१६ कश्यपादिति-संवादे पयो-व्रत-कथनं

॥ ८.१६.१ ॥

श्री-शुक उवाच—

एवं पुत्रेषु नष्टेषु देव-मातादितिस् तदा ।
हृते त्रि-विष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥**

श्रीधरः :

षोडशे पुत्र-नाशेन शोचन्त्या अदितेः पतिः ।

प्रार्थितः कश्यपः प्राह पयो-व्रतम् इतीर्यते ॥

इदानीं श्री-वामनावतार-प्रसङ्गम् आह—एवम् इत्य्-आदि यावत् समाप्ति । नष्टेष्व् अदृष्टेषु सत्सु ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

षोडशे कश्यप-प्रश्नैर् अदितिस् तं न्यवेदयत् ।

स्व-पुत्र-दुःख-तच्-छान्त्यै स प्रोवाच पयो-व्रतम् ॥

नष्टेष्व् अदृष्टेषु सत्सु ॥१॥

ओ)०(ओ

॥ ८.१६.२ ॥

एकदा कश्यपस् तस्या आश्रमं भगवान् अगात् ।
निरुत्सवं निरानन्दं समाधेर् विरतश् चिरात् ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३ ॥

स पत्नीं दीन-वदनां कृतासन-परिग्रहः ।
सभाजितो यथा-न्यायम् इदम् आह कुरूद्वह ॥**

**श्रीधरः : **स कश्यपः पत्नीम् इदम् आह ॥३॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **स कश्यपः ॥३॥

ओ)०(ओ

॥ ८.१६.४ ॥

अप्य् अभद्रं न विप्राणां भद्रे लोकेऽधुनागतम् ।
न धर्मस्य न लोकस्य मृत्योश् छन्दानुवर्तिनः ॥**

**श्रीधरः : **दीन-वदनत्वादिकम् आलक्ष्य बहुधा विकल्पयन् पृच्छति—अप्य् अभद्रम् इति सप्तभिः । हे भद्रे ! मृत्योश् छन्दम् इच्छाम् अनुवर्तत इति तथा, मृत्यु-वश-वर्तिनो जनस्येत्य् अर्थः ॥४॥

**क्रम-सन्दर्भः : **अपि प्रश्ने । विप्राणाम् अभद्रं नागतं न प्राप्तं, न वा धर्मस्य, न वा लोकस्य । लोकं विशिनष्टि—मृत्योश् छन्दानुवर्तिनः ॥४॥

**विश्वनाथः : **दीन-वदनत्वादेः कारणं विकल्पयन् बहुधा पृच्छति—अप्य् अभद्रम् इति सप्तभिः । अपीति प्रश्ने । विप्राणाम् अभद्रं नागतं न प्राप्तं न वा धर्मस्य न वा लोकस्य । लोकं विशिनष्टि—मृत्योश् छन्दम् इच्छाम् अनुवर्तत इति तस्य ॥४॥

ओ)०(ओ

॥ ८.१६.५ ॥

अपि वाकुशलं किञ्चिद् गृहेषु गृह-मेधिनि ।
धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् ॥**

**श्रीधरः : **हे गृह-मेधिनि ! अपि वा किं वा गृहेषु धर्मादेः किञ्चिद् अकुशलम् इति काक्वा प्रश्नः । यत्र येषु गृहेषु । अयोगिनाम् अपि योगः स्व-धर्मादिना योग-फलं भवति ॥५॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **अकुशलम् वा धर्मादेः । यत्र गृहेषु अयोगिनाम् कर्मिणाम् अपि योगः योग-फल-प्राप्तिः ॥५॥

ओ)०(ओ

॥ ८.१६.६ ॥

अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।
गृहाद् अपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥**

**श्रीधरः : **किं वा, त्वया अपूजिता एवाभ्येत्य गृहाद् याताः ॥६॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : पृअत्युत्थानेनाप्य् अपूजिताः ॥६॥

ओ)०(ओ

॥ ८.१६.७ ॥

गृहेषु येष्व् अतिथयो नार्चिताः सलिलैर् अपि ।
यदि निर्यान्ति ते नूनं फेरुराज-गृहोपमाः ॥**

**श्रीधरः : **नार्चिता अनर्चिताः सन्तो यदि निर्गच्छन्ति ते गृहः फेरु-राजः शृगाल-राजस् तदीय-विवर-तुल्याः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : फेरुः शृगालः ॥७॥

ओ)०(ओ

॥ ८.१६.८ ॥

अप्य् अग्नयस् तु वेलायां न हुता हविषा सति ।
त्वयोद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् ॥**

**श्रीधरः : **वेलायां होम-काले कर्हिचिन् न हुताः किम् ? ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.९ ॥

यत्-पूजया काम-दुघान् याति लोकान् गृहान्वितः ।
ब्राह्मणोऽग्निश् च वै विष्णोः सर्व-देवात्मनो मुखम् ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.१० ॥

अपि सर्वे कुशलिनस् तव पुत्रा मनस्विनि ।
लक्षयेऽस्वस्थम् आत्मानं भवत्या लक्षणैर् अहम् ॥**

**श्रीधरः : **भवत्या आत्मानं मनः अस्व-स्थम् अप्रकृति-स्थं लक्षणैर् मुख-म्लान्य्-आदिभिर् लक्षयामि ॥१०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.११ ॥

श्री-अदितिर् उवाच ।
भद्रं द्विज-गवां ब्रह्मन् धर्मस्यास्य जनस्य च ॥**

त्रि-वर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे

**श्रीधरः : **अस्वास्थ्य-कारणम् अन्यद् अस्तीति वक्तुं त्वत्-पृष्टम् अभद्रादिकं नास्तीत्य् आह—भद्रम् इति द्वाभ्याम् । इमे गृहास् त्रि-वर्गस्य परं क्षेत्रम् उद्भव-स्थानम् । त्रि-वर्गोऽपि यथावद् वर्तत इत्य् अर्थः ॥११॥

**क्रम-सन्दर्भः : **द्विज-गवाम् इति द्विजोपलक्षणत्वाद् गावोऽपि पृष्टा इत्य् अभिप्रायात् ॥११॥

**विश्वनाथः : **त्रि-वर्गस्य क्षेत्रम् उद्भव-स्थानम् । त्रि-वर्गोऽपि यथोचितं वर्तत इत्य् अर्थः ॥११॥

ओ)०(ओ

॥ ८.१६.१२ ॥

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।
सर्वं भगवतो ब्रह्मन्न् अनुध्यानान् न रिष्यति ॥**

**श्रीधरः : **भगवतस् तवानुध्यानं यन् मया क्रियते, तस्माद् अग्नयोऽतिथय इत्य्-आदि सर्वं न रिष्यति न हीयते ॥१२॥

**क्रम-सन्दर्भः : **सर्वम् इत्य् आदौ, तथापि पुत्र-गत-दुःखं भवत्य् एवापराधत इति भावः ॥१२॥

विश्वनाथः : भगवतस् तव । त्वत्-कर्मकाद् अनुध्यानान् न रिष्यति न हीयते ॥१२॥

ओ)०(ओ

॥ ८.१६.१३ ॥

को नु मे भगवन् कामो न सम्पद्येत मानसः ।
यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥**

**श्रीधरः : **प्रस्तुतं विज्ञापयितुम् आह—को न्व् इति ॥१३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.१४ ॥

तवैव मारीच मनः-शरीरजाः

प्रजा इमाः सत्त्व-रजस्-तमो-जुषः।

समो भवांस् तास्व् असुरादिषु प्रभो

तथापि भक्तं भजते महेश्वरः ॥

**श्रीधरः : **संपाद्यं कामम् आह—तवैवेति चतुर्भिः ॥१४॥

**क्रम-सन्दर्भः : **मारीचेति पितृ-क्रमागत-प्रभावं सूचयति ॥१४॥

विश्वनाथः : तद् अपि कृपया यद्य् एवं पृच्छसि, तर्हि मद्-दुःखोपशमस् त्वया सुकर एवेत्य् आह—तवैवेति चतुर्भिः । महेश्वरो भगवान् जगति सर्वत्र समोऽपि भक्तं यथा भजत्, तथैव त्वं पुत्रेषु मध्ये भक्तिमन्तम् इन्द्रं पालयितुम् अर्हसीति भावः ॥१४॥

ओ)०(ओ

॥ ८.१६.१५ ॥

तस्माद् ईश भजन्त्या मे श्रेयश् चिन्तय सुव्रत ।
हृत-श्रियो हृत-स्थानान् सपत्नैः पाहि नः प्रभो ॥**

**श्रीधरः : **सपत्नैर् दैत्यैर् हृता श्रीर् येषाम् । हृतं स्थानं येषाम् इति पुत्राभिप्रायेण बहु-वचनम् ॥१५॥

**क्रम-सन्दर्भः : **ननु, ते श्रीमन्तः, न तु भक्ताः ? तत्राह—तस्माद् ईशेति ॥१५॥

विश्वनाथः : न इति पुत्र-साहित्याद् बहु-वचनम् ॥१५॥

ओ)०(ओ

॥ ८.१६.१६-१७ ॥

परैर् विवासिता साहं मग्ना व्यसन-सागरे ।
ऐश्वर्यं श्रीर् यशः स्थानं हृतानि प्रबलैर् मम ॥**

यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः ।
तथा विधेहि कल्याणं धिया कल्याण-कृत्तम ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.१८ ॥

श्री-शुक उवाच—

एवम् अभ्यर्थितोऽदित्या कस् ताम् आह स्मयन्न् इव ॥

अहो माया-बलं विष्णोः स्नेह-बद्धम् इदं जगत्

**श्रीधरः : **कः कश्यपः । प्रथमं तावत् पुत्र-स्नेहं त्याजयितुं विस्मय-व्याजेनैव तत्त्वम् उपदिशति, अहो इति सार्धेन ॥१८॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **कः कश्यपः । इवेति वस्तुतो न स्मयमानः तस्या दुःखेनान्तर्-दुःखितत्वात् ॥१८॥

ओ)०(ओ

॥ ८.१६.१९ ॥

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
कस्य के पति-पुत्राद्या मोह एव हि कारणम् ॥**

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **आत्मा नित्यश् चिन्तनीयः अनात्म-भूते देहादौ पति-पुत्रादि-बुद्ध्या अतिस्नेहः तद् अन्येषु द्रोहो न कर्तव्य इति तत्त्व-ज्ञानं तां प्रत्य् आह—आत्मा जीवः ॥१९॥

**विश्वनाथः : **आत्मा जीवः । प्रकृतेः प्राकृताद् देहात् परोऽन्यः ॥१९॥

ओ)०(ओ

॥ ८.१६.२० ॥

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् ।
सर्व-भूत-गुहा-वासं वासुदेवं जगद्-गुरुम् ॥**

**श्रीधरः : **अत्रापरितुष्यन्तीं प्रत्याह—उपतिष्ठस्वेति द्वाभ्याम् ॥२०॥

**क्रम-सन्दर्भः : **उक्तार्थेऽदत्तचित्तां प्रत्याह—उपतिष्ठस्वेति द्वाभ्याम् । उपतिष्ठस्व भज ॥२०॥

**विश्वनाथः : **तद् अपि पुत्र-स्नेहेन रुदतीं कृपया पुनर् आह—उपतिष्ठस्वेति पुरुषं वस्तुतः पतिम् अहं तु ते लौकिक एव पतिर् इति भावः । भगवन्तं सर्वज्ञम् इति त्वत्-पुत्राणां कल्याणोपायं स एव जानातीति भावः । जननाम्नोऽसुरस्यार्दनं त्वत्-सपत्नान् हन्तुम् अपि स एव समर्थ इति भावः । जनं स्व-भक्तं बलिं त्रिलोकीम् अर्दिष्यति, इन्द्रार्थं याचिष्यते इति तम् इति तु वास्तवोऽर्थः । सर्व-भूतेति बलेर् अन्तः-करणं प्रेर्य गुरु-हेलनम् अपि स एव तं कारयिष्यते इति भावः । वासुदेवे शुद्ध-सत्त्वे आविर्भावतीति वासुदेवम् इति भक्त्या स्वान्तः-करणं शुद्धीकृत्य तत्रैव तं धायन्त्यां त्वयि स दया-सिन्धुर् आविर्भावितुम् अपि न विलम्बिष्यते इति भावः । जगद्-गुरुम् इति तव मम बलेर् इन्द्रस्य सर्व-जगतोऽपि गङ्गा-प्रादुर्भावादिना हितं विधास्यतीति भावः ॥२०॥

ओ)०(ओ

॥ ८.१६.२१ ॥

स विधास्यति ते कामान् हरिर् दीनानुकम्पनः ।
अमोघा भगवद्-भक्तिर् नेतरेति मतिर् मम ॥**

श्रीधरः : नन्व् एवम्भूत-काम-प्राप्ति-हेतुर् देवान्तर-सेवा प्रसिद्धा ? तत्राह—अमोघेति ॥२१॥

**चैतन्य-मत-मञ्जुषा : **अमोघा भगवत्-सेवा, नेतरा इति मम मतिर् भगवतः श्री-कृष्णस्य । नेतरा विषया मे मतिर् मम विचारः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हरिस् त्वद्-दुःख-हर्ता ॥२१॥

ओ)०(ओ

॥ ८.१६.२२ ॥

श्री-अदितिर् उवाच—

केनाहं विधिना ब्रह्मन्न् उपस्थास्ये जगत्-पतिम् ।
यथा मे सत्य-सङ्कल्पो विदध्यात् स मनोरथम् ॥**

**श्रीधरः : **उपस्थास्ये भजेयम् ॥२२॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : सत्यः सङ्कल्पो यस्मात् ॥२२॥

ओ)०(ओ

॥ ८.१६.२३ ॥

आदिश त्वं द्विज-श्रेष्ठ विधिं तद्-उपधावनम् ।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥**

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **येन देव आशु तुष्यति, तत् तम् उपधावनम् आराधन-रूपं विधिम् आदिश ॥२३॥

ओ)०(ओ

॥ ८.१६.२४ ॥

श्री-कश्यप उवाच—

एतन् मे भगवान् पृष्टः प्रजा-कामस्य पद्मजः ।
यद् आह ते प्रवक्ष्यामि व्रतं केशव-तोषणम् ॥**

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **मे मया पृष्टः पद्मजः प्रजा-कामस्य जनस्य यद् व्रतं मे आह—

एतत् ते प्रवक्ष्यामीत्य् अन्वयः ॥२४॥

ओ)०(ओ

॥ ८.१६.२५ ॥

फाल्गुनस्यामले पक्षे द्वादशाहं पयो-व्रतम् ।
अर्चयेद् अरविन्दाक्षं भक्त्या परमयान्वितः ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : पयसा व्रतं यस्य सः पयः-पायीत्य् अर्थः ॥२५॥

ओ)०(ओ

॥ ८.१६.२६ ॥

सिनीवाल्यां मृदालिप्य स्नायात् क्रोड-विदीर्णया ।
यदि लभ्येत वै स्रोतस्य् एतं मन्त्रम् उदीरयेत् ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : तत्रादौ पूर्वेद्युः कृत्यम् आह—सिनीवाल्याम् अमावस्यायां क्रोड-विदीर्णया वराहोत्खातया मृदा । यदि लभ्येतैतत् काकाक्षि-गोलक-न्यायेनोभयत्रान्वितम् ॥२६॥

ओ)०(ओ

॥ ८.१६.२७ ॥

त्वं देव्य् आदि-वराहेण रसायाः स्थानम् इच्छता ।
उद्धृतासि नमस् तुभ्यं पाप्मानं मे प्रणाशय ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : तत्रावाहनादौ नव-मन्त्रान् आह—नम इति ॥२७॥

ओ)०(ओ

॥ ८.१६.२८-२९ ॥

निर्वर्तितात्म-नियमो देवम् अर्चेत् समाहितः ।
अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुराव् अपि ॥**

नमस् तुभ्यं भगवते पुरुषाय महीयसे ।
सर्व-भूत-निवासाय वासुदेवाय साक्षिणे ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३० ॥

नमोऽव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च ।
चतुर्-विंशद्-गुण-ज्ञाय गुण-सङ्ख्यान-हेतवे ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : चतुर्विंशतिं गुणान् वैशेषिकोक्तान् रूपादीन् साङ्ख्योक्तानि तत्त्वानि वा जानातीति तस्मै । गुण-सङ्ख्यानस्य साङ्ख्य-शास्त्रस्य हेतवे प्रवर्तकाय ॥३०॥

ओ)०(ओ

॥ ८.१६.३१ ॥

नमो द्वि-शीर्ष्णे त्रि-पदे चतुः-शृङ्गाय तन्तवे ।
सप्त-हस्ताय यज्ञाय त्रयी-विद्यात्मने नमः ॥**

**श्रीधरः : **एवं सामान्यतो नत्वा गुणावतारान् प्रणमति त्रिभिः, तत्रादौ मन्त्रोक्त-यज्ञ-रूपेण विष्णोः प्रणामो नम इति । द्वे शीर्षे यस्य । त्रयः पादा यस्य । तन्तवे फल-विस्तारकाय । त्रय्यां विद्यायाम् आत्मा यस्येति, त्रिधा बद्धः इत्य् अस्यार्थ उक्तः । तथा च मन्त्रः—

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याम् आ विवेश ॥ [ऋ।वे। ४.५८.३]
मार्ग-मुद्गवदालूनः सोऽयं प्राज्ञैर् यथा-यथम् ।
विष्णुस् तु यज्ञ-रूपेण स्तूयतेऽनेन तत्त्वतः ॥ इति ।

तथा च यास्कः—

चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयोऽस्य पादाः सवनानि त्रिणि द्वे शीर्षे प्रायणीयोदयनीये सप्त-हस्तासः सप्त-च्छन्दांसि त्रि-धा बद्धस् त्रेधा बद्धो मन्त्र-ब्राह्मण-कल्पैर् वृषभो रोरवीति रोरवणम् अस्य सवन-क्रमेण ऋग्भिर् यजुर्भिः सामभिर् यद् एनम् ऋग्भिः शंसन्ति यजुर्भिर् यजन्ति सामभिः स्तुवन्ति महो देव इत्य् एष हि महान् देवो यद् यज्ञो मर्त्याम् आविवेशेत्य् एष हि मनुष्यान् आविशति यजनाय इति ॥३१॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : गुणावतारान् प्रणमति त्रिभिः । तत्रादौ मन्त्रोक्तं यज्ञ-रूपिणं विष्णुं प्रणमति—नम इति । तन्तवे फल-विस्तारकाय । त्रय्यां विद्यायाम् आत्मा यस्येति, त्रिधा बद्धः इत्य् अस्यार्थ उक्तः । तथा च मन्त्रः—

चत्वारि शृङ्गाणि त्रयोऽस्य पादा द्वे शीर्षे सप्त-हस्ताः, सोऽस्य त्रिधा बद्धो वृषभो रोरवीति महा-देवो मर्त्याम् आविवेश ॥ इति ।
मार्ग-मुद्गवदालूनः सोऽयं प्राज्ञैर् यथा-यथम् ।
विष्णुस् तु यज्ञ-रूपेण स्तूयतेऽनेन तत्त्वतः ॥ इति ।

तथा च यास्कः—

चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयोऽस्य पादाः सवनानि त्रिणि द्वे शीर्षे प्रायणीयोदयनीये सप्त-हस्तासः सप्त-च्छन्दांसि त्रि-धा बद्धस् त्रेधा बद्धो मन्त्र-ब्राह्मण-कल्पैर् वृषभो रोरवीति रोरवणम् अस्य सवन-क्रमेण ऋग्भिर् यजुर्भिः सामभिर् यद् एनम् ऋग्भिः शंसन्ति यजुर्भिर् यजन्ति सामभिः स्तुवन्ति महो देव इत्य् एष हि महान् देवो यद् यज्ञो मर्त्याम् आविवेशेत्य् एष हि मनुष्यान् आविशति यजनाय इति ॥३१॥

ओ)०(ओ

॥ ८.१६.३२ ॥

नमः शिवाय रुद्राय नमः शक्ति-धराय च ।
सर्व-विद्याधिपतये भूतानां पतये नमः ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३३ ॥

नमो हिरण्यगर्भाय प्राणाय जगद्-आत्मने ।
योगैश्वर्य-शरीराय नमस् ते योग-हेतवे ॥**

**श्रीधरः : **प्राणाय सूत्रात्मने । योगैश्वर्यं शरीरं यस्य ॥३३॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **प्राणाय सूत्रात्मने । योगैश्वर्य-मयं शरीरं यस्य तस्मै ॥३३॥

ओ)०(ओ

॥ ८.१६.३४-३५ ॥

नमस् त आदि-देवाय साक्षि-भूताय ते नमः ।
नारायणाय ऋषये नराय हरये नमः ॥**

नमो मरकत-श्याम- वपुषेऽधिगत-श्रिये ।
केशवाय नमस् तुभ्यं नमस् ते पीत-वाससे ॥**

**श्रीधरः : **अधिगता प्राप्ता श्रीर् यं तस्मै ॥३५॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३६ ॥

त्वं सर्व-वरदः पुंसां वरेण्य वरदर्षभ ।
अतस् ते श्रेयसे धीराः पाद-रेणुम् उपासते ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३७ ॥

अन्ववर्तन्त यं देवाः श्रीश् च तत्-पाद-पद्मयोः ।
स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥**

**श्रीधरः, विश्वनाथः : **तत्-पाद-पद्मयोर् आमोदं स्पृहयन्त इव देवाश् च श्रीश् च यम् अन्ववर्तन्त स मे प्रसीदतु ॥३७॥

क्रम-सन्दर्भः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.३८ ॥

एतैर् मन्त्रैर् हृषीकेशम् आवाहन-पुरस्कृतम् ।
अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥**

**श्रीधरः : **आवाहने पुरस्-कृतं संमानितम् ॥३८॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : एतैर् मन्त्रैर् आवाहनेन पुरस्कृतं संमानितं स्वः-पुरस्थीकृतम् इति वा । उपस्पर्शनम् आचमनीयम् ॥३८॥

ओ)०(ओ

॥ ८.१६.३९ ॥

अर्चित्वा गन्ध-माल्याद्यैः पयसा स्नपयेद् विभुम् ।

वस्त्रोपवीताभरण- पाद्योपस्पर्शनैस् ततः ।
गन्ध-धूपादिभिश् चार्चेद् द्वादशाक्षर-विद्यया ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : प्रथमं पाद्यादिभिर् अर्चित्वा स्नापयेत् । स्नाप꣡ वस्त्रोपवीताभरण-परिधापनानन्तरं पुनर् अपि पाद्यादिभिश् च-कारेणान्यैर् अपि बहुभिर् उपचारैः । पाद्यादि-दाने सर्वत्र मन्त्रम् आह—द्वादशेति ॥३९॥

ओ)०(ओ

॥ ८.१६.४० ॥

शृतं पयसि नैवेद्यं शाल्य्-अन्नं विभवे सति ।
ससर्पिः सगुडं दत्त्वा जुहुयान् मूल-विद्यया ॥**

**श्रीधरः : **पयसि शृतं पक्वं पायसम् । मूल-विद्यया द्वादशाक्षरेणैव ॥४०॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : पयसि शृतं पक्वम् परमान्नम् ॥४०॥

ओ)०(ओ

॥ ८.१६.४१ ॥

निवेदितं तद्-भक्ताय दद्याद् भुञ्जीत वा स्वयम् ।
दत्त्वाचमनम् अर्चित्वा ताम्बूलं च निवेदयेत् ॥**

श्रीधरः : न व्याख्यातम्।

**चैतन्य-मत-मञ्जुषा :**निवेदितम् इत्य्-आदि । तद्-भक्ताय दद्यात् । स्वयं च भुञ्जीत । वा-शब्दः समुच्चयथार्थः । निवेदित-भक्षणंभक्त्य्-अङ्गम् इति भावः ॥४१॥

**क्रम-सन्दर्भः : **निवेदितम् इत्य् अर्धकम् । भूञ्जीत वेति वा-शब्दः समुच्चये ॥४१॥

**विश्वनाथः : **निवेदितम् सर्वम् एव दद्यात् किञ्चिद् दत्त्वा वा भूञ्जीतेत्य् अर्थः ॥४१॥

ओ)०(ओ

॥ ८.१६.४२ ॥

जपेद् अष्टोत्तर-शतं स्तुवीत स्तुतिभिः प्रभुम् ।
कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन् मुदा ॥**

**श्रीधरः : **पूर्वोक्ताभिर् अन्याभिश् च स्तुतिभिः ।

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.४३ ॥

कृत्वा शिरसि तच्-छेषां देवम् उद्वासयेत् ततः ।
द्व्य्-अवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥**

**श्रीधरः : **तस्य शेषां निर्माल्यम् । द्वाव् अवरौ येषां तान् । असंभवे द्वाव् अपि भोजयेद् इत्य् अर्थः ॥४३॥

**क्रम-सन्दर्भः : **द्वौ अवरौ कनिष्ठ-पक्षौ येषां, द्वौ अवर-सङ्ख्यौ येषां तां, स्त्र्य्-आदीन् इति वा ॥४३॥

विश्वनाथः : शेषां निर्माल्यं, उद्वासो विसर्जनम् ॥४३॥

ओ)०(ओ

॥ ८.१६.४४-४५ ॥

भुञ्जीत तैर् अनुज्ञातः सेष्टः शेषं सभाजितैः ।
ब्रह्मचार्य् अथ तद्-रात्र्यां श्वो भूते प्रथमेऽहनि ॥**

स्नातः शुचिर् यथोक्तेन विधिना सुसमाहितः ।
पयसा स्नापयित्वार्चेद् यावद् व्रत-समापनम् ॥**

**श्रीधरः : **सभजितैस् तैर् अनुज्ञातः सन् । सेष्टो बन्धुभिः सहितः तस्यां रात्र्यां ब्रह्म-चारी सन् । श्वो-भूते प्रभाते सति ॥४३॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : द्वौ अवरौ येषाम् असामर्थेय् द्वाव् अपि भोजयेत् । सभाजितैः स्रक्-ताम्बूलादिना पूजितैस् तैर् दत्ताज्ञः सन् सेष्टः बन्धु-सहितः, श्वो-भूते प्रभाते सति ॥४४-४५॥

ओ)०(ओ

॥ ८.१६.४६-४७ ॥

पयो-भक्षो व्रतम् इदं चरेद् विष्ण्व्-अर्चनादृतः ।
पूर्ववज् जुहुयाद् अग्निं ब्राह्मणांश् चापि भोजयेत् ॥**

एवं त्व् अहर् अहः कुर्याद् द्वादशाहं पयो-व्रतम् ।
हरेर् आराधनं होमम् अर्हणं द्विज-तर्पणम् ॥**

**श्रीधरः : **पय एव भक्ष आहारो यस्य ।

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.४८ ॥

प्रतिपद्-दिनम् आरभ्य यावच् छुक्ल-त्रयोदशीम् ।
ब्रह्मचर्यम् अधः-स्वप्नं स्नानं त्रि-सवनं चरेत् ॥**

**श्रीधरः : **अधः स्वप्नं शयनम् ॥४८॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : शुक्ल-त्रयोदश्रीईति प्रथमान्तो द्वितीयान्तश् च क्वाचित्कः पाठः । स्वप्नं शयनम् ॥४८॥

ओ)०(ओ

॥ ८.१६.४९ ॥

वर्जयेद् असद्-आलापं भोगान् उच्चावचांस् तथा ।
अहिंस्रः सर्व-भूतानां वासुदेव-परायणः ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.५० ॥

त्रयोदश्याम् अथो विष्णोः स्नपनं पञ्चकैर् विभोः ।
कारयेच् छास्त्र-दृष्टेन विधिना विधि-कोविदैः ॥**

**श्रीधरः, विश्वनाथः : **पञ्चकैः पञ्चामृतैः ॥५०॥

क्रम-सन्दर्भः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.५१-५७ ॥

पूजां च महतीं कुर्याद् वित्त-शाठ्य-विवर्जितः ।
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥**

सूक्तेन तेन पुरुषं यजेत सुसमाहितः ।
नैवेद्यं चातिगुणवद् दद्यात् पुरुष-तुष्टिदम् ॥**

आचार्यं ज्ञान-सम्पन्नं वस्त्राभरण-धेनुभिः ।
तोषयेद् ऋत्विजश् चैव तद् विद्ध्य् आराधनं हरेः ॥**

भोजयेत् तान् गुणवता सद्-अन्नेन शुचि-स्मिते ।
अन्यांश् च ब्राह्मणान् छक्त्या ये च तत्र समागताः ॥**

दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश् च यथार्हतः ।
अन्नाद्येनाश्व-पाकांश् च प्रीणयेत् समुपागतान् ॥**

भुक्तवत्सु च सर्वेषु दीनान्ध-कृपणादिषु ।
विष्णोस् तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥**

नृत्य-वादित्र-गीतैश् च स्तुतिभिः स्वस्ति-वाचकैः ।
कारयेत् तत्-कथाभिश् च पूजां भगवतोऽन्वहम् ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.५८ ॥

एतत् पयो-व्रतं नाम पुरुषाराधनं परम् ।
पितामहेनाभिहितं मया ते समुदाहृतम् ॥**

**श्रीधरः : **मय च ते समुदाहृतम् ॥५८॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.५९ ॥

त्वं चानेन महा-भागे सम्यक् चीर्णेन केशवम् ।
आत्मना शुद्ध-भावेन नियतात्मा भजाव्ययम् ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

॥ ८.१६.६० ॥

अयं वै सर्व-यज्ञाख्यः सर्व-व्रतम् इति स्मृतम् ।
तपः-सारम् इदं भद्रे दानं चेश्वर-तर्पणम् ॥**

**श्रीधरः : **सर्व-यज्ञाख्योऽयं यज्ञः । सर्व-व्रतम् इति च स्मृतम् अतद्-व्रतम् ॥६०॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **सर्व-यज्ञाख्योऽयं यज्ञ इत्य् अनेनैकेनैव सर्व-यज्ञाः कृता भवन्तीत्य् अर्थः । एवम् इदं सर्व-व्रतम् तपः-सारम् इति अस्य सर्व-तपस्त्वाद् इति भावः । तेन यज्ञ-सार-व्रत-सार-दान-सार-शब्देनापीदं वाच्यम् इति द्योतितम् । ईश्वर-तर्पणं चेत् च-काराद् ईश्वर-तर्पणोऽयं यज्ञः ईश्वर-तर्पणं व्रतम् इत्य् एवं च वाच्यम् ॥६०॥

ओ)०(ओ

॥ ८.१६.६१ ॥

त एव नियमाः साक्षात् त एव च यमोत्तमाः ।
तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः ॥**

श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : ईश्वर-तर्पणं विना सर्वम् एव विफलम् इति दिग्-दर्शनेनाह त एवेति । अन्ये नियमाद्या एव न स्युः । येनेति नपुंसकम् अनपुंसकेनेत्य्-आदि नैकत्वम् ॥६१॥

ओ)०(ओ

॥ ८.१६.६२ ॥

तस्माद् एतद् व्रतं भद्रे प्रयता श्रद्धयाचर ।
भगवान् परितुष्टस् ते वरान् आशु विधास्यति ॥**

न कतमेनापि व्याख्यातम्।

ओ)०(ओ

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमे षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां नवम-स्कन्धे
कश्यपादिति-संवादे पयो-व्रत-कथनं नाम
षोडशोऽध्यायः ।

॥ ८.१६ ॥

(८.१७)