॥ ८.९.१ ॥
श्री-शुक उवाच—
तेऽन्योन्यतोऽसुराः पात्रं हरन्तस् त्यक्त-सौहृदाः ।
क्षिपन्तो दस्यु-धर्माण आयान्तीं ददृशुः स्त्रियम् ॥
श्रीधरः :
नवमे मोहितैर् दैत्यैर् अपितेऽमृत-भाजने ।
तद् वञ्चनेन देवेभ्योऽमृतं दत्तं तयेर्यते ॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
मोहिता वञ्चिता दैत्याः पायितास् त्व् अमृतं सुराः ।
मोहिन्या नवमे राहोश् चक्रेण च्छेद उच्यते ॥ओ॥
—ओ)०(ओ**—**
**॥ ८.९.२ ॥ **
अहो रूपम् अहो धाम अहो अस्या नवं वयः ।
इति ते ताम् अभिद्रुत्य पप्रच्छुर् जात-हृच्-छयाः ॥
**श्रीधरः : **अहो रूपं सौन्दर्यं धाम द्युतिर् इति वदन्तः का त्वम् ? इत्य्-आदि पप्रच्छुः ॥२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.९.३ ॥ **
का त्वं कञ्ज-पलाशाक्षि कुतो वा किं चिकीर्षसि ।
कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥
**श्रीधरः : **मथ्नन्तीव क्षोभयन्तीव ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कस्यापि कस्य कन्यासि ॥३॥
—ओ)०(ओ**—**
**॥ ८.९.४ ॥ **
न वयं त्वामरैर् दैत्यैः सिद्ध-गन्धर्व-चारणैः ।
नास्पृष्ट-पूर्वां जानीमो लोकेशैश् च कुतो नृभिः ॥
**श्रीधरः : कस्यासीत्य् अयुक्तम् उक्तम् अस्माभिः, यतस् त्वं न केनचिद् भुक्त-पूर्वेत्य् आहुः—**नेति द्वाभ्याम् । त्वा त्वाम् अमरादिभिर् अस्पृष्ट-पूर्वां न जानीम इति न, अपि तु जानीम एव ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अमरादिभिर् अस्पृष्ट-पूर्वा वयं न जानीम इति न, अपि तु जानीम एवेति । नन्व् अयम् अत्र स्वयंवरार्थम् अत्रायातासीति बुद्ध्यते इति भावः ॥४॥
—ओ)०(ओ**—**
**॥ ८.९.५ ॥ **
नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।
सर्वेन्द्रिय-मनः-प्रीतिं विधातुं सघृणेन किम् ॥
**श्रीधरः : आस्ताम् इदं, त्वद्-दर्शनं त्व् ईश्वरेणैव संपादितम् इत्य् आहुः—**नूनम् इति । सर्वेन्द्रियाणां च मनसश् च प्रीतिं विधातुं स-घृणेन प्रेषितासि किम्, वा यदृच्छयागतासि? नैवम्, नूनं प्रैषि तैवेत्य् अर्थः ॥५॥
**क्रम-सन्दर्भः : **नूनम् इति । तैः तत्र किम्-पदस्य सन्देह-वाचित्वेनोभय-कोटि-स्पर्शित्वाद् उभयत्र सम्बन्धः ॥५॥
विश्वनाथः : किम् अस्माकं तद्-अभिप्राय-बुबूत्सया तद्-दर्शनादिनैव तावद् वयं कृतार्था अभूमेत्य् आहुः**—**नूनम् इति ॥५॥
—ओ)०(ओ**—**
**॥ ८.९.६ ॥ **
सा त्वं नः स्पर्धमानानाम् एक-वस्तुनि मानिनि ।
ज्ञातीनां बद्ध-वैराणां शं विधत्स्व सुमध्यमे ॥
**श्रीधरः : **भेदो विग्रहो यथा न भवेत् तथा ॥६॥
**क्रम-सन्दर्भः : तत्र तस्याः क्रोधाविष्कारम् आलक्ष्य तया मोहितत्वेन विश्रभ्य च प्रस्तावान्तरं लक्ष्यीकृत्याहुः—**सा त्वं न इति ॥६॥
विश्वनाथः : किं च, त्वया स्वाभिप्रेतं पश्चाद् विधेयं सम्प्रत्य् अस्मद्-अभिप्रायं सफलीकुर्व् इत्य् आहुः**—**सा त्वम् इति द्वाभ्याम् ॥६॥
—ओ)०(ओ**—**
**॥ ८.९.७ ॥ **
वयं कश्यप-दायादा भ्रातरः कृत-पौरुषाः ।
विभजस्व यथा-न्यायं नैव भेदो यथा भवेत् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विभजस्व अस्मभ्यम् इति शेषः ॥७॥
—ओ)०(ओ**—**
**॥ ८.९.८ ॥ **
इत्य् उपामन्त्रितो दैत्यैर् माया-योषिद्-वपुर् हरिः ।
प्रहस्य रुचिरापाङ्गैर् निरीक्षन्न् इदम् अब्रवीत् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.९.९ ॥
श्री-भगवान् उवाच—
कथं कश्यप-दायादाः पुंश्चल्यां मयि सङ्गताः ।
विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥
**श्रीधरः : **सङ्गता अनुसृताः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कश्यपस्य दायादाः पुत्रा इति पितास्माकम् ऋषिर् यूयं कथम् एवं कामिनोऽभूतेति तान् मोहयितुं परिहासो व्यञ्जितः । सत्यं वयं स्त्री-जाति-मात्रेणैव भावैर् वईश्कर्तुम् अशक्याः भवत्याः परम-शुद्ध-स्वरूपायास् तु स्वपावित्र्येणैव वयं विजिता वर्तामहे इति चेत् तत्राह पुंश्चल्याम् इति । हन्त हन्त भवत्या निष्कामत्वस्यावधिः किं स्तुमहे । यतस् त्वम् आबाल्यम् अनाघ्रात-पुरुष-गन्धापि स्वं गोपयन्त्य् एव खल्व् एवं ब्रूषे । स्त्री-जातिः पुंश्चल्य् अपि स्वं सतीम् एव प्रथयतीति स्त्री-जाति-विलक्षण-स्वभावायै भवत्यै निष्पकटायै सर्वस्वम् अपि दित्सामहे इति स्वगतोक्त्या विस्मय-स्तिमित-दृष्टीस् तान् आलक्ष्याह **विश्वासम् **इति । भोः पण्डित मयि विश्वासं मा कुरुत यद्य् आत्मनां भद्रम् इच्छथेति । भावो बाह्यः अभ्यन्तरस् तु सर्वम् अहं विपरीत-लक्षणयैव ब्रवीमि इति पण्डिता भवन्तो ज्ञात्वा यद् उचितं तत् कुर्वन्तु इति भावः । पूर्वत्र उत्तरत्रापि आभ्यन्तरो ध्वनिर् एवम् एव ज्ञेयः । कामिनीष्व् इति यद्यप्य् अहं युष्मद्-अनुभवेन शुद्धैव भवामि तद् अपि यौवन-वत्त्वाद् आभ्यन्तरः कामोऽनुमेय एव कामवत्त्वे स्त्रीत्वे च कामिनी पति-पित्राद्य्-आवरणाभावात् स्वैरिण्य् अपि कथं न भवामीत्य् अविश्वास्यैव सर्वथा भवद्भिर् अहम् इति भावः ॥९॥
—ओ)०(ओ**—**
**॥ ८.९.१० ॥ **
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुर-द्विषः ।
सख्यान्य् आहुर् अनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥
**श्रीधरः : **हे सुर-द्विषः ॥१०॥
**क्रम-सन्दर्भः : **स्वैरिणीनां स्त्रीणां चेत्य् अन्वयः ॥१०॥
विश्वनाथः : ततः किम् इति चेत् शृणुत तत्त्वम् इत्य् आह—शालेति । शालावृकाः कपि-क्रोष्टु-श्वान इत्य् अमरः ॥१०॥
—ओ)०(ओ**—**
॥ ८.९.११ ॥
श्री-शुक उवाच—
इति ते क्ष्वेलितैस् तस्या आश्वस्त-मनसोऽसुराः ।
जहसुर् भाव-गम्भीरं ददुश् चामृत-भाजनम् ॥
**श्रीधरः : **भावेन केनाप्य् अभिप्रायेण गम्भीरं यथा भवत्य् एवं जहसुः ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **क्ष्वेलितैर् नर्मोदितैः । भावेनाभिप्रायेण गम्भीरम् अविदुषां दुष्प्रवेशं यथा स्यात् तथा जहसुः । हे सर्व-गुण-मण्डिते ! किम् अस्मान् परीक्षसे ? वयम् अविश्वासिनोऽ शुद्धान्तः-करणा नैव भवामस् तद् इदम् अमृत-कलसं गृहाण । अस्मभ्यं विभज्य देहि वा, पिब वा, क्वचिद् अन्यत्र क्षिप वा, यथेच्छसि तथा कुरु । अस्मांस् तु स्व-साद्गुण्य-रत्न-कृतान् आत्मीयान् एव जानीहि इति भावः ॥११॥
—ओ)०(ओ**—**
**॥ ८.९.१२ ॥ **
ततो गृहीत्वामृत-भाजनं हरिर्
बभाष ईषत्-स्मित-शोभया गिरा ।
यद्य् अभ्युपेतं क्व च साध्व् असाधु वा
कृतं मया वो विभजे सुधाम् इमाम् ॥
**श्रीधरः : **ईषत्-स्मितेन शोभा यस्यास् तया । मया कृतं साधु वा असाधु यद्य् अभ्युपेताङ्गी-कुरुत तर्हि विभजे ॥१२॥
**क्रम-सन्दर्भः : **प्रमाणम् इयत्ता चिकीर्षित-पर्यवसानम् इत्य् अर्थः । तन् नाविन्दन्तीत्य् अप्रमाण-विदः ॥१२॥
**विश्वनाथः : **यथा कृतं साधु वा असाधु यद्य् अभ्युपेत अङ्गीकुरुथ । तथा विभजे इति स्वस्याहम् अनभिज्ञत्वं जानाम्य् अतः प्रथमम् एव वच्मीति भावः ॥१२॥
—ओ)०(ओ**—**
**॥ ८.९.१३ ॥ **
इत्य् अभिव्याहृतं तस्या आकर्ण्यासुर-पुङ्गवाः ।
अप्रमाण-विदस् तस्यास् तत् तथेत्य् अन्वमंसत ॥
**श्रीधरः : **असुर-पुङ्गवा दैत्य-श्रेष्ठाः । प्रमाणम् इयत्ताम् अजानन्तः ॥१३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.९.१४-१५ ॥ **
अथोपोष्य कृत-स्नाना हुत्वा च हविषानलम् ।
दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्ययना द्विजैः ॥
यथोपजोषं वासांसि परिधायाहतानि ते ।
कुशेषु प्राविशन् सर्वे प्राग्-अग्रेष्व् अभिभूषिताः ॥
**श्रीधरः : **यथोपजोषं यथा-प्रीति । अहतस्य लक्षणम्—
अहतं यन्त्र-निर्मुक्तम् उक्तं वासः स्वयम्भुवा ।
शस्तं तन् माङ्गलिकेषु तावन् मात्रे न सर्वदा ॥ इति ।
प्राग् अग्रेषु कुशेषु विविशुः ॥१४-१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथेति अमृत-पान-रूप-मङ्गल-कृत्यथार्थं प्रथमम् एवोपोष्य स्थितास् ते परस्पर-विवाद-मध्य एव मोहिनी-दर्शन-वचन-प्रतिवचनाद्य्-अनन्तरं कृत-स्नाना यथोपजोषं यथा-प्रीति । आहतस्य लक्षणम्—
अहतं यन्त्र-निर्मुक्तम् उक्तं वासः स्वयम्भुवा ।
शस्तं तन् माङ्गलिकेषु तावन् मात्रे न सर्वदा ॥ इति ।
प्राग् कुलेषु प्राग् अग्र-कुशेषु ॥१४-१५॥
—ओ)०(ओ**—**
**॥ ८.९.१६-१७ ॥ **
प्राङ्-मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।
धूपामोदित-शालायांजुष्टायां माल्य-दीपकैः ॥
तस्यां नरेन्द्र करभोरुर् उशद्-दुकूल-
श्रोणी-तटालस-गतिर् मद-विह्वलाक्षी ।
सा कूजती कनक-नूपुर-शिञ्जितेन
कुम्भ-स्तनी कलस-पाणिर् अथाविवेश ॥
**श्रीधरः : **धूपैर् आमोदितायां सुरभी-कृतायां शालायाम् ॥१६॥
अथ तस्यां शालायां हे नरेन्द्र सा कलश-पाणिर् आविवेश । कथं-भूता ? मणि-बन्धाद् आ-कनिष्ठं करस्य करभो बहिः इति । करभ-सदृशौ सुवृत्ताव् ऊरू यस्याः सा । उशत् कमनीयं दुकूलं यस्मिंस् तेन श्रोणी-तटेन विशालया श्रोण्या अलसा मन्दा गतिर् यस्याः । पाठान्तरे करभ-सदृशयोर् ऊर्वोर् लसद् दुकूलं यस्याः सा चासौ श्रोणी-तटेनालस-गतिश् च । मदेन विह्वले अक्षिणी यस्याः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **करभोरुर् उशद्-दुकूला करभोरु-लसद्-दुकूलेति पाठ-द्वयम् । मणि-बन्धाद् आकनिष्ठं करस्य करभो बहिर् इत्य् अमरः ॥१६-१७॥
—ओ)०(ओ**—**
**॥ ८.९.१८ ॥ **
तां श्री-सखीं कनक-कुण्डल-चारु-कर्ण-
नासा-कपोल-वदनां पर-देवताख्याम् ।
संवीक्ष्य सम्मुमुहुर् उत्स्मित-वीक्षणेन
देवासुरा विगलित-स्तन-पट्टिकान्ताम् ॥
**श्रीधरः : **तां श्रियः सखीं संवीक्ष्य देवासुराः संमुमुहुः । कथं-भूताम् ? कनक-मये कुण्डले यस्याः सा चासौ चारवः कर्णादयो यस्याः सा च ताम् । विगलितः स्रस्तः स्तन-पट्टिकाया अन्तो यस्याः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **श्री-सखीं श्रियो लक्ष्म्याः सखापि तदानीं सख्य् एवाभूत् । पुं-जाति-मध्ये यथा नारायणः सुन्दरस् तथैव स्त्री-जाति-मध्ये अहम् एवाति-सुन्दरीति माहं कृथाः । स्त्री-जाताव् अप्य् अहम् एव परम-सुन्दरीति तां ज्ञापयितुम् इवेति भावः । कनक-कुण्डला चासौ चारु-कर्णाद्या चेति ताम् ॥१८॥
—ओ)०(ओ**—**
**॥ ८.९.१९ ॥ **
असुराणां सुधा-दानं सर्पाणाम् इव दुर्नयम् ।
मत्वा जाति-नृशंसानां न तां व्यभजद् अच्युतः ॥
**श्रीधरः : एवं तान् मोहयित्वा यत् कृतवांस् तद् आह त्रिभिः । असुराणां सुधादानं सर्पाणां क्षीर-दानम् इव दुर्नयम् अन्याय्यं मत्वा तां सुधां तेभ्यो न व्यभजत् । अयं भावः—**दैत्यैर् मदीयं साध्व् असाधु वा सर्वम् अनुमतम् एव, अतो मद्-भक्तान् देवान् एव सुधां पाययिष्यामि । किं च, तैर् यथा-न्यायं विभजस्वेत्य् उक्तम्, न चैतेभ्यो जात्यैव क्रूरेभ्यो दानं न्याय्यम्, अतस् तेभ्यः सुधां न दद्याम् इति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न तां व्यभजद् इति दैत्यैर् यथा-न्यायं विभजस्वेति उक्तम् । अतो न्यायश् चायम् एवेति भावः ॥१९॥
—ओ)०(ओ**—**
**॥ ८.९.२० ॥ **
कल्पयित्वा पृथक् पङ्क्तीर् उभयेषां जगत्-पतिः ।
तांश् चोपवेशयाम् आस स्वेषु स्वेषु च पङ्क्तिषु ॥
**श्रीधरः : **पञ्क्तीः पृथग् विविक्ताः कल्पयित्वा विधाय । तासु पङ्क्तिषु स्वेषु स्वेषु तत् सम-जातीयेषु तांश् चासुरान् अपि प्रतारणार्थम् एवोपवेशयाम् आस ॥२०॥
**क्रम-सन्दर्भः : **कल्पयित्वेति तांश् च देवासुरान् परस्परम् अभिमुखान् इति ज्ञेयम् ॥२०॥
विश्वनाथः : स्वेषु स्वेषु इति पङ्क्तिषु मह्द्ये या याः पङ्क्तयो येषां येषां स्वानि धन-रूपाणि स्युस् तेषु स्वेषु सत्त्व-विशिष्टासु पङ्क्तिष्व् इत्य् अर्थः ॥२०॥
—ओ)०(ओ**—**
**॥ ८.९.२१ ॥ **
दैत्यान् गृहीत-कलसो वञ्चयन्न् उपसञ्चरैः ।
दूर-स्थान् पाययाम् आसजरा-मृत्यु-हरां सुधाम् ॥
**श्रीधरः : **उपसञ्चरैर् बहु-मान-प्रिय-वाक्यादिना तान् अतिक्रम्यातिक्रम्य गमनैः दूर-स्थान् अपि देवान् ॥२१॥
**क्रम-सन्दर्भः : **वञ्चयन् तल-स्थं सार-भागं भवद्भ्यः सर्वतः श्रेष्ठेभ्यो दास्यामीति प्रतारयन् ॥२१॥
विश्वनाथः : उप निकटे निकटे एव सञ्चरैः सञ्चरणैर् भ्रू-भङ्गि-नेत्र-स्मित-व्रीडा-मुखार्धाच्छादन-नूपुरादि-भूषण-वसन-सञ्चालन-पूर्वकैश् चरण-सञ्चलनैः किञ्चिन्-मात्र-प्रदानेन दूरस्थानां देवानाम् उत्कण्ठां निवर्त्य सम्पूर्णम् अस्मान् एव पायैष्यतीति प्रत्यायनैः वञ्चयन्न् इति अस्माभिः श्रोत्र-नेत्र-मनोभिर् यद् इदम् अमृतं पीयते इतोऽधिकं सामुद्रम् अमृतं न भविष्यतीति तद् अलं तेन एतस्या आनुकूल्यम् एवाकाङ्क्षणीयम् इत्य् अपि तेषां मनसि विचारं प्रापयामासेति भावः । दूर-स्थान् देवान् ॥२१॥
—ओ)०(ओ**—**
**॥ ८.९.२२ ॥ **
ते पालयन्तः समयम् असुराः स्व-कृतं नृप ।
तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद-जुगुप्सया ॥
**श्रीधरः : **तया कृतः स्नेहो येषु । स्त्रिया सह विवादस्य जुगुप्सया ॥२२॥
**क्रम-सन्दर्भः : **समयं प्रतिज्ञाम् ॥२२॥
विश्वनाथः : समयं साध्व् असाधु वा यथा-सुखं विभजस्वेति नियमं, स्त्रिया सह विवादस्य जुगुप्सया ॥२२॥
—ओ)०(ओ**—**
**॥ ८.९.२३ ॥ **
तस्यां कृतातिप्रणयाः प्रणयापाय-कातराः ।
बहु-मानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥
**श्रीधरः : **कृतोऽति-प्रणयः स्नेहो यैः । प्रणयापायेन कातरा भीताः । एते तावत् कृपणाः पूर्वं किञ्चित् पिबन्तु, यूयं तु धीराः क्षणं प्रतीक्षध्वम् इत्य्-आदि-बहु-मानेनाबद्धा नियन्त्रिताः समय-पालनादिभिः षड्भिर् एतैः किञ्चिद् अपि नोचुः, किन्तु तूष्णीम् आसन् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एते तावत् कृपणाः पूर्वं किञ्चित् पिबन्तु, यूयं तु वीराः क्षणं प्रतीक्षध्वम् इत्य्-आदि-बहु-मानेन वा बद्धा नियन्त्रिताः । समय-पालनादिभिः षड्भिर् एतैः कारणैर् अप्रियम् अपि किञ्चिद् अपि नोचुः, किन्तु तूष्णीम् एवासन् ॥२३॥
—ओ)०(ओ**—**
**॥ ८.९.२४ ॥ **
देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुर् देव-संसदि ।
प्रविष्टः सोमम् अपिबच् चन्द्रार्काभ्यां च सूचितः ॥
**श्रीधरः : **देव-पङ्क्तौ चन्द्रार्कयोर् मध्ये प्रविष्टः सोमम् अमृतम् अपिबत् ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तद् एव मोहिनी-मूर्त्या भगवता सर्व एव दैत्या मोह꣡ वञ्चिताः किन्तु सद्योऽप्य् अमृत-महिम-ज्ञापनार्थम् एकः स्वर्भानुर् न मोहितः, स च सहसैव मोहिन्य्-अभिप्रायं ज्ञात्वा देव-पङ्क्तिषु प्रविष्ट इत्य् आह देव-लिङ्गेति । अत एव देवास् तं प्रथमं परिचेतुं न शेकुः । उपविष्टे तु चन्द्रार्काभ्याम् परिचितोऽपि तद्-भयात् इतोऽन्यत्र पङ्क्ताव् उपविशेति वक्तुं नाशक्यतेति ज्ञेयम् । यदा तु सोमम् अमृतं प्राप्तम् एवापिबत् तदासुरोऽसाव् इति भ्रू-भङ्ग्या सूचितः ॥२४॥
—ओ)०(ओ**—**
**॥ ८.९.२५ ॥ **
चक्रेण क्षुर-धारेण जहार पिबतः शिरः ।
हरिस् तस्य कबन्धस् तु सुधयाप्लावितोऽपतत् ॥
**श्रीधरः : **हरिस् तस्य शिरो जहार । अप्लावितोऽसंस्पृष्टः ॥२५॥
**क्रम-सन्दर्भः : **कबन्धोऽपतद् इति केतुस् तु च्छाया-ग्रह एव, न तु कबन्ध-रूप इत्य् अभिप्रायः ॥२५॥
विश्वनाथः : हरिर् अजित-रूपी शिरो जहार । आ ईषत् प्लावितः ॥२५॥
—ओ)०(ओ**—**
**॥ ८.९.२६ ॥ **
शिरस् त्व् अमरतां नीतम् अजो ग्रहम् अचीकॢपत् ।
यस् तु पर्वणि चन्द्रार्काव् अभिधावति वैर-धीः ॥
**श्रीधरः : **ग्रहं सूर्यादि-वद् ग्रहत्वाधिकारिणम् ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अमरतां नीतम् अमृत-पान-प्रभावात् मरण-शून्यतां प्राप्तम् इति । अमृत-प्रभावो दर्शितः । अजो ब्रह्मा ग्रहं सूर्यादिकम् इव ग्रहत्वाधिकारवन्तम् ॥२६॥
—ओ)०(ओ**—**
**॥ ८.९.२७ ॥ **
पीत-प्रायेऽमृते देवैर् भगवान् लोक-भावनः ।
पश्यताम् असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.९.२८ ॥ **
एवं सुरासुर-गणाः सम-देश-काल-
हेत्व्-अर्थ-कर्म-मतयोऽपि फले विकल्पाः ।
तत्रामृतं सुर-गणाः फलम् अञ्जसापुर्
यत्-पाद-पङ्कज-रजः-श्रयणान् न दैत्याः ॥
**श्रीधरः : **हरि-भक्तानाम् एवोद्यमः फलति, नान्येषाम् इत्य् एवम् आख्यान-तात्पर्यम् आह, एवम् इति । समा देशादयो येषाम् । हेतुर् मन्दराद्रिः । अर्थः समुद्रे क्षिप्तं वीरुदादि । विविधः कल्पः फलं केषाञ्चिन् नेति वैचित्र्यं येषां ते । फल-वैषम्यवन्तो बभूवुर् इत्य् अर्थः । तद् एवाह, तत्र तेषु यस्य पाद-पङ्कज-रजः-श्रयणाद् देवा अमृतं फलम् आपुः स एव सेव्य इत्य् अर्थः । यत् तदोर् नित्य-संबन्धात् ॥२८॥
**क्रम-सन्दर्भः : **हेतुः साधकतमः, अर्थस् तद्-उपयोगि-मात्रम् ॥२८॥
**विश्वनाथः :**लौकिक-हेतु-साम्येऽपि फल-प्राप्तिर् भक्तिमताम् एव नान्येषाम् इत्य् एवाख्यान-तात्पर्यम् आह—एवम् इति । समा देशादयो येषां ते, देशः क्षीर-सिन्धुः कालस् तत्-तत्-क्षण-समूहः हेतुर् मन्थन-साधनं मन्दरादिः । अर्थः समुद्रे क्षिप्तं वीरुधादि कर्म मथनं मतिर् अमृत-कामता । फले फल-प्राप्तिर् भवेन् नवेति विक्लपवन्तः । तत्र तयोर् मध्ये सुर-गणाः फलम् आपुः । यत्-पादाश्रयणात् दैत्या न आपुः यद्-आश्रयणाभावाद् इति भावः । स एव सेव्य इति प्रकरणार्थः ॥२८॥
—ओ)०(ओ**—**
॥ ८.९.२९ ॥
यद् युज्यतेऽसु-वसु-कर्म-मनो-वचोभिर्
देहात्मजादिषु नृभिस् तद् असत् पृथक्त्वात् ।
तैर् एव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूल-निषेचनं यत् ॥
**श्रीधरः : **एतद् एवोपपादयति—यद् इति । असुः प्राणः । वसु धनम् । प्राणादिभिर् देहात्म-जादिषु नृभिर् यद् युज्यते, देहाद्य्-अर्थं यत् क्रियत इत्य् अर्थः । तद् असद् व्यर्थं भवति । कुतः ? पृथक्त्वाद् भेदाश्रयत्वात्, शाखा-निषेचनवत् । तैर् एव प्राणादिभिर् ईश्वरोद्देशेन यत् क्रियते, तत् तु सत् महा-फलं भवति, अपृथक्त्वात्, ईश्वरस्य सर्वत्रानुगतत्वात् । तत्र दृष्टान्तः—यत् तरोर् मूल-निषेचनं तद् यथा सर्वस्य स्कन्ध-शाखादेर् अपि भवतीति । \
\
यद् वा, ल्यब्-लोपे पञ्चम्यौ । पृथक्त्वं पर्यालोच्य भेद-दृष्ट्या देहाद्य्-उद्देशेन यत् क्रियते, तद् असत् । अपृथक्त्वं पर्यालोच्येश्वर-दृष्ट्या तैर् एव तेष्व् एव च यत् क्रियते, तत् सद् भवतीति । शेषं समानम् ॥२९॥
**क्रम-सन्दर्भः : **पुरुषस्य तावद् अन्तर् बहिश् च करणं गुण-मयम् एव । तद्-उद्भवयोर् ज्ञान-क्रिययोः कथं नैर्गुण्यम् ? उच्यते—ज्ञान-क्रिया-शक्ती त्रैगुण्य-कार्य-प्राधान्येन भवन्त्यौ गुण-मयत्वेनोच्यते । परमेश्वर-प्राधान्येन तु स्वतो गुणातीते एवेति1तेषां च तेषां च तत्-तद्-युक्तम् एवेत्य् आह—यद् युज्यत इति ।
नृभिः कर्तृभिः असु-प्रभृतिभिः करणैर् जायादिषु यत् युज्यते क्रियते, तद् असत्, सर्व-काल-सर्व-वस्तु-व्यापि-पोषक-शक्तिकं न भवतीति नश्वरम् एव भवतीत्य् अर्थः । कुतः ? पृथक्त्वात् । असु-प्रभृतीनां जायादीनां च स्वतस् तादृश-शक्तिर् नास्त्य् एव, क्षुद्र-शक्तित्वाद् इत्य् अर्थः । असु-प्रभृतिभिर् एव सर्वस्य मूल-निषेचनं सन्तर्पणं यत् क्रियते, तत् तु सर्वस्य भवति । यतः सत्, सर्वदा सर्व-वस्तु-पोषकं भवति । कुतः? अपृथक्त्वात्, सर्वदा सर्वस्यापि पोषकत्वाद् इत्य् अर्थः । जायादीनाम् एव पोषकं भवतीति कियद् ? इत्य् अर्थः। सर्वस्य मूलं श्री-भगवान् एवेति भावः ।
पृथक्त्वात् परमात्मेतराश्रयत्वात् । अपृथक्त्वात् तद्-एकाश्रयत्वाद् इत्य् अर्थः । अत एव युक्तम् एव ज्ञान-क्रियात्मिकाया हरि-भक्तेर् निर्गुणत्वम् । विशेषतस् तस्या गुण-सम्बन्धेन जन्माभावश् चङ्गीकृतः, न तु ब्रह्म-ज्ञानस्येव गुण-सम्बन्धेन जन्म-भाव इत्य् अतोऽसौ भक्तिस् तस्यापि प्रीणनत्वादि-गुणैर् उदाहृता ॥२९॥ [भक्ति-सन्दर्भः १३४2]
विश्वनाथः : तस्मात् फलितम् आह—यद् इति । असवः प्राणा इन्द्रियाणि, वसु धनम् । असु-वस्व्-आदिभिर् यद् देहादिषु युज्यते विनियुज्यते, तद् असत् । प्राणादीनां देहाद्य्-अर्थे यो विनियोगः सोऽसाधुर् इत्य् अर्थः । कुतः ? पृथक्त्वात् शाखा-निषेचनवत् । मूलात् शाखा भिन्ना इति बुद्ध्या यथा मूलं विहाय शाखा निषिच्यन्ते, तथैव भगवन्तं विहाय देहाद्याः परिचर्यन्ते मूढैः । तैर् एव असु-वस्व्-आदिभिर् यद् भगवति क्रियते अस्व्-आदीनां भगवति यो विनियोगः स साधुर् इत्य् अर्थः । कुतः अपृथक्त्वात् । मूल-निषेचनवत् । मूलात् शाखा न भिन्ना इति बुद्ध्या यथा मूलम् एव सिच्यते तथैव भगवान् एव परिचर्यते । तत्-परिचरणं सर्वस्य ब्रह्मादि-स्तम्ब-पर्यन्तस्येत्य् अर्थः । यद् यस्मात् तन् मूल-निषेचनम् ॥२९॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे अमृत-मथने
नवमोऽध्यायः ।
॥ ८.९ ॥
(८.१०)