॥ ८.१३.१ ॥
श्री-शुक उवाच—
मनुर् विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्तमानो यस् तद्-अपत्यानि मे शृणु ॥
श्रीधरः :
त्रयोदशे तु वर्ण्यन्ते सप्तमादीन्य् अनुक्रमात् ।
मन्व्-अन्तराणि सर्वाणि षड्-विधानि पृथक् पृथक् ॥
सप्तमादि-मन्व्-अन्तराण्य् आह—मनुर् इत्य्-आदिना यावद् अध्याय-समाप्ति ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
मन्वन्तराणि मन्व्-आदि-षट्कवन्ति समासतः ।
सप्तमादीनि कथ्यन्ते क्रमाद् अत्र त्रयोदशे ॥१॥
—ओ)०(ओ**—**
**॥ ८.१३.२-३ ॥ **
इक्ष्वाकुर् नभगश् चैव धृष्टः शर्यातिर् एव च ।
नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥
तरूषश् च पृषध्रश् च दशमो वसुमान् स्मृतः ।
मनोर् वैवस्वतस्यैते दश-पुत्राः परन्तप ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ८.१३.४ ॥ **
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्-गणाः ।
अश्विनाव् ऋभवो राजन्न् इन्द्रस् तेषां पुरन्दरः ॥
**श्रीधरः, विश्वनाथः : **आदित्य्-आदयो देवा इत्य् अन्वयः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.५ ॥ **
कश्यपोऽत्रिर् वसिष्ठश् च विश्वामित्रोऽथ गौतमः ।
जमदग्निर् भरद्वाज इति सप्तर्षयः स्मृताः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ८.१३.६ ॥ **
अत्रापि भगवज्-जन्म कश्यपाद् अदितेर् अभूत् ।
आदित्यानाम् अवरजो विष्णुर् वामन-रूप-धृक् ॥
**श्रीधरः : **भगवतो जन्म अवतारः । तम् एवाह—आदित्यानां विवस्वान् अर्यमा पूषेत्य्-आद्य्-उक्तानां मध्ये अवरं जन्म यस्य सः ॥६॥
**क्रम-सन्दर्भः : **अत्रापीति पद्यं स्वाम्य्-असम्मतं, किन्तु पुस्तकेषु दृश्यते ॥६॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
**॥ ८.१३.७ ॥ **
सङ्क्षेपतो मयोक्तानि सप्त-मन्वन्तराणि ते ।
भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥
**श्रीधरः : **शक्त्याऽवतारेणान्वितानि ॥७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ—
**॥ ८.१३.८ ॥ **
विवस्वतश् च द्वे जाये विश्वकर्म-सुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥
**श्रीधरः : अष्टमं मनुं वक्तुं कथाम् आह—**विवस्वत इति त्रिभिः ॥८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ—
**॥ ८.१३.९ ॥ **
तृतीयां वडवाम् एके तासां संज्ञा-सुतास् त्रयः ।
यमो यमी श्राद्ध-देवश् छायायाश् च सुतान् छृणु ॥
**श्रीधरः : **एके वडवां तृतीयाम् आहुः, मम तु संज्ञैव वडवेति मतम् । तद् उक्तं षष्ठे—सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि इति। यमश् च यमी च यमुना श्राद्ध-देवश् चेति त्रयः सुताः ॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.१० ॥ **
सावर्णिस् तपती कन्या भार्या संवरणस्य या ।
शनैश्चरस् तृतीयोऽभूद् अश्विनौ वडवात्मजौ ॥
श्रीधरः : सावर्णिः पुत्रः ॥१०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.११-१२ ॥ **
अष्टमेऽन्तर आयाते सावर्णिर् भविता मनुः ।
निर्मोक-विरजस्काद्याः सावर्णि-तनया नृप ॥
तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।
तेषां विरोचन-सुतो बलिर् इन्द्रो भविष्यति ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.१३ ॥ **
दत्त्वेमां याचमानाय विष्णवे यः पद-त्रयम् ।
राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥
श्रीधरः : पद-त्रयं याचमानायेमां सर्वां महीं सप्तमे मन्व्-अन्तरे दत्त्वाऽष्टमे मन्व्-अन्तरे विष्णोः प्रसादेन च राद्धं लब्धम् इन्द्र-पदं हित्वेत्य् अर्थः ॥१३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.१४ ॥ **
योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः ।
निवेशितोऽधिके स्वर्गाद् अधुनास्ते स्व-राड् इव ॥
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः, विश्वनाथः : **योऽसाव् इति पुनर् निवेशित इत्य् अन्वयः ॥१४॥
—ओ)०(ओ**—**
**॥ ८.१३.१५-१६ ॥ **
गालवो दीप्तिमान् रामो द्रोण-पुत्रः कृपस् तथा ।
ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥
इमे सप्तर्षयस् तत्र भविष्यन्ति स्व-योगतः ।
इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥
**श्रीधरः : **रामः परशुरामः। द्रोण-पुत्रोऽश्वत्थामा । इदानीं तु स्व-योगत आसते ॥१५-१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ—
**॥ ८.१३.१७-२१ ॥ **
देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः ।
स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः ॥
नवमो दक्ष-सावर्णिर् मनुर् वरुण-सम्भवः ।
भूतकेतुर् दीप्तकेतुर् इत्य् आद्यास् तत्-सुता नृप ॥
पारा-मरीचिगर्भाद्या देवा इन्द्रोऽद्भुतः स्मृतः ।
द्युतिमत्-प्रमुखास् तत्र भविष्यन्त्य् ऋषयस् ततः ॥
आयुष्मतोऽम्बुधारायाम् ऋषभो भगवत्-कला ।
भविता येन संराद्धां त्रि-लोकीं भोक्ष्यतेऽद्भुतः ॥
दशमो ब्रह्म-सावर्णिर् उपश्लोक-सुतो मनुः ।
तत्-सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
क्रम-सन्दर्भः : अद्भुत इन्द्रः ॥१९॥
—ओ)०(ओ—
**॥ ८.१३.२२ ॥ **
हविष्मान् सुकृतः सत्यो जयो मूर्तिस् तदा द्विजाः ।
सुवासन-विरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥
**श्रीधरः : हविष्मत्-प्रमुखा इत्य् उक्तानाम् एव केषाञ्चिन् नामान्य् आह—**हविष्मान् इति ॥२२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ**—**
**॥ ८.१३.२३ ॥ **
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति ।
जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्
**क्रम-सन्दर्भः :**विषूच्यां जातः सन् ॥२३॥
—ओ)०(ओ**—**
**॥ ८.१३.२४ ॥ **
मनुर् वै धर्म-सावर्णिर् एकादशम आत्मवान् ।
अनागतास् तत्-सुताश् च सत्यधर्मादयो दश ॥
**श्रीधरः : **एकादशम् इत्य्-आदिर् आर्षः ॥२४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्
—ओ)०(ओ**—**
**॥ ८.१३.२५-२८ ॥ **
विहङ्गमाः कामगमा निर्वाणरुचयः सुराः ।
इन्द्रश् च वैधृतस् तेषाम् ऋषयश् चारुणादयः ॥
आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः ।
वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति ॥
भविता रुद्र-सावर्णी राजन् द्वादशमो मनुः ।
देववान् उपदेवश् च देवश्रेष्ठादयः सुताः ॥
ऋतधामा च तत्रेन्द्रो देवाश् च हरितादयः ।
ऋषयश् च तपोमूर्तिस् तपस्व्य् आग्नीध्रकादयः ॥
न कतमेन व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.२९ ॥ **
स्वधामाख्यो हरेर् अंशः साधयिष्यति तन्-मनोः ।
अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥
**श्रीधरः : **तस्य मनोर् अन्तरं साधयिष्यति, सत्यसहसः सूनृतायाश् च सुतः सन् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मनोर् अन्तरं मन्वन्तरम् इत्य् अर्थहेतु । सहसः पितुः ॥२९॥
—ओ)०(ओ**—**
**॥ ८.१३.३० ॥ **
मनुस् त्रयोदशो भाव्यो देव-सावर्णिर् आत्मवान् ।
चित्रसेन-विचित्राद्या देव-सावर्णि-देहजाः ॥
देवाः सुकर्म-सुत्राम- संज्ञा इन्द्रो दिवस्पतिः ।
निर्मोक-तत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस् तदा ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.३२ ॥ **
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।
योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति ॥
**श्रीधरः : **दिवस्पतेर् इन्द्रस्योपहर्ता संपादकः संभविष्यति ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दिवस्पतेर् इन्द्रस्य उपहर्ता उपकर्ता ॥३२॥
—ओ)०(ओ**—**
**॥ ८.१३.३३ ॥ **
मनुर् वा इन्द्र-सावर्णिश् चतुर्दशम एष्यति ।
उरु-गम्भीर-बुधाद्या इन्द्र-सावर्णि-वीर्यजाः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.३४ ॥ **
पवित्राश् चाक्षुषा देवाः शुचिर् इन्द्रो भविष्यति ।
अग्निर् बाहुः शुचिः शुद्धो मागधाद्यास् तपस्विनः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तपस्विन ऋषयः ॥३४॥
—ओ)०(ओ**—**
**॥ ८.१३.३५ ॥ **
सत्रायणस्य तनयो बृहद्भानुस् तदा हरिः ।
वितानायां महाराज क्रिया-तन्तून् वितायिता ॥
**श्रीधरः : **क्रियातन्तून् कर्म-सन्ततीः । वितायिता विस्तारयिष्यति ॥३५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१३.३६ ॥ **
राजंश् चतुर्दशैतानि त्रि-कालानुगतानि ते ।
प्रोक्तान्य् एभिर् मितः कल्पो युग-साहस्र-पर्ययः ॥
**श्रीधरः : **युग-साहस्रेण पर्ययः परिवर्तो यस्य। युग-सहस्र-प्रमाण इत्य् अर्थः ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **युग-सहस्रेण पर्यायोऽन्तो यस्य सः ।
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
त्रयोदशोऽष्टमस्यायं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
मन्वन्तरानुवर्णनं नाम
त्रयोदशोऽध्यायः ।
॥१३॥
—ओ)०(ओ**—**
(८.१४)