॥ ८.१०.१ ॥
श्री-शुक उवाच—
इति दानव-दैतेया नाविन्दन्न् अमृतं नृप ।
युक्ताः कर्मणि यत्ताश् च वासुदेव-पराङ्मुखाः ॥
श्रीधरः :
दशमे मत्सराद् दैत्यैर् आरब्धे तु मृधे सुरैः ।
दैत्य-माया-विषण्णेषु देवेष्व् आविर्बभौ हरिः ॥
तद् एवम् अमृतावाप्तिर् नाभक्तानाम् इतीरितम् ।
भक्त-मत्सरतः प्राण- हानिः पुनर् उदीर्यते ॥
**क्रम-सन्दर्भः : **युक्ता योग्याः यत्ताः कृतयत्नाः ॥१॥
विश्वनाथः :
दशमेऽन्तर्हिते विष्णौ दैत्यैर् युद्धे प्रवर्तिते ।
दैत्य-मायाभिभूतेषु सुरेष्व् आविरभूद् धरिः ॥१॥
—ओ)०(ओ**—**
**॥ ८.१०.२ ॥ **
साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् ।
पश्यतां सर्व-भूतानां ययौ गरुड-वाहनः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ययाव् अन्तर्दधे ॥२॥
—ओ)०(ओ**—**
**॥ ८.१०.३-४ ॥ **
सपत्नानां पराम् ऋद्धिं दृष्ट्वा ते दिति-नन्दनाः ।
अमृष्यमाणा उत्पेतुर् देवान् प्रत्युद्यतायुधाः ॥
ततः सुर-गणाः सर्वे सुधया पीतयैधिताः ।
प्रतिसंयुयुधुः शस्त्रैर् नारायण-पदाश्रयाः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.५ ॥ **
तत्र दैवासुरो नाम रणः परम-दारुणः ।
रोधस्य् उदन्वतो राजंस् तुमुलो रोम-हर्षणः ॥
**श्रीधरः : **रणः सङ्ग्रामः । उदन्वतः समुद्रस्य रोधसि तीरे बभूव ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **रणो बभूव ॥५॥
—ओ)०(ओ**—**
**॥ ८.१०.६ ॥ **
तत्रान्योन्यं सपत्नास् ते संरब्ध-मनसो रणे ।
समासाद्यासिभिर् बाणैर् निजघ्नुर् विविधायुधैः ॥
**श्रीधरः : **अन्योन्यं समासाद्य निजघ्नुः ।
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.७ ॥ **
शङ्ख-तूर्य-मृदङ्गानां भेरी-डमरिणां महान् ।
हस्त्य्-अश्व-रथ-पत्तीनां नदतां निस्वनोऽभवत् ॥
रथिनो रथिभिस् तत्र पत्तिभिः सह पत्तयः ।
हया हयैर् इभाश् चेभैः समसज्जन्त संयुगे ॥
उष्ट्रैः केचिद् इभैः केचिद् अपरे युयुधुः खरैः ।
केचिद् गौर-मुखैर् ऋक्षैर् द्वीपिभिर् हरिभिर् भटाः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.१०-१२ ॥ **
गृध्रैः कङ्कैर् बकैर् अन्ये श्येन-भासैस् तिमिङ्गिलैः ।
शरभैर् महिषैः खड्गैर् गो-वृषैर् गवयारुणैः ॥
शिवाभिर् आखुभिः केचित् कृकलासैः शशैर् नरैः ।
बस्तैर् एके कृष्ण-सारैर् हंसैर् अन्ये च सूकरैः ॥
अन्ये जल-स्थल-खगैः सत्त्वैर् विकृत-विग्रहैः ।
सेनयोर् उभयो राजन् विविशुस् तेऽग्रतोऽग्रतः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बस्तैश् छागैः ॥११॥
—ओ)०(ओ**—**
**॥ ८.१०.१३-१५ ॥ **
चित्र-ध्वज-पटै राजन्न् आतपत्रैः सितामलैः ।
महा-धनैर् वज्र-दण्डैर् व्यजनैर् बार्ह-चामरैः ॥
वातोद्धूतोत्तरोष्णीषैर् अर्चिर्भिर् वर्म-भूषणैः ।
स्फुरद्भिर् विशदैः शस्त्रैः सुतरां सूर्य-रश्मिभिः ॥
देव-दानव-वीराणां ध्वजिन्यौ पाण्डु-नन्दन ।
रेजतुर् वीर-मालाभिर् यादसाम् इव सागरौ ॥
**श्रीधरः : **चित्र-ध्वज-पटादिभिश् च वीराणां मालाभिश् च राजिभिर् देव-दानव-वीराणां ध्वजिन्यौ यादसां मालाभिः सागराव् इव रेजतुर् इति त्रयाणाम् अन्वयः । यादोभिर् इति वा । सितैर् अमलैर् आतपत्रैश् च । बार्हैश्1 चामरैश् च व्यजनैश् च ॥१३॥ वातेनोद्धूतैर् उत्तरीयैर् उष्णीषैश् च सूर्य-रश्मिभिः सुतरां स्फुरद्भिः ॥१४॥
**क्रम-सन्दर्भः : **चित्रध्वजैर् इति त्रिकम् । व्यजनादिभिः कथम्भूतैः ? अर्चिर्भिः कृत्वा स्फुरद्भिः । सूर्य-रश्मिभिस् तु सुतरां स्फुरद्भिर् इत्य् अन्वयः । एवम् एवाभिप्रेतं तैर् अपि । पाठस्याऽस्य दुर्गमत्वाद् एव पाठान्तराणि कल्पितानि लक्ष्यन्ते, परस्परं विगीतानि ॥१३॥
विश्वनाथः : वातेनोद्धूतैर् उत्तरैर् उत्तरीयैर् उष्णीषैश् चार्चिभिर् अर्चिष्मद्भिः सूर्यस्य रश्मिभिः सुतरां स्फुरद्भिः । ध्वजिन्यौ सेने । यादसां मालाभिः सागराव् इव ॥१३-१५॥
—ओ)०(ओ**—**
**॥ ८.१०.१६ ॥ **
वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमू-पतिः ।
यानं वैहायसं नाम काम-गं मय-निर्मितम् ॥
**श्रीधरः : **असुराणां या चमूस् तस्याः पतिः स बलिर् यानम् आस्थितः ॥१६॥
**क्रम-सन्दर्भः : **वैरोचन इति त्रिकम् ॥१६॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.१७-१८ ॥ **
सर्व-साङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।
अप्रतर्क्यम् अनिर्देश्यं दृश्यमानम् अदर्शनम् ॥
आस्थितस् तद् विमानाग्र्यं सर्वानीकाधिपैर् वृतः ।
बाल-व्यजन-छत्राग्र्यै रेजे चन्द्र इवोदये ॥
**श्रीधरः : **उदये उदय-गिरि-शिखरे स्थितश् चन्द्र इव रेजे इति त्रयाणाम् अन्वयः ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.१९-२४ ॥ **
तस्यासन् सर्वतो यानैर् यूथानां पतयोऽसुराः ।
नमुचिः शम्बरो बाणो विप्रचित्तिर् अयोमुखः ॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर् हेतिर् इल्वलः ।
शकुनिर् भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥
हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः ।
तारकश् चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥
अरिष्टोऽरिष्टनेमिश् च मयश् च त्रिपुराधिपः ।
अन्ये पौलोम-कालेया निवातकवचादयः ॥
अलब्ध-भागाः सोमस्य केवलं क्लेश-भागिनः ।
सर्व एते रण-मुखे बहुशो निर्जितामराः ॥
सिंह-नादान् विमुञ्चन्तः शङ्खान् दध्मुर् महा-रवान् ।
दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.२५ ॥ **
ऐरावतं दिक्-करिणम् आरूढः शुशुभे स्व-राट् ।
यथा स्रवत्-प्रस्रवणम् उदयाद्रिम् अहर्-पतिः ॥
**श्रीधरः : **स्रवन्ति प्रस्रवणानि यस्मिन्न् इति मद-धारा-सादृश्यम् ॥२५॥
**क्रम-सन्दर्भः : **स्रवन्ति प्रस्रवणानि यस्मिन्न् इति मद-धारा-सादृश्यम् ॥२५॥
**विश्वनाथः : **प्रस्रवणानि दान-जला निर्झराश् च ॥२५॥
—ओ)०(ओ**—**
**॥ ८.१०.२६ ॥ **
तस्यासन् सर्वतो देवा नाना-वाह-ध्वजायुधाः ।
लोकपालाः सह-गणैर् वाय्व्-अग्नि-वरुणादयः ॥
**श्रीधरः : **नाना-वाहनादीनि येषां ते देवा असुराश् च मिथो युयुधुः ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.२७ ॥ **
तेऽन्योन्यम् अभिसंसृत्य क्षिपन्तो मर्मभिर् मिथः ।
आह्वयन्तो विशन्तोऽग्रे युयुधुर् द्वन्द्व-योधिनः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.२८ ॥ **
युयोध बलिर् इन्द्रेण तारकेण गुहोऽस्यत ।
वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना ॥
**श्रीधरः : द्वन्द्वान्य् एवाह—**युयोधेति सप्तभिः । अस्यत आस्यत्, अयुध्यतेत्य् अर्थः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अस्यत आस्यत अस्त्राणि चिक्षेप ॥२८॥
—ओ)०(ओ**—**
**॥ ८.१०.२९ ॥ **
यमस् तु कालनाभेन विश्वकर्मा मयेन वै ।
शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.३०-३१ ॥ **
अपराजितेन नमुचिर् अश्विनौ वृषपर्वणा ।
सूर्यो बलि-सुतैर् देवो बाण-ज्येष्ठैः शतेन च ॥
राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।
निशुम्भ-शुम्भयोर् देवी भद्रकाली तरस्विनी ॥
**श्रीधरः : **सूर्यो देव एक एव शतेन बलि-सुतैः बाणो ज्येष्ठो येषां तैः । निशुम्भ-शुम्भाभ्यां देवी ॥३०-३१॥
**क्रम-सन्दर्भः : **अपराजितेनेति पञ्चकम् ॥३०॥
विश्वनाथः : सूर्यो देव एक एव शतेन बलि-सुतैः निशुम्भ-शुम्भाभ्यां देवी ब्रह्म-पुत्रैर् वसिष्ठाद्यैः ॥३०-३१॥
—ओ)०(ओ**—**
**॥ ८.१०.३२-३४ ॥ **
वृषाकपिस् तु जम्भेन महिषेण विभावसुः ।
इल्वलः सह वातापिर् ब्रह्म-पुत्रैर् अरिन्दम ॥
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।
बृहस्पतिश् चोशनसा नरकेण शनैश्चरः ॥
मरुतो निवातकवचैः कालेयैर् वसवोऽमराः ।
विश्वेदेवास् तु पौलोमै रुद्राः क्रोधवशैः सह ॥
श्रीधरः, विश्वनाथः- न व्याख्यातम्।
**क्रम-सन्दर्भः : **ब्रह्म-पुत्रैः प्रजापति-मुखैः । काम-देवेनेति तत्-स्थाने देवेन्द्रेण कोऽप्य् अयं निवेशितः, न तु स्वयं कामः, तस्य स्कन्द-जन्मनः पूर्वम् एव भस्मी-कृतत्वात् ॥३२॥
—ओ)०(ओ**—**
**॥ ८.१०.३५ ॥ **
त एवम् आजाव् असुराः सुरेन्द्रा
द्वन्द्वेन संहत्य च युध्यमानाः ।
अन्योन्यम् आसाद्य निजघ्नुर् ओजसा
जिगीषवस् तीक्ष्ण-शरासि-तोमरैः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.३६ ॥ **
भुशुण्डिभिश् चक्र-गदर्ष्टि-पट्टिशैः
शक्त्य्-उल्मुकैः प्रास-परश्वधैर् अपि ।
निस्त्रिंश-भल्लैः परिघैः समुद्गरैः
सभिन्दिपालैश् च शिरांसि चिच्छिदुः ॥
श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : भूशुण्ड्य्-आदयोऽस्त्र-विशेषाः ॥३६॥
—ओ)०(ओ**—**
**॥ ८.१०.३७ ॥ **
गजास् तुरङ्गाः सरथाः पदातयः
सारोह-वाहा विविधा विखण्डिताः ।
निकृत्त-बाहूरु-शिरोधराङ्घ्रयश्
छिन्न-ध्वजेष्वास-तनुत्र-भूषणाः ॥
**श्रीधरः : **आरोहन्तीत्य् आरोहास् तैः सहिता अन्ये च वाहाः । पूर्वं तु केवलं गजादय उक्ताः । कथं-भूताः ? निकृत्ता बाह्व्-आदयो येषाम् । छिन्नानि ध्वजादीनि येषां ते ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आरोहन्तीत्य् आरोहा बाह्यास् तैः सहिता वाहा वाहनाः । ईष्वासो धनुः तनुत्रं कवचम् ॥३७॥
—ओ)०(ओ**—**
**॥ ८.१०.३८ ॥ **
तेषां पदाघात-रथाङ्ग-चूर्णिताद्
आयोधनाद् उल्बण उत्थितस् तदा ।
रेणुर् दिशः खं द्युमणिं च छादयन्
न्यवर्ततासृक्-स्रुतिभिः परिप्लुतात् ॥
**श्रीधरः : **तेषां देवादीनां पदाघातैः रथाङ्गैश् च चूर्णिताद् आयोधनाद् रण-भूमेर् उत्थितो रेणुर् दिशः स्वं द्यु-मणिं च सूर्यं छादयंस् तद् एव स्वादेर् न्यवर्तत । कथं-भूतात् ? असृक्-स्रुतिभिः रक्त-क्षरणैः परिप्लुतात् सिक्तात् । यद् वा, परिप्लवनाद् धेतोर् न्यवर्तत । भावे क्तः । रक्त-धाराणां तत्पर्यन्तम् उच्छलनाद् इत्य् अर्थः । प्रथमान्त-पाठे रेणोर् विशेषणम् ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**चूर्णिताच् चूर्णीभूतात् आयोधनात् सङ्ग्राम-स्थानात् उत्थितो रेणुर् न्यवर्तत । कीदृशात् ? असृक्-स्रुतिभी रक्त-क्षरणैः परिप्लुतात् सिक्तात् । परिप्लुत इति रेणु-विशेषणम् । तदा च सूर्य-पर्यन्तं रक्तोच्छलनं ज्ञेयम् ॥३८॥
—ओ)०(ओ**—**
**॥ ८.१०.३९ ॥ **
शिरोभिर् उद्धूत-किरीट-कुण्डलैः
संरम्भ-दृग्भिः परिदष्ट-दच्छदैः ।
महा-भुजैः साभरणैः सहायुधैः
सा प्रास्तृता भूः करभोरुभिर् बभौ ॥
**श्रीधरः : **शिरोभिर् महा-भुजैश् च करभ-सदृशैर् ऊरुभिश् च सा रण-भूः प्रकर्षेणास्तृता सती बभौ । कथं भूतैः शिरोभिः । उद्भूतान्य् उत्पतितानि किरीटानि कुण्डलानि च येभ्यस् तैः । संरम्भ-युक्ता दृशो येषु तैः । परिदष्टा दच्-छदा ओष्ठा येषु तैः ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रकर्षेण आस्तृता आच्छादिताः ॥३९॥
—ओ)०(ओ**—**
**॥ ८.१०.४० ॥ **
कबन्धास् तत्र चोत्पेतुः पतित-स्व-शिरो-ऽक्षिभिः ।
उद्यतायुध-दोर्दण्डैर् आधावन्तो भटान् मृधे ॥
**श्रीधरः : **पतितानि यानि स्व-शिरांसि तत्रत्यैर् अक्षिभिस् तैः पश्यन्त इत्य् अर्थः । उद्यतान्य् आयुधानि यैस् तैर् दोर्-दण्डैर् युक्ताः ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पतितानि यानि स्व-शिरांसि तत्रत्यैर् अक्षिभिः पश्यन्तः ॥४०॥
—ओ)०(ओ**—**
**॥ ८.१०.४१ ॥ **
बलिर् महेन्द्रं दशभिस् त्रिभिर् ऐरावतं शरैः ।
चतुर्भिश् चतुरो वाहान् एकेनारोहम् आर्च्छयत् ॥
**श्रीधरः : **वाहानैर् आवतपाद् अरक्षकान् । आरोहं गजयन्तारम् आर्च्छयद् विव्याध ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वाहान् ऐरावत-पाद-रक्षकान्, आरोहं गजयन्तारम् आर्च्छयत् इव्व्याध ॥४१॥
—ओ)०(ओ**—**
**॥ ८.१०.४२ ॥ **
स तान् आपततः शक्रस् तावद्भिः शीघ्र-विक्रमः ।
चिच्छेद निशितैर् भल्लैर् असम्प्राप्तान् हसन्न् इव ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.४३ ॥ **
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिम् आददे ।
तां ज्वलन्तीं महोल्काभां हस्त-स्थाम् अच्छिनद् धरिः ॥
**श्रीधरः, विश्वनाथः : **दुर्मर्षोऽसहनो बलिः ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.४४-४५ ॥ **
ततः शूलं ततः प्रासं ततस् तोमरम् ऋष्टयः ।
यद् यच् छस्त्रं समादद्यात् सर्वं तद् अच्छिनद् विभुः ॥
ससर्जाथासुरीं मायाम् अन्तर्धान-गतोऽसुरः ।
ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **ऋष्टयः रिष्टीः ॥४५॥
—ओ)०(ओ**—**
**॥ ८.१०.४६ ॥ **
ततो निपेतुस् तरवो दह्यमाना दवाग्निना ।
शिलाः स-टङ्क-शिखराश् चूर्णयन्त्यो द्विषद्-बलम् ॥
**श्रीधरः : **टङ्कवत् तीक्ष्णाग्रैः शिखरैः सहिताः ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **टङ्कवत् तीक्ष्णैः शिखरैः सह वर्तमानाः ॥४६॥
—ओ)०(ओ**—**
**॥ ८.१०.४७ ॥ **
महोरगाः समुत्पेतुर् दन्दशूकाः सवृश्चिकाः ।
सिंह-व्याघ्र-वराहाश् च मर्दयन्तो महा-गजाः ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः- **महोरगा इति युग्मकम् ॥४७॥
—ओ)०(ओ**—**
**॥ ८.१०.४८ ॥ **
यातुधान्यश् च शतशः शूल-हस्ता विवाससः ।
छिन्धि भिन्धीति वादिन्यस् तथा रक्षो-गणाः प्रभो ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.४९ ॥ **
ततो महा-घना व्योम्नि गम्भीर-परुष-स्वनाः ।
अङ्गारान् मुमुचुर् वातैर् आहताः स्तनयित्नवः ॥
**श्रीधरः : **स्तनयित्नवश् चाङ्गारान् मुमुचुर् इत्य् अनुषङ्गः ॥४९॥
**क्रम-सन्दर्भः : **स्तनयित्नवः घन-विशेषाश् च ॥४९॥
**विश्वनाथः : **स्तनयित्नवो गर्जनवन्तः ॥४९॥
—ओ)०(ओ**—**
**॥ ८.१०.५० ॥ **
सृष्टो दैत्येन सुमहान् वह्निः श्वसन-सारथिः ।
सांवर्तक इवात्युग्रो विबुध-ध्वजिनीम् अधाक् ॥
**श्रीधरः : **अधाक् आर्षः । अधक्षीद् इत्य् अर्थः ॥५०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अधाक् अधक्षीद् ॥५०॥
—ओ)०(ओ**—**
**॥ ८.१०.५१ ॥ **
ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।
प्रचण्ड-वातैर् उद्धूत- तरङ्गावर्त-भीषणः ॥
**श्रीधरः : **उद्धूतैस् तरङ्गैर् आवर्तैश् च भीषणः ॥५१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.५२ ॥ **
एवं दैत्यैर् महा-मायैर् अलक्ष्य-गतिभी रणे ।
सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः ॥
**श्रीधरः : **एवम् अन्यैश् च दैत्यैः सृज्यमानासु ॥५२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.५३ ॥ **
न तत्-प्रतिविधिं यत्र विदुर् इन्द्रादयो नृप ।
ध्यातः प्रादुरभूत् तत्र भगवान् विश्व-भावनः ॥
**श्रीधरः : **यत्र यदा । तत्र तदा । तैर् ध्यातः सन् ॥५३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.५४ ॥ **
ततः सुपर्णांस-कृताङ्घ्रि-पल्लवः
पिशङ्ग-वासा नव-कञ्ज-लोचनः ।
अदृश्यताष्टायुध-बाहुर् उल्लसच्-
छ्री-कौस्तुभानर्घ्य-किरीट-कुण्डलः ॥
**श्रीधरः : **अष्टावायुध-युक्ता बाहवो यस्य । श्रीश् च कौस्तुभश् च अनर्घ्यं किरीटं च कूण्डले च उल्लसन्ति श्री-कौस्तुभादीनि यस्मिन् ॥५४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.१०.५५ ॥ **
तस्मिन् प्रविष्टेऽसुर-कूट-कर्मजा
माया विनेशुर् महिना महीयसः ।
स्वप्नो यथा हि प्रतिबोध आगते
हरि-स्मृतिः सर्व-विपद्-विमोक्षणम् ॥
**श्रीधरः : **असुराणां कूट-कर्म मन्त्रादि-प्रयोगस् तस्माज् जाताः । महिना महिम्ना । हरेः स्मृतिर् एव सर्वासां विपदां मोक्षण-रूपा किम् उत हरेः प्रवेश इत्य् अर्थः ॥५५॥
**क्रम-सन्दर्भः : **हरि-स्मृतिर् इति पाठः सर्वत्र । हरेर् इति तु टीकायां दृश्यते ॥५५॥
**विश्वनाथः : **महिना महिम्ना ॥५५॥
—ओ)०(ओ**—**
**॥ ८.१०.५६ ॥ **
दृष्ट्वा मृधे गरुड-वाहम् इभारि-वाह
आविध्य शूलम् अहिनोद् अथ कालनेमिः ।
तल् लीलया गरुड-मूर्ध्नि पतद् गृहीत्वा
तेनाहनन् नृप सवाहम् अरिं त्र्यधीशः ॥2
**श्रीधरः : **इभारि-वाहः सिंह-वाहः । अहिनोच् चिक्षेप । लीलयैव तद् गृहीत्वा अहनद् अहन् । हे नृप ॥५६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**इभारि-वाहः सिंह-वाहः । आविध्य कम्प꣡ पतद् एव शूलं वाम-हस्तेन गृहीत्वा तेनैवाहनत् अहन् ॥५६॥
—ओ)०(ओ**—**
**॥ ८.१०.५७ ॥ **
माली सुमाल्य् अतिबलौ युधि पेततुर् यच्-3
चक्रेण कृत्त-शिरसाव् अथ माल्यवांस् तम् ।
आहत्य4** तिग्म-गदयाहनद् अण्डजेन्द्रं**
तावच् छिरोऽच्छिनद् अरेर् नदतोऽरिणाद्यः ॥5
मध्वः : कालनेम्य्-आदयः सर्वे हरिणा निहता अपि ।
शुक्रेणोज्जीविताः सन्तः पुनस् तेनैव पातिताः ॥ इति च ॥५६-५७॥6
**श्रीधरः : **यस्य चक्रेण कृत्त-शिरसौ पेततुस् तं तथा-भूतम् अप्य् आहत्य सङ्घट्य अण्डजेन्द्रं गरुडम् अहनत्, तं हन्तुं गदाम् उन्निन्य इत्य् अर्थः । आद्यो हरिः ॥५७॥
**क्रम-सन्दर्भः : **हरिर् इति पाठः सर्वत्र हरेर् इति तु टीकायां दृश्यते ॥५७॥
**विश्वनाथः : **यच्-चक्रेण यस्य चक्रेण तं हरिम् आहत्य अण्डजेन्द्रं गरुडम् अहनत्, यावत् हन्तुं प्रववृते तावद् एव अच्छिनत् । आद्यो हरिः ॥५७॥
—ओ)०(ओ**—**
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे देवासुर-सङ्ग्रामो नाम दशमोऽध्यायः ।
॥ ८.१० ॥
(८.११)
-
बार्ह-चामरैः पिच्छ-विरचित-चामरैर् इति वा। (पाण्डेयः) ↩︎
-
इभारि-वाहः सिंह-वाहनः कालनेमिः । त्र्यधीशो भगवान् तत्-प्रहितेनैव शूलेन तम् अरिं स-सिंहम् अहनत् ॥५६॥ (गोविन्दाचार्यः) ↩︎
-
युधि देव-वर्य- इति तत्त्व-वादि-पाठः। ↩︎
-
आगत्य इति पाठान्तरम्। ↩︎
-
अतिबलौ माली सुमामी च यदा चक्रेण कृत्त-शिरसाव् अथ माल्यवान् गरुडं गदयाहन् । सा यावद् गरुडे निपतति, ततः पूर्वं एव तस्यारेः शिरः अरिणा चक्रेणाच्छिनत् ॥५७॥ (गोविन्दाचार्यः) ↩︎
-
ननु दशमाध्याये श्रूयते—तत्राविनष्टावयवान् विद्यमान-शिरोधरान् । उशना जीवयाम् आस संजीवन्या स्व-विद्यया ॥ [भा।पु। ८.११.४७] इति । तेन भगवत्-कृतं तेषां हननं व्यर्थम् एव जातम् ? आह—कालनेम्य्-आदयः सर्वे । न व्यर्थम् । भगवद्-इच्छानुगुणम् एवोशना जीवयामास । यतः पुनर् वैवस्वतेऽन्तरे समुद्र-मथने ते पुनर् युद्धायागच्छेयुः । तत्र च पुनस् तान् हन्याम् । अपेक्षितं चैतत् तेषां पाप-वृद्ध्य्-अर्थम् इति भगवद्-इच्छा । अपि च स कालनेमिः पुनर् द्वापरे कंसो जातः । पातितश् च पुनस् तेनैव कृष्ण-रूपेण ॥ (गोविन्दाचार्यः) ↩︎