१७ वामन-देवाविर्भावः

अः

॥ ८.१७.१ ॥

श्री-शुक उवाच—

इत्य् उक्ता सादिती राजन् स्व-भर्त्रा कश्यपेन वै ॥

अतिष्ठद् व्रतम् इदं द्वादशाहम् अतन्द्रिता ॥ ॥

श्रीधरः :

ततः सप्तदशेऽदित्या कृते तस्मिन् व्रते हरिः ।

तत् काम-पूरणायादौ तत् पुत्रोऽभूद् इतीर्यते ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

व्रतिन्य् एवादितिर् विष्णुं पश्यन्ती तुष्टुवे स ताम् ।

आश्वास्याभूत् सुतो ब्रह्म स्तुतः सप्तदशे प्रभुः ॥१॥

—ओ)०(ओ—

॥ ८.१७.२-३ ॥

चिन्तयन्त्य् एकया बुद्ध्या महा-पुरुषम् ईश्वरम् ।

प्रगृह्येन्द्रिय-दुष्टाश्वान् मनसा बुद्धि-सारथिः ॥

मनश् चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि ।

वासुदेवे समाधाय चचार ह पयो-व्रतम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मनसा प्रगृह्य प्रग्रह-रूपेण मनसा वशीकृत्येत्य् अर्थः । मनो-रश्मिर् बुद्धि-सूत इति पूर्वोक्तेः । एकाग्रया एकाग्रीकृतया सौभाग्या मनश् च वशीकृतं वासुदेवे सम्यग् अर्प꣡ ॥२-३॥

—ओ)०(ओ—

। ८.१७.४-५ ॥

तस्याः प्रादुरभूत् तात भगवान् आदि-पुरुषः ।

पीत-वासाश् चतुर्-बाहुः शङ्ख-चक्र-गदा-धरः ॥

तं नेत्र-गोचरं वीक्ष्य सहसोत्थाय सादरम् ।

ननाम भुवि कायेन दण्डवत्-प्रीति-विह्वला ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.६ ॥

सोत्थाय बद्धाञ्जलिर् ईडितुं स्थिता

नोत्सेह आनन्द-जलाकुलेक्षणा ।

बभूव तूष्णीं पुलकाकुलाकृतिस्

तद्-दर्शनात्युत्सव-गात्र-वेपथुः ॥

**श्रीधरः : **प्रीति-विह्वलत्वाद् एव सा बद्धाञ्जलिः सती स्थिता केवलम् ईडितुं पुनर् नोत्सेहे न शशाक, अपि तु तूष्णीं बभूव । कथं-भूता ? आनन्द-जलैर् आकुले ईक्षणे यस्याः । पुलकैर् आकुला आकृतिर् देहो यस्याः । तस्य दर्शनेन योऽत्युत्सवस् तेन गात्रे वेपथुः कम्पो यस्याः ॥६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.७ ॥

प्रीत्या शनैर् गद्गदया गिरा हरिं

तुष्टाव सा देव्य् अदितिः कुरूद्वह ।

उद्वीक्षती सा पिबतीव चक्षुषा

रमा-पतिं यज्ञ-पतिं जगत्-पतिम् ॥

**श्रीधरः : **तुष्टाव पिबतीवोद्वीक्ष्यमाणेति च क्रिया-भेदात् सेत्य् अस्य पदस्य द्विर्-उक्तिर् अदोषः ॥७॥

**क्रम-सन्दर्भः : **पुनः सा चक्षुषा पिबन्तीवोद्वीक्ष्यमाणा बभूवेत्य् अर्थः ॥७॥

विश्वनाथः : उद्वीक्षती उत्कर्षेण तथा वीक्ष्यमाणो यथा चक्षुषा तं पिबतीवोत्प्रेक्षते इत्य् अर्थः । रमा-पतिं तत्-पुत्रेभ्यः सर्व-सम्पत्-प्रदातारं यज्ञ-पतिं यज्ञ-साराख्य-व्रताद् आविर्भवन्तं जगत्-पतिम् अवतीर्य जगद्-उद्धर्तारम् ॥७॥

—ओ)०(ओ—

॥ ८.१७.८ ॥

श्री-अदितिर् उवाच—

यज्ञेश यज्ञ-पुरुषाच्युत तीर्थ-पाद ।

तीर्थ-श्रवः श्रवण-मङ्गल-नामधेय ॥

आपन्न-लोक-वृजिनोपशमोदयाद्य

शं नः कृधीश भगवन्न् असि दीन-नाथः

**श्रीधरः : **

अयत्नतो विनिर्जित्य दैत्यान् अत्यूर्जितान् अपि ।

भक्तान् रक्षितुम् ईशस् त्वम् इत्य् अस्तौद् अदितिस् त्रिभिः ॥ इति ।

यज्ञेशेत्य्-आदि-दशभिः संबोधनैस् तवाशक्यं किम् अपि नास्तीति वदन्ती प्रार्थयते—

शं नः कृधि । यतो दीनानां नथोऽसि त्वम् । तीर्थं श्रवः कीर्तिर् यस्य । श्रवणम् एव मङ्गलं यस्य, तन् नामधेयं यस्य । आपन्नानां शरण-गतानां वृजिनोपशमायोदयो यस्य ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यज्ञेश हे व्रत-यज्ञ-फल-प्रद ! यज्ञ-पुरुष हे मज्जन्मावधि-यजनीय-पुरुष ! अच्युत ! हे स्व-भक्त-शक्रादि-च्युति-विनाशिन् ! तीर्थ-पाद ! हे गङ्गोत्पादयिष्यच्-चरण-पद्म ! तीर्थ-श्रवः ! हे जगत्-पावनी-भविष्यद्-बलि-च्छलनादि-कीर्ते ! हे कर्णानन्दि-भविष्यद्-उपेन्द्र-त्रिविक्रमादि-नामन् ! हे विपन्न-मद्-विध-जन-दुःख-प्रशमकावतारेत्य् एव भावार्थ-सूचक-सम्बोधन-पदान्य् अदित्या मुखात् स्वयम् एव निःसृतानीति ज्ञेयम् ॥८॥

—ओ)०(ओ—

॥ ८.१७.९ ॥

विश्वाय विश्व-भवन-स्थिति-संयमाय

स्वैरं गृहीत-पुरु-शक्ति-गुणाय भूम्ने ।

स्व-स्थाय शश्वद्-उपबृंहित-पूर्ण-बोध-

व्यापादितात्म-तमसे हरये नमस् ते ॥

श्रीधरः : भूम्ने महते नमः । महत्त्वे हेतवः, विश्वाय विश्वस्य भवन-स्थिति-संयम् आर्थं स्वैरं गृहीताः पुरुशक्तेर् मायाया गुण येन तस्मै । तथापि स्वस्थायाप्रच्युत-स्वरूपाय । कुतः ? शश्वद् उपबृंहितो नित्योर्जितो यः पूर्ण-बोधस् तेन व्यापादितं नित्य-निरस्तम् आत्मनि तमो माया-लक्षणं येन तस्मै ॥९॥

**क्रम-सन्दर्भः : **विश्वाय कार्यस्य कारणाव्यतिरेकात् तद्-रूपत्वेन व्यपदिष्टाय, स्वतस् तु विश्वस्य भवनादयो यस्मात्, तत् न स्वरूपाय । न केवलम् एतावत् तच्-छक्तित्वं, किन्तु स्वैरम् अमर्यादं यथा स्यात् तथा गृहीता धृताः पुरवः शक्तयः साक्षाच् छ्री-प्रभृतयस् तद्-वृत्ति-भूता गुणा ऐश्वर्याद्याश् च येन तस्मै । अतः स्वरूपतो भूम्ने1 परिपूर्णतमाय, अत एव स्वस्थाय नित्यैक-रूपाय, अत एव शश्वद्-उपबृंहितो भक्तानां हृदि नित्यम् एव वर्द्धितो यः पूर्ण-बोधः स्वानुभवः, तेन व्यापादितं नाशितम् आत्म-तम आत्म-विषयः, तद्-अज्ञानांशो येन तस्मै हरये । सर्व-दुःख-हरत्वेन सर्व-मनोहरत्वेन तन्-नाम्ने नमः ॥९॥

**विश्वनाथः : **तवैश्वर्यम् अपारं ज्ञात्वैवाह—त्वाम् एव प्रपद्ये इत्य् आह—विश्वायेति । भूम्ने महते नमः । स्वेषु भक्तेषु तिष्ठतीति तस्मै शश्वद् उपबृंहितो यः पूर्णो बोधः, तेन व्यापादितं नित्य-निरस्तम् आत्मनि तमो माया-लक्षणं येन तस्मै ॥९॥

—ओ)०(ओ—

॥ ८.१७.१० ॥

आयुः परं वपुर् अभीष्टम् अतुल्य-लक्ष्मीर्

द्यो-भू-रसाः सकल-योग-गुणास् त्रि-वर्गः ।

ज्ञानं च केवलम् अनन्त भवन्ति तुष्टात्

त्वत्तो नृणां किम् उ सपत्न-जयादिर् आशीः ॥

**श्रीधरः : **अस्मदीय-मनो-रथ-पूरणम् ईषत्-करम् एव तवेति कैमुत्य-न्यायेनाह—आयुः परं ब्रह्मायुः । पुनर् अपि द्यौश् च भूश् च रसा-तलं च द्यो-भू-रसाः । द्यौर् इति पृथक् पाठे भूश् च रसाश् च बिल-स्वर्गा इति विग्रहः । रसेति पाठे त्रीणि पदानि । सकला योग-गुणा अणिमादयः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद् वाञ्छितं तु त्वं पूरयिष्यस्य् एवेति कैमुत्य-न्यायेनाह—आयुर् इति । द्यौर् भूरसा इति समासेनासमासेन च पाठ-द्वयम् । योग-गुणा अणिमाद्याः ॥१०॥

—ओ)०(ओ—

॥ ८.१७.११ ॥

श्री-शुक उवाच—

अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।

क्षेत्र-ज्ञः सर्व-भूतानाम् इति होवाच भारत ॥

**श्रीधरः, विश्वनाथः : **क्षेत्र-ज्ञोऽन्तर्यामी ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.१२ ॥

श्री-भगवान् उवाच—

देव-मातर् भवत्या मे विज्ञातं चिर-काङ्क्षितम् ।

यत् सपत्नैर् हृत-श्रीणां च्यावितानां स्व-धामतः ॥

**श्रीधरः : **सपत्नैर् हृता श्रीर् येषां स्व-धामतश् च्यावितानां च पुत्राणां संबन्धि यत् तद् भवत्याश् चिरम् आकाङ्क्षितं मया विज्ञातम् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्याः भक्तेः सकामत्वं व्यञ्जयान् नाह यत् सपत्नैर् इति । स्व-पत्नैश् च्यावितानां देवानां यच् चिर-काङ्क्षितं तद् एव भवत्याश् चिर-काङ्क्षितं मया ज्ञातम् ॥१२॥

—ओ)०(ओ—

॥ ८.१७.१३ ॥

तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् ।

प्रतिलब्ध-जय-श्रीभिः पुत्रैर् इच्छस्य् उपासितुम् ॥

**श्रीधरः : **काङ्क्षितम् एवाह—तान् इति त्रिभिः । प्रतिलब्धो जयश् च श्रीश् च यैः, तैः पुत्रैः सहोपासितुम् एकत्र स्थातुम् इच्छसि ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुत्रैः सह उप आधिक्येन आसितुम् स्व-राज्ये उपविष्टुम् इच्छसि । यद् वा, तैः सहैव माम् उपासितुं, न त्व् एकाकिनीत्य् अर्थः ॥१३॥

—ओ)०(ओ—

॥ ८.१७.१४ ॥

इन्द्र-ज्येष्ठैः स्व-तनयैर् हतानां युधि विद्विषाम् ।

स्त्रियो रुदन्तीर् आसाद्य द्रष्टुम् इच्छसि दुःखिताः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आसाद्य स्व-स्थानं प्राप्य ॥१४॥

—ओ)०(ओ—

॥ ८.१७.१५ ॥

आत्मजान् सुसमृद्धांस् त्वं प्रत्याहृत-यशः-श्रियः ।

नाक-पृष्ठम् अधिष्ठाय क्रीडतो द्रष्टुम् इच्छसि ॥

**श्रीधरः : **प्रत्याहृतं यशश् च श्रीश् च यैस् तान् ॥१५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.१६ ॥

प्रायोऽधुना तेऽसुर-यूथ-नाथा

अपारणीया इति देवि मे मतिः ।

यत् तेऽनुकूलेश्वर-विप्र-गुप्ता

न विक्रमस् तत्र सुखं ददाति ॥

**श्रीधरः : **अपारणीया अनतिक्रमणीयाः । यद् यस्मात् अनुकूल ईश्वरः कालो येषां तैर् विप्रैर् गुप्ता रक्षिताः । अनुकूलैर् ईश्वरैः समर्थैर् विप्रैर् गुप्ता इति वा ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अनुकूलैर् ईश्वरैः समर्थैश् च विप्रै रक्षिताः ॥१६॥

—ओ)०(ओ—

॥ ८.१७.१७ ॥

अथाप्य् उपायो मम देवि चिन्त्यः

सन्तोषितस्य व्रत-चर्यया ते ।

ममार्चनं नार्हति गन्तुम् अन्यथा

श्रद्धानुरूपं फल-हेतुकत्वात् ॥

**श्रीधरः : **मम मय चिन्त्य एव । तत्र हेतुः—सन्तोषितस्येत्य्-आदि । श्रद्धानुरूपम् इच्छानुसारेण फल-हेतुत्वात् ॥१७॥

**क्रम-सन्दर्भः : **ममार्चनं कर्तृ श्रद्धाऽनुरूपं गन्तुम् अर्हति । यद् यत् फल-दातृत्वेन प्रतीति-विषयः स्यात्, तत् तत् सर्वम् एव सङ्ग्रहीतुं योग्यं भवति, नात्रान्यथा। कुतः? तत्राह—फल-हेतुकत्वात्, फलम् अत्राव्यभिचारि-भक्ति-रूप-कारणकत्वाद् इत्य् अर्थः॥१७॥

**विश्वनाथः : **गन्तुं भवितुं फलस्य हेतुकत्वात् उत्तम-कारणत्वम्॥१७॥

—ओ)०(ओ—

॥ ८.१७.१८ ॥

त्वयार्चितश् चाहम् अपत्य-गुप्तये

पयो-व्रतेनानुगुणं समीडितः ।

स्वांशेन पुत्रत्वम् उपेत्य ते सुतान्

गोप्तास्मि मारीच-तपस्य् अधिष्ठितः ॥

**श्रीधरः : **मारीचस्य तपस्य् अधिष्ठाय स्थितः सन् गोप्तास्मि पालयिष्यामि ॥१८॥

**क्रम-सन्दर्भः : **नन्व् एवं सति समरे शत्रु-निर्जयादि-रूपोऽपि मम मनोरथोऽयम् अमोघ-भजनात् त्वत्त एव सिद्ध्येत् ? तत्राह—त्वयार्चित इति । अपत्य-गुप्तय इति, ताम् एव सङ्कल्पयन्तीत्य् अर्थः । सम्प्रति मत्-प्राप्त्यैव तु मनोरथान्तराण्य् अपि जातानीति भावः । पयो-व्रतेनार्चितः तस्यैवानुगुणम् अनुरूपं यथा स्यात् तथा समीडितश् चाहम् इत्य् अन्वयः ॥१८॥

**विश्वनाथः : **मारीचस्य कश्यपस्य तपःसु अधिष्ठाय स्थितः सन् ॥१८॥

—ओ)०(ओ—

॥ ८.१७.१९ ॥

उपधाव पतिं भद्रे प्रजापतिम् अकल्मषम् ।

मां च भावयती पत्याव् एवं रूपम् अवस्थितम् ॥

**श्रीधरः : **अतः पतिम् उपधाव भजस्व ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.२० ॥

नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।

सर्वं सम्पद्यते देवि देव-गुह्यं सुसंवृतम् ॥

श्रीधरः : देवणांगुह्यं रहस्यं सर्वं सुसंवृतं सुगुप्तं सत् सम्पद्यते सिद्ध्यति ॥२०॥

**क्रम-सन्दर्भः- **अत्र श्री-गुरोः श्री-भगवतो वा प्रसाद-लब्धं साधन-साध्य-गतं स्वीय-सर्वस्व-भूतं यत् किम् अपि रहस्यं, तत् तु न कस्मैचित् प्रकाशनीयं, यथाह—नैतद् इति । सम्पदयते फलदं भवति ॥२०॥ [भक्ति-सन्दर्भः ३३९]

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.२१ ॥

श्री-शुक उवाच—

एतावद् उक्त्वा भगवांस् तत्रैवान्तरधीयत ।

अदितिर् दुर्लभं लब्ध्वा हरेर् जन्मात्मनि प्रभोः ।

उपाधावत् पतिं भक्त्या परया कृत-कृत्यवत् ॥

**श्रीधरः : **प्रभोर् हरेर् आत्मनि जन्म लब्ध्वा ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कृत-कृत्यवत् कृतार्थम् एव ॥२१॥

—ओ)०(ओ—

॥ ८.१७.२२ ॥

स वै समाधि-योगेन कश्यपस् तद् अबुध्यत ।

प्रविष्टम् आत्मनि हरेर् अंशं ह्य् अवितथेक्षणः ॥

**श्रीधरः : **अवितथम् ईक्षणं दृष्टिर् यस्य सः ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अवितथेक्षणः अव्यर्थ-ज्ञानः ॥२२॥

—ओ)०(ओ—

॥ ८.१७.२३ ॥

सोऽदित्यां वीर्यम् आधत्त तपसा चिर-सम्भृतम् ।

समाहित-मना राजन् दारुण्य् अग्निं यथानिलः ॥

**श्रीधरः : **अनिलो यथा सर्वत्र समोऽपि दारुणि सङ्घर्षेण वन-दाहकम् अग्निम् आधत्ते, एवं स्वयं पुत्रेषु समोऽपि दैत्य-क्षपणं वीर्यम् आधत्तेत्य् अर्थः ॥२३॥

**क्रम-सन्दर्भः : **वीर्यं भगवद्-रूपं तेजः ॥२३॥

**विश्वनाथः : **वीर्यं भगवद्-रूपं तेजः । समाहित-मना भगवत्-स्वरूपैकाग्र-चित्तः । अनिलो यथा सङ्घर्षेण दारुस्थम् अग्निम् एव मूर्तं दारु-गर्भे प्रकटीकरोति तथैव कश्यपोऽन्तः-करणस्थं भगवन्तम् एव स्व-देह-सङ्गेन तदीय-गर्भ-स्थिरीचकारेत्य् अर्थः । यथैवाग्निर् अनिल-दार्व्-अंशो न भवति, तथैव भगवद्-देहोऽपि कश्यपादित्य्-अंशो न भवतीति शुक्र-शोणित-सम्बन्धो निरस्तः ॥२३॥

—ओ)०(ओ—

॥ ८.१७.२४ ॥

अदितेर् धिष्ठितं गर्भं भगवन्तं सनातनम् ।

हिरण्यगर्भो विज्ञाय समीडे गुह्य-नामभिः ॥

**श्रीधरः : **धिष्ठितम् अधिष्ठाय स्थितम् । समीडे तुष्टावेत्य् अर्थः ॥२४॥

**क्रम-सन्दर्भः : **गुह्येति नाम-मात्रस्य रहस्यतोक्तिः, न त्व् एतावताम् एव, प्रायेण वेद तद् इदं न महा-जनोऽयम् [भा।पु। ६.३.२५] इत्य्-आद्य्-उक्तेः ॥२४॥

**विश्वनाथः : **धिष्ठितम् अधिष्ठितम् । गुह्य-नामभिः समीडे इति स्तुति-मिषेण भक्ति-वश्यस्य भगवतो नाम-सङ्कीर्तन-लक्षणां भक्तिम् एव चकारेत्य् अर्थः ॥२४॥

—ओ)०(ओ—

॥ ८.१७.२५ ॥

श्री-ब्रह्मोवाच—

जयोरुगाय भगवन्न् उरुक्रम नमोऽस्तु ते ।

नमो ब्रह्मण्य-देवाय त्रि-गुणाय नमो नमः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१७.२६ ॥

नमस् ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे ।

त्रि-नाभाय त्रि-पृष्ठाय शिपि-विष्टाय विष्णवे ॥

**श्रीधरः : **अदितेर् एव पूर्वस्मिञ् जन्मनि पृश्निर् इति नाम तस्या गर्भायार्भकाय । वेदा गर्भे यस्य । यद् वा, वेदानां गर्भाय । वेदेषु प्रकाशमानायेत्य् अर्थः । त्रयो लोका नभौ यस्य स त्रि-नाभस् तस्मै । त्रयाणां लोकानां पृष्ठे उपरि स्थिताय । शिपि-शब्देन पशवो जीवास् तेष्व् अन्तर्यामितया प्रविष्टाय, यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रतितिष्ठति इति श्रुतेः । यद् वा, शिपयो रश्मयस् तैर् वेष्टितायेत्य् अर्थः । तथापि विष्णवे व्यापिने ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्रयो लोका नाभौ यस्य तस्मै । त्रयाणाम् ऊर्ध्वाधो-मध्य-वर्ति-लोकानां पृष्ठ-रूप-वैकुण्ठ-स्थितत्वात् त्रिपृष्ठाय । शिपि-शब्देन पशवो जीवाः, तेष्व् अन्तर्यामित्वेन प्रविष्टाय ॥२६॥

—ओ)०(ओ—

॥ ८.१७.२७ ॥

त्वम् आदिर् अन्तो भुवनस्य मध्यम्

अनन्त-शक्तिं पुरुषं यम् आहुः ।

कालो भवान् आक्षिपतीश विश्वं

स्रोतो यथान्तः पतितं गभीरम् ॥

**श्रीधरः : **अन्तः-पतितं तृणादि यथा गभीरं स्रोत आक्षिपत्य् आकर्षति, तथा कालात्मा भवान् विश्वम् आक्षिपति ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **गभीरं नद्य्-आदि-स्रोतः कर्तृ यथा स्वान्तं पतितं तृणादिकम् आकर्षति ॥२७॥

—ओ)०(ओ—

॥ ८.१७.२८ ॥

त्वं वै प्रजानां स्थिर-जङ्गमानां

प्रजापतीनाम् असि सम्भविष्णुः ।

दिवौकसां देव दिवश् च्युतानां

परायणं नौर् इव मज्जतोऽप्सु ॥

**श्रीधरः : **प्रजापतीनां च त्वम् एव सम्भविष्णुर् उत्पादन-शीलोऽसि । अयं भावः—न ह्य् एवं-भूतस्य तव जन्मादि-संभवः, किन्तु देवानां प्रजा-पतीनां प्रजानां च परमाश्रयत्वेन तत् कार्य-साधनायावतारोऽयम् । अतस् तान् स्वर्ग-च्युतान् पुनः स्वर्गे स्थापयेति ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सञ्चरिष्णुर् आविर्भविष्णुः सन् । प्रजापतीनां परायणं परमाश्रयः ॥२८॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमेऽयं सप्तदशः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे

वामन-देवाविर्भावो नाम

सप्तदशोऽध्यायः ।

॥ ८.१७ ॥

(८.१८)


  1. विभूम्ने (ङ) ↩︎