वयासुर ।

द्वाभ्यां क्रान्ता मही सर्वा तृतीयम् उपकल्पय ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मही त्वत्-स्वामिकं स्थानम् ॥२९॥

—ओ)०(ओ—

॥ ८.२१.३० ॥

यावत् तपत्य् असौ गोभिर् यावद् इन्दुः सहोडुभिः ।

यावद् वर्षति पर्जन्यस् तावती भूर् इयं तव ॥

**श्रीधरः, विश्वनाथः : **असौ सूर्यः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.२१.३१ ॥

पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस् तनोः ।

स्वर्लोकस् ते द्वितीयेन पश्यतस् ते स्वम् आत्मना ॥

**श्रीधरः : **मया आत्मनेत्य् अन्वयः । व्यापिनेत्य् अर्थः । खं च दिशश् च । तनोः तन्वा । ते स्वं त्वदीयं सर्वस्वम् ॥३१॥

**क्रम-सन्दर्भः : **स्वम् इति भूर्-लोकादौ सर्वत्र योज्यम् ॥३१॥

विश्वनाथः : तनोस् तन्वा । स्वं तदीयं धनम् । आत्मना स्वरूपेणैव न च त्रिविक्रमत्वम् अन्यदीयं स्वरूपम् इति भावः । पदैकेन मयाक्रान्त इति पूर्वतो लोकालोकात् पश्चिमतो लोकालोक एकेनैव पदा मयाक्रान्तः इत्य् अर्थः ॥३१॥

—ओ)०(ओ—

॥ ८.२१.३२ ॥

प्रतिश्रुतम् अदातुस् ते निरये वास इष्यते ।

विश त्वं निरयं तस्माद् गुरुणा चानुमोदितः ॥

**श्रीधरः : **गुरुणा शुक्रेणानुमोदितः सन् ॥३२॥

**क्रम-सन्दर्भः : **निरये पाताल इत्य् अर्थः । अधो-गमन-साम्यात् ॥३२॥

विश्वनाथः : तर्हि मया किं कर्तव्यम् ? इति चेत्, निरये वासः क्रियताम् इति तस्य धीरत्वं निरुपाधि-भक्ति-निष्ठां च लोके ख्यापयितुम् प्रकटम् आह—प्रतीति । निरये नरके गुरुणा अनुमोदित इति किम् अहं युक्तं ब्रवीम्य् अयुक्तं वा ? इति तत्त्वं स्व-गुरुं विद्वांसं शुक्राचार्यम् एव पृष्ट्वेति भावः । वस्तुतस् तु भक्ताभासस्यापि नरकासम्भवात्, प्रतिश्रुतम् अदातुर् अपि ते निरये रलयोर् ऐक्यात् निलये मदीये वैकुण्ठे एव वास इष्यते उचितो भवति । यद्यपि तदपि सम्प्रति निलयं मया दीयमानं सुतलाख्यं मदीय-स्थान-विशेषं विश, त्वद्-अधिकारान्ते एव वैकुण्ठे त्वां स्वासयिष्यामीति भावः । गुरुणा शुक्रेणेति यद्यपि त्वं स्व-गुरुं तं मद्-विमुखं ज्ञात्वा सम्प्रत्य् अवमन्यसे, तद् अपि स त्वद्-विषयक-स्नेह-भरेणैव लुप्त-विवेको ममातिप्रिय एव मयावगतः । अतस् तेन सहैव विशेत्य् अर्थः ॥३२॥

—ओ)०(ओ—

॥ ८.२१.३३ ॥

वृथा मनोरथस् तस्य दूरः स्वर्गः पतत्य् अधः ।

प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥

**श्रीधरः : **एवम् उक्तेऽपि निरय-परिहारार्थं स्वर्ग-भ्रंश-परिहारार्थं च मनो-रथं कुर्वन्तं प्रत्याह, वृथेति । यः प्रतिश्रुतस्यादानेन याचकं विप्रलम्भते तस्य मनो-रथो वृथैव स्वर्गश् च तस्य दूर एव, स चाधः पतत्य् एव ॥३३॥

**क्रम-सन्दर्भः : **पूर्वोक्तम् एव सामान्य-निरूपणेन दृढयति—वृथेति युग्मकेन । तत्र “प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते” इति पद्यार्धं क्वचिन् नास्ति, किन्तु स्वामि-सम्मतम् इति लक्ष्यते, “च” इत्य् अस्य वैयर्थ्यात् ॥३३॥

विश्वनाथः : वृथेति प्रकटार्थः स्पष्टः । अग्रिम-भगवद्-वाक्य-तत्-फल-दृष्ट्या वस्त्व्-अर्थश् चैव व्याख्यायते, तस्य प्रसिद्ध-मद्-भक्तस्य भवत इन्द्र-पदम् अध्युपष्यासम् इति मनोरथो वृथैव यतस् तत्तो वैकुण्ठ-स्थात् सकाशात् दूरः स्वर्गोऽधः पतति । सम्प्रत्य् अपि भवान् सुतलं प्रस्थाप्यमानोऽपि स्वर्गाद् ऊर्ध्वम् अधिरोहसि, सुतल-भोगस्य स्वर्गेऽप्य् अविद्यमानत्वाद् इति भावः । यो भवान् स्व-देहात्म-सर्वस्व-समर्पणात् प्रतिश्रुतस्य आ सम्यक् प्रकारतो दानेन माम् अर्थिनं पुरुषार्थ-चतुष्टयवन्तम् अपि विशेषतः प्रकर्षेण लभते, त्वदीय-द्वारपालो भूत्वा स्थास्यामीति भावः ॥३३॥

—ओ)०(ओ—

॥ ८.२१.३४ ॥

विप्रलब्धो ददामीति त्वयाहं चाढ्य-मानिना ।

तद् व्यलीक-फलं भुङ्क्ष्व निरयं कतिचित् समाः ॥

**श्रीधरः : **त्वया चाहं विप्रलब्धस् तस्माद् व्यलीकस्यानृतस्य फलं निरयं भुङ्क्ष्वेत्य् अर्थः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततः किम् इति चेत् श्रूयताम् इत्य् आह—विप्रलब्ध इति । आढ्येभ्यः शक्रादिभ्योऽपि मानिना लोकैर् दीयमान-संमानवता त्वयाहं यतो विशेषतः प्रकर्षेण लब्धः, तत् तस्मात् इति ददामि । व्यलीकं विगतालीकं मया दीयमानत्वात् परम-सत्यं फलं यत्र तत् निलयं सुतल-सम्बन्धि सम्पदं कतिचित् समाः संवत्सरान् व्याप्य भुङ्क्ष्व ततोऽष्टमे मन्वन्तरे त्वाम् इन्द्र-पदं प्रापय्य स्व-धाम वैकुण्ठम् एव नेष्ये इति भावः ॥३४॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकविंशोऽष्टमेऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे

बलि-निग्रहो नामैकविंशोऽध्यायः ।

॥ ८.२१ ॥

(८.२२)