॥ ८.१८.१ ॥
श्री-शुक उवाच—
इत्थं विरिञ्च-स्तुत-कर्म-वीर्यः
प्रादुर्बभूवामृत-भूर् अदित्याम् ।
चतुर्-भुजः शङ्ख-गदाब्ज-चक्रः
पिशङ्ग-वासा नलिनायतेक्षणः ॥
श्रीधरः :
ततस् त्व् अष्टादशे भूत्वा वामनः सत्-कृतोऽखिलैः ।
यज्ञं गतस् ततस् तेन सत्-कृत्योक्तो वरान् वृणु ॥
इत्थं विरिञ्चेन स्तुतं कर्म देव-कार्य-लक्षणं वीर्यं च प्रभावो यस्य सः । हरिर् अदित्यां प्रादुर् बभूवेति त्रयाणाम् अन्वयः । अमृत-भूर् मृत्यु-जन्म-शून्यः । शङ्ख-गदाब्ज-चक्राण्य् अस्य सन्तीति तथा । अर्श-आदित्वेन मत्व्-अर्थीयोऽच्-प्रत्ययः । अविसर्ग-पाठे स चासौ पिशङ्ग-वासाश् च ॥१॥
**क्रम-सन्दर्भः : **इत्थम् इति त्रिकम् ॥१॥
**विश्वनाथः : **
अष्टादशे हरिर् भूत्वा वामनो ब्रह्म-सूत्र-भृत् ।
बलेर् यज्ञं गतस् तेन वरान् वृण्व् इति भाषितः ॥
अमृत-भूः प्राकृतानाम् इव न मृता न नाशवती भूर् उत्पत्तिर् यस्य सः । जन्म-कर्म च मे दिव्यम् [गीता ४.९] इत्य् उक्तेः । शङ्ख-गदाब्ज-चक्र इत्य् अर्श-आद्य्-अज्-अन्तम् । अविसर्ग-पाठे स चासौ पिशङ्ग-वासाश् च ॥१॥
—ओ)०(ओ—
॥ ८.१८.२ ॥
श्यामावदातो झष-राज-कुण्डल-
त्विषोल्लसच्-छ्री-वदनाम्बुजः पुमान् ।
श्रीवत्स-वक्षा बलयाङ्गदोल्लसत्-
किरीट-काञ्ची-गुण-चारु-नूपुरः ॥
**श्रीधरः : **झष-राजो मकरस् तद्-आकारयोः कुण्डलयोस् त्विषा उल्लसन्ती श्रीर् वदनाम्बुजे यस्य । श्रीवत्सो वक्षसि यस्य वलयैर् अङ्गदैश् च सहोल्लसन्ति किरीटादीनि यस्य ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्यामश् चासाव् अवदातश् चिन्मयत्वेन शुद्धश् चेति सः ।झष-राजो मकरः । वलयैर् अङ्गदैश् च सहोल्लसन्ति किरीटादीनि यस्य सः ॥२॥
—ओ)०(ओ—
॥ ८.१८.३ ॥
मधु-व्रात-व्रत-विघुष्टया स्वया
विराजितः श्री-वनमालया हरिः ।
प्रजापतेर् वेश्म-तमः स्वरोचिषा
विनाशयन् कण्ठ-निविष्ट-कौस्तुभः ॥
**श्रीधरः : **श्रीमत्या वन-मालया विराजितः । वेश्म-गतं तमः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्रीमत्या वन-मालया विराजितः ॥३॥
—ओ)०(ओ—
॥ ८.१८.४ ॥
दिशः प्रसेदुः सलिलाशयास् तदा
प्रजाः प्रहृष्टा ऋतवो गुणान्विताः ।
द्यौर् अन्तरीक्षं क्षितिर् अग्नि-जिह्वा
गावो द्विजाः सञ्जहृषुर् नगाश् च ॥
**श्रीधरः, विश्वनाथः : **अग्नि-जिह्वा देवाः । नगाः पर्वताः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.५ ॥
श्रोणायां श्रवण-द्वादश्यां
मुहूर्तेऽभिजिति प्रभुः ।
सर्वे नक्षत्र-ताराद्याश्
चक्रुस् तज्-जन्म दक्षिणम् ॥
**श्रीधरः : **तत्-प्रादुर्भाव-समयम् आह—श्रोणायाम् इति । भाद्र-पद-शुक्ल-द्वादशी श्रवण-द्वादशीति प्रसिद्धा तस्याम् । तत्रापि श्रोणायां श्रवण-स्थे चन्द्र इत्य् अर्थः । तत्रापि श्रवणस्य प्रथमांशेऽभिजिति नक्षत्रे । तच् च श्रुत्या दर्शितम्—अभिजिन् नाम नक्षत्रम् उपरिष्टाद् अषाढानाम् अधस् ताच् छ्रोणायाः इति । एवं विशिष्टे मुहूर्ते प्रभुः प्रादुर्बभूवेत्य् अर्थः । किं च, नक्षत्राण्य् अश्विन्य्-आदीनि तारा-शब्देन ग्रहा गुरु-शुक्रादयस् ते आद्या येषां ते सूर्यादयोऽपि सर्वे तस्य जन्म दक्षिणम् उदारं चक्रुः । जन्म-मुहूर्ते गुणा बहवो बभूवुर् इत्य् अर्थः ॥५॥
**क्रम-सन्दर्भः : **श्रोणायाम् अभिजिति नक्षत्रे मुहूर्ते चाभिजितीत्य् अन्वयः ॥५॥
**विश्वनाथः : **तत्-प्रादुर्भाव-समयम् आह—श्रोणायाम् इति । भाद्र-शुक्ल-द्वादशी श्रवण-द्वादशीति प्रसिद्धा, तस्याम् । तत्रापि श्रोणायां श्रवण-स्थे चन्द्र इत्य् अर्थः । तत्रापि श्रवणस्य प्रथमांशेऽभिजिति नक्षत्रे । तच् च श्रुत्या दर्शितम्—अभिजिन्-नाम नक्षत्रम् उपरिष्टाद् अषाढायाः चरणारविन्दायाः अधस्तादिति । ज्योतिषेण च । उत्तराषाढाशेषार्धात् चरणारविन्दादौ लिप्तिका-चतुष्के च अभिजित्, तत्-स्थे खेचरे विज्ञेय रोहिणी-विद्धेति । मुहूर्ते स्व-जन्मोचित-शुभ-मुहूर्त इत्य् अर्थः ।
यद् वा, अभि सर्वतो-भावेन जित् जयो यतः, तस्मिन् मुहूर्ते परम-शुभ-लग्न इत्य् अर्थः । जय-लक्षणम् एवाह—ताराग्रहा गुरु-शुक्रादयः, ते आद्या येषां ते सूर्यादयोऽपि सर्वे तज्-जन्म दक्षिणम् उदारं चक्रुः इति श्री-स्वामि-चरणैः ॥५॥
—ओ)०(ओ—
॥ ८.१८.६ ॥
द्वादश्यां सवितातिष्ठन् मध्यन्दिन-गतो नृप ।
विजया-नाम सा प्रोक्ता यस्यां जन्म विदुर् हरेः ॥**
**श्रीधरः : **विशेषान्तरम् आह—यस्यां द्वादश्यां हरेर् जन्म तत् तस्याम् अहन्य् एव विदुः । तदा च मध्यन्-दिन-गतः सवितातिष्ठत् । सा च द्वादशी विजया नाम प्रोक्तेत्य् अन्वयः ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अहनि मध्यन्दिन-गतः सविता यदाभूत्, तदा जन्मेति शेषः । यस्यां द्वादश्यां जन्म विदुः सा विजया प्रोक्ता ॥६॥
—ओ)०(ओ—
॥ ८.१८.७ ॥
शङ्ख-दुन्दुभयो नेदुर् मृदङ्ग-पणवानकाः ।
चित्र-वादित्र-तूर्याणां निर्घोषस् तुमुलोऽभवत् ॥**
**श्रीधरः : **शङ्खादयो ये तेषाम् अन्येषां च चित्र-तूर्याणां निर्घोषोऽभवत् ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : शङ्खादयो नेदुर् इति शेषः ॥७॥
—ओ)०(ओ—
॥ ८.१८.८ ॥
प्रीताश् चाप्सरसोऽनृत्यन् गन्धर्व-प्रवरा जगुः ।
तुष्टुवुर् मुनयो देवा मनवः पितरोऽग्नयः ॥**
**श्रीधरः, विश्वनाथः : **देवा मनव इत्य्-आदीनां कुसुमैः समवाकिरन्न् इति तृतीयेनान्वयः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.९-१० ॥
सिद्ध-विद्याधर-गणाः सकिम्पुरुष-किन्नराः ।
चारणा यक्ष-रक्षांसि सुपर्णा भुजगोत्तमाः ॥**
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।
अदित्या आश्रम-पदं कुसुमैः समवाकिरन् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.११ ।
दृष्ट्वादितिस् तं निज-गर्भ-सम्भवं
परं पुमांसं मुदम् आप विस्मिता ।
गृहीत-देहं निज-योग-मायया
प्रजापतिश् चाह जयेति विस्मितः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.१२ ॥
यत् तद् वपुर् भाति विभूषणायुधैर्
अव्यक्त-चिद्-व्यक्तम् अधारयद् धरिः
बभूव तेनैव स वामनो बटुः
सम्पश्यतोर् दिव्य-गतिर् यथा नटः ॥
**श्रीधरः : **विस्मयान्तरम् आह—यत् तद् इति । यत् तद् वपुर् हरिर् अधारयत् प्रकटितवांस् तेनैव वपुषा माता-पित्रोः संपश्यतोर् एव वामनो बटुर् बभूव । दिव्य-गतिर् अद्भुत-चेष्टितः । स्वयं कथं-भूतः ? अव्यक्त-चिद्-रूपः । कथम् अधारयत् ? भातिर् दीप्तिर् विभूषणानि चायुधानि च, तैर् व्यक्तं यथा भवति, तथा ॥१२॥
**क्रम-सन्दर्भः : **अर्थश् चायम्—यद् वपुः शरीरम् अव्यक्तं, न केनापि व्यज्यते, यच् चित् पूर्णानन्दस् तत्-स्वरूपम् एव सद्-विभूषणायुधैर् भाति, तद् वपुस् तथा1 प्रपञ्चेऽपि व्यक्तं यथा स्यात्, तथाधारयत् स्थापितवान् । पुनश् च तेनैव वपुषा वामनो बटुर् बभूव हरिः । एव-कारेण परिणाम-वेषान्तर-योगादिकं निषिद्धम् । कदा ? पित्रोः सम्पश्यतोः । तद्-भावे हेतुः—दिव्याः परमाचिन्त्याः यद् गतं भवच् च भविष्यच् च[बृ।आ।उ। ३.९.३] इत्य्-आदि-श्रुतेः । स्वस्मिन्न् एव नित्य-स्थितानां नाना-संस्थानानां प्रकाशनाप्रकाशन-रूपा गतयश् चेष्टा यस्य सः ।
तत्रालक्सित-स्वधर्म-मात्रोल्लासांशे दृष्टान्त-लेशः—यथा नट इति । नटोऽपि कश्चिद् आश्चर्यतमा दिव्या परम-विस्मापिका गतिर् हस्तक-रूपा चेष्टा यस्य, तथाभूतः सन् । तेनैव रूपेण वेष-मायादिकम्2 अनुरीकृत्यापि नानाकारतां दर्शयति । स्वर्ग्यो नटो वा दिव्य-गतिः । ततश् च तत्-तद्-अनुकरणं तस्यात्यन्त-तद्-आकारम् एव भवति । अत्र परमेश्वरं विना अन्यस्य सर्वांशे तादृशत्वाभावात् न च दृष्टान्ते खण्डत्व-दोषः प्रसञ्जनीयः3 । यथा भक्षित-कीट-परिणाम-लाला-जात-तन्तु-साधनोऽप्य् ऊर्ण-नाभः परमेश्वरस्य जगत्-सृष्टाव् अनन्य-साधकत्वे दृष्टान्तः श्रूयते—यथोर्ण-नाभिर् हृदयात् [भा।पु। ११.९.२१] इत्य्-आदि, तद्वत् ॥१२॥ (भगवत्-सन्दर्भ ४०)
विश्वनाथः : विभूषणायुधैः सह यद् वपुर् भाति, वर्तमान-निर्देशेन वपुषो नित्यत्वं व्यञ्जितम् । किं च, यद् अव्यक्तं च चित्-स्वरूपं च, तद् एव व्यक्तं कृपयैव व्यक्तीकृतम् । अधारयत्, न त्व् अभूत-चरम् एव तज् जग्राहेत्य् अर्थः । पित्रोः सुखार्थम् इति भावः । तेनैव, न तु मायिकेन केनचिद् इत्य् अर्थः । दिव्या दुर्गमाः सत्या गतयश् चेष्टा यस्य तथा-भूतो महा-योगेश्वरो नटः स हि स्व-स्वरूपतः पृथग्-भूतं स्वरूपं कुर्वन्न् अप्य् अपृथग्-भूतम् एव करोति । तथैव हरिस् तेन चिन्मय-वपुषैव वपुर् बभूवेत्य् अर्थः ॥१२॥
—ओ)०(ओ—
॥ ८.१८.१३ ॥
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः
कर्माणि कारयाम् आसुः पुरस्कृत्य प्रजापतिम् ॥
**श्रीधरः : **कर्माणि जात-कर्मादीनि ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कर्माणि चूडोपनयनादीनि ॥१३॥
—ओ)०(ओ—
॥ ८.१८.१४-१६ ॥
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्
बृहस्पतिर् ब्रह्म-सूत्रं मेखलां कश्यपोऽददात् ॥
ददौ कृष्णाजिनं भूमिर् दण्डं सोमो वनस्पतिः
कौपीनाच्छादनं माता द्यौश् छत्रं जगतः पतेः ॥
कमण्डलुं वेद-गर्भः कुशान् सप्तर्षयो ददुः
अक्ष-मालां महाराज सरस्वत्य् अव्ययात्मनः ॥
**श्रीधरः : **वनस्पतिर् वनानां पतिः सोमः ॥१५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.१७ ॥
तस्मा इत्य् उपनीताय यक्ष-राट् पात्रिकाम् अदात्
भिक्षां भगवती साक्षाद् उमादाद् अम्बिका सती ॥
**श्रीधरः, विश्वनाथः : **पात्रिकां भिक्षा-पात्रीम् ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.१८ ॥
स ब्रह्म-वर्चसेनैवं सभां सम्भावितो वटुः
ब्रह्मर्षि-गण-सञ्जुष्टाम् अत्यरोचत मारिषः ॥
**श्रीधरः : **स एवं संभावितो मऋइषः श्रेष्ठो बटुर् ब्रह्म-वर्चसेन ब्रह्मर्षि-गण-सञ्जुष्टां तां सभाम् अतिक्रम्यारोचत ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ब्रह्म-वर्चसेन ब्रह्म-तेजसा संभावितः । कारित-सम्भावनः । ब्रह्मचारित्वेन् अ प्रत्यायित इत्य् अर्थः । अतिक्रम्यारोचत । मारिषः श्रेष्ठः ॥१८॥
—ओ)०(ओ—
॥ ८.१८.१९ ॥
समिद्धम् आहितं वह्निं कृत्वा परिसमूहनम्
परिस्तीर्य समभ्यर्च्य समिद्भिर् अजुहोद् द्विजः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.२० ॥
श्रुत्वाश्वमेधैर् यजमानम् ऊर्जितं
बलिं भृगूणाम् उपकल्पितैस् ततः
जगाम तत्राखिल-सार-सम्भृतो
भारेण गां सन्नमयन् पदे पदे ॥
**श्रीधरः : **यद्-अर्थं बटुर् बभूव, तद् आह—श्रुत्वेत्य्-आदि यावत् समाप्ति । यजमानं यजन्तम् । भृगूणां भृगुभिः । उपकल्पितैः प्रवर्तितैः । अखिलेन सारेण बलेन संभृतः संपूर्णः ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भृगूणाम् उपकल्पितैः भृगुभिः सम्पादितैः । अखिलैः सारैर् विवेक-धैर्य-पाण्डित्यादिभिः संभृतः पूर्णः । भारेण कृपैश्वर्यादि गरिम्णा गां पृथ्वीं सम्यङ्-नमस्कारं कारयन् ॥२०॥
—ओ)०(ओ—
॥ ८.१८.२१ ॥
तं नर्मदायास् तट उत्तरे बलेर्
य ऋत्विजस् ते भृगुकच्छ-संज्ञके ।
प्रवर्तयन्तो भृगवः क्रतूत्तमं
व्यचक्षताराद् उदितं यथा रविम् ॥
**श्रीधरः : **नर्मदाया उत्तरे तटे भृगु-कच्छ-संज्ञके क्षेत्रे क्रतूत्तमं प्रवर्तयन्तो ये बलेर् ऋत्विजो भृगवस् ते तं व्यचक्षतापश्यन् । आरात् समीप एवोदितं रविम् इव ॥२१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.२२ ॥
ते ऋत्विजो यजमानः सदस्या
हत-त्विषो वामन-तेजसा नृप ।
सूर्यः किलायात्य् उत वा विभावसुः
सनत्-कुमारोऽथ दिदृक्षया क्रतोः ॥
**श्रीधरः : **त ऋत्विग्-आदयः सूर्यः किलेत्य् एवम् आदि व्यतर्कयन्न् इति शेषः ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त ऋत्विग्-आदयः एवम् व्यतर्कयन्न् इति शेषः ॥२२॥
—ओ)०(ओ—
॥ ८.१८.२३ ॥
इत्थं सशिष्येषु भृगुष्व् अनेकधा
वितर्क्यमाणो भगवान् स वामनः ।
छत्रं सदण्डं सजलं कमण्डलुं
विवेश बिभ्रद् धयमेध-वाटम् ॥
**श्रीधरः : **हय-मेध-वाटम् अश्वमेध-मण्डपं विवेश ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : इत्थम् इति यथा ऋत्विग्-आदयो व्यतर्कयन् इत्थं भृगुषु भृगुभिर् अपि वितर्क्यमाणः । हयमेध-बाटम् अश्वमेध-मण्डपम् ॥२३॥
—ओ)०(ओ—
॥ ८.१८.२४-२५ ॥
मौञ्ज्या मेखलया वीतम् उपवीताजिनोत्तरम् ।
जटिलं वामनं विप्रं माया-माणवकं हरिम् ॥**
प्रविष्टं वीक्ष्य भृगवः सशिष्यास् ते सहाग्निभिः ।
प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास् तस्य तेजसा ॥**
**श्रीधरः : **उपवीताजिनम् उपवीतवद् धृतम् अजिनम् एवोत्तरम् उत्तरीयं यस्य तम् ॥२४॥ सङ्क्षिप्ता अभिभूताः सन्तः ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वीतं युक्तं, उपवीतवद् धृतम् अजिनम् एवोत्तरम् उत्तरीयं यस्य तम् । मायया स्वरूपेणैव माणवकं बालम् । स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः इति श्रुतेः । प्रत्यगृह्णन् यथा-विधि नति-विनयार्घ्यादि-दानेन सम्मानयामासुः ।
प्रतिग्रहः स्वीकरणे सैन्य-पृष्ठे पतद्ग्रहे ।
द्विजेभ्यो विधिवद् देये इति मेदिनी ॥२४-२५॥
—ओ)०(ओ—
॥ ८.१८.२६ ॥
यजमानः प्रमुदितो दर्शनीयं मनोरमम् ।
रूपानुरूपावयवं तस्मा आसनम् आहरत् ॥**
**श्रीधरः : **रूपस्यानुरूपा अवयवा यय तम् । दृष्ट्वेति शेषः ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.२७ ॥
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः ।
अवनिज्यार्चयाम् आस मुक्त-सङ्ग-मनोरमम् ॥**
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **मुक्त-सङ्गानाम् अपि मनोरमं यथा स्यात् ॥२७॥
**विश्वनाथः : **मुक्त-सङ्गानाम् आत्मारामाणां मनो रमयतीति तम् ॥२७॥
—ओ)०(ओ—
॥ ८.१८.२८ ॥
तत्-पाद-शौचं जन-कल्मषापहं
स धर्म-विन् मूर्ध्न्य् अदधात् सुमङ्गलम् ।
यद् देव-देवो गिरिशश् चन्द्र-मौलिर्
दधार मूर्ध्ना परया च भक्त्या ॥
**श्रीधरः : **चन्द्र-मौलिश् चेत्य् अन्वयः । अप्य्-अर्थे च-कारः । चन्द्र-मौलिर् अपि गङ्गा-रूपं यन्-मूर्ध्ना दधारेत्य् अर्थः ॥२८॥
**क्रम-सन्दर्भः : **देवदेव! सर्वाराध्योऽपि4 गिरौ शेते गिरिशः परमानासक्तोऽपि चन्द्रमौलिः स्वभावत एवामृत-सार-सिक्त-तनुर् अपि ॥२८॥
**विश्वनाथः : **चन्द्र-मौलिर् ललाटे धृत-चन्द्रोऽपि मूर्ध्ना चन्द्रस्याप्य् उपरि दधार इति भावः ॥२८॥
—ओ)०(ओ—
॥ ८.१८.२९ ॥
श्री-बलिर् उवाच—
स्वागतं ते नमस् तुभ्यं ब्रह्मन् किं करवाम ते ।
ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्-धरम् ॥**
**श्रीधरः : **हे आर्य ! त्वा त्वां साक्षात् प्रत्यक्षं ब्रह्मर्षीणां तप एव मन्ये । कथं-भूतं तपः ? वपुर्-धरं मूर्ति-धारि ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वा त्वां वपुर्-धरं मूर्तिमत्-तप एव मन्ये, साक्षान् मत्-प्रत्यक्षीभूतम् ॥२९॥
—ओ)०(ओ—
॥ ८.१८.३० ॥
अद्य नः पितरस् तृप्ता अद्य नः पावितं कुलम्
अद्य स्विष्टः क्रतुर् अयं यद् भवान् आगतो गृहान् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१८.३१ ॥
अद्याग्नयो मे सुहुता यथा-विधि
द्विजात्मज त्वच्-चरणावनेजनैः
हतांहसो वार्भिर् इयं च भूर् अहो
तथा पुनीता तनुभिः पदैस् तव ॥
**श्रीधरः : **त्वच्-चरणावनेजनैर् वार्भिर् हतम् अंहो यस्य, तस्य मे पुनीता पवित्री-कृता ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वच्-चरणाव् अनेजनैर् वार्भिः । पदैश् चरण-चिह्नैर् इयं भूः पुनीता पवित्रीकृता आर्षः प्रयोगः ॥३१॥
—ओ)०(ओ—
॥ ८.१८.३२ ॥
यद् यद् वटो वाञ्छसि तत् प्रतीच्छ मे
त्वाम् अर्थिनं विप्र-सुतानुतर्कये ।
गां काञ्चनं गुणवद् धाम मृष्टं
**तथान्न-पेयम् उत वा विप्र-कन्याम् । **
ग्रामान् समृद्धांस् तुरगान् गजान् वा
रथांस् तथार्हत्तम सम्प्रतीच्छ ॥
**श्रीधरः : **मे मत्तः प्रतीच्छ गृहाण । हे अर्हत्तम पूज्यतम ॥३२॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमेऽष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
बलि-वामन-संवादो नाम
अष्टादशोऽध्यायः ।
॥ ८.१८ ॥
(८.१९)