१५

॥ ८.१५.१-२ ॥

श्री-राजोवाच—

बलेः पद-त्रयं भूमेः कस्माद् धरिर् अयाचत ।
भूतेश्वरः कृपण-वल् लब्धार्थोऽपि बबन्ध तम् ॥**

एतद् वेदितुम् इच्छामो महत् कौतूहलं हि नः ।
यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः ॥**

श्रीधरः :

बलिं पञ्चदशे विश्व- जिताचार्य अयाजयन् ।

ततोऽसौ स्वर्गम् अजयद् भयाद् देवा निलिल्यिरे ॥

अत्रेर्यते नवाध्याय्या वामं वामन-चेष्टितम् ।

निग्रहच् छलतो यत्र बलेर् भूयान् अनुग्रहः ॥

ईश्वरः स्वयं कृपण-वत् कस्माद् धेतोर् अयाचत । लब्धार्थो भूत्वापि तं कस्माद् बबन्ध ॥१-२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

बलिर् लब्ध-रथाश्वादि कृताद् विश्वजितो मखात् ।

स्वर्गम् गतः सुरा लिल्युर् इति पञ्चदशे कथा ॥१॥

—ओ)०(ओ—

॥ ८.१५.३ ॥

श्री-शुक उवाच—

पराजित-श्रीर् असुभिश् च हापितो

हीन्द्रेण राजन् भृगुभिः स जीवितः ।

सर्वात्मना तान् अभजद् भृगून् बलिः

शिष्यो महात्मार्थ-निवेदनेन ॥

**श्रीधरः : **तत्र तावद् बलेस् त्रि-लोकीम् अपहर्तुं याच्ञादि-च्छलनं कृतवान् इति वक्तुं ब्राह्मणाराधनेन बलेर् अकाण्ड एव स्वर्ग-विजय-क्रमम् आह—पराजित-श्रीर् इत्य्-आदिना यावद् अध्याय-समाप्ति । युद्धे पराजिता श्रीर् येन सः । इन्द्रेणासुभिश् च त्याजितः सन् । भृगून् भृगोर् वंश्यान् शुक्रादीन् । महात्मा उदार-चित्तः । अर्थानां निवेदनेनार्पणेन ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **युद्धे देवैः पराजिता श्रीर् यस्य सः । हापितस् त्याजितः । महात्मा उदार-चित्तः । अर्थानां समर्पणेन ॥३॥

—ओ)०(ओ—

॥ ८.१५.४ ॥

तं ब्राह्मणा भृगवः प्रीयमाणा

अयाजयन् विश्वजिता त्रि-णाकम् ।

जिगीषमाणं विधिनाभिषिच्य

महाभिषेकेण महानुभावाः ॥

**श्रीधरः : **त्रि-णाकं स्वर्गं जेतुम् इच्छन्तं विश्व-जिता यागेनायाजयन् महाभिषेकेण इन्द्रेण बह्व्-ऋच-ब्राह्मण-प्रसिद्धेन ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विश्वजिता यज्ञेन ॥४॥

—ओ)०(ओ—

॥ ८.१५.५ ॥

ततो रथः काञ्चन-पट्ट-नद्धो

हयाश् च हर्यश्व-तुरङ्ग-वर्णाः ।

ध्वजश् च सिंहेन विराजमानो

हुताशनाद् आस हविर्भिर् इष्टात् ॥

**श्रीधरः : **हर्य्-अश्वस्येन्द्रस्य ये तुरङ्गास् तेषाम् इव वर्णो हरितो येषाम् ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हर्य्-अश्वस्येन्द्रस्य ये तुरङ्गाणाम् इव वर्णा हरितो येषाम् ते ॥५॥

—ओ)०(ओ—

॥ ८.१५.६ ॥

धनुश् च दिव्यं पुरटोपनद्धं

तूणाव् अरिक्तौ कवचं च दिव्यम् ।

पितामहस् तस्य ददौ च मालाम्

अम्लान-पुष्पां जलजं च शुक्रः ॥

**श्रीधरः : **पुरटं सुवर्णम् । तूणाव् इषु-धी अरिक्ताव् अक्षय्य-शरौ । पितामहः प्रह्रादः । जल-जं शङ्खम् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पितामहः प्रह्लादः । जलजं शङ्खम् ॥६॥

—ओ)०(ओ—

॥ ८.१५.७ ॥

एवं स विप्रार्जित-योधनार्थस्

तैः कल्पित-स्वस्त्ययनोऽथ विप्रान् ।

प्रदक्षिणी-कृत्य कृत-प्रणामः

प्रह्रादम् आमन्त्र्य नमश्-चकार ॥

**श्रीधरः : **विप्रैर् अर्जितः संपादितो योधनार्थो युद्ध-परिकरो यस्य तैर् एव कल्पितं कृतं स्वस्त्य्-अयनं मङ्गल-वाचनादि यस्य । आमन्त्र्य पृष्ट्वा ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विप्रैर् अर्जिताः संपादिता योधनार्था युद्धार्थक-वस्तूनि यस्य सः । आमन्त्र्य पृष्ट्वा ॥७॥

—ओ)०(ओ—

॥ ८.१५.८ ॥

अथारुह्य रथं दिव्यं भृगु-दत्तं महारथः ।
सुस्रग्-धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥**

**श्रीधरः : **अथारुह्य रराजेति द्वयोर् अन्वयः । सुस्रग् धरः शोभन-माला-धरः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.९ ॥

हेमाङ्गद-लसद्-बाहुः स्फुरन्-मकर-कुण्डलः ।
रराज रथम् आरूढो धिष्ण्य-स्थ इव हव्यवाट् ॥**

**श्रीधरः : **हेमाङ्गदाभ्यां लसन्तौ बाहू यस्य । धिष्ण्य-स्थो वने प्रज्वलितः, कुण्ड-स्थ आहवनीय इवेति वा ॥९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.१० ॥

तुल्यैश्वर्य-बल-श्रीभिः स्व-यूथैर् दैत्य-यूथपैः ।
पिबद्भिर् इव खं दृग्भिर् दहद्भिः परिधीन् इव ॥**

**श्रीधरः : **तुल्यम् ऐश्वर्यं बलं च श्रीश् च येषां तैर् दैत्य-यूथपैर् वृतो ययाव् इति द्वयोर् अन्वयः । परिधीन् दिशः ॥१०॥

**क्रम-सन्दर्भः : **तुल्यैश्वर्य इत्य्-आदि-त्रयोदशकम् ॥१०॥

**विश्वनाथः : **दैत्य-यूथपैर् सन्न् इन्द्र-पुरीं ययाव् इति द्वितीयेनान्वयः । परिधीन् दिशः ॥१०॥

—ओ)०(ओ—

॥ ८.१५.११ ॥

वृतो विकर्षन् महतीम् आसुरीं ध्वजिनीं विभुः ।
ययाव् इन्द्र-पुरीं स्वृद्धां कम्पयन्न् इव रोदसी ॥**

**श्रीधरः : **स्व्-ऋद्धाम् अति-समृद्धाम् ॥११॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.१२ ॥

रम्याम् उपवनोद्यानैः श्रीमद्भिर् नन्दनादिभिः ।
कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः ॥**

**श्रीधरः : **धिग् ग्राम्य-सुखं, तथा तथा-विधां पुरीम् अकस्माद् एव परित्यज्येन्द्रादयः पलायिता इति वैराग्यार्थम् इन्द्र-पुरीम् अनुवर्णयति—रम्याम् इति सार्धैर् एकादशभिः । उपवनानि फल-प्रधानानि निकटानि वा, उद्यानानि पुष्प-प्रधानानि दूर-स्थानि वा तैः रम्याम् । कूजन्ति विहङ्ग-मिथुनानि येषु । गायन्तो मत्ता मधु-व्रता येषु ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.१३ ॥

प्रवाल-फल-पुष्पोरु- भार-शाखामर-द्रुमैः ।

हंस-सारस-चक्राह्व- कारण्डव-कुलाकुलाः ।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुर-सेविताः ॥**

**श्रीधरः : **प्रवालादीनाम् उरुर् भारो यासु ताः शाखा येषां तेऽमर-द्रुमा येषु तैः । यत्र यासु सुर-सेविताः प्रमदाः क्रीडन्ति ता हंसादि-कुलैर् आकुला व्याप्ता नलिन्यः सरांसि यत्र येषु सन्ति तैर् उपवनोद्यानै रम्याम् इति पूर्वेणैवान्वयः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रवालादीनाम् उरुर् भारो यासु ताः शाखा येषां तेऽमर-द्रुमा येषु तैः । यत्र नन्दन्ऽअदि-वनेषु नलिन्यः सरस्यः सन्ति । यासु नलिनीषु प्रमदाः स्त्रियः ॥१३॥

—ओ)०(ओ—

॥ ८.१५.१४ ॥

आकाश-गङ्गया देव्या वृतां परिख-भूतया ।
प्राकारेणाग्नि-वर्णेन साट्टालेनोन्नतेन च ॥**

**श्रीधरः : **किं च, परिखा-भूतया आकाश-गङ्गया वृताम् । प्राकारेण सौवर्णेन चावृताम् । अट्टालाः प्राकारोपरि रचितान्य् उन्नतानि युद्ध-स्थानानि तत्-सहितेन ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पुरीं विशिनष्टि । आकाशेत्य्-आदि । परिखा-भूतया परिखा-रूपया ॥१४॥

—ओ)०(ओ—

॥ ८.१५.१५ ॥

रुक्म-पट्ट-कपाटैश् च द्वारैः स्फटिक-गोपुरैः ।
जुष्टां विभक्त-प्रपथां विश्वकर्म-विनिर्मिताम् ॥**

**श्रीधरः : **रुक्म-पट्टानि कपाटानि येषु तैर् द्वारैर् अवान्तरैः स्फटिक-मयैर् गोपुरैश् च पुर-द्वारैर् जुष्टाम् । विभक्ताः प्रपथा राज-मार्गा यस्याम् ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **गोपुरं पुर-द्वारम् । विभक्ताः प्रपथा राज-मार्गा यस्याम् ताम् ॥१५॥

—ओ)०(ओ—

॥ ८.१५.१६ ॥

सभा-चत्वर-रथ्याढ्यां विमानैर् न्यर्बुदैर् युताम् ।
शृङ्गाटकैर् मणिमयैर् वज्र-विद्रुम-वेदिभिः ॥**

**श्रीधरः : **सभा उपवेश-स्थानानि, चत्वराण्य् अङ्गनानि, रथ्या उपमार्गास् तैर् आढ्यां संपन्नाम् । न्यर्बुदं दश-कोटयस् तैर् गणनीयैर् अनन्तैर् विमानैर् युताम् । वज्र-विद्रुम-मय्यो वेदयो येषु तैः । शृङ्गाटकैश् चतुष्पथैर् युताम् ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सभा उपवेश-स्थानानि, चत्वराण्य् अङ्गनानि, रथ्या उपमार्गाः, शृङ्गाटकैश् चतुष्पथैः ॥१६॥

—ओ)०(ओ—

॥ ८.१५.१७ ॥

यत्र नित्य-वयो-रूपाः श्यामा विरज-वाससः ।
भ्राजन्ते रूपवन्-नार्यो ह्य् अर्चिर्भिर् इव वह्नयः ॥**

**श्रीधरः : **नित्यं वयस् तारुण्यं रूपं च सौकुमार्यं यासां ताः रूप-वन्-नार्यः स्व्-अलङ्कृताः स्त्रियः यत्र यस्यां भ्राजन्ते ॥१७॥

**क्रम-सन्दर्भः : **तत्र नार्य अर्चिर्भिर् इति प्लुतत्वाद् उत्वा-भावः ॥१७॥

**विश्वनाथः : **

शीत-काले भवेद् उष्णा उष्म-काले सुशीतलाः ।
स्तनौ सुकठिनौ यासां ताः श्यामाः परिकीर्तिताः ॥१७॥

—ओ)०(ओ—

॥ ८.१५.१८ ॥

सुर-स्त्री-केश-विभ्रष्ट- नव-सौगन्धिक-स्रजाम् ।
यत्रामोदम् उपादाय मार्ग आवाति मारुतः ॥**

**श्रीधरः : **सुर-स्त्रीणां केशेभ्यो विभ्रष्टानां नव-सौगन्धिक-स्रजाम् आमोदम् ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.१९ ॥

हेम-जालाक्ष-निर्गच्छद्- धूमेनागुरु-गन्धिना ।
पाण्डुरेण प्रतिच्छन्न- मार्गे यान्ति सुर-प्रियाः ॥**

**श्रीधरः : **हेम-गवाक्षेभ्यो निर्गच्छता धूमेन । सुर-प्रिया अप्सरसः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हेम-मयेभ्यो जालआक्षेभ्यो गवाक्षेभ्यः । सुर-प्रिया अप्सरसः ॥१९॥

—ओ)०(ओ—

॥ ८.१५.२० ॥

मुक्ता-वितानैर् मणि-हेम-केतुभिर्

नाना-पताका-वलभीभिर् आवृताम् ।

शिखण्डि-पारावत-भृङ्ग-नादितां

वैमानिक-स्त्री-कल-गीत-मङ्गलाम् ॥

**श्रीधरः : **मुक्ता-मयैर् वितानैर् मणि-हेम-मयैः केतुभिश् च ध्वजैर् नाना-पताका-युक्ताभिर् वलभीभिश् च विमानानां पुरोभागैर् आवृतां व्याप्ताम् । वैमानिक-स्त्रीनां कल-गीतैर् मङ्गलाम् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मुक्ता-मयैर् वितानैश् चन्द्रातपैर् मणि-हेम-मयैः केतुभिर् ध्वजैः पताका-युक्ताभिर् वलभीभिर् अट्टोपरि-वर्ति-गृहैः ॥२०॥

—ओ)०(ओ—

॥ ८.१५.२१ ॥

मृदङ्ग-शङ्खानक-दुन्दुभि-स्वनैः

सताल-वीणा-मुरजेष्ट-वेणुभिः ।

नृत्यैः सवाद्यैर् उपदेव-गीतकैर्

मनोरमां स्व-प्रभया जित-प्रभाम् ॥

**श्रीधरः : **उपदेवानां गन्धर्वादीनां गीतकैश् च मनोरमाम् । जिता प्रभा साक्षाद् दीप्त्य्-अधिष्ठात्री देवता यया ताम् । अन्यैर् अजित-प्रभाम् इति वा । पाठान्तरे जिता ग्रहाः सूर्यादयो यया ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जित-प्रभा साक्षात् तद्-दीप्त्य्-अधिष्ठात्री देवतापि यया ताम् । जित-ग्रहाम् इति पाठे जित-सूर्यादिकम् ॥२१॥

—ओ)०(ओ—

॥ ८.१५.२२ ॥

यां न व्रजन्त्य् अधर्मिष्ठाः खला भूत-द्रुहः शठाः ।
मानिनः कामिनो लुब्धा एभिर् हीना व्रजन्ति यत् ॥**

**श्रीधरः : **यत् याम् ॥२२॥

**क्रम-सन्दर्भः : **याम् इति मानिन इत्य्-आदय ऐहिका एव ज्ञेयाः ॥२२॥

विश्वनाथः : एभिः खलत्वादिभिः ॥२२॥

—ओ)०(ओ—

॥ ८.१५.२३ ॥

तां देव-धानीं स वरूथिनी-पतिर्

बहिः समन्ताद् रुरुधे पृतन्यया ।

आचार्य-दत्तं जलजं महा-स्वनं

दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम् ॥

**श्रीधरः, विश्वनाथः : **पृतन्यया सेनया ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.२४ ॥

मघवांस् तम् अभिप्रेत्य बलेः परमम् उद्यमम् ।
सर्व-देव-गणोपेतो गुरुम् एतद् उवाच ह ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.२५ ॥

भगवन्न् उद्यमो भूयान् बलेर् नः पूर्व-वैरिणः ।
अविषह्यम् इमं मन्ये केनासीत् तेजसोर्जितः ॥**

**श्रीधरः : **केन हेतुनैवं तेजसोर्जित आसीत् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : इमम् उद्यमं बलिं वा, आसीत् अभूत् ॥२५॥

—ओ)०(ओ—

॥ ८.१५.२६ ॥

नैनं कश्चित् कुतो वापि प्रतिवोढुम् अधीश्वरः ।

पिबन्न् इव मुखेनेदं लिहन्न् इव दिशो दश ।
दहन्न् इव दिशो दृग्भिः संवर्ताग्निर् इवोत्थितः ॥**

**श्रीधरः : **प्रतिवोढुम् अपाकर्तुम् ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रतिवोढुम् युद्धादिभिः प्रतिकर्तुम् । यतः पिबन्न् इवायं बलिः ॥२६॥

—ओ)०(ओ—

॥ ८.१५.२७ ॥

ब्रूहि कारणम् एतस्य दुर्धर्षत्वस्य मद्-रिपोः ।
ओजः सहो बलं तेजो यत एतत् समुद्यमः ॥**

**श्रीधरः, विश्वनाथः : **यतः कारणाद् ओज-आदि । यतश् च ओज-आदेर् एतस्य समुद्यमः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.२८ ॥

श्री-गुरुर् उवाच—

जानामि मघवन् छत्रोर् उन्नतेर् अस्य कारणम् ।
शिष्यायोपभृतं तेजो भृगुभिर् ब्रह्म-वादिभिः ॥**

**श्रीधरः : **उपभृतं सञ्चितम् ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शिष्याय श्रद्ध-भक्त्य्-अतिशयेन स्व-सर्वस्वोपहारकाय बलये तेजः स्वीयम् एव उपभृतं प्रत्युपहारत्वेन दत्तम् इत्य् अर्थः । तस्माद् इदं न बलेस् तेजः, किन्तु ब्रह्म-तेज एव । अतः सुतरां भवद्भिर् दुर्वारम् इति भावः । तेन तेभ्यो भृगुभ्यो न न्यूना वयम् अपि तथैव श्रद्धा-भक्त्य्-आदिना त्वया प्रसादिता यद्य् अभविष्याम, तदा सम्प्रति त्वम् अप्य् अस्मत्-तेजसा परिपूर्ण इमं बलिम् अजेष्य एवेत्य् उपालम्भोऽनुध्वनितः ॥२८॥

—ओ)०(ओ—

॥ ८.१५.२९-३० ॥

ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन ।
भवद्-विधो भवान् वापि वर्जयित्वेश्वरं हरिम् ॥**

विजेष्यति न कोऽप्य् एनं ब्रह्म-तेजः-समेधितम् ।
नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : योद्धुम् अनेनाधुना निर्गच्छामि न वेति चेद् अत आह—भवद्-विध इति ॥२९॥

—ओ)०(ओ—

॥ ८.१५.३१ ॥

तस्मान् निलयम् उत्सृज्य यूयं सर्वे त्रि-विष्टपम् ।
यात कालं प्रतीक्षन्तो यतः शत्रोर् विपर्ययः ॥**

**श्रीधरः : **तत्रोचितं मन्त्रम् आह—तस्माद् यूयं त्रि-विष्टपम् उत्सृज्य निलयम् अदर्शनं यात । यतः कालात् ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एतत्-समयोचितं मन्त्रं ब्रूहीति चेद् अत आह—तस्माद् इति । यतः कालात् शत्रोर् विपर्ययः पराभवो भावी, तं कालं प्रतीक्षमाणा इत्य् अर्थः ॥३१॥

—ओ)०(ओ—

॥ ८.१५.३२ ॥

एष विप्र-बलोदर्कः सम्प्रत्य् ऊर्जित-विक्रमः ।
तेषाम् एवापमानेन सानुबन्धो विनङ्क्ष्यति ॥**

**श्रीधरः : **केनास्य विपर्ययः स्याद् इत्य् अत आह—एष इति । विप्राणां बलेनोदर्क उत्तरोत्तरम् अधिकं फलं यस्य सः ॥३२॥

**क्रम-सन्दर्भः : **तेषाम् एवापमानेनेति । यद्यपि भगवत्-पक्षपातेन व्यावहारिक-गुरूणां वचनातिक्रम-रूपोऽवमानो न दोषावहः, गुरुर् न स स्यात् [भा।पु। ५.५.१८] इत्य्-आद्य्-उक्तेः, तथाप्य् एवं केवलम् अनेन व्यवहार-दृष्ट्यैवोक्तं, तादृश-तत्-पक्षपातस् तु तद्-विधानाम् अयोग्यः1 । व्यवहार-सुखाभिध-दुःखम् अञ्जसा परित्यज्य भगवद्-भक्ति-मय-परम-सुखं दत्त्वा परम-गुणायैव सम्पद्यते स्म । तथैव स्वयं तेनैव विभावितं2 यत्, तद् दर्शितं च पञ्चम-स्कन्धे—नूनं बतायं भगवान् अर्थेषु न निष्णातो योऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृतः [भा।पु। ५.२४.२४] इत्य्-आदिना । यत्र भगवान् अपि द्वार-पालायिततया परम-वशो जातः । कियद् वा, स्वर्ग-राज्यं यत्रैवानुषङ्गिकतया स्वर्गाधिकं पाताल-राज्यं मन्वन्तरान्तरे तद् ऐन्द्र्यं चेति ॥३१॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.३३ ॥

एवं सुमन्त्रितार्थास् ते गुरुणार्थानुदर्शिना ।
हित्वा त्रि-विष्टपं जग्मुर् गीर्वाणाः काम-रूपिणः ॥**

**श्रीधरः : **सुमन्त्रितोऽर्थः कार्यं येषां ते । निलयं जग्मुः ॥३३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.३४ ॥

देवेष्व् अथ निलीनेषु बलिर् वैरोचनः पुरीम् ।
देव-धानीम् अधिष्ठाय वशं निन्ये जगत्-त्रयम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.३५ ॥

तं विश्व-जयिनं शिष्यं भृगवः शिष्य-वत्सलाः ।
शतेन हयमेधानाम् अनुव्रतम् अयाजयन् ॥**

**श्रीधरः : **एवं प्राप्तम् इन्द्र-पदं स्थिरी-कर्तुम् अयाजयन् । अनुव्रतम् अनुवर्तिनम् ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अयाजयन् तदीयेन्द्र-पद-स्थिरी-भावार्थम् इति भावः ॥३५॥

—ओ)०(ओ—

॥ ८.१५.३६ ॥

ततस् तद्-अनुभावेन भुवन-त्रय-विश्रुताम् ।
कीर्तिं दिक्षु-वितन्वानः स रेज उडुराड् इव ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१५.३७ ॥

बुभुजे च श्रियं स्वृद्धां द्विज-देवोपलम्भिताम् ।
कृत-कृत्यम् इवात्मानं मन्यमानो महामनाः ॥**

**श्रीधरः : **द्विज-देवैर् ब्राह्मणैर् उपलम्भितां प्रापिताम् ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : द्विज-देवा विप्राः ॥३७॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमेऽसौ पञ्चदशः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
बलि-विजयो नाम
पञ्चदशोऽध्यायः ।

॥ ८.१५ ॥

(८.१६)


  1. तादृशानाम् अयोग्यम् (ङ) ↩︎

  2. विचारितं (ग) ↩︎