११ देवासुर-युद्धं नाम

॥ ८.११.१ ॥

श्री-शुक उवाच—

अथो सुराः प्रत्युपलब्ध-चेतसः

परस्य पुंसः परयानुकम्पया ।

जघ्नुर् भृशं शक्र-समीरणादयस्

तांस् तान् रणे यैर् अभिसंहताः पुरा ॥

श्रीधरः :

एकादशे तु देवेषु दैत्य-घातिषु नारदः ।

देवान् अवारयञ् छुक्रो मृतान् दैत्यान् अजीवयत् ॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

एकादशे स-कोपोक्तिर् इन्द्रो जम्भादिकान् अहन् ।

नारदोक्त्या युद्ध-भङ्गे शुक्रो दैत्यान् अजीवयत् ॥

—ओ)०(ओ—

॥ ८.११.२ ॥

वैरोचनाय संरब्धो भगवान् पाक-शासनः ।

उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥

**श्रीधरः : **उदयच्छद् उन्निन्ये ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.३ ॥

वज्र-पाणिस् तम् आहेदं तिरस्कृत्य पुरः-स्थितम् ।

मनस्विनं सुसम्पन्नं विचरन्तं महा-मृधे ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.४ ॥

नटवन् मूढ मायाभिर् मायेशान् नो जिगीषसि ।

जित्वा बालान् निबद्धाक्षान् नटो हरति तद्-धनम् ॥

**श्रीधरः : **निबद्धान्य् अक्षीणि येषां तान् बालाञ् जित्वा नटः कपट-वृत्तिर् यथा तेषां धनं हरति, तथा हे मूढ, मायेशान् अस्माञ् जेतुम् इच्छसि ॥४॥

**क्रम-सन्दर्भः : **हे मूढ! मायेशानप्य् अस्मान् नट-तुल्योऽपि नट-योग्याभिर् मायाभिः किं जिगीषसीत्य् अर्थः । नटस् तु तावन् निबद्धाक्षान् स्व-माययावृत-नेत्रान् बालान् तद्-विद्या-मिथ्यात्व-दर्शक-विद्याऽनभिज्ञान् एव जिगीषति, न तु मायेशान् इति । ततो मूढ इति भावः ॥४॥

**विश्वनाथः : **नटवद् इति सोक्तं विवृणोति । नटो हि बालान् निबद्धाक्षान् कृत्वा कपटेन जित्वा तद्-धनं हरति, तथैव किम् अस्मान् जिगीषसि ॥४॥

—ओ)०(ओ—

॥ ८.११.५ ॥

आरुरुक्षन्ति मायाभिर् उत्सिसृप्सन्ति ये दिवम् ।

तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदाद् अधः ॥

**श्रीधरः : **मत्-प्रभावं शृण्व् इत्य् आह—आरुरुक्षन्त्य् आरोढुम् इच्छन्ति । ये चोत्सिसृप्सन्त्य् उल्लङ्घयितुम् इच्छन्ति । मोक्षम् इच्छन्तीत्य् अर्थः । अधो विधुनोमि पातयामि ॥५॥

**क्रम-सन्दर्भः : **उत्सिसृप्सन्तीत्य् अत्र मायाभिर् योग-बलैः, न तु भगवद्-आश्रयेणेति ज्ञेयम् ॥५॥

विश्वनाथः : उत्सिसृप्सन्ति दिवम् अप्य् उल्लङ्घयितुम् इच्छन्ति महर्-लोकादिष्व् अप्य् अधिकर्तुम् इच्छन्तीत्य् अर्थः । पूर्वस्मात् रसातलाद् अप्य् अधः पातयामि ॥५॥

—ओ)०(ओ—

॥ ८.११.६ ॥

सोऽहं दुर्मायिनस् तेऽद्य वज्रेण शत-पर्वणा ।

शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **घटस्व युद्धाय युज्यस्व ॥६॥

—ओ)०(ओ—

॥ ८.११.७ ॥

श्री-बलिर् उवाच—

सङ्ग्रामे वर्तमानानां काल-चोदित-कर्मणाम् ।

कीर्तिर् जयोऽजयो मृत्युः सर्वेषां स्युर् अनुक्रमात् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.८ ॥

तद् इदं काल-रशनं जगत् पश्यन्ति सूरयः ।

न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ॥

**श्रीधरः : **काल-रशनं काल-यन्त्रितम् । अतो न हृष्यन्ति । तत्र एवं विवेके यूयम् अपण्डिता अनिपुणाः ॥८॥

**क्रम-सन्दर्भः : **काल एव रशना रज्जुर् यस्य तत् ॥८॥

विश्वनाथः : काल-रशनं काल-यन्त्रितं पश्यन्त्य् एव न तु हर्ष-शोकादिकं प्राप्नुन्वन्ति ॥८॥

—ओ)०(ओ—

॥ ८.११.९ ॥

न वयं मन्यमानानाम् आत्मानं तत्र साधनम् ।

गिरो वः साधु-शोच्यानां गृह्णीमो मर्म-ताडनाः ॥

**श्रीधरः : **तत्र कीर्ति-जयादाव् आत्मानं साधनं मन्यमानानां वो गिरो न गृह्णीमः । मर्मसु ताडनं याभिस् ताः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्र कीर्ति-जयादाव् आत्मानं स्वं साधनम् अहङ्कार-मौढ्याद् एवेति भावः । साधुभिर् जीवन्तोऽपि यथा यूयं शोच्यध्वे, तथा वयं मृता अपि न शोच्यामहे इति भावः ॥९॥

—ओ)०(ओ—

॥ ८.११.१० ॥

श्री-शुक उवाच—

इत्य् आक्षिप्य विभुं वीरो नाराचैर् वीर-मर्दनः ।

आकर्ण-पूर्णैरहनद् आक्षेपैर् आह तं पुनः ॥

**श्रीधरः : **विभुम् इन्द्रम् । वीरो बलिः ॥१०॥

**क्रम-सन्दर्भः : **आकर्ण-पूर्णैः कर्ण-पर्यन्तं पूर्णतयाकृष्टैः ॥१०॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.११ ॥

एवं निराकृतो देवो वैरिणा तथ्य-वादिना ।

नामृष्यत् तद्-अधिक्षेपं तोत्राहत इव द्विपः ॥

**श्रीधरः : **तोत्रम् अङ्कुशस् तेनाहत इव ॥११॥

**क्रम-सन्दर्भः : **निराकृतो नाराचैः पराहतः तद् अधिक्षेपं नाराच-प्रयोगानन्तरं पुनर् अधिक्षेपम् । तोत्रं वैणुकम् इत्य् अमरः ॥११॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.१२ ॥

प्राहरत् कुलिशं तस्मा अमोघं पर-मर्दनः ।

सयानो न्यपतद् भूमौ छिन्न-पक्ष इवाचलः ॥

**श्रीधरः : **सयानो विमान-सहितः ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.१३-१४ ॥

सखायं पतितं दृष्ट्वा जम्भो बलि-सखः सुहृत् ।

अभ्ययात् सौहृदं सख्युर् हतस्यापि समाचरन् ॥

स सिंह-वाह आसाद्य गदाम् उद्यम्य रंहसा ।

जत्राव् अताडयच् छक्रं गजं च सुमहा-बलः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.१५ ॥

गदा-प्रहार-व्यथितो भृशं विह्वलितो गजः ।

जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : “**स्पृष्ट्वा कश्मलं च परं ययौ” इति पाठो बहु-सम्मतः, श्लोक-लब्धश् च ॥१५॥

—ओ)०(ओ—

॥ ८.११.१६ ॥

ततो रथो मातलिना हरिभिर् दश-शतैर् वृतः ।

आनीतो द्विपम् उत्सृज्य रथम् आरुरुहे विभुः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हरिभिर् अश्वैः ॥१६॥

—ओ)०(ओ—

॥ ८.११.१७-१८ ॥

तस्य तत् पूजयन् कर्म यन्तुर् दानव-सत्तमः ।

शूलेन ज्वलता तं तु स्मयमानोऽहनन् मृधे ॥

सेहे रुजं सुदुर्मर्षां सत्त्वम् आलम्ब्य मातलिः ।

इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.१९ ॥

जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदाद् ऋषेः ।

नमुचिश् च बलः पाकस् तत्रापेतुस् त्वरान्विताः ॥

**श्रीधरः : **नमुचिर् बलः पाकश् चेति त्रय आजग्मुः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.२० ॥

वचोभिः परुषैर् इन्द्रम् अर्दयन्तोऽस्य मर्मसु ।

शरैर् अवाकिरन् मेघा धाराभिर् इव पर्वतम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.२१ ॥

हरीन् दश-शतान्य् आजौ हर्यश्वस्य बलः शरैः ।

तावद्भिर् अर्दयाम् आस युगपल् लघु-हस्तवान् ॥

**श्रीधरः : **त्रयाणां पृथग् विक्रमान् आह—हरीन् इति त्रिभिः । हर्यश्वस्येन्द्रस्य । तावद्भिर् दशभिः शतैः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हर्यश्वस्य पीतवर्णाश्वस्य । हरिर् ना कपिले त्रिष्व् इत्य् अमरः । तावद्भिर् दशभिः शतैः ॥२१॥

—ओ)०(ओ—

॥ ८.११.२२ ॥

शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।

सकृत् सन्धान-मोक्षेण तद् अद्भुतम् अभूद् रणे ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **नमुचिर् इति शोकाज् जातोऽमर्षोऽसहिष्णुता या रुट् जिघांसा, तया युक्तः ॥२२॥

विश्वनाथः : शताभ्याम् इति मातलिं शतेन रथं च शतेनेत्य् अर्थः ॥२२॥

—ओ)०(ओ—

॥ ८.११.२३ ॥

नमुचिः पञ्च-दशभिः स्वर्ण-पुङ्खैर् महेषुभिः ।

आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥

**श्रीधरः : **आहत्येन्द्रं विद्ध्वा ॥२३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.२४ ॥

सर्वतः शर-कूटेन शक्रं सरथ-सारथिम् ।

छादयाम् आसुर् असुराः प्रावृट्-सूर्यम् इवाम्बुदाः ॥

**श्रीधरः : **प्रावृट्-कालीनं सूर्यम् ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.२५ ॥

अलक्षयन्तस् तम् अतीव विह्वला

विचुक्रुशुर् देव-गणाः सहानुगाः ।

अनायकाः शत्रु-बलेन निर्जिता

वणिक्-पथा भिन्न-नवो यथार्णवे ॥

**श्रीधरः : **वणिक्-पथा वणिजः । भिन्ना नौर् येषां ते । भिन्न-नाव इत्य् अर्थः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वणिक्-पथा वणिजः । भिन्न-नावो भिन्ना नौकाः । ॥२५॥

—ओ)०(ओ—

॥ ८.११.२६ ॥

ततस् तुराषाड् इषु-बद्ध-पञ्जराद्

विनिर्गतः साश्व-रथ-ध्वजाग्रणीः ।

बभौ दिशः खं पृथिवीं च रोचयन्

स्व-तेजसा सूर्य इव क्षपात्यये ॥

**श्रीधरः : **तुराषाड् इन्द्रः । अश्वादि-सहितो विनिर्गतः । अग्रणीः सारथिः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तुराषाड् इन्द्रः । अग्रणीः सारथिः ॥२६॥

—ओ)०(ओ—

॥ ८.११.२७-२८ ॥

निरीक्ष्य पृतनां देवः परैर् अभ्यर्दितां रणे ।

उदयच्छद् रिपुं हन्तुं वज्रं वज्र-धरो रुषा ॥

स तेनैवाष्ट-धारेण शिरसी बल-पाकयोः ।

ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.२९ ॥

नमुचिस् तद्-वधं दृष्ट्वा शोकामर्ष-रुषान्वितः ।

जिघांसुर् इन्द्रं नृपते चकार परमोद्यमम् ॥

**श्रीधरः : **शोकामर्षाभ्यां युक्त्या रुषा क्रोधेनान्वित इन्द्रं हन्तुं परमोद्योगं चकार ॥२९॥

**क्रम-सन्दर्भः : **नमुचिर् इति शोकाज् जातो योऽमर्षोऽसहिष्णुता, तस्माज् जाता या रुट् जिघांसा तयान्वितो युक्तः ॥२९॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.३० ॥

अश्मसार-मयं शूलं घण्टावद् धेम-भूषणम् ।

प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ॥

प्राहिणोद् देव-राजाय निनदन् मृग-राड् इव

**श्रीधरः : **घण्टावद् घण्टाभिर् युक्तम् ॥३०॥

**क्रम-सन्दर्भः : **अश्मेति सार्धकम् ।प्राहिणोच् च ॥३०॥

विश्वनाथः : घण्टावद् घण्टा-युक्तम् ॥३०॥

—ओ)०(ओ—

॥ ८.११.३१ ॥

तदापतद् गगन-तले महा-जवं

विचिच्छिदे हरिर् इषुभिः सहस्रधा ।

तम् आहनन् नृप कुलिशेन कन्धरे

रुषान्वितस् त्रिदश-पतिः शिरो हरन् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शिरो हरन् हर्तुम् ॥३१॥

—ओ)०(ओ—

॥ ८.११.३२ ॥

न तस्य हि त्वचम् अपि वज्र ऊर्जितो

बिभेद यः सुर-पतिनौजसेरितः ।

तद् अद्भुतं परम् अतिवीर्य-वृत्र-भित्

तिरस्कृतो नमुचि-शिरोधर-त्वचा ॥

**श्रीधरः : **अतिवीर्यं वृत्रम् अभिनद् इति तथा ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अतिवीर्यं वृत्रम् अप्य् अभिनद् यः सोऽपि वज्रः ॥३२॥

—ओ)०(ओ—

॥ ८.११.३३ ॥

तस्माद् इन्द्रोऽबिभेच् छत्रोर् वज्रः प्रतिहतो यतः ।

किम् इदं दैव-योगेन भूतं लोक-विमोहनम् ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **भूतं लोकं विमोहयद् इत्य् एव पाठः ॥३३॥

विश्वनाथः : अबिभेत् भीतोऽभूत् । लोक-विमोहनं लोकं विमोहयद् इति च पाठः ॥३३॥

—ओ)०(ओ—

॥ ८.११.३४ ॥

येन मे पूर्वम् अद्रीणां पक्ष-च्छेदः प्रजात्यये ।

कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥

**श्रीधरः : **तथा पतत्रैः पक्षैः ॥३४॥

**क्रम-सन्दर्भः : **पतत्रैः पतताम् उत्पततां भुवि1 निर्विशमानानाम् ॥३४॥

**विश्वनाथः : **पतत्रैः पक्षैः । निर्विशतां निर्विशमानानां प्रविशताम् इत्य् अर्थः । तथा भावैः स्वीयैः भुवि पतताम् ॥३४॥

—ओ)०(ओ—

॥ ८.११.३५ ॥

तपः-सारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।

अन्ये चापि बलोपेताः सर्वास्त्रैर् अक्षत-त्वचः ॥

**श्रीधरः : **सार-मयं वीर्याघिकं त्वाष्ट्रं तप एव वृत्रः स येन वज्रेण मया विपाटितः ॥३५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.३६ ॥

सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।

नाहं तद् आददे दण्डं ब्रह्म-तेजोऽप्य् अकारणम् ॥

**श्रीधरः : **दण्डं लगुड-तुल्यं कुलिशम् । ब्रह्म-तेजो दधीचेः सामर्थ्यम् ॥३६॥

**क्रम-सन्दर्भः : **नाहम् इति । नाददे नादास्ये इत्य् अर्थः । “दद दाने” इत्य् अस्माल् लटि रूपम् ॥३६॥

**विश्वनाथः : **दण्डं लगुड-तुल्यम् ॥३६॥

—ओ)०(ओ—

॥ ८.११.३७ ॥

इति शक्रं विषीदन्तम् आह वाग् अशरीरिणी ।

नायं शुष्कैर् अथो नार्द्रैर् वधम् अर्हति दानवः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.३८ ॥

मयास्मै यद् वरो दत्तो मृत्युर् नैवार्द्र-शुष्कयोः ।

अतोऽन्यश् चिन्तनीयस् ते उपायो मघवन् रिपोः ॥

**श्रीधरः : **आर्द्र-शुष्काभ्यां मृत्युर् नैवेति ॥३८॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.३९ ॥

तां दैवीं गिरम् आकर्ण्य मघवान् सुसमाहितः ।

ध्यायन् फेनम् अथापश्यद् उपायम् उभयात्मकम् ॥

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **फेनं जले दृश्यमानम् उभयात्मकं शुष्कत्वार्द्रत्वाद् विरोधाभाव-द्वयात्मकं जल-विकारत्वात् शुष्कत्वाभावेनानुमितेः रसानुपलम्भाद् आर्द्रत्वाभावेन प्रत्यक्षीकृतेश् च ॥३९॥

—ओ)०(ओ—

॥ ८.११.४० ॥

न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।

तं तुष्टुवुर् मुनि-गणा माल्यैश् चावाकिरन् विभुम् ॥

**श्रीधरः : **उभयात्मकत्वम् एवाह—न शुष्केण न चार्द्रेण फेनेन । तथा च श्रुतिः—अपां फेनेन नमुचेः शिर इन्द्रोदवतयत् [ऋ।वे। ८.१४.१६] इति ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उभयात्मकत्वम् एवाह—नेति । तथा च श्रुतिः—अपां फेनेन नमुचेः शिर इन्द्रोदवतयत् [ऋ।वे। ८.१४.१६] इति ॥४०॥

—ओ)०(ओ—

॥ ८.११.४१-४३ ॥

गन्धर्व-मुख्यौ जगतुर् विश्वावसु-परावसू ।

देव-दुन्दुभयो नेदुर् नर्तक्यो ननृतुर् मुदा ॥

अन्येऽप्य् एवं प्रतिद्वन्द्वान् वाय्व्-अग्नि-वरुणादयः ।

सूदयाम् आसुर् असुरान् मृगान् केसरिणो यथा ॥

ब्रह्मणा प्रेषितो देवान् देवर्षिर् नारदो नृप ।

वारयाम् आस विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.४४ ॥

श्री-नारद उवाच—

भवद्भिर् अमृतं प्राप्तं नारायण-भुजाश्रयैः ।

श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.४५ ॥

श्री-शुक उवाच—

संयम्य मन्यु-संरम्भं मानयन्तो मुनेर् वचः ।

उपगीयमानानुचरैर् ययुः सर्वे त्रिविष्टपम् ॥

**श्रीधरः : **अनुचरैर् अनुगीयमाना इत्य् अर्थः । उपगीयमानैर् अनुचरैः सहेति वा ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उपगीयमाना अनुचरैर् इति सन्धिर् आर्षः ॥४५॥

—ओ)०(ओ—

॥ ८.११.४६ ॥

येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।

बलिं विपन्नम् आदाय अस्तं गिरिम् उपागमन् ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **अस्तम् इति । तत्रैव तदानीं तेषां विग्रहात्2 स च तत्रत्यानां सूर्यास्त-देशो ज्ञेयः ॥४६॥

—ओ)०(ओ—

॥ ८.११.४७ ॥

तत्राविनष्टावयवान् विद्यमान-शिरोधरान् ।

उशना जीवयाम् आस संजीवन्या स्व-विद्यया ॥

**श्रीधरः : **अविनष्टा अवयवा येषाम् । विद्यमाना शिरो-धरा येषां तान् ॥४७॥

**क्रम-सन्दर्भः : **अविनष्टावयवादीन् एव जीवयामासेति, तेषां मन्त्राणां प्रभावः सूचितः ॥४७॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.११.४८ ॥

बलिश् चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रिय-स्मृतिः ।

पराजितोऽपि नाखिद्यल् लोक-तत्त्व-विचक्षणः ॥

**श्रीधरः : **प्रत्यापन्नानि पुनः प्राप्तानीन्द्रियाणि स्मृतिश् च येन सः ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशश् चाष्टमस्य सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
देवासुर-युद्धं नाम
एकादशोऽध्यायः ।

॥ ८.११ ॥

(८.१२)


  1. भारैर् (ङ) ↩︎

  2. गृहात् (ख) ↩︎