१२

॥ ८.१२.१-२ ॥

श्री-बादरायणिर् उवाच

वृष-ध्वजो निशम्येदं योषिद्-रूपेण दानवान् ।

मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत् ॥

वृषम् आरुह्य गिरिशः सर्व-भूत-गणैर् वृतः ।

सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥

श्रीधरः :

द्वादशे मोहिनी-रूप- विभ्रमालोकनोत्सुकम् ।

भवं संमोहयाम् आस हरिः पुनर् असान्त्वयत् ॥

अमुह्यन्न् असुरा विष्णु- मायया न तद् अद्भुतम् ।

इति वक्तुं महा-देव- मोहोऽयम् उपवर्ण्यते ॥

हरिः सोमम् अपाययद् इतीदं निशम्य स यत्रास्ते तत्र तद् रूपं द्रष्टुं ययाव् इत्य् उत्तरेणान्वयः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

माया-मौग्ध्याद् अवैदग्ध्याद् दैत्यानां मोहनेन किम् ।

इति मोहयितुं शम्भुम् अनैषीत् स्वान्तिकं हरिः ॥

द्वादशे मोहयन् शम्भुं शपन्त्याः शम्भु-योषिताः ।

मोहिन्या विभ्रमस्यासाधारण्यं ताव् अबूबुधत् ॥१॥

—ओ)०(ओ**—**

**॥ ८.१२.३ ॥ **

सभाजितो भगवता सादरं सोमया भवः ।

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥

**श्रीधरः, विश्वनाथः : **सोमया उमया सह ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ**—**

॥ ८.१२.४ ॥

श्री-महादेव उवाच—

देव-देव जगद्-व्यापिन् जगद्-ईश जगन्-मय ।

सर्वेषाम् अपि भावानां त्वम् आत्मा हेतुर् ईश्वरः ॥

**श्रीधरः : **

त्वयि किञ्चिन् न चाश्चर्यं वयं त्व् अश्चर्य-मानसाः ।
इति वक्ष्यन् महा-देवस् तुष्टाव हरिम् अष्टभिः ॥ इति ।

त्वयि महा-मायाविनि परमेश्वरे न हि किञ्चिद् अघटितम् इव, वयं तु परम-कौतूहलेन द्रष्टुम् आगता इति बहुधा संबोधयन् स्तौति । हे देव-देव ! कुतोऽहं देवः ? इत्य् अत आह—हे जगद्-व्यापिन् ! तत् कुतः ? हे जगन्-मय । तर्हि किं प्रधानम् ? न, हे जगद्-ईश ! तच् च कुतः ? तत्राह—सर्वेषाम् अपि त्वं हेतुः, अत ईश्वरः । आत्मत्वाच् च न जडं प्रधानं त्वम् इत्य् अर्थः ॥४॥

**क्रम-सन्दर्भः : **प्रथमं भगवत्त्वं दर्शयन्न् आह—देव-देवेति ॥४॥

विश्वनाथः : हे देव-देव ! ननु त्वम् अपि देवेषु दीव्यसीति तत्राह—हे जगद्-व्यापिन् ! मम जगन्-मध्य-वर्तित्वान् माम् अपि त्वं व्याप्नोषीत्य् अर्थः । अतो मत्-सहितं जगद् इदं तव ईशितव्यम् एवेत्य् आह—हे जगदीश ! ननु, विश्वेश्वरत्वेन त्वम् उच्यसे लोकैस् तत्राह, हे जगन्-मय ! त्वं चिन्मयोऽपि जगन्मयः जगन्-मयत्वाद् ईशितव्योऽपि ईश्वरः । न त्व् अहम् ईदृशः किन्तु ब्रह्मेद्रादिवद् उपचाराद् एव विश्वेश्वर इति भावः । ननु तर्हि मां त्वं प्रधान-स्वरूपं ब्रूषे तस्यैव जगद्-उपादानत्व-प्रसिद्धेर् जगद्-वपुष्ट्वम् । तत्राह—सर्वेषां भावानां वस्तूनां त्वम् आत्मा चेतयिता च हेतुश् च इत्य् अतस् त्वम् एवेश्वर इति भावः ॥४॥

—ओ)०(ओ**—**

**॥ ८.१२.५ ॥ **

आद्य्-अन्ताव् अस्य यन् मध्यम् इदम् अन्यद् अहं बहिः ।

यतोऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद् भवान् ॥

**श्रीधरः : **ननु जगन्-मयत्वोक्त्या जगत उत्पत्त्य्-आदिनाऽसत्यत्वेन जाड्येन च ममापि किं तथात्वं ब्रूषे, न हि नहीत्य् आह, आद्य्-अन्तौ मध्यं चास्य जगतो यतो ब्रह्मणो भवन्ति । यस्य चाव्ययस्यैतान्य् आद्य्-अन्त-मध्यानि न सन्ति । यच् च ब्रह्म, इदं कारास्पदं दृश्यम्, अहङ्कारास्पदं द्रष्टृ च, बहिर् भोग्यम् अन्यद्-भोक्तृ च, तत् सत्यं च चिद्-रूपं च ब्रह्मैव भवान् । अतो न तव विकारादि-शङ्केत्य् अर्थः ॥५॥

**चैतन्य-मत-मञ्जुषा : **आद्य्-अन्ताव् अस्येत्य्-आदि । यद् यतोऽस्य विश्वस्याद्य्-अन्तादीनि इदम् आदीन्य् अव्ययस्य नैतानि । ब्रह्म चिद्-रूपं सत्यं भवान् तद्-अधिकं, न च तद् इत्य् अर्थः ॥५॥

**क्रम-सन्दर्भः : **अथ ब्रह्मत्वं दर्शयन्न् आह—आद्य्-अन्ताव् इति ॥५॥

**विश्वनाथः : **ननु जगन्-मयत्वोक्त्या जगत उत्पत्त्य्-आदीनां नश्वरत्वेन जाड्येन च ममापि किं तथात्वं ब्रूषे ? नहि नहीत्य् अह—आद्य्-अन्ताव् इति । अस्य जगतः यौ आद्य्-अन्तौ जन्म-मृत्यू यच् च मध्यं जीवनं यद् इदं प्रत्यक्षं वस्तु अन्यत् परोक्षम् । अहम् अहङ्कारास्पदम् । बहिर् ममकारास्पदं च वस्तु यतो भवति तद् ब्रह्म चिद्-रूपो भवान् अव्ययस्य ब्रह्मणस् तवाद्य्-अन्तादीनि न सन्ति ॥५॥

—ओ)०(ओ**—**

**॥ ८.१२.६ ॥ **

तवैव चरणाम्भोजं श्रेयस्-कामा निराशिषः ।

विसृज्योभयतः सङ्गं मुनयः समुपासते ॥

**श्रीधरः : **तवैवं-भूतत्वे मुमुक्षूणाम् आचारः प्रमाणम् इत्य् आह, तवैवेति । उभयत इहामुत्र च सङ्गं त्यक्त्वा ॥६॥

**चैतन्य-मत-मञ्जुषा : **तवैवेत्य्-आदि । तवैव चरणाम्भोजं श्रेयस्कामा भवन्तस् ते उपासते, न च ब्रह्म, न च मादृशान् अपि ॥६॥

**क्रम-सन्दर्भः : **अतस् तथा स्फूर्तये त्वच्-चरणाभोजम् एव सेव्यम् इत्य् आह—तवैवेति । श्रेयस्कामास् त्वद्-भक्ति-त्वद्-उपयोगि मङ्गल-कामाः, निराशिषस् तद्-इतर-कामना-शून्याः ॥६॥

विश्वनाथः : तवैवम्भूतत्वे महताम् आचार एव प्रमाणम् इत्य् आह—तवैव, न तु मम । मम तु सकामा एवेति भावः । श्रेयस्कामा भक्तीच्छवः । उभयत्र इहामुत्र च ॥६॥

—ओ)०(ओ**—**

**॥ ८.१२.७ ॥ **

त्वं ब्रह्म पूर्णम् अमृतं विगुणं विशोकम्

आनन्द-मात्रम् अविकारम् अनन्यद् अन्यत् ।

**विश्वस्य हेतुर् उदय-स्थिति-संयमानाम् **

आत्मेश्वरश् च तद्-अपेक्षतयानपेक्षः ॥

**श्रीधरः : **ननु ब्रह्मैव चेद् अहं तर्ह्य् असङ्गोदासीनस्य मम चरणाम्भोजोपासनया किं तेषाम् ? तत्राह—त्वम् इति । ब्रह्मत्वेऽपि त्वं नात्यन्तम् उदासीनः, किन्तु विश्वस्य प्रपञ्चस्योदयादीनां हेतुः । तद्-उपाधीनाम् आत्मनां जीवाम् ईश्वरश् च तत्-तत्-फल-दाता । तर्हि किं राजादिवत् कयाप्य् अपेक्षया सेवकेभ्यः फलं ददामि ? न हि न हि, अनपेक्ष एव त्वम् । तर्हि किम् ईश्वरत्वेन ? तत्राह—तैर् आत्मभिस् तत्-फल-दानार्थम् अपेक्ष्यत इति तद्-अपेक्षस् तस्य भावस् तद्-अपेक्षता तया । अनपेक्षत्वम् एव दर्शयितुं तदीयं ब्रह्मत्वं विशिनष्टि—पूर्णम् अमृतं च सुख-रूपम् । विषय-सुख-वैलक्षण्यार्थम् आह—अविकारं नित्यम् आनन्द-मात्रं च । कुतः ? विशोकम् । तत् कुतः ? विगुणम् । किं च, अनन्यत् । न विद्यतेऽन्यद् यस्मात्, ब्रह्म-व्यतिरिक्ताभावाद् अपि निरपेक्षस् त्वम् इत्य् अर्थः । तर्हि सर्वात्मकत्वे तत्-तद्-विकार-प्रसङ्गो दुर्वारस् तत्राह—अन्यत् सर्वतो व्यतिरिक्तं च, कारणत्वात् । न ह्य् एवं-भूत-सुखात्मक-ब्रह्म-स्वरूपस्य तवान्यापेक्षास्ति । अतः केवलं भक्तानुग्रहार्थम् एव तवैश्वर्यं न स्वार्थम् इत्य् अर्थः ॥७॥

**चैतन्य-मत-मञ्जुषा : **इत्य् एव द्रढयति—त्वम् इत्य्-आदि । त्वं पुर्णं ब्रह्म ॥७॥

**क्रम-सन्दर्भः : **कथम् एकस्य मम ब्रह्मत्वं भगवत्त्वं च ? तत्राह–त्वं ब्रह्मेति, आनन्द-मात्र-लक्षण-विशेष्यांशेन त्वं ब्रह्माख्यः । विश्व-हेतु-शक्तिमता वैशिष्ट्येन तु त्वं भगवान् इत्य् अर्थः । तर्हि कथं सापेक्षोऽहम् ? नेत्य् आह–तेन विश्वेनापेक्ष्यस् त्वं यस्मात्, तस्मात् त्वम् अनपेक्ष्य एव, लोकवल् लीला-कैवल्येन तु तत्-सृष्ट्य्-आदौ प्रवृत्तिर् इति भावः ॥७॥

**विश्वनाथः : **यथा त्वद्-भक्ता निराशिषः, तथा त्वम् अपि निराशीर् न त्व् अस्मद्-आदिर् इवैश्वर्य-कामनया सेवकस्यापेक्षो यतस् त्वं विश्वस्मात् विलक्षण-स्वरूप एवेत्य् आह—त्वम् इति । ब्रह्म चिन्-मयं विश्वं त्व् अचित् एवं पूर्णम् इत्य्-आदि-विशेषणैर् विश्वम् अपूर्णं स-मृतिकं स-गुणं स-शोकं सुख-दुःखात्मकं स-विकारं तथा न विद्यते अन्यत् यतः सद् ब्रह्म अनन्यत् सर्व-कारणत्वात् ब्रह्म-कार्यत्वम् एव स्पष्टयति विश्वस्य उदयादीनां हेतुः तद्-उपाधीनाम् आत्मनां जीवानाम् ईश्वरश् च तत्-फल-दाता, तर्हि किं राजादिवत् कयाप्य् अपेक्षया सेवकेभ्यः फलं ददामि, नहि नहि, तद्-अपेक्षतया तेषाम् अपेक्षा यत्र स तद्-अपेक्षस् तस्य भावस् तत्ता तयैव फलं ददासि, न तु स्वापेक्षया । तैर् जीवैर् एव स्व-स्व-फल-प्राप्त्य्-अर्थं त्वम् अपेक्ष्यसे इत्य् अर्थः । त्वं तु अनपेक्षः स्व-प्रयोजनार्थः, तान् नापेक्षसे ॥७॥

—ओ)०(ओ**—**

**॥ ८.१२.८ ॥ **

एकस् त्वम् एव सद् असद् द्वयम् अद्वयं च

स्वर्णं कृताकृतम् इवेह न वस्तु-भेदः ।

अज्ञानतस् त्वयि जनैर् विहितो विकल्पो

यस्माद् गुण-व्यतिकरो निरुपाधिकस्य ॥

**श्रीधरः : **अन्यत्वम् अनन्यत्वं चैकस्य कुतः ? इत्य् आशङ्क्य दृष्टान्तेनोपपादयति—सद्-असत्-कारण-रूपं द्वयम् अद्वयं च परम-कारणं त्वम् एवैकः । कृतं कुण्डलादि-रूपं द्वयम् अकृतं च केवलम् अद्वयं स्वर्णं यथैकम् एव तद्वद् एवेह त्वयि वस्तुतो भेदो नास्ति । कथं तर्हि भेद-प्रतीतिः ? तत्राह—अज्ञानत इति । कुतः ? यस्मान् निरुपाधिकस्यैव तवायं गुणैर् व्यतिकरो भेदो न स्वतः ॥८॥

**क्रम-सन्दर्भः : **एक इति । एतावता त्वयि सुवर्ण इव वस्तु-भेदो नास्ति, स्व-कार्ये सुवर्णत्वाव्यभिचारवत् त्वद्-रूपत्वाव्यभिचारात् । तथापि सुवर्ण इव त्वयि शुद्धे जनैर् यो विकल्पो विविध-कल्पना विहितो मतः, स पुनर् अज्ञानत एव । कुतः? यस्मात् सूर्यवन् निरुपाधिकस्यैव सतस् तव ये गुणाः रश्मि-प्रतिच्छवि-वैचित्रीवद् बहिरङ्ग-शक्त्य्-अंशाः सत्त्वादयः, तेषाम् एव व्यतिकरो विकल्पोऽयं, तथापि सूर्यं विना तद्-अभावात् सूर्यत्वम् एव तत्र परामृश्यम् इति सुवर्ण-दृष्टान्तोऽपि सिद्ध इति भावः ॥८॥

विश्वनाथः : किं च, जीवानां त्वदीय-तट-शक्ति-कार्यत्वात् तद्-उपाधेर् विश्वस्य त्वदीय-माया-शक्ति-कार्यत्वाद् इदं चिज्-जडात्मकं जगद् अपि त्वम् एवेत्य् आह—एक इति । सद्-असत्-कार्य-कारणात्मकं जगत् तत्र द्वयं कार्यं विराट् । अद्वयं कारणं महद्-आदि, किम् इव कृताकृतं स्वर्णम् इव । कृतं कुण्डलादि अकृतं केवल-स्वर्णम् । इह विराण् महद्-आद्योः कार्य-कारणयोः वस्तुनः परम-कारणत्वात् त्वत्तो भेदो नास्ति कार्य-कारणयोर् अभेदावगमात्, विराजो महद्-आदि-कार्यत्वात् महद्-आदेर् माया-कार्यत्वात् मायायास् त्वच्-छक्तित्वेन त्वद्-रूपत्वाद् इति भावः । अत एतद् अज्ञानत एव त्वयि एकस्मिन्न् एव जनैर् विकल्पो विहितः । जगत्-कारणं ब्रह्मेति मायेति अज्ञानम् इति कर्मेति विविधा कल्पना कृता यस्मान् निरुपाधिकस्य गुणातीत-स्वरूपस्य तव गुणैर् एव व्यतिकरो व्यसनं विविध-रूपाविपत्तिर् इति यावत्,

यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति । [भा।पु। ६.४.३१] इति हंसगुह्योक्तेः ।

अतः व्यतिकरः पुंसि व्यसन-व्यतिसङ्गयोर् इति मेदिनी ॥८॥

ओ)०(ओ

**॥ ८.१२.९ ॥ **

त्वां ब्रह्म केचिद् अवयन्त्य् उत धर्मम् एके

एके परं सद्-असतोः पुरुषं परेशम् ।

अन्येऽवयन्ति नव-शक्ति-युतं परं त्वां

केचिन् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम् ॥

**श्रीधरः : **अत एव त्वां बहुधा वर्णयन्ति तत्त्वतस् तु केऽपि न जानन्तीत्य् आह द्वाभ्याम् । त्वां ब्रह्म वेदान्तिनोऽवयन्ति मन्यन्ते । त्वाम् एव धर्मं मीमांसका मन्यन्ते । प्रकृति-पुरुषयोः परं पुमांसं साङ्ख्याः । विमलोत्कर्षिणी ज्ञाना क्रिया योगा प्रह्वी सत्या ईशाना अनुग्रहा चेत्य् एवं नव-शक्ति-युतं परं पाञ्चरात्राः । महा-पुरुषं पातञ्जलाः ॥९॥

**चैतन्य-मत-मञ्जुषा : **त्वाम् इत्य्-आदि । केचिद् ब्रह्मेत्य् अवयन्ति जानन्ति, केचिद् धर्मम् इति, केचिद् सद्-असतोः कार्य-कारणयोः परं परेशं पुरुषं श्री-कृष्णम् ॥९॥

**क्रम-सन्दर्भः : **सर्वांशतस् तु त्वां केऽपि न जानन्तीत्य् आह—त्वाम् इति ॥९॥

**विश्वनाथः : **तद् एवं स्व-स्व-मत्य्-अनुसारेण त्वाम् ऋषयो बहुधा वर्णयन्तीत्य् आह—परेशं परमेश्वरं त्वां ब्रह्म वेदान्तिनोऽवयन्ति मन्यन्ते । धर्मं मीमांसकाः, प्रकृति-पुरुषयोः परं साङ्ख्याः । अन्ये विमलोत्कर्षिणी ज्ञाना क्रिया योगा प्रह्वी सत्या ईशाना अनुग्रहा चेत्य् एवं नवभिश् चिच्-छक्तिभिर् युतं मिश्रितं माया-शक्तेस् तु परं पाञ्चरात्राः । महा-पुरुषं पातञ्जलाः ॥९॥

—ओ)०(ओ**—**

**॥ ८.१२.१० ॥ **

नाहं परायुर् ऋषायो न मरीचि-मुख्या

जानन्ति यद् विरचितं खलु सत्त्व-सर्गाः ।

**यन्-मायया मुषित-चेतस ईश दैत्य- **

मर्त्यादयः किम् उत शश्वद्-अभद्र-वृत्ताः ॥

**श्रीधरः : **परायुर् ब्रह्मा । सत्त्व-गुणेन स्रष्टा अपि येन त्वया विरचितं विश्वम् अपि खलु तत्त्वतो न जानन्ति, किं पुनस् त्वाम् । हे ईश ! अभद्रं राजसं तामसं च वृत्तम् उत्पत्तिर् येषां ते न जानन्तीति किम् उ वक्तव्यम् ॥१०॥

**चैतन्य-मत-मञ्जुषा : **नाहम् इत्य्-आदि । अहं परायुर् अपि मरीचि-मिश्रा ऋषयोऽपि यद् विरचितं न जानन्ति, मर्त्यादयः किम् उत शश्वद् अभद्र-वृत्ताः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद्यपि सर्व-मतेषु मध्ये पञ्चरात्रम् एव भगवन्-मतं, पुराणस्य कृतस्यनस्य वक्ता तु भगवान् स्वयम् इत्य्-उक्तेः,

तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानं च भागवतम् आत्म-स-तत्त्व-दीपं
यद् वासुदेव-शरणा विदुर् अञ्जसैव ॥ [भा।पु। २.७.१९] इत्य् उक्तेः,

तद् एव तत्त्वं, तद् एव महा-भक्तस्य शभोर् अपि मतं, तद् अपि जानीम इत्य् अभिमानिनो न जानन्तीत्य् आशयेनाह—नेति । न केवलम् अहं न जानामि, किन्तुपरायुर् द्विपरार्ध-जीवी ब्रह्मा सत्त्व-गुणेन स्रष्टा अपि येन त्वया विरचितं विश्वम् अपि खलु तत्त्वतो न जानन्ति, किं पुनस् त्वाम् । हे ईश ! अभद्रं राजसं तामसं च वृत्तम् येषां ते, तं त्वां न जानन्तीति किम् उत वक्तव्यम्, तेन पूर्वोक्ताः शास्त्र-कृतोऽप्य् अभिमानिनो न जानन्तीति भावः ॥१०॥

—ओ)०(ओ**—**

**॥ ८.१२.११ ॥ **

स त्वं समीहितम् अदः स्थिति-जन्म-नाशं

भूतेहितं च जगतो भव-बन्ध-मोक्षौ ।

वायुर् यथा विशति खं च चराचराख्यं

सर्वं तद्-आत्मकतयावगमोऽवरुन्त्से ॥

**श्रीधरः : किन्तु त्वं तत् सर्वं जानासीत्य् आह—स त्वं सर्वम् अवरुन्त्से व्याप्नोषि जानासि । किं तत् सर्वम् ? समीहितं स्व-कृतम् अदः स्थिति-जन्म-नाशम् अमुष्य जगतो जन्मादि-भूतानाम् ईहितं च जगतो भव-बन्ध-मोक्षौ च । व्याप्तौ दृष्टान्तःचराचराख्यं देह-जातं खं च यथा वायुर् आविशति तथा । कथम् अवरुन्त्से ? तद्-आत्मकतया तस्य सर्वस्यात्मतयेत्य् अर्थः । आत्मत्वे हेतुः—**अवगमो ज्ञान-रूप इति ॥११॥

**क्रम-सन्दर्भः : **स त्वम् इति टीकायाम् अवरुन्त्से व्याप्नोषि जानासि चेत्य् अर्थः । इत्य् एव व्याख्येया ॥११॥

**विश्वनाथः : तर्हि को जानातीति चेत्, तत्राह—त्वम् एव स्वं परं च जानासीत्य् आह । स प्रसिद्धस् त्वं सर्वम् अवगमः अवगच्छन् जानन्न् एव सन्न् अवरुन्त्से व्याप्नोषि । किं तत् सर्वम् ? समीहितं स्व-कृतम् अमुष्य जगतो स्थित्य्-आदि-भूतानाम् प्राणि-मात्राणाम् ईहितं भव-बन्धं च तस्मान् मोक्षं च । बन्ध-मोक्ष-प्रकारं जानासीत्य् अर्थः । व्याप्ति-मात्रे दृष्टान्तः—वायुर् इति । खं महाकाशं स्व-स्थानं **चराचराख्यं देह-जातं च यथा विशति, तथैव त्वं निज-धाम-वैकुण्ठम् अध्यासीन एव तद्-आत्मकतया तस्य सर्वस्यात्मतयेत्य् अर्थः ॥११॥

—ओ)०(ओ**—**

**॥ ८.१२.१२-१३ ॥ **

अवतारा मया दृष्टा रममाणस्य ते गुणैः ।

सोऽहं तद् द्रष्टुम् इच्छामि यत् ते योषिद्-वपुर् धृतम् ॥

येन सम्मोहिता दैत्याः पायिताश् चामृतं सुराः ।

तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥

**श्रीधरः : **एवं स्तुत्वा प्रस्तुतं विज्ञापयति, अवतारा इति द्वाभ्याम् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अभिलषितं ब्रूहीति चेत् तम् आह—ते गुणैर् भक्त-वात्सल्यादिभिः ॥१२-१३ ॥

—ओ)०(ओ**—**

॥ ८.१२.१४ ॥

श्री-शुक उवाच—

एवम् अभ्यर्थितो विष्णुर् भगवान् शूल-पाणिना ।

प्रहस्य भाव-गम्भीरं गिरिशं प्रत्यभाषत ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रहस्येति स्वस्य योगेश्वरत्वं लोकेषु प्रख्यापयितुं मोहिनीं दिदृक्षसे चेत् सत्यं ते तत् सर्वं व्यक्तीभविष्यतीति भावः । भाव-गम्भीरं महादेवेनापि दुष्प्रवेशम् ॥१४॥

—ओ)०(ओ**—**

॥ ८.१२.१५ ॥

श्री-भगवान् उवाच—

कौतूहलाय दैत्यानां योषिद्-वेषो मया धृतः ।

पश्यता सुर-कार्याणि गते पीयूष-भाजने ॥

**श्रीधरः : **सुर-कार्याणि योषिद्-वेषेण भविष्यन्तीति पश्यता । अयं भावः—अवश्यं तावद् उन्मत्तान् दैत्यान् वञ्चयित्वा देवेभ्योऽमृतं देयम्, न चैवं वैषम्यं रूपान्तरेण कर्तुम् उचितम्, अतो वञ्चन-मोहनादि-सारं कामिनी-रूपं मया धृतम् इति ॥१५॥

**क्रम-सन्दर्भः : **दैत्यानां कौतूहलाय, तद्-द्वारा वञ्चनाय ॥१५॥

**विश्वनाथः : **दैत्यानां कौतूहलायेति । तादृशानां मोह-जनकं, तद् अति विस्मयास्पदं योषिद्-वपुः युष्माकं योगेश्वराणां तु तद् अकिञ्चित्-करं, न हि मृगयुं मृगो हिंसितुं क्षमत इति भावः । दैत्यानाम् इति तत्रैव स्थिताः सात्त्विकत्वाद् देवा अपि नैव मुमुहुर् इति भावः । ननु दैत्यानां तुच्छानां कृते कोऽयं ते यत्नः ? तत्राह—पश्येति । गत्य्-अन्तराभावाद् इति भावः ॥१५॥

—ओ)०(ओ**—**

**॥ ८.१२.१६ ॥ **

तत् तेऽहं दर्शयिष्यामि दिदृक्षोः सुर-सत्तम ।

कामिनां बहु मन्तव्यं सङ्कल्प-प्रभवोदयम् ॥

**श्रीधरः : **तद् रूपं दर्शयिष्यामि । सङ्कल्प-प्रभवः कामस् तस्योदयो यस्मात् ॥१६॥

**क्रम-सन्दर्भः : **सङ्कल्प-प्रभवोदयम् उपासनया वर-योषित्-प्रदम् ॥१७॥

विश्वनाथः : भवतु, यथा यथा तद् अपि तद्-अर्थम् एतावद् दूर-गमनं तव न मोघं भवितुम् अर्हतीत्य् आह—तद् इति । दिदृक्षुर् इत्य् अन्यथा ते तत्रैव विशिष्ट-बुद्धिर् नापयास्यत्य् एवेति भावः । सङ्कल्प-प्रभवः कामस् तस्योदयो यस्मात् । अतः कामिनां बहु मन्तव्यम् । तव तु काम-शत्रोः काम उद्भवयितुम् नैव शक्नोति, तद् अपि कौतुकं चेत् पश्येति भावो बाह्यः । आभ्यन्तरं तु काम-जेतुर् अपि महा-योगीश्वरस्यापि तव तद्-दिदृक्षैव काम-सिन्धु-महावर्त-निःक्षेपे हेतुर् अभून् मम नात्र दोष इति भावः ॥१६॥

—ओ)०(ओ**—**

॥ ८.१२.१७ ॥

श्री-शुक उवाच—

इति ब्रुवाणो भगवांस् तत्रैवान्तरधीयत ।

सर्वतश् चारयंश् चक्षुर् भव आस्ते सहोमया ॥

न कतमेनापि व्याख्याम् ॥

—ओ)०(ओ**—**

**॥ ८.१२.१८ ॥ **

ततो ददर्शोपवने वर-स्त्रियं

विचित्र-पुष्पारुण-पल्लव-द्रुमे ।

विक्रीडतीं कन्दुक-लीलया लसद्-

दुकूल-पर्यस्त-नितम्ब-मेखलाम् ॥

**श्रीधरः : **विचित्राणि पुष्पाण्य् अरुणाः पल्लवाश् च येषां ते द्रुमा यस्मिन् । लसद्-दुकूलेन पर्यस्ते परिवृत्ते नितम्बे मेखला यस्यास् ताम् ॥१८॥

**क्रम-सन्दर्भः : **तत इति चतुष्कम् ।_।_१८॥

विश्वनाथः : लसद्-दुकूलेन हेतुना परि सर्वतो-भावेन आस्ते अदर्शनं प्राप्ते नितम्बे मेखला यस्यास् ताम् ॥१८॥

—ओ)०(ओ**—**

**॥ ८.१२.१९ ॥ **

आवर्तनोद्वर्तन-कम्पित-स्तन-

प्रकृष्ट-हारोरु-भरैः पदे पदे ।

प्रभज्यमानाम् इव मध्यतश् चलत्-

पद-प्रवालं नयतीं ततस् ततः ॥

**श्रीधरः : **उत्पतत् पतत् कन्दुक-लीला-वशेन ये आवर्तनोद्वर्तने नमनोन्नमने ताभ्यां कम्पितयोः स्तनयोः प्रकृष्ट-हाराणां चोरु-भारैः प्रतिपदं मध्ये प्रभज्यमानाम् इव । चलत्-पदम् एव प्रवालवत् कोमलं, ततस् ततो नयन्तीम् ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ऊर्ध्वम् उत्क्षिप्तं कन्दुकं ग्रहीतुं यत् खल्व् आवर्तनम् आवृत्तिः, तद्-अनन्तरम् उद्वर्तनम् उन्मुखत्वेन वृत्तिः, तेन कम्पितयोः प्रकृष्ट-हाराणां चोरु-भारैः प्रतिपदं मध्यतः मध्य-देशे भज्यमानाम् इव चलत्-पदम् एव प्रवालवद् अरुणं ततस् ततो नयन्तीम् ॥१९॥

—ओ)०(ओ**—**

**॥ ८.१२.२० ॥ **

दिक्षु भ्रमत्-कन्दुक-चापलैर् भृशं

प्रोद्विग्न-तारायत-लोल-लोचनाम् ।

स्व-कर्ण-विभ्राजित-कुण्डलोल्लसत्-

कपोल-नीलालक-मण्डिताननाम् ॥

**श्रीधरः : **दिक्षु भ्रमतः कन्दुकस्य चापलैश् चाञ्चल्यैर् भृशं प्रोद्विग्न-तारे आयते लोले चञ्चले लोचने यस्याः । स्व-कर्णाभ्यां विभ्राजिते ये कुण्डले, ताभ्याम् उल्लसन्तौ कपोलौ ताभ्यां नीलालकैश् च मण्डितम् आननं यस्याः ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दिक्षु भ्रमतः कदाचित् चतुर्-दिक्षु क्ष्पियमानस्य कन्दुकस्य चापलैश् चाञ्चल्यैर् हेतुभिः प्रोद्विग्न-तारे आयते लोले लोचने यस्यास् ताम् ॥२०॥

—ओ)०(ओ**—**

**॥ ८.१२.२१ ॥ **

श्लथद् दुकूलं कबरीं च विच्युतां

सन्नह्यतीं वाम-करेण वल्गुना ।

विनिघ्नतीम् अन्य-करेण कन्दुकं

विमोहयन्तीं जगद्-आत्म-मायया ॥

**श्रीधरः : **सन्नह्यन्तीं बध्नन्तीम् । जगद्-विमोहयन्तीम् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**सन्नह्यन्तीं बध्नन्तीम् । आत्मनो मायया बहिरङ्ग-शक्त्यैव जगन् मोहयन्तीं, सम्प्रति जित-मायम् आत्मारामम् अपि शम्भुम् आत्म-स्वरूपेणैव मोहयन्तीम् इति भावः ॥२१॥

—ओ)०(ओ**—**

**॥ ८.१२.२२ ॥ **

तां वीक्ष्य देव इति कन्दुक-लीलयेषद्-

व्रीडास्फुट1-स्मित-विसृष्ट-कटाक्ष-मुष्टः ।

स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वलात्मा

नात्मानम् अन्तिक उमां स्व-गणांश् च वेद ॥

**श्रीधरः : **तां वीक्ष्य देवः श्री-रुद्र आत्मानम् अन्तिके स्थिताम् उमां स्व-गणांश् च न वेद। कथं-भूतः ? इति एवं-भूतया कन्दुक-लीलया या ईषद्-व्रीडा, तयाऽस्फुटं स्मितं, तेन सह विसृष्टो यः कटाक्षः, तेन मुष्टो वञ्चितः । अत एव स्वयं यत् स्त्रियाः प्रेक्षणं, तया च प्रतिसमीक्षणं, ताभ्यां विह्वल आत्मा मनो यस्य ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **देवः श्री-रुद्रः । इत्य् एवं-भूतया कन्दुक-लीलया मां कश्चित् सुन्दरः पुरुषः पश्यतीति प्रत्यायितया बुद्ध्या या ईषद्-व्रीडा कन्दर्प-विकार-द्योतकी-कृतं यत् स्फुट-स्मितं, ताभ्याम् सह विसृष्टो यः कटाक्षः, तेन मुष्टश् चोरित-योगैश्वर्य-धैर्य-विवेकादित्वाज् जडीभूत इत्य् अर्थः । स्वयं स्त्रियाः प्रेक्षणं, तया च प्रतिसमीक्षणं, ताभ्यां विह्वल आत्मा मनो यस्य सः ॥२२॥

—ओ)०(ओ**—**

**॥ ८.१२.२३ ॥ **

तस्याः कराग्रात् स तु कन्दुको यदा

गतो विदूरं तम् अनुव्रजत्-स्त्रियाः ।

वासः ससूत्रं लघु मारुतोऽहरद्

भवस्य देवस्य किलानुपश्यतः ॥

**श्रीधरः : **तं कन्दुकम् अनुव्रजन्त्याः स्त्रियाः । लघु सूक्ष्मं वासः । स-सूत्रं काञ्ची-सहितम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तं कन्दुकम् अनुव्रजन्त्याः स्त्रियाः । लघु सूक्ष्मं वासः । सूक्ष्म-शाटिकां स-सूत्रं सूत्र-बद्धम् अहरत् उच्चिक्षेप ॥२३॥

—ओ)०(ओ**—**

**॥ ८.१२.२४ ॥ **

एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।

दृष्ट्वा तस्यां मनश् चक्रे विषज्जन्त्यां भवः किल ॥

**श्रीधरः : **विषज्जन्त्यां कुञ्चित-कटाक्षैर् आत्मानं निरीक्षमाणायाम् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विसज्जन्त्यां मां पाश्यति न पश्यतीति द्योतकैः कुञ्चित-कटाक्षैर् महादेवे स्वासक्तिम् अभिनयन्त्याम् ॥२४॥

—ओ)०(ओ**—**

**॥ ८.१२.२५ ॥ **

तयापहृत-विज्ञानस् तत्-कृत-स्मर-विह्वलः ।

भवान्या अपि पश्यन्त्या गत-ह्रीस् तत्-पदं ययौ ॥

**श्रीधरः : **तत्-पदं तस्याः समीपं ययौ ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्-पदं तस्याः स्थानम् ॥२५॥

—ओ)०(ओ**—**

**॥ ८.१२.२६ ॥ **

सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम् ।

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **विवस्त्रा स्खलद्-उत्तरीया ॥२६॥

**विश्वनाथः : **विवस्त्रा स्खलद्-उत्तरीया नान्वतिष्ठत भवम् अनुलक्षीकृत्य न स्थितवती, किन्तु दुद्रावैव ॥२६॥

—ओ)०(ओ**—**

**॥ ८.१२.२७-२८ ॥ **

ताम् अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः ।

कामस्य च वशं नीतः करेणुम् इव यूथपः ॥

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।

केश-बन्ध उपानीय बाहुभ्यां परिषस्वजे ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१२.२९-३० ॥ **

सोपगूढा भगवता करिणा करिणी यथा ।

इतस् ततः प्रसर्पन्ती विप्रकीर्ण-शिरोरुहा ॥

आत्मानं मोचयित्वाङ्ग सुरर्षभ-भुजान्तरात् ।

प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता ॥

**श्रीधरः : **अङ्ग हे राजन् ॥३०॥

**क्रम-सन्दर्भः : **सोपगूढेति युग्मकम् । मायेति, माययावेश-मात्रं, न तु स्त्रीत्वम् इति बोधितम् ॥२९-३०॥

**विश्वनाथः : **मायया योग-मायया देवेन हरिणा विनिर्मिता प्रकटीकृता ॥२९-३०॥

—ओ)०(ओ**—**

**॥ ८.१२.३१ ॥ **

तस्यासौ पदवीं रुद्रो विष्णोर् अद्भुत-कर्मणः ।

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इवेत्य् उत्प्रेक्षा-द्योतकम् । वस्तुतो भगवतैव विनिर्जित इत्य् अर्थः ॥३१॥

—ओ)०(ओ**—**

**॥ ८.१२.३२ ॥ **

तस्यानुधावतो रेतश् चस्कन्दामोघ-रेतसः ।

शुष्मिणो यूथपस्येव वासिताम् अनुधावतः ॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **यूथपस्य करीन्द्रस्य ऋतुमतीं करिणीम् ॥३२॥

विश्वनाथः : शुष्मिणो मत्तस्य यूथपस्य हस्तीन्द्रस्य, रेतसोऽमोघत्वं स्वर्णत्वेन परिणामात् ॥३२॥

—ओ)०(ओ**—**

**॥ ८.१२.३३ ॥ **

यत्र यत्रापतन् मह्यां रेतस् तस्य महात्मनः ।

तानि रूप्यस्य हेम्नश् च क्षेत्राण्य् आसन् मही-पते ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रुद्रस्येति । तानि क्षेत्राणि रुद्र-दैवतानि इत्य् अतस् तेभ्यो हेम-लिप्सुभिः प्रथमं रुद्रः प्रसादनीय इति भावः ॥३३॥

—ओ)०(ओ**—**

**॥ ८.१२.३४ ॥ **

सरित्-सरःसु शैलेषु वनेषूपवनेषु च ।

यत्र क्व चासन्न् ऋषयस् तत्र सन्निहितो हरः ॥

**श्रीधरः : **एवं ताम् अनुधावन् हरः सरित् सरस्सु शैलादिषु च सन्निहितो बभूव ॥३४॥

**क्रम-सन्दर्भः : **तत्र च हेम-क्षेत्रात् रूद्र-क्षेत्रं विविच्याह—सरिद् इति । सरिद्-आदिषु विशेषं दर्शयति—यत्र क्व चेति ॥३४॥

**विश्वनाथः : **एवं ताम् अनुधावन् हरः सरिद्-आदिषु सन्निहितो बभूवेति मोहिन्यास् तत्र तत्र धावनं तत्र तत्र स्थानुषीन् हरस्य योग-भ्रंशं साक्षाद् दर्शयितुम् इति ध्वनिः । तेन मुनिभिर् योगारूढैर् अपि विजितम् अपि स्व-मनो युवतीषु न विश्वसनीयम् इति शिक्षणम् अनुध्वनिः ॥३४॥

—ओ)०(ओ**—**

**॥ ८.१२.३५ ॥ **

स्कन्ने रेतसि सोऽपश्यद् आत्मानं देव-मायया ।

जडीकृतं नृप-श्रेष्ठ सन्न्यवर्तत कश्मलात् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्कन्ने सम्पूर्णे सतीत्य् अर्थः । मोहिनी-प्रथम-दर्शन-क्षणम् आरभ्यैवात्मा जडीकृत एवासीत्, तदानीम् अपश्यद् इति जडीकृतत्वेनानुसन्दधाव् इत्य् अर्थः । कश्मलात् मोहिन्य्-अनुधावनात् ॥३५॥

—ओ)०(ओ**—**

**॥ ८.१२.३६ ॥ **

अथावगत-माहात्म्य आत्मनो जगद्-आत्मनः ।

अपरिज्ञेय-वीर्यस्य न मेने तद् उ हाद्भुतम् ॥

**श्रीधरः : **तद् उह देव-मायया जडी-करणम् ॥३६॥

**क्रम-सन्दर्भः : **आत्मनः स्वीय-परम-स्वरूपस्य जगतोऽपि परम-स्वरूपस्य तद्-अन्तर्यामिणश् च ॥३६॥

विश्वनाथः : अथ स्व-विवेकोत्पत्ति-क्षण एव मोहिनीम् अन्तर्हिताम् आलक्ष्य अवगतं स्व-मोह-विवेकौ भगवद्-अधीनाव् इति माहात्म्यं येन सः । आत्मनो हरेः । यद् वा, आत्मनः स्वस्य अवगत-माहात्म्यः ज्ञात-योगैश्वर्य-प्रभावः । तत् जडीकरणं विवेक-प्रदानं च अद्भुतं न मेने । तत्र हेतुः—जगद्-आत्मनः जगन्-मध्य-वर्तिनं माम् अपि मोहयितुम् प्रबोधयितुम् च समर्थस्यैवेत्य् अर्थः ॥३६॥

—ओ)०(ओ**—**

**॥ ८.१२.३७ ॥ **

तम् अविक्लवम् अव्रीडम् आलक्ष्य मधुसूदनः ।

उवाच परम-प्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **तद्-रूपता-स्फुरणाद् एवाविक्लवं, स्व-पराभवज-ग्लानि-रहितम् अव्रीडं च ॥३७॥

विश्वनाथः : हन्त हन्त महा-योगेश्वरोऽप्य् अहं विषयान्ध एवाभूवम् इत्य् अनुताप-राहित्याद् अविक्लवम् । स्वान्तर्यामिणि का लज्जेत्य् अव्रीडम् । अयं भावः—नाहम् अन्येन केनापि मोहितुं शक्यः । मत्-प्रभुना तु मन्-मोहनं न दूषणावहं, प्रत्युत भूषणावहम् एव । ममापि मोहनं विना मत्-प्रभोर् आत्यन्तिकं प्रभुत्वम् एव कुत इति प्रभुत्वातिशयो दासस्य मे भक्त्य्-उत्कर्षम् एव पुष्यतीति ॥३७॥

—ओ)०(ओ**—**

॥ ८.१२.३८ ॥

श्री-भगवान् उवाच—

दिष्ट्या त्वं विबुध-श्रेष्ठ स्वां निष्ठाम् आत्मना स्थितः ।

यन् मे स्त्री-रूपया स्वैरं मोहितोऽप्य् अङ्ग मायया ॥

**श्रीधरः : **स्वां निष्ठां प्रकृतिम् ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स्त्री-रूपया मोहिन्याख्य-स्वरूप-भूतया मायया मोहितोऽपि स्वां निष्ठां भक्त्य्-उत्थ-दैन्य-मयीं निरहङ्कारताम् इत्य् अर्थः ॥३८॥

—ओ)०(ओ**—**

**॥ ८.१२.३९ ॥ **

को नु मेऽतितरेन् मायां विषक्तस् त्वद्-ऋते पुमान् ।

तांस् तान् विसृजतीं भावान् दुस्तराम् अकृतात्मभिः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : जगन्-मोहिन्या मद्-बहिरङ्ग-मायया तु त्वं नैव मोहितो वर्तस इत्य् आह—को न्व् इति । विषक्तः मायिक-विषयासक्तः सन् को मायां तरेत् ? त्वद्-ऋते त्वां विना त्वं तु मायायाम् आसक्तोऽपि मायाम् अतर इत्य् अर्थः । मायां विशिनष्टि भावान् रजस्-तमो-मयान् कामादीन् ॥३९॥

—ओ)०(ओ**—**

**॥ ८.१२.४० ॥ **

सेयं गुण-मयी माया न त्वाम् अभिभविष्यति ।

मया समेता कालेन काल-रूपेण भागशः ॥

**श्रीधरः : **कालेन सृष्ट्य्-आदि-निमित्तेन । मया काल-रूपेण । भागशो रज-आद्य्-अंशेन समेता मद्-अधीना सती ॥४०॥

**क्रम-सन्दर्भः : **सेयम् इति पूर्वं तु मद्-इच्छया तया मोहितत्वात् ॥४०॥

विश्वनाथः : सैव का ? इति चेद् अतः स्वाङ्गुल्या तत्-समीप-स्थां दुर्गां दर्शयति—सेयम् इति । कालेन कारणेन मया जगत् सृजता समेता सहिता । मया कीदृशेन ? भागशोऽंशेन कलयति ईक्षणेनाङ्गीकरोतीति कालः पुरुषो रूपं यस्य तेन ॥४०॥

—ओ)०(ओ**—**

॥ ८.१२.४१ ॥

श्री-शुक उवाच—

एवं भगवता राजन् श्रीवत्साङ्केन सत्-कृतः ।

आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्रीवत्साङ्गेनेत्य् अनेन प्रणतः स उत्थाप्य वक्षसा संस्पृश्य आलिङ्गित इत्य् अर्थः ॥४१॥

—ओ)०(ओ**—**

**॥ ८.१२.४२ ॥ **

आत्मांश-भूतां तां मायां भवानीं भगवान् भवः ।

सम्मताम् ऋषि-मुख्यानां प्रीत्याचष्टाथ भारत ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शंसतां प्रशंसतस् तान् मुनीन् अनादृत्य ॥४२॥

—ओ)०(ओ**—**

**॥ ८.१२.४३ ॥ **

अयि व्यपश्यस् त्वम् अजस्य मायां

परस्य पुंसः पर-देवतायाः ।

अहं कलानाम् ऋषभोऽपि मुह्ये

ययावशोऽन्ये किम् उतास्वतन्त्राः ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **“अयि! व्यपश्यस् त्वम् अजस्य मायाम्” इत्य् अनेन स्वांश-भूताया मायाया देव्याः सकाशाद् अस्याः परम-वैलक्षण्यं दर्शितम् ॥४३॥

—ओ)०(ओ**—**

**॥ ८.१२.४४ ॥ **

यं माम् अपृच्छस् त्वम् उपेत्य योगात्

समा-सहस्रान्त उपारतं वै ।

स एष साक्षात् पुरुषः पुराणो

न यत्र कालो विशते न वेदः ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **यं माम् इत्य्-आदिकं भगवत्-सन्दर्भे भगवत एव2 परम-तत्त्व-रूपत्वे समुदाहार्यम् ॥४४॥

विश्वनाथः : न विशत इति । कालः सर्वत्र प्रभवितुं विशन्न् अपि यत्र न विशति, वेदः सर्वं जानन्न् अपि यत्र ज्ञातुं न विशति, काल-वेदयोर् अपि यो न गम्य इत्य् अर्थः ॥४४॥

—ओ)०(ओ**—**

॥ ८.१२.४५ ॥

श्री-शुक उवाच—

इति तेऽभिहितस् तात विक्रमः शार्ङ्ग-धन्वनः ।

सिन्धोर् निर्मथने येन धृतः पृष्ठे महाचलः ॥

**श्रीधरः : **अष्टाध्यायार्थ-निगमनम्—इतीति ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.१२.४६ ॥ **

एतन् मुहुः कीर्तयतोऽनुशृण्वतो

न रिष्यते जातु समुद्यमः क्वचित् ।

यद् उत्तमश्लोक-गुणानुवर्णनं

समस्त-संसार-परिश्रमापहम् ॥

**श्रीधरः : एतत् कीर्तनादौ फलम् आह—**एतद् इति ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न रिष्यते न नश्यति ॥४६॥

—ओ)०(ओ**—**

**॥ ८.१२.४७ ॥ **

असद्-अविषयम् अङ्घ्रिं भाव-गम्यं प्रपन्नान्

अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम् ।

कपट-युवति-वेषो मोहयन् यः सुरारींस्

तम् अहम् उपसृतानां काम-पूरं नतोऽस्मि ॥

**श्रीधरः : **भगवता कृतं भक्त-पक्ष-पातं स्मरन् नमस्करोति—असताम् अविषयम् । भावो भजनं तेन गम्यम् अङ्घ्रिं प्रपन्नान् शरणागतान् सिन्धु-मध्यं सिन्धोर् मथनेन जातम् अमृतं य आशयद् अभोजयत् ॥४७॥

**क्रम-सन्दर्भः : **असद्-अविषयम् इत्य्-आदिना बहिर्मुख-निष्काम-सकाम-भक्ताः क्रमेण दर्शिताः ॥४७॥

**विश्वनाथः : **अङ्घ्रिं प्रपन्नान् अमर-वर्यान् सिन्धु-मथ्यं सिन्धु-मथनोद्भुतम् अमृतं य आशयत् अभोजयत् । कपटः युवती-वेशो यस्य सः ॥४७॥

—ओ)०(ओ**—**

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ**—**

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
शङ्कर-मोहनं नाम
द्वादशोऽध्यायः ।

॥१२॥

(८.१३)


  1. व्रीडा + स्फुट-, व्रीडा + अस्फुट- वा। ↩︎

  2. यावत्-सन्दर्भे तावद् एव (घ) ↩︎