०८ अमृत-मथने

॥ ८.८.१ ॥

श्री-शुक उवाच—

पीते गरे वृषाङ्केण प्रीतास् तेऽमर-दानवाः ।
ममन्थुस् तरसा सिन्धुं हविर्धानी ततोऽभवत् ॥**

श्रीधरः-

अष्टमे मथ्यमानेऽब्धौ लक्ष्म्या विष्णौ वृतेऽसुरैः ।

धन्वन्तरेर् हृते सोमे मोहिन्य्-उद्भव ईर्यते ॥

हविर्धानी सुरभिः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

मथनोद्भूत-रत्नानां लक्ष्म्या विष्णौ वृतेर्ऽमृते ।

उत्थितेऽथ कृते दैत्यैर् मोहिन्या वृत्तम् अष्टमे ॥ओ॥

हविर्धानी सुरभिः ॥१॥

—ओ)०(ओ**—**

**॥ ८.८.२ ॥ **

ताम् अग्नि-होत्रीम् ऋषयो जगृहुर् ब्रह्म-वादिनः ।
यज्ञस्य देव-यानस्य मेध्याय हविषे नृप ॥**

**श्रीधरः- **देव-यानस्य ब्रह्म-लोक-मार्ग-प्रापकस्य । यज्ञस्य संबन्धिने हविषे ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देव-यानस्य ब्रह्म-लोक-मार्ग-प्रापकस्य ॥२॥

—ओ)०(ओ**—**

**॥ ८.८.३ ॥ **

तत उच्चैःश्रवा नाम हयोऽभूच् चन्द्र-पाण्डुरः ।
तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वर-शिक्षया ॥**

**श्रीधरः- **ईश्वर-शिक्षया प्राग् एव कृतया ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ईश्वर-शिक्षया दैत्यानां मान-वर्धनार्थे प्राग् एव कृतया ॥३॥

—ओ)०(ओ**—**

**॥ ८.८.४ ॥ **

तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
दन्तैश् चतुर्भिः श्वेताद्रेर् हरन् भगवतो महिम् ॥**

**श्रीधरः- **भगवतो यः श्वेताद्रिः कैलासस् तस्य महिं महिमानम् । दन्तैः शिखर-कल्पैर् हरंश् चन्द्रवत् पाण्डुर इत्य् अनुषङ्गः ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भगवतः शम्भोर् यः श्वेताद्रिः कैलासस् तस्य महिं महिमानं दन्तैः शिखर-तुल्यैर् हरन् ॥४॥

—ओ)०(ओ**—**

॥ ८.८.५-७ ॥

ऐरावणादयस् त्व् अष्टौ दिग्-गजा अभवंस् ततः ।
अभ्रमु-प्रभृतयोऽष्टौ च करिण्यस् त्व् अभवन् नृप ॥**1

कौस्तुभाख्यम् अभूद् रत्नं पद्मरागो महोदधेः ।

तस्मिन् हरिः स्पृहां चक्रे वक्षो-ऽलङ्करणे मणौ ॥

ततोऽभवत् पारिजातः सुर-लोक-विभूषणम् ।
पूरयत्य् अर्थिनो योऽर्थैः शश्वद् भुवि यथा भवान् ॥**

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **

ऐरावतादयस् त्व् अष्ट-दिग्-गजा अभवंस् ततः ।

अभ्रमु-प्रमुखा अष्टौ करिण्यस् त्व् अभवन् नृप! ॥

कौस्तुभाख्यम् अभूद् रत्नं पद्म-रागो महोदधेः ।

तस्मिन् मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः ॥

इति क्वचित् पाठः । ततोऽभवत् पारिजात इति ॥५॥

—ओ)०(ओ**—**

**॥ ८.८.८ ॥ **

ततश् चाप्सरसो जाता निष्क-कण्ठ्यः सुवाससः ।
रमण्यः स्वर्गिणां वल्गु-गति-लीलावलोकनैः ॥**

**श्रीधरः- **वल्गुभिर् गत्य्-आदिभिः स्वर्गिणां रमण्यो रति-कर्त्र्यः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गत्य्-आदिभिः रमण्यः रमयित्र्यः ॥७॥

—ओ)०(ओ**—**

**॥ ८.८.९ ॥ **

ततश् चाविरभूत् साक्षाच् छ्री रमा भगवत्-परा ।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा ॥**

**श्रीधरः- **सुदामा पर्वतस् तत्रैकस्यां दिशि जाता सौदामनी । स्फटिकादि-मय-गिरि-शृङ्गेष्व् अधिकं स्फुरन्ती विद्युद् इव कान्त्या दिशो रञ्जयन्ती श्रीः संपत् साक्षान् मूर्ति-धारिणी सती सैव भगवत्-परा रमा आविरभूद् इत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्रीः सम्पत्तिः साक्षान्-मूर्तिमतीत्य् अर्थः । रमा हरिं रमयन्ती हरेः प्रेयसी-रूपा च प्रादुर्भूता । कीदृशी ? भगवती चासौ परा पूर्वस्याः सकाशात् श्रेष्ठेति पूर्वस्या एतद्-विभूति-रूपत्वम् इति भावः । पूर्वा यथा विद्युत् उत्तरायथा सौदामनी स्फटिक-मय-सुदाम-पर्वत-भवत्वात् पूर्वस्याः सकाशाद् अधिक-कान्तिमती । कान्त्येति सम्पत्ति-पक्षे कमिर् इच्छार्थको धातुः । अभिलाषेणेत्य् अर्थः । दिशन्तस्या दिग्-वर्तिनो जनान् रञ्जयन्ती सम्पत्तिर् अस्माकं भूयाद् इति रागवतीः कुर्वती, पक्षे दिशः पूर्वाद्याः कान्त्या स्व-रोचिषा रञ्जयन्ती ॥९॥

—ओ)०(ओ**—**

**॥ ८.८.१० ॥ **

तस्यां चक्रुः स्पृहां सर्वे ससुरासुर-मानवाः ।
रूपौदार्य-वयो-वर्ण-महिमाक्षिप्त-चेतसः ॥**

**श्रीधरः- **तस्या रूपादि-महिम्ना आक्षिप्तं चेतो येषाम् ॥१०॥

**क्रम-सन्दर्भः : **चक्रुः स्पृहाम् इति सम्पद्-अधिष्ठातृत्व-ज्ञानेन तद्-अधिष्ठानान् महा-सम्पल्-लाभः स्याद् इत्य् एवम् एव मत्वा, नान्यथा । ते हि प्रायो महा-भक्ताः । अत एवाग्रे सर्वेषां निज-निजोपायनादि-मय-भक्तिर् एव वर्णनीया । आक्षिप्त-चित्तत्वं विस्मयेनैवेति ज्ञेयम् ॥१०॥

**विश्वनाथः : **तस्यां पूर्वस्यां सम्पद्-रूपायाम् एव स्पृहां न तूत्तरस्याम् । तस्याः श्रियस् त्रि-जगतो जनको जनन्या इति वक्ष्यमाण-वाक्येन तस्या जगज्-जननीत्व-ज्ञापनात् । किं च, तस्या अपि रूपादीनां महिन महिम्ना मा आक्षिप्तानि नैवासक्तानि चेतांसि येषां ते । यतस् ते तस्याः सकाशाद् राज्य-भोगादि-प्रेप्सव इति भावः ॥१०॥

—ओ)०(ओ**—**

**॥ ८.८.११ ॥ **

तस्या आसनम् आनिन्ये महेन्द्रो महद्-अद्भुतम् ।
मूर्तिमत्यः सरिच्-छ्रेष्ठा हेम-कुम्भैर् जलं शुचि ॥**

**श्रीधरः- **भगवद्-वक्षसि स्थितया श्रिया विलोकितानां सुराणां यथा-पूर्वं संपत्-प्राप्तिम् असुराणां च तद् ऊपर्य् अयं वक्तुम् अभिषेकादि-महोत्सव-पूर्वकं ब्रह्मादि-परिहारेण भगवत्-प्राप्ति-प्रकारम् आह—तस्या आसनम् इत्य्-आदिना अथासीद् वारुणीत्य् अतः प्राक्तनेन ग्रन्थेन ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्याश् चेति च-कारात् हरि-प्रेयसी-रूपायाश् च ॥११॥

—ओ)०(ओ**—**

**॥ ८.८.१२ ॥ **

आभिषेचनिका भूमिर् आहरत् सकलौषधीः ।
गावः पञ्च पवित्राणि वसन्तो मधु-माधवौ ॥**

**श्रीधरः- **आभिषेचनिका अभिषेकोचिताः । पञ्च-पवित्राणि पञ्च-गव्यानि । मधु-माधवौ चैत्र-वैशाख-भवं फल-पुष्पादि । पाठान्तरेऽपि द्वन्द्वैक्ये स एवार्थः । मधु-मासे भवं मध्व् इति वा ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आभिषेचनिका अभिषेकोचिताः । पञ्च-पवित्राणि पञ्च-गव्यानि । मधु-माधवौ चैत्र-वैशाख-भवं फल-पुष्पादि । मधु-माधवम् इति पाठे मधु-मासोद्भवं मधु ॥१२॥

—ओ)०(ओ**—**

**॥ ८.८.१३ ॥ **

ऋषयः कल्पयां चक्रुर् आभिषेकं यथा-विधि ।
जगुर् भद्राणि गन्धर्वा नट्यश् च ननृतुर् जगुः ॥**

**श्रीधरः- **अभिषेकम् अभिषेकोचितं विधिम् । नट्यो नटानां स्त्रियः ॥१३॥

**क्रम-सन्दर्भः : **नाट्य इति नटस्येयम् इत्य् अर्थे । नट्य इति पाठश् चेन् नर्तक्य इत्य् एव व्याख्यायेत ॥१३॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.१४ ॥ **

मेघा मृदङ्ग-पणव- मुरजानक-गोमुखान् ।
व्यनादयन् शङ्ख-वेणु- वीणास् तुमुल-निःस्वनान् ॥**

**श्रीधरः- **शङ्ख-वेणु-वीणाश् च व्यनादयन् । तुमुलो निःस्वनो येषां तान् मृदङ्गादीन् ॥१४॥

**क्रम-सन्दर्भः : **मेघा वसन्तवत् तद्-अधिष्ठातृ-देवाः ॥१४॥

**विश्वनाथः : **श्रियम् इति सम्पद्-रूपां, देवीति दिवु क्रीडायां भगैश्वर्य-वितरणेन क्रीडन्तीं, पद्मकरम् इति हरि-प्रेयसी-रूपां, सतीं पति-व्रताम् ॥१५॥

—ओ)०(ओ**—**

**॥ ८.८.१५ ॥ **

ततोऽभिषिषिचुर् देवीं श्रियं पद्म-करां सतीम् ।
दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैर् द्विजेरितैः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **श्रियम् इति सम्पद्-रूपां, देवीति दिवु क्रीडायां भगैश्वर्य-वितरणेन क्रीडन्तीं, पद्मकरम् इति हरि-प्रेयसी-रूपां, सतीं पति-व्रताम् ॥१५॥

—ओ)०(ओ**—**

**॥ ८.८.१६ ॥ **

समुद्रः पीत-कौशेय- वाससी समुपाहरत् ।
वरुणः स्रजं वैजयन्तीं मधुना मत्त-षट्पदाम् ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पीत-कौशेये इति अभिषेकानन्तरं पीत-वस्त्रस्यैव विहितत्वात् ॥१५॥

—ओ)०(ओ**—**

**॥ ८.८.१७ ॥ **

भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः ।
हारं सरस्वती पद्मम् अजो नागाश् च कुण्डले ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.१८ ॥ **

ततः कृत-स्वस्त्ययनोत्पल-स्रजं

नदद्-द्विरेफां परिगृह्य पाणिना ।

चचाल वक्त्रं सुकपोल-कुण्डलं

सव्रीड-हासं दधती सुशोभनम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उभय-रूपा या एव तस्याः श्री-भगवान् एवाश्रय इत्य् आह—तत इति । कृतम् अनादित एव स्वस्ति सर्व-काल-मङ्गलं नारायण-वक्ष एवायनम् आस्पदं यस्याः सा स्व-प्रतिच्छवि-रूपा गुण-मयीव स्थिराः सम्पदो ब्रह्मादिभ्यो ददानापि स्वयं गुणातीता चिन्मय-सम्पद्-रूपा लक्ष्मीः श्रीः नारायणम् एकम् एवाश्रित्य सदा वर्तते । तथैवानादित एव कम् अपि गुणं नोपाधीकृत्य स्वभावत एव तस्मिन् प्रेमवती तत् सर्वेन्द्रिय-सुख-सम्पादयित्री प्रेयसी-रूपापि वर्तत इत्य् अर्थः । तद् अपि द्विविधैव लक्ष्मीः समुद्रं जनकीकृत्य प्रादुर्भूता । पुनर् एकीभूता सती स्व-नित्य-प्रियं श्री-नारायणं स्वयं वरीतुं चचाल ॥१८॥

—ओ)०(ओ**—**

**॥ ८.८.१९ ॥ **

स्तन-द्वयं चातिकृशोदरी समं

निरन्तरं चन्दन-कुङ्कुमोक्षितम् ।

ततस् ततो नूपुर-वल्गु शिञ्जितैर्

विसर्पती हेम-लतेव सा बभौ ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततस् तद्-अनन्तरं ततस् तत्र महा-सदसि विसर्पती हेम-लता जङ्गमा स्वर्ण-वल्लवी ॥२०॥

—ओ)०(ओ**—**

**॥ ८.८.२० ॥ **

विलोकयन्ती निरवद्यम् आत्मनः

पदं ध्रुवं चाव्यभिचारि-सद्-गुणम् ।

गन्धर्व-सिद्धासुर-यक्ष-चारण-

त्रैपिष्टपेयादिषु नान्वविन्दत ॥

**श्रीधरः : **पदम् आश्रयम् । ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तो गुणा यस्मिंस् तं नान्व् अविन्दत । क्वचित् कस्यचिद् दोषस्य सद्-भावात् ॥२०॥

**क्रम-सन्दर्भः : ततस् तद्- [श्री भगवतः] गुणानाम् अन्यदीयानाम् इव दोष-मिश्रत्व-निषेध-दर्शनेन अन्य-शिक्षार्थं श्रियश् चरितम् आह—**विलोकयन्तीति ॥२०॥

**विश्वनाथः : **किं च, तयोर् एकीभूतयोर् लक्ष्म्योर् मध्ये या सम्पद्-रूपा सा लोके स्व-प्रेयसो भगवतः सर्वत एवोत्कर्षं ख्यापयितुम् तत्र नित्य-निरुपाधि-प्रेमवत्य् अपि अन्यत्र गुण-दोष-विवेचन-पूर्वकम् अन्यस्याः स्वयंवराया इव स्वस्यापि तत्रैव गुणोत्कर्षोपाधिकं स्वयं-वरणं दर्शयामासेत्य् आह—विलोकयन्तीति । गन्धर्वादिषु आत्मनः स्वस्य पदम् आस्पदं जनं कम् अपि नान्वविन्दत, कीदृशम् ? निरवद्यं निर्दोषं, अथ च अव्यभिचारिणः सदैव स्थायिनः सन्तः कल्याणवत्त्वात् श्रेष्ठा गुणा यत्र तत्, ध्रुवं नित्यम् ॥२०॥

—ओ)०(ओ**—**

**॥ ८.८.२१ ॥ **

नूनं तपो यस्य न मन्यु-निर्जयो2

ज्ञानं क्वचित् तच् च न सङ्ग-वर्जितम् ।

कश्चिन् महांस् तस्य न काम-निर्जयः

स ईश्वरः किं परतो व्यपाश्रयः ॥3

**श्रीधरः : **तद् एवाह—नूनम् इति त्रिभिः । मन्यु-निर्जयो नास्ति दुर्वासः-प्रभृतिषु । गुरु-शुक्रादिषु सङ्ग-वर्जितं ज्ञानं नास्ति । महत्त्वेऽपि ब्रह्म-सोमादौ न काम-निर्जयः । परतो व्यपाश्रयः परापेक्ष इन्द्रादिः स किम् ईश्वरः ॥२१॥

**क्रम-सन्दर्भः : **अन्येषां स्वल्प-गुणत्वेऽपि दोष-मिश्रताम् आह—नूनम् इत्य्-आदि-त्रयेण । यस्य दुर्वास-आदेः । क्वचिद् दैत्य-गुरु-शुक्रादौ, कश्चिद् ब्रह्म-सोमादिः । यः परतो व्यपश्रय-परापेक्ष इन्द्रादिः । स किम् ईश्वरः ?4 अत्र तप-आदिभिर् अपि न साम्यं विवक्षितम्, असाम्य-प्रसिद्धेः । यथोक्तम्—इमे चान्ये च भगवन् नित्या यत्र [भा।पु। १.१६.३०] इत्य्-आदौ, प्रार्थ्या महत्त्वम् इच्छद्भिर् इति । किन्त्व् अन्यदीय-तप-आदि-लेशानां सताम् अपि दोषान्तरोपरक्तत्वम् इत्य् एवम् अत्यन्तासाम्यम् एव विवक्षितम् । परतो व्यपाश्रय इति गुण-साम्यम् अपि प्रत्याख्यातम् ॥२१॥ [प्रीति-सन्दर्भः ११९]

**विश्वनाथः : **तत्र तत्र वरण-व्यवसायानुद्भवे स-दोष-प्राकृत-गुणत्वम् एव हेतुर् इति सम्पद्-रूपा लक्ष्मीः स्व-गतम् आह—नूनम् इति त्रिभिः । तस्य दुर्वासः-प्रभृतेर् मन्यु-निर्जयो लोभ-तपसो वैयर्थ्यम् । ज्ञानं क्वचिद् बृहस्पत्य्-आदिषु सङ्ग-वर्जितं नेति ज्ञानस्य वैयर्थ्यम् । महान् ब्रह्मा, न काम-निर्जय इति महत्त्वस्य वैयर्थ्यं, यः परतः शत्रुभ्यो हेतोर् व्यपाश्रयः व्यपगतास्पदो वारं वारं भवति स किम् इन्द्रादिर् ईश्वरो भवति ? नैवेत्य् अर्थः ॥२१॥

—ओ)०(ओ**—**

**॥ ८.८.२२ ॥ **

धर्मः क्वचित् तत्र5** न भूत-सौहृदं**

त्यागः क्वचित् तत्र6** न मुक्ति-कारणम् ।**

वीर्यं न पुंसोऽस्त्य् अज-वेग-निष्कृतं

न हि द्वितीयो गुण-सङ्ग-वर्जितः ॥7

**श्रीधरः : **न भूत-सौहृदं परशुरामादिषु । न मुक्ति-कारणं त्यागः शिबि-प्रभृतिषु । पुंसः कार्तवीर्यादेर् वीर्यम् अस्ति । अज-वेग-निष्कृतं कालोगेन परिहृतं तु न भवति । गुण-सङ्ग-वर्जितः सनकादिर् द्वितीयो मम वरो न हि, समाधि-निष्ठत्वात् ॥२२॥

**क्रम-सन्दर्भः : **धर्म इति । क्वचित् परशुरामादि-तुल्ये तदानीन्तने न भूत-सौहृदम् । शिवि-राज-तुल्यो न मुक्ति-कारणं त्यागः । पुंसः कार्तवीर्यादि-तुल्यस्य वीर्यम् अस्ति, किन्त्व् अजवेग-निष्कृतं काल-वेग-परिहृतं न भवति 8।यतस् तेषां तत्-तद्-गुणत्वम् अपि माया-गुण-कृतम् एव, न तु तद्-अतीत-तत्-तद्-गुणत्वम् इति परामृशति—न हीति । हि यस्मात् । द्वितीयः श्री-मुकुन्दाद् अन्यः । अनेन सनकादय आत्मारामा अपि परिहृताः, तेषां शम-दमादि-गुणानां मायिकत्वात् । तथा शिवोऽपि परिहृतः, शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भा।पु। १०.८८.३] इति, हरिर् हि निर्गुणः साक्षात् [भा।पु। १०.८८.५] इत्य्-आद्य्-उक्तेः । “न हि द्वितीयः” इत्य् अस्यायम् एवार्थः । यद् वा, यो वा कश्चिद् गुण-सङ्ग-वर्जितोऽस्ति, सोऽपि द्वितीयो मुकुन्दस्य तुल्य-गुणो न भवतीत्य् अर्थः ॥२२॥ [प्रीति-सन्दर्भः ११९]

विश्वनाथः : क्वचित् कर्मिषु शुक्रादिषु धर्मः कर्मित्वाद् असुर-पुरोहितत्वाच् च, न भूत-सौहृदम् इति धर्मस्य वैयर्थ्यम् । त्यागोऽन्नादि-दानं दक्षादिषु तद्-दानस्य मुक्ति-कारणत्वाभावाद् वैयर्थ्यम् । वीर्यं बलं पुंसः शुम्भ-निशुम्भादेः । अजवेग-निष्कृतं कालवेग-परिहृतं न भवतीति बलस्य वैफल्यम् । गुण-सङ्ग-वर्जितः प्राकृताप्राकृत-विषयासक्ति-मात्र-रहितः सनकादिर् न द्वितीयो न ह्य् अमरस् तत्र यद् अप्राकृत-सौरूप्य-सौरभ्यादेर् वैफल्यापत्तेः ॥२२॥

—ओ)०(ओ**—**

**॥ ८.८.२३ ॥ **

क्वचिच् चिरायुर् न हि शील-मङ्गलं

क्वचित् तद् अप्य् अस्ति न वेद्यम् आयुषः ।

यत्रोभयं कुत्र च सोऽप्य् अमङ्गलः

सुमङ्गलः कश्चन काङ्क्षते हि माम् ॥9

**श्रीधरः : चिरायुष्य् अपि मऋकण्डेयादौ शील-मङ्गलं नास्ति, इन्द्रिय-दमन-शीलत्वात् । क्वचित् तद् अप्य् अस्ति हिरण्यकशिपु-प्रभृतौ, आयुषः स्थैर्यं न वेद्यं दुर्ज्ञातम्, भगवद्-द्वेषेणाकस्माद् एव मृत्यु-संभवात् । यत्र कुत्र च श्री-रुद्रे मार्कण्डेयादि-वद् इन्द्रिय-दमनाद्य्-अभावाच् छील-मङ्गलं चायुर् निश्चयश् चेत्य् उभयम् अस्ति न चान्यः पूर्वोक्तः कश्चिद् दोषः । तथापि सोऽप्य् अमङ्गलः श्मशान-वासाद्य्-अमङ्गल-चेष्टितः । श्री-मुकुन्दं लक्षी-कृत्याह—कश्चेति । कश्चित् सुमङ्गलो निरवद्यश् च स तु मां न हि काङ्क्षते—**आत्मारामत्वात् ॥२३॥

**क्रम-सन्दर्भः : **अथ प्रकारान्तरेण शिवं परिहर्तुम् उपक्रमते—क्वचिद् इति । मार्कण्डेयादौ चिरायुश् चिर-जीविता, शील-मङ्गल-शब्देनात्र भोग उच्यते—इन्द्रिय-दमन-शीलत्वाद् इति टीकायां हेतु-विन्यासात् अभोगिनोऽमङ्गल-स्वभावत्वेन लोके नामाग्रहण-दर्शनाच् च । यद् वा, क्वचित् मय-दानवादौ चिरजीवितास्ति शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्य् अर्थः । असुर-स्वभावत्वाद् एवं क्वचित् बलि-प्रभृतौ शील-मङ्गलम् अप्य् अस्ति, किन्त्व् आयुषो वेद्यं वेदनं नास्ति मरणानिश्चयात् । यत्र शिवे मङ्गल-स्वभावो नित्यत्वाच् चायुषो वेद्यत्वं चेत्य् उभयम् अप्य् अस्ति सोऽप्य् अमङ्गलः । बहिः-श्मशान-वासाद्य्-अमङ्गल-चेष्टितः।

श्री-मुकुन्दं लक्ष्यीकृत्याह—यः कश्चन कोऽपि तत्-तद्-गुणातिक्रम्य् अनन्त-गुणत्वात्10 तद्-दोष-हीनत्वाच् च । सुमङ्गलोऽतिशयेन सर्वेषां मङ्गल-निधान-रूपः, स तु मां स्वरूपेण परमानन्द-रूपां शक्त्या11 च सर्व-गुण-सम्पत्ति-दायिनीम् अपि न हि काङ्क्षति । स्वत12 एव स्वरूप-गुण-सम्पत्तिभिः पूर्ण इत्य् अर्थः । अथ च प्रेम-वशोऽसौ प्रेमवतीं मां कथं नाकाङ्क्षेत् ? इत्य् अभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि निश्चितं मां काङ्क्षतीत्य् अपि भावितम् । [प्रीति-सन्दर्भः ११९]

इदम् अत्र तत्त्वम्—परमानन्द-रूपे तस्मिन् गुणादि-सम्पल्-लक्षणानन्त-शक्ति-वृत्तिका स्वरूप-शक्तिर् द्विधा विराजते—तद्-अन्तरेऽनभिव्यक्त-निज-मूर्तित्वेन, तद्-बहिर् अप्य् अभिव्यक्त-लक्ष्म्य्-आख्य-मूर्तित्वेन । इयं च मूर्तिमती सती सर्व-गुण-सम्पद्-अधिष्ठात्री भवति । ततः स्वस्मिन् परमानन्दत्वस्य सर्व-गुण-सम्पत्तेश् च स्वरूप-सिद्ध-परम-पूर्णत्वात् उभयथापि न तां पृथग्-भूय स्थितां मूर्तिमतीम् अपेक्षते, यथा खल्व् अन्यः। किन्तु भक्त-वशता-स्वभावेन तां प्रेमवतीम् अपेक्षत एवेति ॥२३॥ [प्रीति-सन्दर्भः १२०]

विश्वनाथः : क्वचिद्बलि-प्रभृतिषु चिरम् आयुः किन्तु शील-मङ्गलानि न, तत्र आसुर-स्वभावेन शीलाभावः, इन्द्र-शत्रुकत्वेन मङ्गलाभावश् च । क्वचिन् मनु-पुत्र-पौत्रादिषु तत् शील-मङ्गलं किन्त्व् आयुषो न वेद्यं न ज्ञानं मनुष्य-जातित्वेनाचिरायुष्ट्वात् । यत्र कुत्रचिच् च उभय-सौशील्य-विपद्-अभाववत्त्वं चिरायुष्ट्वं च स च महादेवः अमङ्गलः श्मशान-वासाद्य्-अमङ्गल-चेष्टितः । भगवन्तं लक्ष्यीकृत्याह—शोभनानि मङ्गलान्य् एव यत्रेति पूर्वोक्तानां दोषाणां स्वरूपत एवामङ्गलत्वात् गुणानां च प्राकृतानां नश्वरत्वेन कल्याणवत्त्वाभावात् ते गुणा दोषाश् च नैव सुमङ्गला इति भावः ।

किं च, पूर्व-पूर्ववद् अस्मिन्न् अप्य् एको दोषोऽस्तीति व्याज-स्तुत्या दोषम् आह—न काङ्क्षते मां नापेक्षत इति निरपेक्षत्व-लक्षणः सर्व-विलक्षणो महा-गुणोऽत्रैव दृष्ट इति भावः ॥२३॥

—ओ)०(ओ**—**

**॥ ८.८.२४ ॥ **

एवं विमृश्याव्यभिचारि-सद्-गुणैर्

वरं निजैकाश्रयतयागुणाश्रयम् ।13

वव्रे वरं सर्व-गुणैर् अपेक्षितं

रमा मुकुन्दं निरपेक्षम् ईप्सितम् ॥14

मध्वः : अनाद्य्-अनन्त-कालेऽपि विष्णुम् एवाश्रिता रमा ।

अन्येषां ज्ञापनार्थाय दोषानुक्त्वेतरां जहौ ॥ इति च ॥२४॥

**श्रीधरः : **एवं विमृश्य रमा निरपेक्षम् अपि मुकुन्दम् एव वरं वव्रे । तत् किम् ? अव्यभिचारिभिः सद्भिर् धर्म-ज्ञानादिभिर् गुणैर् निजैकाश्रयतया च नैरपेक्ष्येण वरं सर्वोत्तमम् । तत्र हेतुः—अगुणाश्रयं प्रकृति-गुणातीतम् । पाठान्तरेऽप्य् अयम् एवार्थः । अत एव स्वस्य ईप्सितम् । किं च, सर्वैर् गुणैर् अणिमादिभिर् अपेक्षितं वृतम् । अयं भावः, यद्य् अपि स्वयम् आत्मारामत्वेनान्य-निरपेक्षस् तथाप्य् आश्रिता अणिमादि-सिद्धीर् यथा नोपेक्षते, तद्वन् माम् अपि नोपेक्षेत । तावतैव तत्-सेवयाऽहं कृतार्थ स्यां, किम् अन्यैः प्राकृतैः ? इति तम् एव वृतवतीति ॥२४॥

**क्रम-सन्दर्भः : **प्रकरणं निगमयति—एवम् इति । मुकुन्दं वरं वव्रे इत्य् अन्वयः। तं विशिनष्टि—अव्यभिचारिभिः सद्भिर् निर्दोषैश् च गुणैर् वरं सर्वोत्तमं निजैकाश्रयतया अन्य-निरपेक्षत्वेनैव च गुणाश्रयम् । स्वरूप-सिद्ध-तत्-तद्-गुणम् इत्य् अर्थः । अत एव तेषां गुणानां प्रकृति-सम्बधित्वम् अपि खण्डितं स्वतः परमानन्द-घन-रूपत्वात् सर्व-गुणैर् अपेक्षितं स्वयं निरपेक्षम् । अत एव निजाभीप्सितम् इति ।

यद् वा, एवं विमृष्य वव्रे विमर्शनम् एवानुवदति—अव्यभिचारीति । निरपेक्षोऽप्य् अप्राकृताव्यभिचार-सद्गुणत्वाद् भक्त-वत्सलतया मामङ्गीकरिष्यत्य् एवेति भावः । न तु योग्य एवायं तस्य महतो महा-गुणः भवत्यास् त्व् अयोग्यायास् तद्-वरणं न योग्यं तत्राह—सर्वैर् गुणैः प्राकृतैर् अप्य् अपेक्षितं मायांश-भूताभिस् तत्-तद्-अधिष्ठातृ-देवीभिः स्व-समृद्धये समाश्रयतेऽसौ किम् उत मयेत्य् अर्थः ॥२४॥ [प्रीति-सन्दर्भ १२०]

**विश्वनाथः : **एवं विमृश्य रमा निरपेक्षम् अपि मुकुन्दम् एव वरं वव्रे । ननु स तां नापेक्षताम् ? तत्राह—सर्वैर् अणिमादिभिर् गुणैर् अपेक्षितम् । अयं भावः—तस्या यथा यः स्वयं निरपेक्षोऽपि स्वम् अपेक्षमाणा अणिमादि-सिद्धीर् नोपेक्षते, तथा माम् अपि नोपेक्षित्ष्यते, यतोऽयं निरपेक्षो यथा तथा निरुपेक्षश् चेत्य् अत एतत्-सेवयैव कृतार्थीभूयासं, किम् अन्यैः प्राकृतैः ? इति । अत एवाव्यभिचारिणो व्याभिचारित्वाद् एव नित्याः सन्तः श्रेष्ठा ये गुणा ऐश्वर्यादयस् तैर् वरं श्रेष्ठम् । अगुणाश्रयं प्रकृति-गुणातीतम् । निजस्य स्वस्य एकाश्रयतया वव्रे ॥२४॥

—ओ)०(ओ**—**

**॥ ८.८.२५ ॥ **

**तस्यांस-देश उशतीं नव-कञ्ज-मालां **

माद्यन्-मधुव्रत-वरूथ-गिरोपघुष्टाम् ।

तस्थौ निधाय निकटे तद्-उरः स्व-धाम

सव्रीड-हास-विकसन्-नयनेन याता ॥

**श्रीधरः : **तद् एवाह—तस्यांस-देशे कमनीयां नव-कञ्ज-मालां निधाय तद् अनुग्रहं प्रतीक्षमाणा तूष्णीं तस्य निकटे तस्थौ । कथं-भूतां मालाम् ? माद्यन्तो ये मधु-व्रतास् तेषां वरूथस्य गिरा उपद्युष्टां नादिताम् । कथं-भूता श्रीः ? स-व्रीड-हासेन विकसन्-नयनं तेन तस्योरः-स्व-धाम याता सती । वक्षः-प्रतीक्षमाणा तस्थाव् इत्य् अर्थः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उशतीं कमनीयां मालां निधाय तुष्णीं तस्य निकटे प्रथमं तस्थौ । ततस् तद्-अभिप्रायम् अभिलक्ष्य तस्य उरो वक्षः स्वीयं धाम समस्त-द्रष्टृ-लोकालक्ष्यतयैव याता ॥२५॥

—ओ)०(ओ**—**

॥ ८.८.२६ ॥

तस्याः श्रियस् त्रि-जगतो जनको जनन्या

वक्षो निवासम् अकरोत् परमं विभूतेः ।

श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन

यत्र स्थितैधयत साधिपतींस् त्रि-लोकान् ॥

**श्रीधरः : **तल्-लिङ्गैर् विष्णु-प्रतिपादकैः । अवितथैर् यथार्थैः ॥२६॥

**चैतन्य-मत-मञ्जुषा : **तस्याः श्रिय इत्य्-आदि । त्रिजगतो जनक इत्य् अनेन तस्या अपि त्रिजगतो जननीत्वम् आयातम् । तस्याः श्रियो निवासं स्वं वक्षोऽकरोत् । ननु षष्ठे मन्वन्तरे त्व् अजित-रूपी मन्वन्तरावतारः क्षीरोद-मथनं चकार । तत आविर्भूतां श्रियं स खलु वक्षसि दधाव् इत्य् आयातम् एव । किन्तु पूर्वं पूर्वं यत् कथितं, चलयन् सह-श्रीः इत्य्-आदिना, तत्र तत्र श्रियो नित्यत्वेन स्थितायाः कथम् आकस्मिकः पुनर् आविर्भावः ? सत्यम्, अत एव पूर्वं वैकुण्ठं नैश्रेयस-वन-वर्णने15 लक्ष्म्या अनेक-विधत्वं निरूपितम् । तद् एवात्र सङ्गमनीयम् ॥२६॥

**क्रम-सन्दर्भः : **श्री-भगवान् अपि तादृश-तद्-भक्त्य्-अनुभवेन जातानुरागस् तत्-परमाश्रयं प्राप्य समृद्ध्या सर्वान् संवर्धयामासेत्य् आह—तस्याः श्रिय इति ॥२६॥

विश्वनाथः : द्विविधाया लक्ष्म्यास् तत्र वासं व्यवस्थयैवाह—तस्याः प्रसिद्धाया हरेः प्रेयसी-रूपायास् त्रिजगतो जनन्या वक्ष एव निवासम् अकरोत् । तथैव विभूतेः सम्पद्-रूपाया अपि वक्षः परमं श्रेष्ठं सार्वकालिकं च निवासम् अकरोत् । तेन ब्रह्मेन्द्राद्याः खलु विभूति-रूपाया असार्वदिकाः गौणाश् च निवासाः स्युर् इति ध्वनितम् । एतद् एव स्पष्टयति—श्रीः सम्पद्-रूपा यत्र वक्षसि स्थिता एव स्वाः प्रजा ब्रह्मेन्द्राद्या ऐधयत अबद्धयतेति ब्रह्मेन्द्रादिषु सम्पद्-रूपाया विभूतयः स्थिता इति व्यञ्जितम् । प्रजा एवाह साधिपतीन् इति ॥२६॥

—ओ)०(ओ**—**

**॥ ८.८.२७ ॥ **

शङ्ख-तूर्य-मृदङ्गानां वादित्राणां पृथुः स्वनः ।
देवानुगानां सस्त्रीणां नृत्यतां गायताम् अभूत् ॥**

**श्रीधरः : **तल्-लिङ्गैर् विष्णु-प्रतिपादकैः । अवितथैर् यथार्थैः ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.२८-२९ ॥ **

ब्रह्म-रुद्राङ्गिरो-मुख्याः सर्वे विश्व-सृजो विभुम् ।
ईडिरेऽवितथैर् मन्त्रैस् तल्-लिङ्गैः पुष्प-वर्षिणः ॥**

श्रियावलोकिता देवाः सप्रजापतयः प्रजाः ।
शीलादि-गुण-सम्पन्ना लेभिरे निर्वृतिं पराम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.३० ॥ **

निःसत्त्वा लोलुपा राजन् निरुद्योगा गत-त्रपाः ।
यदा चोपेक्षिता लक्ष्म्या बभूवुर् दैत्य-दानवाः ॥**

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **यदा लक्ष्म्योपेक्षिताः, तदा निःसत्त्वादयो बभूवुर् इत्य् अन्वयः ॥३०॥

—ओ)०(ओ**—**

**॥ ८.८.३१ ॥ **

अथासीद् वारुणी देवी कन्या कमल-लोचना ।
असुरा जगृहुस् तां वै हरेर् अनुमतेन ते ॥**

**श्रीधरः, विश्वनाथः : **वारुणी वरुण-दैवतां, यद्-अन्नं तन् मयी सुरा ॥३१॥

**क्रम-सन्दर्भः : **वारुणी तन्-नाम्न्याः सुराया अधिष्ठात्री ॥३१॥

—ओ)०(ओ**—**

**॥ ८.८.३२ ॥ **

अथोदधेर् मथ्यमानात् काश्यपैर् अमृतार्थिभिः ।
उदतिष्ठन् महाराज पुरुषः परमाद्भुतः ॥**

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **अथेति सार्ध-त्रिकम् ॥३२॥

—ओ)०(ओ**—**

**॥ ८.८.३३ ॥ **

दीर्घ-पीवर-दोर्-दण्डः कम्बु-ग्रीवोऽरुणेक्षणः ।
श्यामलस् तरुणः स्रग्वी सर्वाभरण-भूषितः ॥**

**श्रीधरः : **दीर्घौ पीवरौ दोर्दण्डौ यस्य । कम्बु-ग्रीवः शङ्ख-नाभिर् इव त्रि-रेखा सुवृत्ता ग्रीवा यस्य ॥३२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.३४ ॥ **

पीत-वासा महोरस्कः सुमृष्ट-मणि-कुण्डलः ।

स्निग्ध-कुञ्चित-केशान्त- सुभगः सिंह-विक्रमः ।
अमृतापूर्ण-कलसं बिभ्रद् वलय-भूषितः ॥**

**श्रीधरः : **स्निग्धः कुञ्चितः केशानाम् अन्तो यस्य ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.३५ ॥ **

स वै भगवतः साक्षाद् विष्णोर् अंशांश-सम्भवः ।
धन्वन्तरिर् इति ख्यात आयुर्-वेद-दृग् इज्य-भाक् ॥**

**मध्वः- **तेषां सत्याच् चालनार्थं हरिर् धन्वन्तरिर् विभुः ।

समर्थोऽप्य् असुराणां तु स्व-हस्ताद् अमुचत् सुधाम् ॥ इति च ॥३४॥

**श्रीधरः : **इज्य-भाक् यज्ञ-भाग-भोक्ता । अमृतेन आभृतं परिपूर्णम् ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इज्य-भाक् यज्ञ-भाग् भोक्ता ॥३४॥

—ओ)०(ओ**—**

**॥ ८.८.३६ ॥ **

तम् आलोक्यासुराः सर्वे कलसं चामृताभृतम्16** ।**

लिप्सन्तः सर्व-वस्तूनि कलसं तरसाहरन् ॥17

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**सर्व-वस्तूनि लिप्सन्त इति । अमृते पीते बलादि-प्राप्त्या सर्वाण्य् एव वस्तूनि प्राप्तानि स्युर् इत्य् अभिप्रायात् । अमृतेनाभृतं पूर्णम् ॥३५॥

—ओ)०(ओ**—**

**॥ ८.८.३६-३८ ॥ **

नीयमानेऽसुरैस् तस्मिन् कलसेऽमृत-भाजने ।
विषण्ण-मनसो देवा हरिं शरणम् आययुः ॥**

इति तद्-दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत् ।
मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्व-मायया ॥**

मिथः कलिर् अभूत् तेषां तद्-अर्थे तर्ष-चेतसाम् ।
अहं पूर्वम् अहं पूर्वं न त्वं न त्वम् इति प्रभो ॥**

**श्रीधरः : **मिथो दैत्यानां परस्परं कलहोत्पादनेन, योग-मायया च मोहिन्या वोऽर्थं साधयिष्यामि । अतो मा खिद्यतेत्य् आहेति शेषः । तद् एवाह—मिथ इति । तर्षः कामस् तद्-युक्तानि चेतांसि येषाम् । इत्य् एवं सम-बलानां कलिर् अभूत् ॥३६-३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मिथो रहः अन्यालक्षितं यथा स्यात् तथा मिथोऽन्योन्यं रहस्य् अपीत्य् अमरः। तर्ष-चेतसां मनो-रथ-युक्त-मनसां तत्र सम-बलाः परस्परम् आहुः । अहं पूर्वं ग्रहीष्यामि कुलीनत्वात् । न त्वं रे प्राप्तुम् अर्हसि दुष्कूल इति वीप्सया ॥३८॥

—ओ)०(ओ**—**

**॥ ८.८.३९ ॥ **

देवाः स्वं भागम् अर्हन्ति ये तुल्यायास-हेतवः ।
सत्र-याग इवैतस्मिन्न् एष धर्मः सनातनः ॥**

**श्रीधरः : **दुर्बलानां त्व् आक्रोश-प्रकारम् आह—देवा इति द्वाभ्याम् । ये देवास् तुल्येनायासेन हेतवः साधकाः । तुल्य आयासो हेतुश् च धनादिर् येषाम् इति वा । सत्र-यागे यथा सर्वेषां समं फलं तद्वत् । तथा च श्रुतिः—ऋद्धि-कामाः सत्रम् आसीरन् इति, येयजमानास् ते ऋत्विजः इति च ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दुर्बलानां त्व् आक्रोश-प्रकारम् आहद्वाभ्याम् । ये देवास् तुल्येनायासेन मन्थन-श्रमेण हेतवः । अमृत-साधकाः सत्र-यागे यथा सर्वेषां समं फलं, तद्वत्। तथा च श्रुतिः—ऋद्धि-कामाः सत्रम् आसीरन् इति, येयजमानास् ते ऋत्विजः इति च ॥३९॥

—ओ)०(ओ**—**

**॥ ८.८.४१ ॥ **

इति स्वान् प्रत्यषेधन् वै दैतेया जात-मत्सराः ।
दुर्बलाः प्रबलान् राजन् गृहीत-कलसान् मुहुः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.४२ ॥ **

एतस्मिन्न् अन्तरे विष्णुः सर्वोपाय-विद् ईश्वरः ।
योषिद्-रूपम् अनिर्देश्यं दधार-परमाद्भुतम् ॥**

**श्रीधरः : **तद् रूपं वर्णयति पञ्चभिः । प्रेक्षणीयम् उत्पलम् इव श्यामम् । सर्वेष्व् अवयवेषु सुन्दरम् । समानयोः कर्णयोर् आभरणे यस्मिन् । सुकपोलं च तद् उत्कृष्ट-नासिकं चाननं यस्मिन् ॥४२॥

**क्रम-सन्दर्भः : **एतस्मिन्न् इति षट्कम् ॥४२॥

**विश्वनाथः : **अनिर्देश्यं निर्देष्टुं वर्णयितुम् अशक्यम् ॥४२॥

—ओ)०(ओ**—**

**॥ ८.८.४३ ॥ **

प्रेक्षणीयोत्पल-श्यामं सर्वावयव-सुन्दरम् ।
समान-कर्णाभरणं सुकपोलोन्नसाननम् ॥**

**श्रीधरः : **नव-यौवन-निर्वृत्तयोः स्तनयोर् भारेण च कृशम् उदरं यस्मिन् ॥४३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ**—**

**॥ ८.८.४४ ॥ **

नव-यौवन-निर्वृत्त- स्तन-भार-कृशोदरम् ।
मुखामोदानुरक्तालि- झङ्कारोद्विग्न-लोचनम् ॥**

**श्रीधरः : **सुष्ठु ग्रीवा यस्मिन्, कण्ठे आभरणं यस्मिंस् तच् च तच् च । शोभना ग्रीवा येन तत् कण्ठाभरणं यस्मिन्न् इति वा । सुभुजयोर् अङ्गदाभ्यां भूषितम् ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नव-यौवनेन हेतुना निःशेषेण वृत्तौ वर्तुलो यौ स्तनौ तयोर् भारेणैव कृशम् उदरं यस्य तत् ॥४४॥

—ओ)०(ओ**—**

**॥ ८.८.४५-४६ ॥ **

बिभ्रत् सुकेश-भारेण मालाम् उत्फुल्ल-मल्लिकाम् ।
सुग्रीव-कण्ठाभरणं सु-भुजाङ्गद-भूषितम् ॥**

विरजाम्बर-संवीत- नितम्ब-द्वीप-शोभया ।
काञ्च्या प्रविलसद्-वल्गु- चलच्-चरण-नूपुरम् ॥**

**श्रीधरः : **विरजाम्बरेण संवीतो नितम्ब एव द्वीपो विशालत्वात् तत्र शोभा यस्यास् तया काञ्च्या प्रकर्षेण विलसत् । वल्गु यथा भवत्य् एवं चलतोश् चरणयोर् नूपुरे यस्मिन् ॥४५॥

**क्रम-सन्दर्भः : **उद्दीपयन् मुहुर् इति ईश्वरे इति पूर्वेणान्वयः ॥४६॥

विश्वनाथः : स्व-केश-भारेण सह विरजाम्बर-संवीते नितम्ब-रूपे द्वीपे शोभा यतस् तया काञ्च्या प्रविलसत्, वल्गु चलतोश् चरणयोर् नूपुरे यत्र तत् ॥४५॥

—ओ)०(ओ**—**

**॥ ८.८.४७ ॥ **

सव्रीड-स्मित-विक्षिप्त- भ्रू-विलासावलोकनैः ।
दैत्य-यूथप-चेतःसु कामम् उद्दीपयन् मुहुः ॥**

**श्रीधरः : **स-व्रीडेन स्मितेन सह विक्षिप्ता कम्पिता या भ्रूस् तस्या विलासेन सह यान्य् अवलोकितानि तैर् दैत्य-यूथ-पानां चेतस्सु मुहुः कामम् उद्दीपयत् ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**स-व्रीडेन स्मितेन सह विशेषतः क्षिप्ता चालिता या भ्रूस् तस्या विलासेन सह यान्य् अवलोकानि तैः ॥४७॥

—ओ)०(ओ**—**

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमे अष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ**—**

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
अमृत-मथने अष्टमोऽध्यायः ।

॥ ८.८ ॥

(८.९)


  1. अयं श्लोकः पाण्डेयस्य संस्करणे नास्ति। ↩︎

  2. नूनं तपो यत्र न मन्यु-निग्रहः इति तत्त्व-वादि-पाठः। ↩︎

  3. यत्र रुद्रादौ तपस् तत्र न मन्यु-निग्रहः । दश-कल्पं तपश् चीर्णं रुद्रेण इति स्मरणात् । चण्डकोपास् तपस्विनश् चात्र गृह्यन्ते । ज्ञानं क्वचित् वायौ । ज्ञाने विरागे इत्य्-आदि-स्मरणात् । तद् अपि न त्रिगुण-सङ्ग-वर्जितम् । आधिकारिकत्वाद् वायोः । ज्ञानिनो मुनयश् चात्र गृह्यन्ते । कश्चिन् महान् इति महत्-तत्त्व-मानिनं ब्रह्माणं कटाक्षयति । तस्य न काम-निर्जयः । स्वां दुहितरम् अभ्यध्यायत् इति चरणारविन्दाद् इति परिहसति । यः परतो व्यपाश्रयः परैर् भ्रष्टैश्वर्यः वारं वारं पुनस् तल्-लब्धौइ च परापेक्ष इन्द्रादिः स ईश्वरः किम् ? ॥२१॥ ↩︎

  4. यस्य… ईश्वरः ? इत्य् अंशः रस-वर्षि-दासानुसृत-संस्करणे नास्ति। तद् वाक्यं प्रीति-सन्दर्भे “विवक्षितम्” इति परतः। ↩︎

  5. तस्य इति तत्त्ववादि-पात्ःअः। ↩︎

  6. तस्य इति तत्त्ववादि-पाठः। “यस् तु” इति तेषां पाठान्तरम्। ↩︎

  7. क्वचिद् यमादौ धर्मोऽस्ति । धर्म-देवता हि सः । किन्तु न तस्य भूत-सौहृदम्, मृत्यु-देवतात्वात् । क्वचिद् भूताम्भिमानिषु वरुणादिषु त्यागः । स्वाभिमतानि भूतानि प्रजाभ्यो विसृजन्ति हि ते । किन्तु स त्यागस् तस्य न मुक्ति-कारणम् । मुक्ति-कारणापरोक्षोत्तर-कालीन-प्रारब्ध-भोगात्मकत्वात् । सोऽपि प्रारब्ध-निर्बद्ध एवेति यावत् । येऽपि फलापेक्षया त्यजन्ति, तेऽप्य् अत्र सङ्गृह्यन्ते । क्षत्रिओत्तमादेः पुंसः वीर्यम् अस्ति । तद् अप्य् अज-वेगेन निष्कृतं परिहृतं न भवति । कियताचित् कालेन विनश्यति । अतो नहि मुकुन्दाद् द्वितीयो गुण-सङ्ग-वर्जितः ॥२२॥ ↩︎

  8. धर्म इति… भवतीति पर्यन्तं रस-वर्षि-दासानुसृत-संस्करणे नास्ति। अजवेगेति इति तत्र पाठान्तरम्। ↩︎

  9. क्वचिद् असुरादौ चिरम् आयुः स्यात्, किं तु न तत्र मङ्गलं शीलम्, दुर्वृत्तत्वात् । क्वचिच् च सात्त्विके शील-मङ्गलं स्यात्, अपि तु तस्यायुषो विषये न किञ्चिन् निश्चयेन वेदितुं शक्यम् । यत्रोभयं शीलम् आयुश् च मार्कण्डेयादिषु, सोऽप्य् अमङ्गलः, बद्धत्वात् । अतो नित्य-मुक्तो भगवान् एव सुमङ्गलः कश्चन, स काङ्क्षते च माम्, नित्यावियोगिनीत्वात् । अथ न काङ्क्षते च माम्, आप्त-कामत्वात् ॥२३॥ ↩︎

  10. गुणातिक्रमणानन्त-गुणत्वात् (ङ) ↩︎

  11. परमानन्द-रूपांश-शक्त्या (ग,घ) ↩︎

  12. स (ङ) ↩︎

  13. एवं विमृश्याव्यभिचारि-सद्-गुणं पदं निजैकाश्रयि-सद्-गुणाश्रयम् इति तत्त्व-वादि-पाठः। ↩︎

  14. एवं विमृश्य मिमर्श-पूर्वकं सुरेषु दोषान् उक्त्वा तान् विहाय स्वस्य पदं नित्याश्रयं मुकुन्दम् एव वरं वव्रे । कीदृशम् ? अनन्य-साधारण-सद्-गुणम् । निजा आत्मीयाः । एकाश्रयिणः अनन्य-भक्ताः । अथवा निजः स्वयम् एव केवलम् आश्रय एषाम् इति तादृशा ये सात्त्विकाः, तेषाम् आश्रयः । एतेन स्वस्यापि स एवैकाश्रय इति सूचयति ॥२४॥ (गोविन्दाचार्यः) ↩︎

  15. भागवत ३.१५.२१ पद्यस्य टीका द्रष्टव्या। ↩︎

  16. चामृताहृतम् इति तत्त्व-वादि-पाठः। ↩︎

  17. अमृत-रूपम् आहृतम् आहारो यस्मिन् तं कलशम् । अमृतम् आहृतं सङ्गृहीतं यत्रेति वा ॥ ननु किम् इति दैत्य-बलम् अनिगृह्य बलात्कृत इव कलशं तेभ्यो ददौ ? आह—तेषां सत्याच् चालनार्थं । असुराणां विषये तान् निग्रहीतुं समर्थोऽपि ॥३५॥ (गोविन्दाचार्यः) ↩︎