**॥ ८.२०.१ ॥ **
श्री-शुक उवाच—
बलिर् एवं गृह-पतिः कुलाचार्येण भाषितः
तूष्णीं भूत्वा क्षणं राजन्न् उवाचावहितो गुरुम् ॥
श्रीधरः :
विंशे त्व् अनृत-भीतोऽसौ ज्ञात्वापि कपटं हरेः ।
ददाव् एव ततो विष्णुः सहसाऽवर्धताद्भुतम् ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
विंशे ज्ञात्वार्थिनं विष्णुम् अवज्ञाय गुरोर् वचः
ददौ हर्षाद् बलिः सोऽपि प्राप्त्या हर्षाद् इवैधत ॥
क्षणं तूष्णीम् इति भगवद्-इच्छा-प्रातिकूल्ये कुतो गुरोर् गुरुत्वम् अतोऽस्याज्ञा-लङ्घने न दोष इति निश्चिकायेति भावः ॥१॥
—ओ)०(ओ**—**
॥ ८.२०.२ ॥
श्री-बलिर् उवाच—
सत्यं भगवता प्रोक्तं धर्मोऽयं गृह-मेधिनाम् ।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥**
**श्रीधरः : **भगवता त्वया प्रोक्तं सत्यम् । किं तत् ? योऽर्थ-कामादिकं न बाधेत, स हि गृह-मेधिनां धर्म इति ॥२॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : अर्थादिकं न बाधेतेति तेन विप्रस्यैतादृश-प्र्लम्बनाद् धर्मं बाधेतैव। भक्तं तु भजनीयस्य भगवतो ज्ञातस्यापि प्रलम्भनाद् बाधेत तमम् इति भावः ॥२॥
**—**ओ)०(ओ—
॥ ८.२०.३ ॥
स चाहं वित्त-लोभेन प्रत्याचक्षे कथं द्विजम् ।
प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥**
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **कथं प्रत्याचक्षे निराकरोमि ॥३॥
विश्वनाथः : प्राह्लादिर् इति प्रह्लाद-पौत्रस्य मम भगवद्-आनुकूल्यम् एव स्व-धर्म इति गूढोऽभिप्रायः । तेन प्रह्लादेनास्यण्तःकरणे कृपया भक्ति-बीजं पूर्वम् उप्तम् एव, सम्प्रति तु श्री-वामन-देव-कृपया प्राप्तेन प्रेम्णा सिद्ध एवाभूत् । यद् उक्तं—कृपा-सिद्धो यज्ञ-पत्नी वैरोचनि-शुकादयः इति ॥३॥
—ओ)०(ओ**—**
**॥ ८.२०.४ ॥ **
न ह्य् असत्यात् परोऽधर्म इति होवाच भूर् इयम् ।
सर्वं सोढुम् अलं मन्ये ऋतेऽलीक-परं नरम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.५ ॥ **
नाहं बिभेमि निरयान् नाधन्याद् असुखार्णवात् ।
न स्थान-च्यवनान् मृत्योर् यथा विप्र-प्रलम्भनात् ॥**
**श्रीधरः : **नन्व् अप्रत्याख्याने दोषा उक्तास् तत्राह, नाहम् इति । अधन्याद् दारिद्र्यान् मृत्योर् अपि ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अधन्याद् दारिद्र्यात् ॥५॥
—ओ)०(ओ**—**
**॥ ८.२०.६ ॥ **
यद् यद् धास्यति लोकेऽस्मिन् सम्परेतं धनादिकम् ।
तस्य त्यागे निमित्तं किं विप्रस् तुष्येन् न तेन चेत् ॥**
श्रीधरः : यद् यद् धनादिकं, तत् सर्वं संपरेतं मृतं पुरुषं हास्यति त्यक्ष्यत्य् एव । तत् किम् इति जीवतैव स्वयं न देयम् ? इति भावः । तथापि तावद् वृत्ति-सङ्कट-परिहारार्थम् अर्धं दीयताम् ? इति चेत् तत्राह—तस्येति । विप्रश् चेत् तेनार्थेन दत्तेनापि न तुष्येत्, तर्हि तस्यार्थस्य त्यागे दाने किं-निमित्तम् ? न किञ्चित् । याचिताद् अल्पस्य दाने विप्रस्यासन्तोषेण दानं व्यर्थम् एव स्यात्, अतस् तद्-याचितं सर्वं देयं न किञ्चिद् इति भावः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यद् यद् धनादिकं कर्तृ, संपरेतं मृतं हास्यति त्यक्ष्यत्य् एव । तेन त्वद्-आज्ञया किञ्चिन्-मात्रेण दत्तेन विप्रश् चेन् न तुष्यति, तर्हि तस्य तावन्-मात्रस्य त्यागे किं-निमित्तं फलम् ? अतः सर्वम् एव वित्तम् एतत्-प्रीत्य्-अर्थं मया दास्यत एवेति भावः । अत्र स्वेष्ट-देवं विष्णुं ज्ञात्वापि प्रवृद्ध-भक्त्य्-उत्थ-सम्भ्रम-प्रणति-स्तुत्य्-आद्य्-अकरणं शुक्राचार्यस्यासुराणां च दुःखाभावार्थम् एव ज्ञेयम् । अत एव विप्र-शब्द-प्रयोगो भाव-गोपनार्थ एव ज्ञेयः ॥६॥
—ओ)०(ओ**—**
**॥ ८.२०.७ ॥ **
श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः ।
दध्यङ्-शिबि-प्रभृतयः को विकल्पो धरादिषु ॥**
श्रीधरः : तर्हि न देयम् एव ? इति चेत्, तत्राह—श्रेय इति । दुस्त्यजैर् असुभिर् अपि । को विकल्पो विचारः ? ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वं सर्वस्वम् एव दित्ससीत्य् अत्रार्थे पूर्व आचारः प्रदर्श्यताम् इति चेत्, तत्राह—श्रेय इति । भूतानाम् अपि श्रेयः, किम् उत स्व-गृहम् आगतस्य विष्णोः ? असुभिर् अहन्ताप्सदैर् अपि । धरादिषु ममतास्पदेषु को विकल्पः, दास्ये न वा दास्ये इत्य्-आद्य्-आत्मकः? अपि तु नैव विकल्पः, किन्तु दास्याम्य् एवेति निश्चय एवेति भावः ॥७॥
—ओ)०(ओ**—**
**॥ ८.२०.८ ॥ **
यैर् इयं बुभुजे ब्रह्मन् दैत्येन्द्रैर् अनिवर्तिभिः ।
तेषां कालोऽग्रसील् लोकान् न यशोऽधिगतं भुवि ॥**
**श्रीधरः : **यैर् दैत्येन्द्रैर् युद्धेऽनिवर्तिभिर् इयं भूर् बुभुजे उपभुक्ता । तेषाम् इह लोकान् पर-लोकाश् च भोगान् इति वा । कालोऽग्रसीत् संहृतवान्, न तु भुवि तैर् अधिगतं प्राप्तं यशोऽग्रसीत् । अतः कीर्तिर् एव साध्या नान्यद् इति भावः ॥८॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : स्व-कृत्यादिकम् अनपेक्ष्य नश्वर-भोगार्थम् एव न दातव्यम् इति मतं तु नास्माकम् अभिमतम् इत्य् आह—यैर् इति । युद्धेऽनिवृत्तिभिः । इयं भूः तेषां लोकान् ऐहिकान् पारत्रिकांश् च कालोऽग्रसीत् नाशयाञ्चकार, लोकान् लोकोत्थ-भोगान् इति वा । न तु भुवि तैर् अधिगतं प्राप्तं यशोऽग्रसीत् । अतः कीर्तिर् एव साध्या नान्यद् इति भावोऽपि शुक्राद्य्-अनुरोधेनैव ज्ञापितः । वस्तुतस् तु तस्य कीर्ताद्य्-अपेक्षापि मनसि नास्ति शुद्ध-भक्तत्वाद् इति भावः ॥८॥
—ओ)०(ओ**—**
**॥ ८.२०.९ ॥ **
सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास् तनु-त्यजः ।
न तथा तीर्थ आयाते श्रद्धया ये धन-त्यजः ॥**
**श्रीधरः : देह-त्यागाद् अपि धन-त्यागे कीर्तिर् भवतीत्य् आह—**सुलभा इति । तनुं त्यजन्तीति तनु-त्यजः । तीर्थे पात्रे । अतोऽतिदुष्करो धन-त्याग एव मया कार्य इति भावः ॥९॥
**क्रम-सन्दर्भः : **तर्हि युद्धेनैव प्राणास् त्यज्यन्ताम् ? तत्राह—सुलभेति । यद्यपि धनाद्य्-अपेक्षया प्राणा अन्तरङ्गाः, तथापि मोहात् सर्व एव धनादेर् एवान्तरङ्गत्वं मन्यन्त इति भावः ॥९॥
विश्वनाथः : किं च, युद्धे निवृत्ति-रहितेभ्योऽपि दाने निवृत्ति-रहिताः अधिक-यशस्विन इत्य् आह—सुलभा इति तीर्थे सम्प्रदाने । अतस् तनु-त्यागाद् अपि धन-त्यागो दुष्करः, स एव मया कर्तव्य इति भावः ॥९॥
—ओ)०(ओ**—**
**॥ ८.२०.१० ॥ **
मनस्विनः कारुणिकस्य शोभनं
यद् अर्थि-कामोपनयेन दुर्गतिः ।
कुतः पुनर् ब्रह्म-विदां भवादृशां
ततो वटोर् अस्य ददामि वाञ्छितम् ॥
**श्रीधरः : **तर्हि निर्धनत्वेन दैन्यं स्याद् इति चेत्, तत्राह—मनस्विन इति । यादृश-तादृशानाम् अप्य् अर्थिनां कामोपनयेन काम-पूरणेन दुर्गतिर् दैन्यम् इति यत् तच् छोभनं भद्रम् एव । भवादृशानां तु कामोपनयेन दुर्गतिः शोभनम् इति किं पुनर् वक्तव्यम् ? इत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : ननु तर्हि तव दारिद्र्यं भविष्यति ? इति, तत्राह—मनस्विनो दान-वीरस्य शोभनम् एतद् एव यद् अर्थिनां याचकानां यादृश-तादृशानाम् अपि कामोपनयने काम-पूरणेन दुर्गतिर् दारिद्र्यम् । दरिद्रो दुर्गताव् इति दुर्गति-दारिद्र्ययोस् तुल्यथार्थत्वात् भवादृशानां तु कामोपनयेन दुर्गतिः शोभनम् इति किं पुनर् वक्तव्यम् इत्य् अर्थः ॥१०॥
—ओ)०(ओ**—**
**॥ ८.२०.११ ॥ **
यजन्ति यज्ञं क्रतुभिर् यम् आदृता
भवन्त आम्नाय-विधान-कोविदाः ।
स एव विष्णुर् वरदोऽस्तु वा परो
दास्याम्य् अमुष्मै क्षितिम् ईप्सितां मुने ॥
**श्रीधरः, विश्वनाथः : **ननु नायं बटुः, किन्तु विष्णुस् तव शत्रुर् इत्य् उक्तं, तर्हि सुतराम् एव दास्यामि इत्य् आह—यजन्तीति । परः शत्रुर् वास्तु ॥११॥
क्रम-सन्दर्भः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.१२ ॥ **
यद्यप्य् असाव् अधर्मेण मां बध्नीयाद् अनागसम् ।
तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्म-तनुं रिपुम् ॥**
मध्वः : बलिर् अप्य् असुरावेशात् स्तुवन्न् अपि जनार्दनम् ।
आक्षिपत्य् अन्तरा क्वापि प्रह्लादो नित्य-भक्तिमान् ॥ इति ब्रह्माण्डे ॥१०॥1
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **शुक्रम् अनुज्ञापनार्थम् एव सन्तोषयन्न् आह—यदीति द्वाभ्याम् । वास्तवार्थस् तु तैर् दर्शितः । शिरसि पदार्पण-प्रार्थनानन्तरम् एव हि तादृशी भक्तिर् जातेति भक्ति-रसाभासत्वे समाधानं च ॥१२॥
विश्वनाथः : भीतम् इति विष्णुत्वेऽपि ब्राह्मण-तनुत्व-हेतुकं भयम् अस्यावश्यम्भावीति भावः ॥१२॥
—ओ)०(ओ**—**
**॥ ८.२०.१३ ॥ **
एष वा उत्तमश्लोको न जिहासति यद् यशः ।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥**
**श्रीधरः : **यद् यदि यशो न जिहासति तर्हि युद्धेऽयं मां हत्वैनां भूमिं हरेच् छयीत वा । सम्यग् ज्ञातः सन् मम चित्ते शयीतेति वास्तवोऽर्थः ॥१३॥
**क्रम-सन्दर्भः : **भीतत्वम् एव दर्शयति—एष इति ॥१३॥
विश्वनाथः : एष वै निश्चितम् उत्तम-श्लोक एव यद् यस्मात् स्व-यशो न जिहासति अतो भूमिर् न दातव्येति मयोक्ते याच्ञा-भङ्ग-पराभवम् असहमानेनानेन, तर्हि युद्धं देहीति प्रार्थिते चोम् इत्य् उक्तवति सति युद्धे मां हत्वा एनां भूमिं हरेद् एव ।
ननु महा-वीरात् त्वत्तोऽस्य पराभवोऽपि सम्भवेद् इति चेत्, तत्राह—शयीतेति । मया निहतो युद्धे शयीतेति काकुः । नैव शयीत विष्णोर् अवध्यत्वाद् इति भावः । यद् वा, नेत्य् अस्यावृत्त्या अस्मद्-अर्थे निषेधार्थे च वर्तनाद् विनापि काक्वा सङ्गतिः ॥१३॥
—ओ)०(ओ**—**
**॥ ८.२०.१४ ॥ **
श्री-शुक उवाच—
एवम् अश्रद्धितं शिष्यम् अनादेश-करं गुरुः ।
शशाप दैव-प्रहितः सत्य-सन्धं मनस्विनम् ॥**
**श्रीधरः : **अश्रद्धितम् अजात-श्रद्धम् ॥१४॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : अश्रद्धा सञ्जातास्येत्य् अश्रद्धितम् । दैवेन भगवत्-प्रेम-सुख-प्रतिकूल-प्राचीनापराधोत्थेनाभाग्येन प्रेरित-बुद्धिः सत्य-प्रतिज्ञम् उत्तम-मनस्कम् ॥१४॥
—ओ)०(ओ**—**
**॥ ८.२०.१५ ॥ **
दृढं पण्डित-मान्य् अज्ञः स्तब्धोऽस्य् अस्मद्-उपेक्षया ।
मच्-छासनातिगो यस् त्वम् अचिराद् भ्रश्यसे श्रियः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पण्डित-मानी पण्डितानां माननीयः । न विद्यते ज्ञो यस्मात् सः । अस्मद्-उपेक्षया अस्मत्-कर्तृकया उपेक्षयापि स्तब्धः । भयाभावाद् अनम्रः । मच्-छासनम् अतिक्रम्य गच्छसि विष्णुम् इति भावः । तस्मात् न चिराद् अपि श्रियो भ्रश्यसे । भगवद्-दत्तां नित्यां सम्पदं प्राप्स्यसीत्य् एवं वास्तवोऽर्थः ॥१५॥
—ओ)०(ओ**—**
**॥ ८.२०.१६ ॥ **
एवं शप्तः स्व-गुरुणा सत्यान् न चलितो महान् ।
वामनाय ददाव् एनाम् अर्चित्वोदक-पूर्वकम् ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एतां भूमिम् उदक-दान-पूर्वकम् ॥१६॥
—ओ)०(ओ**—**
**॥ ८.२०.१७ ॥ **
विन्ध्यावलिस् तदागत्य पत्नी जालक-मालिनी ।
आनिन्ये कलशं हैमम् अवनेजन्य्-अपां भृतम् ॥**
**श्रीधरः : **जालकं मुक्ताभरण-विशेषस् तन् मालावती । अवनेजनीनाम् अपां कलशम् । भृतं पूर्णम् ॥१७॥
क्रम-सन्दर्भः :_ न व्याख्यातम्।_
**विश्वनाथः :**परम-लज्जावत्य् असूर्यम्पश्यापि राज्ञी भर्तुर् भक्ति-निष्ठाम् अवगम्यानन्दाश्रु-स्तिमिता हर्षोत्थं चापल्यं निह्नोतुम् अशक्नुवती दासीर् अप्य् अनपेक्ष्यमाणा कलसं वहन्ती बहिर् निश्चक्रामेत्य् आह—विन्ध्यावलिर् इति । जालकं मल्लिकाद्य्-अपक्व-कोरक इति केचित् । स-पुष्पातिकोमल-फलम् इत्य् अन्ये । क्षारको जालकं क्लीब इत्य् अमरः । जालकं मुक्ताभरण-विशेष इति स्वामि-चरणाः । अवनेजनीनाम् अपां कलसं भृतं पूर्णम् ॥१७॥
—ओ)०(ओ**—**
**॥ ८.२०.१८ ॥ **
यजमानः स्वयं तस्य श्रीमत् पाद-युगं मुदा ।
अवनिज्यावहन् मूर्ध्नि तद् अपो विश्व-पावनीः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.१९ ॥ **
तदासुरेन्द्रं दिवि देवता-गणा
गन्धर्व-विद्याधर-सिद्ध-चारणाः ।
तत् कर्म सर्वेऽपि गृणन्त आर्जवं
प्रसून-वर्षैर् ववृषुर् मुदान्विताः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तत् तस्य कर्म आर्जवम् अकाउटिल्यं च गृणन्तः स्तुवन्तः ॥१९॥
—ओ)०(ओ**—**
**॥ ८.२०.२० ॥ **
नेदुर् मुहुर् दुन्दुभयः सहस्रशो
गन्धर्व-किम्पूरुष-किन्नरा जगुः ।
मनस्विनानेन कृतं सुदुष्करं
विद्वान् अदाद् यद् रिपवे जगत्-त्रयम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.२१ ॥ **
तद् वामनं रूपम् अवर्धताद्भुतं
हरेर् अनन्तस्य गुण-त्रयात्मकम् ।
भूः खं दिशो द्यौर् विवराः पयोधयस्
तिर्यङ्-नृ-देवा ऋषयो यद्-आसत ॥
**श्रीधरः : **अवर्धत “वाञ्छातः प्रतिगृह्यताम्” इति बलिना पूर्वम् उक्तत्वात् । गुण-त्रयम् आत्मनि यस्य तत् । अत एव भूः खम् इत्य्-आदयो यद् यस्मिन्न् आसत स्थितवन्तः ॥२१॥
**क्रम-सन्दर्भः : **गुण-त्रय-युक्त आत्मा यत्र तद् इति गुण-त्रय-संवलितं यथा स्यात् तथाऽवर्धत इत्य् अर्थः ॥२१॥
विश्वनाथः : अवर्धत वाञ्छातः पर्तिगृह्यताम् इति बलिना पूर्वम् उक्तत्वात् । गुण-त्रयं माया तत्-कार्यं च आत्मनि सर्वाधिष्ठानत्वात् स्वस्मिन्न् एव यस्य तत् । अत एव भूः खम् इत्य्-आदयो यद् यस्मिन् आसत स्थितवन्तः ॥२१॥
—ओ)०(ओ**—**
**॥ ८.२०.२२ ॥ **
काये बलिस् तस्य महा-विभूतेः
सह र्त्विग्-आचार्य-सदस्य एतत् ।
ददर्श विश्वं त्रि-गुणं गुणात्मके
भूतेन्द्रियार्थाशय-जीव-युक्तम् ॥
**श्रीधरः : **ऋत्विग्-आदि-सहितो बलिस् तस्य हरेः काये एतद् विश्वं ददर्श ॥२२॥
**क्रम-सन्दर्भः : **गुणा ऐश्वर्यादयः षट्, तद्-आत्मकैः ॥२२॥
विश्वनाथः : गुणानाम् आत्मके उत्तमाधिष्ठातरि भूतानि च इन्द्रियाणि च, अर्थाः शब्दादयश् च, आशयोऽन्तःकरणानि च, जीवांश् च, तैर् युक्तम् ॥२२॥
—ओ)०(ओ**—**
**॥ ८.२०.२३ ॥ **
रसाम् अचष्टाङ्घ्रि-तलेऽथ पादयोर्
महीं महीध्रान् पुरुषस्य जङ्घयोः
पतत्त्रिणो जानुनि विश्व-मूर्तेर्
ऊर्वोर् गणं मारुतम् इन्द्रसेनः ॥
**श्रीधरः : **तद् एव प्रपञ्चयति—रसाम् इति । पादोनैः सप्तभिः, मारुतं गणं वायु-सङ्घम् । इन्द्रस्य सेनेव सेना यस्य सः । इन्द्र-पदे स्थितत्वात् । अचष्ट ऐक्षत ॥२३॥
**क्रम-सन्दर्भः : **इन्द्रसेन इति नूनं बलेर् नामैव—स इन्द्रसेनो भगवत्-पदाम्बुजम् [भा।पु। १०.८५.३८] इति श्री-दशमात् ॥२३॥
**विश्वनाथः :**तद् एव प्रपञ्चयति—रसाम् इति । पादोनैः सप्तभिः । रसां भू-तलं महीं भूतलोपरिस्थान् नगर-गृहाट्ट-वृक्षादीन् इत्य् अर्थः । महीध्रान् तद्-उपरि-गतान् पर्वतान् इत्य् अर्थः । पतत्त्रिणस् तद्-उपरि-चरान् पक्षिणः । मारुतं गणं वायु-सङ्घम् । इन्द्रस्य सेनेव सेना यस्य सः ॥२३॥
—ओ)०(ओ**—**
**॥ ८.२०.२४ ॥ **
सन्ध्यां विभोर् वाससि गुह्य ऐक्षत्
प्रजापतीन् जघने आत्म-मुख्यान् ।
नाभ्यां नभः कुक्षिषु सप्त-सिन्धून्
उरुक्रमस्योरसि चर्क्ष-मालाम् ॥
**श्रीधरः : **आत्मा स्वयं बलिर् मुख्यो येषां, तान् असुरान् । ऋक्ष-मालां नक्षत्र-पङ्क्तिम् ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आत्म-मुख्यान् बलि-प्रधानान् असुरान् । भू-तल-लक्षितोऽपि बलिः स्वेषां तज्-जघनाधिष्टानत्वात् जघन एवैक्षत इत्य् अर्थः । एवम् अग्रेऽपि ज्ञेयम् ॥२४॥
—ओ)०(ओ**—**
**॥ ८.२०.२५ ॥ **
हृद्य् अङ्ग धर्मं स्तनयोर् मुरारेर्
ऋतं च सत्यं च मनस्य् अथेन्दुम् ।
श्रियं च वक्षस्य् अरविन्द-हस्तां
कण्ठे च सामानि समस्त-रेफान् ॥
**श्रीधरः : **अङ्ग हे राजन् । समस्तान् रेफांश् च शब्दान् ॥२५॥
**क्रम-सन्दर्भः : **हृदीति पञ्चकम् ॥२५॥
**विश्वनाथः : **ऋतं प्रिय-वाक्यं समस्तान् रेफान् रेफोपलक्षितान् अ-कारादि-सर्व-वर्णान् ॥२५॥
—ओ)०(ओ**—**
**॥ ८.२०.२६ ॥ **
इन्द्र-प्रधानान् अमरान् भुजेषु
तत्-कर्णयोः ककुभो द्यौश् च मूर्ध्नि
केशेषु मेघान् छ्वसनं नासिकायाम्
अक्ष्णोश् च सूर्यं वदने च वह्निम् ॥
**श्रीधरः, विश्वनाथः : **द्यौश् च द्यां च ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.२७ ॥ **
वाण्यां च छन्दांसि रसे जलेशं
भ्रुवोर् निषेधं च विधिं च पक्ष्मसु ।
अहश् च रात्रिं च परस्य पुंसो
मन्युं ललाटेऽधर एव लोभम् ॥
**श्रीधरः : **रसे रसने ॥२७॥
**क्रम-सन्दर्भः : **तत्र अधर एवेत्य् अस्माद् एव-कारः सर्वत्र योज्यः । अधर-प्रकाशाप्रकाशयोर् लोभालोभावगमात्, तस्मिन् लोभत्वम् । छायासु तत्-प्रकाश-प्रतिकूलेषु भावेषु हसिते कौतुक-विशेषे । तद्-आश्रितैव सेति भावः ॥२७॥
**विश्वनाथः : **रसे रसने । पक्ष्मासु पक्ष्मोन्मीलन-निमीलनयोः ॥२७॥
—ओ)०(ओ**—**
**॥ ८.२०.२८ ॥ **
स्पर्शे च कामं नृप रेतसाम्भः
पृष्ठे त्व् अधर्मं क्रमणेषु यज्ञम्
छायासु मृत्युं हसिते च मायां
तनू-रुहेष्व् ओषधि-जातयश् च ॥
**श्रीधरः : **रेतसा रेतसि । क्रमणेषु पाद-न्यासेषु । ओषधि-जातय ओषधि-जातीः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **रेतसा रेतसि । क्रमणेषु पाद-न्यासेषु । ओषधि-जातीश् च ॥२८॥
—ओ)०(ओ**—**
**॥ ८.२०.२९ ॥ **
नदीश् च नाडीषु शिला नखेषु
बुद्धाव् अजं देव-गणान् ऋषींश् च
प्राणेषु गात्रे स्थिर-जङ्गमानि
सर्वाणि भूतानि ददर्श वीरः ॥
**श्रीधरः, विश्वनाथः : **प्राणेष्व् इन्द्रियेषु ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.३० ॥ **
सर्वात्मनीदं भुवनं निरीक्ष्य
सर्वेऽसुराः कश्मलम् आपुर् अङ्ग
सुदर्शनं चक्रम् असह्य-तेजो
धनुश् च शार्ङ्गं स्तनयित्नु-घोषम् ॥
**श्रीधरः : **सर्वात्मनीत्य्-आदि-वाक्यान्तरम् । सुदर्शनम् इत्य्-आदीनाम् ईशम् उपतस्थुर् इत्य् उत्तरेणान्वयः ॥३०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.२०.३१ ॥ **
पर्जन्य-घोषो जलजः पाञ्चजन्यः
कौमोदकी विष्णु-गदा तरस्विनी ।
विद्याधरोऽसिः शत-चन्द्र-युक्तस्
तूणोत्तमाव् अक्षयसायकौ च ॥
**श्रीधरः : **विद्याधर-संज्ञोऽसिः ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तद् एव प्रत्यक्षीभूय सुदर्शनादय ईशम् उपतस्थुर् इति द्वाभ्याम् अन्वयः । विद्याधर-संज्ञोऽसिः । शत-चन्द्रं फलकं तद्-युक्तः ॥३१॥
—ओ)०(ओ**—**
**॥ ८.२०.३२ ॥ **
सुनन्द-मुख्या उपतस्थुर् ईशं
पार्षद-मुख्याः सह-लोक-पालाः ।
स्फुरत्-किरीटाङ्गद-मीन-कुण्डलः
श्रीवत्स-रत्नोत्तम-मेखलाम्बरैः ॥
**श्रीधरः : **मीन-कुण्डले मकर-कुण्डले । स्फुरन्ति किरीटादीनि यस्य सः ॥३२॥
क्रम-सन्दर्भः :न व्याख्यातम्।
**विश्वनाथः : **पार्षदेषु मुख्याः सुनन्द-मुख्या इति तेएष्व् अपि सुनन्दो मुख्य इत्य् अर्थः । कुण्डल इत्य् अन्तं पृथक् पदम् ॥३२॥
—ओ)०(ओ**—**
**॥ ८.२०.३३ ॥ **
मधुव्रत-स्रग्-वनमालयावृतो
रराज राजन् भगवान् उरुक्रमः
क्षितिं पदैकेन बलेर् विचक्रमे
नभः शरीरेण दिशश् च बाहुभिः ॥
**श्रीधरः : **मधु-व्रतानां स्रजो यस्यां तया वन-मालया श्रीवत्सादिभिश् चावृतो व्याप्तः । उरुक्रमत्वम् एवाह—क्षितिम् इति ॥३३॥
**क्रम-सन्दर्भः : **एकेन दक्षिणेन पदा विक्षिप्यमाण-चरणेन ॥३३॥
**विश्वनाथः : **मधु-व्रतानां स्रङ् मालाकारः समूहो यत्र तथा-भूतया वन-मालया वृतो व्याप्तः । उरुक्रमत्वम् एवाह—क्षितिम् इति ॥३३॥
—ओ)०(ओ**—**
**॥ ८.२०.३४ ॥ **
पदं द्वितीयं क्रमतस् त्रिपिष्टपं
न वै तृतीयाय तदीयम् अण्व् अपि
उरुक्रमस्याङ्घ्रिर् उपर्य् उपर्य् अथो
महर्-जनाभ्यां तपसः परं गतः ॥
**श्रीधरः : **द्वितीयं पदं क्रमतो विक्षिपतस् त्रि-विष्टपं तदीयं किञ्चिन् मात्रं जातम् । तृतीयाय तु न किञ्चिद् अपि । तत्र हेतुः—उरुक्रमस्याङ्घ्रिस् त्रि-विष्टपाद् उपर्य् उपरि गच्छन् महर्-जनाभ्यां तपसश् च परं गतः सत्य-लोकं गत इति ।
**क्रम-सन्दर्भः : **द्वितीयं वाम-चरणं विक्षिपतस् तस्य त्रिपिष्टपं तदीयं तत्-पद-सम्बन्धि सत् अणु यत् किञ्चिद् एव जातम् । तृतीयाय पुनर् विक्षप्यमाण-वाम-चरणाय तु अण्व् अपि नावशिष्टम् इत्य् अर्थः । शरीरादिभिर् नभ-आदि-व्याप्तिभिश् च प्रार्थित-क्षिति-त्रिपद-मात्र-भूमेर् अपि तस्य नान्याय्यः । तावद् भूमाव् ऊर्ध्वावस्थितैर् अप्य् अपेक्षितत्वात् ॥३४॥
**विश्वनाथः : **द्वितीयं वाम-पदं क्रममाणस्य तस्य त्रिपिष्टपं तदीयं प्राप्तम् एवाभूद् इति शेषः ।तृतीयाय तृतीय-पद-न्यासार्थम् अण्व् अपि नावशिष्टम् इत्य् अर्थः । अत्र त्रिपद-मात्र-भूमेः प्रतिगृहीतत्वेऽपि भुजाद्य्-अङ्गैर् नभ-आदि-व्याप्तिश् च नाऽन्याय्या । तावद् भूमाव् ऊर्ध्वावस्थितेर् अप्य् अपेक्षितत्वादिति सन्दर्भः । नभ-आदीनाम् अपि पद-द्वयान्तर्-भूतत्वात् पद-द्वयेनैव व्याप्तिर् उच्यत इत्य् अपरैः ॥३४॥
—ओ)०(ओ**—**
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टम-स्कन्धे विंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
विश्व-रूप-दर्शनं नाम
विंशोऽध्यायः ।
॥ ८.२० ॥
(८.२१)
-
ननु बलिर् विष्णु-भक्तः । स कथं तस्मिन् भीतिं वैरं च पश्यति, भीतं ब्रह्म-तनुं रिपुम् इति ? आह—बलिर् अप्य् असुरावेशात् । यद्यपीदं तात्पर्य-वचनं, नैतच् छ्लोक-मात्र-व्याख्यानाय प्रवृत्तम्, किन्तु आ-दशमाध्यायाद् एकविंश-पर्यन्तम् अध्याय-निकाय-गत-प्रमेय-विवरणम् । अत एवैतद्-अन्ते प्राचीन-कोशेष्व् अध्याय-पूर्तिर् न पठ्यते । तथा हि—बलिर् देवैः सह युद्धं चकारेति दशमे चतुर्दशे चाध्याये श्रूयते । तत् कथं विष्णु-भक्तो विष्णु-भक्तैः सह युद्धं चकार ? आह—बलिर् अप्य् असुरावेशात् । तेनाध्याय-द्वयं व्याख्यातम् । दशम एव चाध्याये बल्यादीन् दैत्यान् वञ्चयित्वा विष्णुर् देवान् अमृतं पाययामासेत्य् उच्यते । येन सम्मोहिता दैत्याः पायिताश् चामृतं सुराः [भा।पु। ८.१२.१३] इत्य् एकादशे रुद्र-वचनं च । तत् कथं विष्णुः स्व-भक्ताय नामृतं ददौ ? आह—बलिर् अप्य् असुरावेशात् । तद् एवम् अध्याय-द्वयं व्याख्यातम् । द्वादशे चाध्याये बलेर् बन्धः श्रूयते, योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः [भा।पु। ८.१३.१४] इति । यदि प्रीतः कथं बबन्ध ? नहि, बन्धः प्रीति-लिङ्गम् । अत एव चतुर्दशे—बलेः पद-त्रयं भूमेः कस्माद् धरिर् अयाचत । भूतेश्वरः कृपण-वल् लब्धार्थोऽपि बबन्ध तम् ॥ [भा।पु। ८.१५.१] इति परीक्षिद् अप्य् आक्षिपतीव । न ह्य् अनागसो बन्धनं युक्तम् इति । आह—बलिर् अप्य् असुरावेशात् । एतेनासुरावेश-फलं बन्धनम् इत्य् अध्याय-द्वयं विवृतम् । एतेनैव, बबन्ध वारुणैः पाशैर् बलिं सूत्येऽहनि क्रतोः [भा।पु। ८.२१.२६] इति गरुड-कृतं बलि-बन्धनं च व्याख्यातम् । तथा चतुर्दशेऽध्याये, प्रह्लादम् आमन्त्र्य नमश्चकार [भा।पु। ८.१५.७] इति प्रह्लादानुमत एव बलिर् देवान् जिगायेति श्रूयते । किं प्रह्लादोऽप्य् असुरावेशात् स्व-पौत्रस्य देव-विजयम् अन्वमन्यत ? नेत्य् आह—प्रह्लादो नित्य-भक्तिमान् । न हि नित्य-भक्तस्य प्रह्लादस्य देव-विजयोऽभिमतः । किन्तु बलेर् असुरावेशं भाविनं च भगवत्-सङ्कल्पं विज्ञाय, तूष्णीम्भाव एवानुमतिर् नाम । तथा विंशेऽध्याये—अथाहम् अप्य् आत्म-रिपोस् तवान्तिकं दैवेन नीतः प्रसभं त्याजित-श्रीः [भा।पु। ८.२२.११] इति प्रह्लादवद् अहम् अपि रिपोर् अपि तव पाद-पद्मं प्रपद्य इति बलिर् आह । किं तर्हि प्रह्लादोऽपि नरसिंहं रिपुम् एव मन्यमानो भयाद् एव शरणम् इयाय ? नेत्य् आह—प्रह्लादो नित्य-भक्तिमान् । किं तर्हि विष्णु-महिमानं जानन्न् अपि बलिस् तं रिपुत्वेन गणयति ? आह—बलिर् अप्य् असुरावेशात् स्तुवन्न् अपि जनार्दनम् । आक्षिपत्य् अन्तरा क्वापि । तथा हि भगवतैव स्फुटम् उक्तं विंशाध्यायान्ते—तत्र दानव-दैत्यानां सङ्गात् ते भाव आसुरः । दृष्ट्वा मद्-अनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ [भा।पु। ८.२२.३६] इति । तद् एतद् अपि ब्रह्माण्ड-वचनेन समाख्यातं भगवत्-पादेन । तद् एवं बलि-सम्बद्धं कथा-जातम् एकेनैव श्लोकेन व्याचख्याव् इत्य् अपूर्वं कौशलं गुरुतमाग्रण्यो भगवतो भाष्य-कारस्य ॥ (गोविन्दाचार्यः) ↩︎