॥ ८.१९.१ ॥
श्री-शुक उवाच—
इति वैरोचनेर् वाक्यं धर्म-युक्तं स सूनृतम् ।
निशम्य भगवान् प्रीतः प्रतिनन्द्येदम् अब्रवीत् ॥
श्रीधरः :
ऊनविंशे तु हरिणा याचिते च पद-त्रये ।
प्रतिश्रुते च बलिना जानन् भृगुर् अवारयत् ॥
दातुः स्तुतिः स्वयं तुष्टिर् इत्य्-आदि प्रस्तुतोचितम् ।
वक्तव्यम् इति भिक्षूंस् तु शिक्षयन्न् आह वामनः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
पद-त्रय-मितां भूमिं विष्णुना प्रार्थैतं बलिम् ।
दित्सन्तम् अस्मै शुक्रस् तु न्यय्यैतसीद् ऊनविंशके ॥१॥
—ओ)०(ओ—
॥ ८.१९.२ ॥
श्री-भगवान् उवाच—
वचस् तवैतज् जन-देव सूनृतं
कुलोचितं धर्म-युतं यशस्-करम् ।
यस्य प्रमाणं भृगवः साम्पराये
पितामहः कुल-वृद्धः प्रशान्तः ॥
**श्रीधरः : **वचस् तवैतद् इति षोडशभिः । हे जन-देव, सांपराये पार-लौकिके धर्मे पितामहश् च प्रह्रादः प्रमाणम् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दातुः स्तुतिं स्वल्प-याच्ञां सन्तोष-व्यञ्जनां धृतिम् । भिक्षून् बहुतरं लिप्सून् शिक्षयन्न् आह वामनः । वच इति षोडशभिः यस्य तव ऐहिके धर्मे भृगवः प्रमाणम् । साम्पराये पारलौकिके पितामहः प्रह्लादः ॥२॥
—ओ)०(ओ—
॥ ८.१९.३ ॥
न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥
**श्रीधरः : **निःसत्त्वस्य लक्षणं यो द्विजातये याचकाय प्रत्याख्याता न ददामीति वक्ता । कृपणस्य लक्षणं प्रथमं प्रतिश्रुत्य यो वा न दातेति ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **निःसत्त्वस्य लक्षणं—प्रत्याख्याता निःसत्त्व-विशेषस्य कृपणस्य लक्षणं प्रथमं प्रतिश्रुत्य योऽदाता । वा-शब्दात् प्रत्याख्याता ॥३॥
—ओ)०(ओ—
॥ ८.१९.४ ॥
न सन्ति तीर्थे युधि चार्थिनार्थिताः
पराङ्मुखा ये त्व् अमनस्विनो नृप ।
युष्मत्-कुले यद् यशसामलेन
प्रह्राद उद्भाति यथोडुपः खे ॥
**श्रीधरः : **तीर्थे दानावसरे । यद् यस्मिन् युष्मत्-कुले ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तीर्थे दानावसरे अर्थिनो ब्राह्मणादि-याचकेनार्थिता नृपा दान-पराङ्मुखा युधि युद्धावसरे अर्थिना क्षत्रियादिना अर्थिता युद्ध-पराङ्मुखा ये अमनस्विनः अनुदार-चित्ता नृपास् ते युष्मत्-कुले न सन्तीत्य् अर्थः । येषां यशसा ॥४॥
—ओ)०(ओ—
॥ ८.१९.५ ॥
यतो जातो हिरण्याक्षश् चरन्न् एक इमां महीम् ।
प्रतिवीरं दिग्-विजये नाविन्दत गदायुधः ॥
**श्रीधरः : **यतो यस्मिञ् जातः ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यतो यत्र कुले ॥५॥
—ओ)०(ओ—
॥ ८.१९.६ ॥
यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् ।
आत्मानं जयिनं मेने तद्-वीर्यं भूर्य् अनुस्मरन् ॥
**श्रीधरः : **क्ष्मोद्धारे भूम्या उद्धरणे ॥६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.७-८ ॥
निशम्य तद्-वधं भ्राता हिरण्यकशिपुः पुरा ।
हन्तुं भ्रातृ-हणं क्रुद्धो जगाम निलयं हरेः ॥
तम् आयान्तं समालोक्य शूल-पाणिं कृतान्तवत् ।
चिन्तयाम् आस काल-ज्ञो विष्णुर् मायाविनां वरः ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.९ ॥
यतो यतोऽहं तत्रासौ मृत्युः प्राण-भृताम् इव ।
अतोऽहम् अस्य हृदयं प्रवेक्ष्यामि पराग्-दृशः ॥
**श्रीधरः : **पराग् दृशो बहिर् दृष्टेः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यत्र यत्राहं यास्यामि । तत्रैवासौ माम् न त्यक्ष्यतीत्य् अर्थः । पराग्दृशः परान् शत्रून् अञ्चन्त्यः प्राप्नुवन्त्यो दृशो दृष्टयो यस्य तस्य, पक्षे बहिर्-दर्शिनः ॥९॥
—ओ)०(ओ—
॥ ८.१९.१० ॥
एवं स निश्चित्य रिपोः शरीरम्
आधावतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हित-सूक्ष्म-देहस्
तत्-प्राण-रन्ध्रेण विविग्न-चेताः ॥
**श्रीधरः : **अतो हृदये स्थितं मां न ज्ञास्यतीत्य् एवं निश्चित्य श्वासानिलेऽन्तर्हितः सूक्ष्मो देहो यस्य । विविग्नम् अति-कम्पितं चेतो यस्य । अकम्पित-चित्त इति वास्तवोऽर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**अतो हृदये स्थितं मां न ज्ञास्यतीत्य् एवं निश्चित्य श्वासानिलेऽन्तर्हितः सूक्ष्मो देहो यस्य । विविग्नम् अति-कम्पितं चेतो यस्य । अकम्पित-चित्त इति वास्तवोऽर्थः ॥१०॥
—ओ)०(ओ—
॥ ८.१९.११ ॥
स तन्-निकेतं परिमृश्य शून्यम्
अपश्यमानः कुपितो ननाद ।
क्ष्मां द्यां दिशः खं विवरान् समुद्रान्
विष्णुं विचिन्वन् न ददर्श ॥
**श्रीधरः : **न ददर्श, अन्तः-प्रविष्टत्वात् ॥११॥
**क्रम-सन्दर्भः : **स तन्-निकेतम् इति ।तस्य निकेतं स्वर्ग-स्थं स्थान-विशेषम् ॥११॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.१२ ॥
अपश्यन्न् इति होवाच मयान्विष्टम् इदं जगत् ।
भ्रातृ-हा मे गतो नूनं यतो नावर्तते पुमान् ॥
**श्रीधरः : **पुमान् यतः सकाशान् नावर्तते, तद् ब्रह्मैव नूनं गतो नित्य-मुक्तत्वाद् इति वास्तवोऽर्थः ॥१२॥
**क्रम-सन्दर्भः : **यतः प्रपञ्चातीतात् महा-वैकुण्ठात् ॥१२॥
**विश्वनाथः : **यतो नावर्तते पुमान् इति मद्-भयाद् एव मृत इत्य् अर्थः । बौद्धानां मते मरणस्यैव मुक्तित्वम् । तद् एव तस्य मतम् । वस्तुतस् तु यतः पुमांस् तद्-भक्तो नावर्तते, तत् स्वीय-धामैव गत इत्य् अर्थः ॥१२॥
—ओ)०(ओ—
॥ ८.१९.१३ ॥
वैरानुबन्ध एतावान् आमृत्योर् इह देहिनाम् ।
अज्ञान-प्रभवो मन्युर् अहं-मानोपबृंहितः ॥
**श्रीधरः : **एवं मृत्यु-पर्यन्तम् अखण्डं विष्णौ वैरं यत् कृतवांस् तद् उचितम् एव तस्याप्रति-द्वन्द्व-महा-बल-पराक्रमस्य शूराहं मान-विजृम्भित-क्रोधानुबन्धस्य कथं नामासौ शूर-शिरो-मणिर् जीवन्न् एव कातर-वद् वैरम् उपेक्षितवान् इत्य् आशङ्क्याह—वैरानुबन्ध एतावान् आमृत्योर् भवति । देहिनां देहे निगूढाभिमान-वतां शूराणां तथाऽहं-मानेनोपबृंहितो मन्युश् च भवत्य् एव । यतोऽज्ञान-प्रभवः, अज्ञान-निवृत्तेः प्राक्पौरुष-त्यागो मान्द्यम् एवेत्य् अर्थः ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वैरानुबन्धः खल्व् एतावान् एव यावान् हिरण्यकशिपोः आमृत्योः मृत्यु-पर्यन्तो विष्णु-पर्यन्तश् च महा-शौर्योत्साह-हेतुक इति भावः । इह संसारे देहिनाम् अन्येषां तु मन्युर् अज्ञान-प्रभवो मोह-हेतुकः क्रोध-विशेष एव तथा अहं-मानः अहं शूर इति मनोऽभिमान-मात्रं शौर्याभावेऽप्य् आत्मनि शौर्य-मननं तेन उपबृंहितो विस्तारितः वैरानुबन्धस् त्व् एकस्य हिरण्यकशिपोर् एवात्र जगति दृष्टे इति भावः ॥१३॥
—ओ)०(ओ—
॥ ८.१९.१४ ॥
पिता प्रह्राद-पुत्रस् ते तद्-विद्वान् द्विज-वत्सलः ।
स्वम् आयुर् द्विज-लिङ्गेभ्यो देवेभ्योऽदात् स याचितः ॥
**श्रीधरः : **तद् एवं पूर्वजान् स्तुत्वा तत्-पितरं स्तौति—पितेति । द्विज-वेष-धारिणो मद्-वैरिणो देवा एते न तु द्विजा इति तद् विद्वान् अपि स याचितः सन् स्वीयम् आयुर् देवेभ्यो ददौ ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तव पिता विरोचनस् तु प्रह्लादस्य पुत्रः तद् विद्वान् वैरानुबन्धं जानन्न् अपि द्विज-लिङ्गेभ्यो द्विज-वेश-धारिभ्यो देवेभ्यः स्वम् आयुर् अदात् । यतो द्विज-वत्सलः । तेषां वैरित्व-ज्ञानेऽपि द्विज-वेश-धारित्व एव प्रीतिमान् ॥१४॥
—ओ)०(ओ—
॥ ८.१९.१५ ॥
भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः ।
ब्राह्मणैः पूर्वजैः शूरैर् अन्यैश् चोद्दाम-कीर्तिभिः ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.१६ ॥
तस्मात् त्वत्तो महीम् ईषद् वृणेऽहं वरदर्षभात् ।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥
**श्रीधरः : **मम पदा संमितानीति त्रिविक्रम-पदाभिप्रायेण न चानृत-वादः, तत्रापि स्व-पदत्वान् अपगमात् ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पदानि त्रीणीति । त्रिभिः क्रमैर् इत्य् उपरिष्टाद् उक्तेस् त्रीन् पाद-विक्षेपान् व्याप्य या मही ताम् ईषण्-मात्रीम् इति तावत्यैव मह्या मम पर्ण-शाला भविष्यति । वृत्तिस् त्व् आजगरी मम भूयस्य् एवेति भावो बलिं बोधयितुम् इष्टः, मम पदा सस्मितानीति त्रिविक्रम-पदाभिप्रायेण न चानृत-वादः, तत्रापि स्व-पदानपगमात् ॥१६॥
—ओ)०(ओ—
॥ ८.१९.१७ ॥
नान्यत् ते कामये राजन् वदान्याज् जगद्-ईश्वरात् ।
नैनः प्राप्नोति वै विद्वान् यावद्-अर्थ-प्रतिग्रहः ॥
**श्रीधरः : **यावद् अर्थम् एव प्रतिग्रहो यस्य सः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यावत अर्थः प्रयोजनं तावत एव प्रतिग्रहो यस्य सः । तावत एवेति पद-द्वयस्य वृत्ताव् अन्तर्भावः । पक्षे—यावन्तस् तवार्थास् तेषां सर्वेषाम् एव प्रतिग्रहो यस्य स मल्-लक्षणोऽयं विद्वान् न एनः कष्टं प्राप्नोति ॥१७॥
—ओ)०(ओ—
॥ ८.१९.१८ ॥
श्री-बलिर् उवाच—
अहो ब्राह्मण-दायाद वाचस् ते वृद्ध-सम्मताः ।
त्वं बालो बालिश-मतिः स्वार्थं प्रत्य् अबुधो यथा ॥
**श्रीधरः : **ईश्वरस्यापि याच्ञा-प्रकारं चोक्त्वा बलेर् बन्धन-प्रश्नोत्तरत्वेन तस्य गर्वातिरेकेणाढिक्षेप-प्रकारम् आह—अहो इति त्रिभिः, ते वाचो वृद्धानां संमतास् त्वं तु बालो बालिश-मतिश् च बालिशानाम् अज्ञानाम् इव मतिर् यस्य । अत एव स्वार्थं प्रति यथावद् अबुधः वस्तुतस् तु बाल इवाबालिश-मतिश् चेति च्छेदः । स्वार्थं प्रत्य् अबुध इति च भक्तानाम् एवार्थं बुध्यसे न स्वार्थम् । परिपूर्णस्य तव तद् व्यतिरेकेण स्वार्थाभावाद् इत्य् अर्थः ।
**क्रम-सन्दर्भः : **अहो ब्राह्मण-दायाद! इत्य्-आदिकं तस्येदृक् वक्तुर् बन्धनं लोक-व्यवहारेऽपि नासमञ्जसम् इति बोधनार्थम् । परमार्थतस् तु कृपयैव कृतेति तत्र तत्र स्फुटम् एवेति भावः ॥१८॥
**विश्वनाथः : **ब्राह्मण-दायाद ! हे विप्र-सूनो ! ब्रह्मण्यत्वात् ब्राह्मणेभ्यो दायम् आ सम्यक्तया ददातीति वस्त्व्-अर्थः सरस्वती-प्रयुक्तः, किन्तु त्वं बालः यथान्यो बालिश-मतिस् तथैव स्वार्थं प्रति त्वम् अबुधः । वस्तुतो महाबुधो भवन्न् अपीति भावः । वस्त्व्-अर्थस् तु त्वं भक्त-वतसलत्वाद् भक्तार्थम् एव बुद्ध्यसे । स्वार्थं प्रति तु न बुद्ध्यसे, इव इत्य् अबुधः । परिपूर्णस्य तव भक्त-प्रयोजन-व्यतिरेकेण स्व-प्रयोजनाभावाद् इति ॥१८॥
—ओ)०(ओ—
॥ ८.१९.१९ ॥
मां वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम् ।
पद-त्रयं वृणीते योऽबुद्धिमान् द्वीप-दाशुषम् ॥
**श्रीधरः : **अबुधत्वम् एवाह—माम् इति । द्वीपस्य दाशुषं दातारम् । अबुद्धिमान् वस्तुतस् तु बुद्धिमान् इत्य् एव छेदः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यो भवान् इति शेषः । बुद्धिमान् सन्न् अपि द्वीप-दायिनम् ॥१९॥
—ओ)०(ओ—
॥ ८.१९.२० ॥
न पुमान् माम् उपव्रज्य भूयो याचितुम् अर्हति ।
तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥
**श्रीधरः : **कामं यथेच्छं सम्यक् पाद-प्रसारणेनेत्य् अर्थः । अत एव तथ करिष्यति ॥२०॥
**क्रम-सन्दर्भः : **कामं यथेष्टम् इति यावत्या वृत्तिः सिद्ध्यति, तावतीम् इत्य् अर्थः ॥२०॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.२१ ॥
श्री-भगवान् उवाच—
यावन्तो विषयाः प्रेष्ठास् त्रि-लोक्याम् अजितेन्द्रियम् ।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥
**श्रीधरः : **पुनर् अपि निस्पृहत्वम् एवाविष्कुर्वन्न् आह—यावन्त इति सप्तभिः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सन्तुष्टं माम् एतावतैव दानेन पूरय । न ह्य् असन्तुष्टं त्वम् अपि पूरयितुम् समर्थोऽसीत्य् आह यावन्त इति ॥२१॥
—ओ)०(ओ—
॥ ८.१९.२२ ॥
त्रिभिः क्रमैर् असन्तुष्टो द्वीपेनापि न पूर्यते ।
नव-वर्ष-समेतेन सप्त-द्वीप-वरेच्छया ॥
**श्रीधरः : **नव-वर्ष-समेतेन द्वीपेनापि सप्तानां द्वीप-वराणाम् इच्छया ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**नव-वर्ष-समेतेनापि द्वीप-वराणाम् इच्छया ॥२२॥
—ओ)०(ओ—
॥ ८.१९.२३ ॥
सप्त-द्वीपाधिपतयो नृपा वैण्य-गयादयः ।
अर्थैः कामैर् गता नान्तं तृष्णाया इति नः श्रुतम् ॥
**श्रीधरः : **तृष्णाया अन्तं न गता इत्य् अस्माभिः श्रुतम् ॥२३॥
क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_
—ओ)०(ओ—
॥ ८.१९.२४ ॥
यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् ।
नासन्तुष्टस् त्रिभिर् लोकैर् अजितात्मोपसादितैः ॥
**श्रीधरः : **असन्तुष्ट-प्राप्तैस् त्रिभिर् लोकैर् अपि न सुखं वर्तते ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अजितात्मा अजितेन्द्रियः । उपसादितैः प्राप्तैः ॥२४॥
—ओ)०(ओ—
॥ ८.१९.२५ ॥
पुंसोऽयं संसृतेर् हेतुर् असन्तोषोऽर्थ-कामयोः ।
यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.२६ ॥
यदृच्छा-लाभ-तुष्टस्य तेजो विप्रस्य वर्धते ।
तत् प्रशाम्यत्य् असन्तोषाद् अम्भसेवाशुशुक्षणिः ॥
**श्रीधरः, विश्वनाथः : **आशुशुक्षणिर् अग्निः ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.२७ ॥
तस्मात् त्रीणि पदान्य् एव वृणे त्वद् वरदर्षभात् ।
एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् ॥
**श्रीधरः : **सिद्धोऽहं कृतार्थः । एतावतैव सर्वस्वापहार-सिद्धेर् इति गूढोऽभिप्रायाः । तद् एवाह—वित्तं हि यावत् प्रयोजनम् एव सुखम् । अधिकस्य क्लेशावहत्वाद् इत्य् अर्थः ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सिद्धोऽहं कृतार्थ इत्य् एतावतैव सर्वस्वापहार-सिद्धिर् इति गूढोऽभिप्रायः । यावत् यत्-प्रमाणकं वित्तं प्रयोजनकं भवेत् तावद् एव ग्राह्यम् इत्य् अर्थः ॥२७॥
—ओ)०(ओ—
॥ ८.१९.२८ ॥
श्री-शुक उवाच—
इत्य् उक्तः स हसन्न् आह वाञ्छातः प्रतिगृह्यताम् ।
वामनाय महीं दातुं जग्राह जल-भाजनम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.२९ ॥
विष्णवे क्ष्मां प्रदास्यन्तम् उशना असुरेश्वरम् ।
जानंश् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विदां वर इति वामनस्य परोक्षं प्राहेत्य् अर्थः ॥२९॥
—ओ)०(ओ—
॥ ८.१९.३० ॥
श्री-शुक्र उवाच—
एष वैरोचने साक्षाद् भगवान् विष्णुर् अव्ययः ।
कश्यपाद् अदितेर् जातो देवानां कार्य-साधकः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१९.३१ ॥
प्रतिश्रुतं त्वयैतस्मै यद् अनर्थम् अजानता ।
न साधु मन्ये दैत्यानां महान् उपगतोऽनयः ॥
**श्रीधरः : **अनयोऽन्यायः ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : उपगतः प्राप्तः ॥३१॥
—ओ)०(ओ—
॥ ८.१९.३२ ॥
एष ते स्थानम् ऐश्वर्यं श्रियं तेजो यशः श्रुतम् ।
दास्यत्य् आच्छिद्य शक्राय माया-माणवको हरिः ॥
**श्रीधरः : **अन्यायम् एवाह—एष इति ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हरिः सर्वस्वं हरिष्यतीत्य् अर्थः । मनः-पर्यन्तं च इति वास्तवः ॥३२॥
—ओ)०(ओ—
॥ ८.१९.३३ ॥
त्रिभिः क्रमैर् इमाल् लोकान् विश्व-कायः क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥
**श्रीधरः : **ननु मया पद-त्रयम् एव प्रतिश्रुतं, नाधिकम् ? तत्राह—त्रिभिर् इति । क्रमताम् इति चेत् तत्राह—सर्वस्वम् इति ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**ननु मया पद-त्रयम् एव प्रतिश्रुतं, नाधिकम् ? तत्राह—त्रिभिर् इति । क्रमैः पाद-विन्यासैः, क्रमताम् इति चेत्, तत्राह—सर्वस्वम् इति ॥३३॥
—ओ)०(ओ—
॥ ८.१९.३४ ॥
क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
खं च कायेन महता तार्तीयस्य कुतो गतिः ॥
**श्रीधरः : **तथापि प्रतिश्रुतं संपादनीयम् एवेति चेत् तत्राह—क्रमत इति द्वाभ्याम् । एकेन पदा पाद-न्यासेन भूमिं क्रममाणस्येत्य् अर्थः । तार्तीयस्य तृतीय-पाद-न्यासस्य ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रतिश्रुतं कथं न संपादनीयम् ? इति चेत्, तत्र सर्वस्वे दत्तेऽपि तद् एवं प्रतिश्रुतं न सम्पत्स्यते, इत्य् आह द्वाभ्याम् । क्रमतः क्रममानस्य तार्तीयस्य तृतीयस्य । यद् वा, तार्तीयस्य तृतीय-सम्बन्धिनः तृतीय-पद-क्रमस्य वस्तुनः कुतो हेतो गतिः प्राप्तिस् ते भविष्यतीत्य् अर्थः ॥३४॥
—ओ)०(ओ—
॥ ८.१९.३५ ॥
निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् ।
प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : निष्ठां नितरां स्थितिं प्रतिपादयितुम् प्रतिपादने इत्य् अर्थः । तेन सर्वस्व-दानेऽपि नरकस्यावश्यकत्वं चेद् वरं सर्वस्वादानम् एव भद्रम् ऐहिक-भोग-सिद्ध्य्-अर्थम् इति भावः ॥३५॥
—ओ)०(ओ—
॥ ८.१९.३६ ॥
न तद् दानं प्रशंसन्ति येन वृत्तिर् विपद्यते ।
दानं यज्ञस् तपः कर्म लोके वृत्तिमतो यतः ॥
**श्रीधरः : **तथापि सर्वस्व-दानात् कीर्तिस् तावद् भविष्यति ? इति चेत्, तत्राह—न तद् दानम् इति । तपश् चित्तैकाग्र्यम् । कर्म पूर्तम् ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तद् अपि यथा-शक्ति प्रतिश्रुतं कथं न दास्यामि ? इति चेत्, तत्राह—नेति । तपश् चित्तैकाग्र्यम् ॥३६॥
—ओ)०(ओ—
॥ ८.१९.३७ ॥
धर्माय यशसेऽर्थाय कामाय स्व-जनाय च ।
पञ्चधा विभजन् वित्तम् इहामुत्र च मोदते ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दानादाव् अपि शास्त्रीया व्यवस्था वर्तते इत्य् आह—दृश्हायेति ॥३७॥
—ओ)०(ओ—
॥ ८.१९.३८ ॥
अत्रापि बह्वृचैर् गीतं शृणु मेऽसुर-सत्तम ।
सत्यम् ॐ इति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् ॥
**श्रीधरः : **ननु तर्हि प्रतिश्रुत्य नेति कथम् अनृतं वाच्यम् ? तथाह—अत्रापीति सार्धैः षड्भिः । अत्रापि सत्यानृत-व्यवस्थायाम् । बह्व्-ऋच-श्रुत्या हि प्रथमम्—ॐ इति सत्यं नेत्य् अनृतम् इत्य्-आदिना सत्यानृतयोर् लक्षण-पूर्वकं स्तुति-निन्दाभ्यां सत्यं विहितम् अनृतं च निषिद्धम् । अनन्तरं च—पराग् वा एतद् रिक् रम-क्षरम् इत्य्-आदिना सत्ये दोषान् अनृते च गुणान् उक्त्वा, तस्मात् काल एव दद्यात् काले न दद्यात् तत् सत्यानृते मिथुनी-करोति इत्य् उपसंहारेण वृत्ति-सङ्कटादिष्व् अनृतम् अप्य् अनुज्ञातम्, तम् इमं श्रुत्य्-अर्थं दर्शयन्न् आह—ॐ इत्य् अङ्गी-कारेण यत् प्रोक्तं तत् सत्यम् । नेति यद् आह तद् एवानृतम् ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु देय-द्रव्य-सत्त्वेऽप्य् अन्यन् मे नास्तीत्य् अनृत-वचनं विना मम कथम् अदानम् उपपद्यताम् ? तत्राह सार्धैः षड्भिः । अत्रापि सत्यानृत-व्यवस्थायाम् ॐ इत्य् अङ्गीकारेण यत् प्रोक्तं, तत् सत्यं नेति, यद् आह तद् एवानृतम् । ॐ इति सत्यं नेत्य् अनृतम् इति श्रुतेः ॥३८॥
—ओ)०(ओ—
॥ ८.१९.३९ ॥
सत्यं पुष्प-फलं विद्याद् आत्म-वृक्षस्य गीयते ।
वृक्षेऽजीवति तन् न स्याद् अनृतं मूलम् आत्मनः ॥
**श्रीधरः : **तत् तु सत्यम् ईषद् अनृतं विना न सिद्ध्यतीत्य् आशयेनाह—सत्यं पुष्प-फलं विद्याज् जानीयात् । आत्म-वृक्षस्य देह-रूपस्य वृक्षस्य । कुतः ? गीयते श्रुत्योच्यते इत्य् अर्थः । पाठान्तरं तु सुगमम् । यद्य् अपि श्रुत्या वाचः सत्यं पुष्प-फलं चेत्य् उक्तं तथापि वाचो देह-निर्वाहाधीनत्वाद् आत्म-वृक्षस्येति प्रस्तुतानुसारेणोक्तम् । भवतु पुष्प-फल-स्थानीयं सत्यं, ततः किम् अत आह—वृक्षे देहे अजीवति तत् पुष्प-फलं न स्यात् । सा न स्यात् इति पाठे श्रुत्य्-उक्ताया वाचः परा-मर्शः । देहश् चानृतेन रक्षणीय इत्य् आह—अनृतं त्वात्मनो देहस्य मूलम् ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत् तु सत्यम् ईषद् अनृतं विना न सिद्ध्यतीत्य् आशयेनाह—सत्यम् इति । आत्म-वृक्षस्य देह-रूप-वृक्षस्य सत्यं पुष्प-फलं विद्यात् । गीयते इति श्रुति-कर्तृकं गानम् इत्य् अर्थः । तत् वृक्षेऽजीवति न स्यात्, तस्माद् वृक्षो येन जीवति, तत्र प्रयतनीयम् इति भावः । तद् एवाह—अनृतं तेन सर्वथैवानृताभावे देहो न जीवतीत्य् अर्थः ॥३९॥
—ओ)०(ओ—
॥ ८.१९.४० ॥
तद् यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्ततेऽचिरात् ।
एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः ॥
**श्रीधरः : **एतद् एव दृष्टान्तेन स्पष्टयति, तद् यथा वृक्ष उत्पाटित-मूलः शुष्यत्य् अचिराद् एवोद्वर्तते पतति च, एवं नष्टम् अनृतं यस्य स आत्मा देहः शुष्येत् । यद्य् अपि च श्रुत्या, एवम् एवानृतं वदन्न् आत्मानम् आविर्मूलं करोति इत्य् एवं निन्दयानृतं निषिद्धं, तथाप्य् उपसंहारानुसारेण तत् केवलानृत-विषयम् इत्य् अभिप्रेत्यैवं व्याख्यातम् । दयेत त्व् एतेन इति च तयैवोक्तेः । तथा च श्रुतिः—
ॐ इति सत्यं नेत्य् अनृतं तद् एतत् पुष्पं फलं वाचो यत् सत्यं स हेश्वरो यशस्वी कल्याण-कीर्तिर् भविता पुष्पं हि फलं वाचः सत्यं वदत्य् अथैतन् मूलम् वाचो यद् अनृतं तद् यथा वृक्ष आविर्मूलः शुष्यति स उद्वर्तत एवम् एवानृतं वदन्न् आविर्मूलम् आत्मानं करोति स शुष्यति स उद्वर्तते तस्माद् अनृतं न वदेद् दयेत त्व् एतेनैति ।
एतेनानेन त्व् अनृतेन दयेत सङ्कटेष्व् आत्मानं रक्षेद् इति श्रुत्य्-अर्थः ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**तत् तस्मात् यथा वृक्ष उत्पाटित-मूलः शुष्यति, अचिराद् उद्वर्तते वर्तनाद् उद्गच्छति नष्टो भवति च, एवम् एव नष्टानृतः सर्वथैव अनृत-रहितो देहः शुष्येद् इत्य् अर्थः । तथा च श्रुतिः—
ॐ इति सत्यं नेत्य् अनृतं तद् एतत् पुष्पं फलं वाचो यत् सत्यं स हेश्वरो यशस्वी कल्याण-कीर्तिर् भविता । पुष्पं हि फलं वाचः सत्यं वदत्य् अथैतन् मूलम् वाचो यद् अनृतं तद् यथा वृक्ष आविर्मूलः शुष्यति, स उद्वर्तत, एवम् एवानृतं वदन्न् आविर्मूलम् आत्मानं करोति, स शुष्यति, स उद्वर्तते, तस्माद् अनृतं न वदेद् दयेत त्व् एतेनैति ।
वाच इति वाग्-उपलक्षितस्य देहस्येत्य् अर्थः । अनृतं वदन्न् इति प्रकटीकृत्येति शेषः । मूलं यथा आविष्कृतम् एव शुष्यति, न तु गुप्तम् । तस्मात् इति तस्माद् धेतोर् अपि अनृतं न वदेत्, किन्तु दयेत त्व् एतेन इति एतेन अनेन तु अनृतेन दयेत सङ्कटेष्व् आत्मानं रक्षेद् इति श्रुत्य्-अर्थः ॥४०॥
—ओ)०(ओ—
॥ ८.१९.४१ ॥
पराग् रिक्तम् अपूर्णं वा अक्षरं यत् तद् ॐ इति ।
यत् किञ्चिद् ॐ इति ब्रूयात् तेन रिच्येत वै पुमान् ।
भिक्षवे सर्वम् ॐ कुर्वन् नालं कामेन चात्मने ॥
**श्रीधरः : **सर्वथा सत्य-वचनेन देहो न निर्वहेद् इति स्फुटी-कर्तुं सत्य् अस्य दोषान् अनृतस्य गुणान् आह—पराग् इति द्वाभ्याम् । यद् ॐ इत्य् अक्षरं तत् पराक् दूरेऽर्थं गृहीत्वऽञ्चतीति पराक् रिक्तम् इति श्रुति-पदस्य व्याख्यानम् अपूर्णं वै इति । तत् तस्माद् अर्थिने यत् किञ्चिद् ॐ इति दास्यामीति ब्रूयात्, तेन रिच्येत न्यूनो भवेत् । किं च, भिक्षवे सर्वम् ॐ कुर्वन् दास्यामीत्य् अङ्गी-कुर्वन्न् आत्मने कामेन नालं पर्याप्तो न भवति । तस्य भोगो न सिध्यतीत्य् अर्थः । तथा च श्रुतिः—
पराग् वा एतद् रिक्तम् अक्षरं यद् एतद् ॐ इति तद् यत् किं च, ॐ इत्य् आहात्रैवास्मै तद् रिच्यते स यत् स सर्वम् ॐ कुर्यात् रिच्याद् आत्मानं स कामेभ्यो नालं स्यातिति ॥४१॥
**क्रम-सन्दर्भः : **श्रुति-पदार्थम् आह—पराग् इति । श्रुति-तात्पर्यार्थम् आह—तद् यद् इति ॥४१॥
**विश्वनाथः : **सर्वथा सत्य-वचनेन देहो न निर्वहेद् इति स्फुटी-कर्तुं सत्यस्य दोषान् अनृतस्य गुणान् आह—पराग् इति द्वाभ्याम् । यद् ॐ इत्य् अक्षरं तत् पराक् दूरेऽर्थं गृहीत्वऽञ्चतीति पराक् रिक्तम् इति श्रुति-पदस्य व्याख्यानम् अपूर्णं वै इति । तत् तस्माद् अर्थिने यत् किञ्चिद् ॐ इति दास्यामीति ब्रूयात्, तेनैव रिच्येत, न तु सर्वेणैव वित्तेन न्यूनो भवति । भिक्षवे सर्वम् ॐ कुर्वन् दास्यामीत्य् अङ्गीकुर्वन्न् आत्मने आत्मार्थः कामेन भोगेन नालं पर्याप्तो न भवति । तस्य भोगो न सिद्ध्यतीत्य् अर्थः । तथा च श्रुतिः—
पराग् वा एतद् रिक्तम् अक्षरं यद् एतद् ॐ इति तद् यत् किं च, ॐ इत्य् आहात्रैवास्मै तद् रिच्यते स यत् स सर्वम् ॐ कुर्यात् रिच्याद् आत्मानं स कामेभ्यो नालं स्यातिति ॥४१॥
—ओ)०(ओ—
॥ ८.१९.४२ ॥
अथैतत् पूर्णम् अभ्यात्मं यच् च नेत्य् अनृतं वचः ।
सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः ॥
**श्रीधरः : **नेति यद् अनृतं वच एतत् पूर्णम् अर्थ-व्ययाभावात् । अभ्यात्मं चेति च-कारान्वयः । आत्मनोऽभिमुखम् अन्यस्यार्थम् आकर्षतीत्य् अभ्यात्मम् । यो हि नित्यं मम किञ्चिद् अपि नास्ति सीदामीति ब्रूते स हि तेनानृतेन परेषाम् अर्थानाकर्षतीति प्रसिद्धम् ।
ननु तर्हीदम् अनृतम् एव सर्वदा सेव्यं स्यान् नेत्य् आह—सर्वम् इति । तथा च श्रुतिः—
अथैतत् पूर्णम् अभ्यात्मं यन् नेति स यत् सर्वं नेति ब्रूयात् पापिकास्य कीर्तिर् जायेत सैनं तत्रैव हन्यात् ॥ इति ॥४२॥
**क्रम-सन्दर्भः : **सर्वम् इत्य् अर्धकम् ॥४२॥
**विश्वनाथः : **नेति यद् अनृतं वच एतत् पूर्णम् अर्थ-व्ययाभावात् । अभ्यात्मं च आत्मनोऽभिमुखम् अन्यस्यार्थम् आनयतीत्य् अभ्यात्मम् । यो हि नित्यं मम किञ्चिद् अपि नास्ति सीदामीति ब्रूते, स हि तेनानृतेन परेषाम् अर्थान् आकर्षतीति प्रसिद्धम् ।
ननु तर्हीदम् अनृतम् अमृतम् इवातिशयेन सेव्यम् अस्तु नेत्य् आह—सर्वम् इति । तथा च श्रुतिः—
अथैतत् पूर्णम् अभ्यात्मं यन् नेति स यत् सर्वं नेति ब्रूयात्, पापिकास्य कीर्तिर् जायेत, सैनं तत्रैव हन्यात् ॥ इति ॥४२॥
—ओ)०(ओ—
॥ ८.१९.४३ ॥
स्त्रीषु नर्म-विवाहे च वृत्त्य्-अर्थे प्राण-सङ्कटे ।
गो-ब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् ॥
**श्रीधरः : **अतो वृत्ति-सङ्कटादिष्व् अनृतं न दोषायेत्य् उपसंहरति, स्त्रीषु प्रोत्साहनेन वशी-करणे, नर्मणि परिहासे, विवाहे च वरादि-स्तुतौ, गवां ब्राह्मणानां च हितार्थम्, हिंसायां च कस्यचित् प्राप्तायाम् । तथा च याज्ञवल्क्यः—वर्णिनां हि वधो यत्र तत्र साक्ष्येऽनृतं वदेत् इति । तथा च श्रुतिः—तस्मात् काल एव दद्यात् काले न दद्यात् तत् सत्यानृते मिथुनी-करोति इति ॥४३॥
**क्रम-सन्दर्भः : **तद् एवम् अङ्गीकारानङ्गीकारि-लक्षणे पारिभाषिके सत्यानृते आसातां प्रसिद्धेऽपि, ते क्वचित् क्वचिद् विपरीत-फलदे इत्य् आह—स्त्रीष्व् इति । अत्र स्त्र्य्-आदिषु चतुर्षु स्वेन धर्मतः प्राप्तेष्व् इति गम्यं, प्राण-सङ्कटे स्वीये सतीति गम्यते । गो-ब्राह्मणार्थे तत्-तज्-जाति-मात्र-वृत्त्य्-आदि-लोप-प्राप्त इत्य् अर्थः । तद् एतद् एव वैष्णवानाम् अप्य् उपलक्षणं गम्यम् । हिंसायाम् अपि हिते प्राणि-मात्र-घातेऽपीत्य् अर्थः । नानृतं स्याज् जुगुप्सितम् इति, किन्तु क्वचित् तत्-तद्-घातकं सत्यम् एव जुगुप्सितम् इत्य् अर्थः ॥४३॥
**विश्वनाथः : **अतो वृत्ति-सङ्कटादिष्व् अनृतं न दोषायेत्य् उपसंहरति । स्त्रीषु प्रोत्साहनेन वशीकारे, नर्मणि यत्र क्वापि परिहासे, विवाहे वरादि-स्तुतौ, गवां ब्राह्मणानां च हितार्थे, हिंसायां कस्यचित् प्राप्तायाम् । तथा च याज्ञवल्क्यः—वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् इति । तथा च श्रुतिः—तस्मात् काल एव दद्यात् काले न दद्यात् तत् सत्यानृते मिथुनी-करोति इति ॥४३॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
ऊनविंशोऽध्यायोऽष्टमे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
वामन-चरिते ऊनविंशोऽध्यायः ।
॥ ८.१९ ॥
—ओ)०(ओ—
(८.२०)