१४

॥ ८.१४.१ ॥

श्री-राजोवाच—

मन्वन्तरेषु भगवन् यथा मन्व्-आदयस् त्व् इमे ।
यस्मिन् कर्मणि ये येन नियुक्तास् तद् वदस्व मे ॥**

**श्रीधरः : **

चतुर्दशे तु सर्वेषां मन्व्-आदीनां यथायथम् ।

पृथक् कर्माणि वर्ण्यन्ते भगवद्-वश-वर्तिनाम् ॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

मन्व्-आदीनां तु कर्माणि षण्णां यानि भवन्त्य् अथ ।

चतुर्दशे प्रकथ्यन्ते तेषां तानि पृथक् पृथक् ॥

—ओ)०(ओ**—**

॥ ८.१४.२ ॥

श्री-ऋषिर् उवाच—

मनवो मनु-पुत्राश् च मुनयश् च मही-पते ।
इन्द्राः सुर-गणाश् चैव सर्वे पुरुष-शासनाः ॥**

**श्रीधरः : **पुरुषेणेश्वरेण यज्ञाद्य्-अवतारैः शास्यन्ते नियुज्यन्ते इति तथा ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुरुषेण यज्ञाद्य्-अवतार-रूपेण शास्यन्त इति ते तथा ॥२॥

—ओ)०(ओ—

॥ ८.१४.३ ॥

यज्ञादयो याः कथिताः पौरुष्यस् तनवो नृप ।
मन्व्-आदयो जगद्-यात्रां नयन्त्य् आभिः प्रचोदिताः ॥**

**श्रीधरः : **तद् एवाह—यज्ञादय इति ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **शासनम् आह—यज्ञादय इति ॥३॥

—ओ)०(ओ—

॥ ८.१४.४ ॥

चतुर्-युगान्ते कालेन ग्रस्तान् छ्रुति-गणान् यथा ।
तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥**

**श्रीधरः : **ऋष्य्-आदीनां कर्माण्य् आह—चतुर्-युगान्त इति चतुर्भिः, यतो येभ्यः श्रुति-गणेभ्यः ॥४॥

**क्रम-सन्दर्भः : **चतुर्-युगान्ते इति । व्यासस् तु तान् श्रुति-गणान् व्यस्यतीति भावः ॥४॥

**विश्वनाथः : **ऋष्य्-आदीनां कर्माण्य् आह—चतुर्-युगान्ते । यतो येभ्यः ॥४॥

—ओ)०(ओ—

॥ ८.१४.५ ॥

ततो धर्मं चतुष्पादं मनवो हरिणोदिताः ।
युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप ॥**

**श्रीधरः : **उदिता उक्ताः युक्ताः संयताः सन्तो महीं धर्मं सञ्चारयन्ति । मह्यां धर्मं प्रवर्तयन्तीत्य् अर्थः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **महीं धर्मं सञ्चारयन्ति । मह्यां धर्मं प्रवर्तयन्तीत्य् अर्थः ॥५॥

—ओ)०(ओ—

॥ ८.१४.६ ॥

पालयन्ति प्रजा-पाला यावद् अन्तं विभागशः ।
यज्ञ-भाग-भुजो देवा ये च तत्रान्विताश् च तैः ॥**

**श्रीधरः : **प्रजा-पाला मनु-पुत्रास् तं धर्मं पालयन्ति यावद् अन्तं यावन् मन्वन्तरावसानम् । विभागशः पुत्र-पौत्रादि-क्रमेण । ये चान्ये द्याव् आ-पृथिव्य्-आदयो यत्र कर्मणि भोक्तृत्वेनान्वितास् तैश् च सह ॥६॥

**क्रम-सन्दर्भः : **तत्रान्विताश् च तैर् इत्य् एव पाठः प्रायः सर्वत्र । यत्रान्विताश् च तैर् इत्य् एव पाठः स्वामि-सम्मतः ॥६॥

**विश्वनाथः : **प्रजा-पाला मनु-पुत्रास् तं धर्मं पालयन्ति यावद् अन्तं मन्वन्तर-पर्यन्तम् । विभागशः पुत्र-पौत्रादि-क्रमेण । ये च देवास् ते च पालयन्ति ॥६॥

—ओ)०(ओ—

॥ ८.१४.७ ॥

इन्द्रो भगवता दत्तां त्रैलोक्य-श्रियम् ऊर्जिताम् ।
भुञ्जानः पाति लोकांस् त्रीन् कामं लोके प्रवर्षति ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.१४.८ ॥

ज्ञानं चानुयुगं ब्रूते हरिः सिद्ध-स्वरूप-धृक् ।
ऋषि-रूप-धरः कर्म योगं योगेश-रूप-धृक् ॥**

**श्रीधरः : **प्रसङ्गाद् रूपान्तरैर् अपि जगद्-यात्रा-प्रवर्तनम् आह—ज्ञानम् इति द्वाभ्याम् । सिद्धाः सनकादयः । ऋषयो याज्ञवल्क्यादयः । योगेशा दत्तात्रेयादयः । तत्-तद्-रूपः सन् ज्ञानं कर्म च योगं च ब्रूते ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मन्व्-आदि-रूपेण हरिर् एव सर्वं करोतीति ज्ञापयन् मन्व्-आदीनां षट्कम् अपि न नियतम् इत्य् उक्तान् उक्तं सङ्क्षेपेणाह—ज्ञानम् इति द्वाभ्याम् । सिद्धाः सनकादयः । योगेशा दत्तात्रेयादयः ॥८॥

—ओ)०(ओ—

॥ ८.१४.९ ॥

सर्गं प्रजेश-रूपेण दस्यून् हन्यात् स्वराड्-वपुः ।
काल-रूपेण सर्वेषाम् अभावाय पृथग् गुणः ॥**

**श्रीधरः : **प्रजेशा मरीच्य्-आदयस् तेन रूपेण सर्ग करोतीति शेषः । स्वराड्-वपू राज-मूर्तिः । सर्वेषाम् अभावाय भवति । पृथग्-विधा गुणाः शीतोष्णादयो यस्य ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रजेशा मरीच्य्-आदयः । स्वराजो मनु-पुत्राः । काला यौवन-वार्धक्य्-आदयः । अभावाय नाशाय भवति । पृथग्-विधाः स्थौल्य-कार्श्न्य-वाधिर्य-पालित्यादयो गुणा यतः सः ॥९॥

—ओ)०(ओ—

॥ ८.१४.१० ॥

स्तूयमानो जनैर् एभिर् मायया नाम-रूपया ।
विमोहितात्मभिर् नाना- दर्शनैर् न च दृश्यते ॥**

**श्रीधरः : **नाम-रूपात्मिकया मायया विमोहितात्मभिर् जनैर् नाना-दर्शनैः शास्त्रैः स्तूयमानो निरूप्यमाणोऽपि नैव दृश्यत इत्य् अर्थः ॥१०॥

**क्रम-सन्दर्भः : **जनैर् नैव दृश्यत इत्य् अन्वयः ॥१०॥

विश्वनाथः : इच्छा-मात्रेणैव सर्वदा सर्वं कर्तुं समर्थस्य भगवत एतावद्भिः पृथक् पृथक् प्रयासवद्भी रूपैः किम् ? इति चेत्, तत्राह—नाम-रूपात्मिकया मायया विमोहितात्मभिर् एभिः शास्त्रज्ञैर् जनैः स्तूयमानो निरूप्यमाणोऽपि न्यायादि-नाना-दर्शनैर् नैव दृश्यते ज्ञायते इत्य् अर्थः । तेन तस्य लीलैव कीर्त्यते विधित्सितं त्व् अतिदुर्गमम् इति भावः ॥१०॥

—ओ)०(ओ—

॥ ८.१४.११ ॥

एतत् कल्प-विकल्पस्य प्रमाणं परिकीर्तितम् ।
यत्र मन्वन्तराण्य् आहुश् चतुर्दश पुराविदः ॥**

**श्रीधरः : **प्रासङ्गिकं निरूप्य प्रस्तुतम् एवोपसंहरति, एतत् कल्प-विकल्पस्यावान्तर-कल्पस्य ॥११॥

**क्रम-सन्दर्भः : **एतद् इति । कल्पाः ब्रह्म-दिनानि । तेषु ये विकल्पाः, नाना-प्रकारास् तेषाम् एकस्य प्रकारस्येत्य् अर्थः ॥११॥

विश्वनाथः : एवं यत्र चतुर्दश-मन्वान्तराण्य् आहुः । एतत् कल्प-विकल्पस्य महा-कल्पावान्तर-कल्पस्य नैमित्तिकस्य प्रमाणम् ॥११॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्दशोऽष्टमस्यायं सङ्गतः सङ्गतः सताम् ॥*॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
चतुर्दशोऽध्यायः ।

॥१४॥

(८.१५)