॥ ८.७.१ ॥
श्री-शुक उवाच——
ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम् ।
परिवीय गिरौ तस्मिन् नेत्रम् अब्धिं मुदान्विताः ॥
श्रीधरः :
सप्तमे मथनोऽद्भूत- विष-भीत्याखिलैर् जनैः ।
स्तुतः सन्कृपया रुद्रः पपौ विषम् इतीर्यते ॥
फल-भागेन तवाप्य् अमृते भागो भविष्यतीत्य् आमन्त्र्य संमन्त्र्य वषुकिं नेत्रं गिरौ परिवीय संवेष्ट्याब्धिं मथितुम् आरेभिरे ॥१॥
**क्रम-सन्दर्भः :**त इति सार्धकम् ॥१॥
विश्वनाथः :
सप्तमे कच्छपोद्भूतिः सिन्धु-मन्थो-विषोद्गमः ।
जनैः स्तुत्या शिवेनैव विष-पानम् इतीर्यते ॥ओ॥
नागराजं वासुकिम् । तवाप्य् अमृते भागो भविष्यतीति संमन्त्र्य तं गिरौ परिवीय नेत्रं कृत्वा परिवेष्ट्य आरेभिरे मथितुम् इति शेषः ॥१॥
—ओ)०(ओ**—**
**॥ ८.७.२ ॥ **
आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह ।
हरिः पुरस्ताज् जगृहे पूर्वं देवास् ततोऽभवन् ॥
**श्रीधरः : **वासुकेर् मुखं तीव्रं दैत्यान् ग्राहयितुम् एव पूर्वं हरिः पुरस्तान् मुखे जगृहे । ततोऽभवन् मुखं जगृहुः ।
**क्रम-सन्दर्भः :**ततस् तस्मिन्न् अभवन् ॥२॥
विश्वनाथः : वासुकेर् मुखं तीव्रं दैत्यान् ग्राहयितुम् एव हरिः पुरस्तान् मुखं जग्राह । अभवन् ते च मुखं जगृहुः इत्य् अर्थः ॥२॥
—ओ)०(ओ**—**
**॥ ८.७.३-४ ॥ **
तन् नैच्छन् दैत्य-पतयो महा-पुरुष-चेष्टितम् ।
न गृह्णीमो वयं पुच्छम् अहेर् अङ्गम् अमङ्गलम् ।
स्वाध्याय-श्रुत-सम्पन्नाः प्रख्याता जन्म-कर्मभिः ॥
इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः :**तन्-मुख-धारण-रूपं महा-पुरुष-चेष्टितं नैच्छन्, तत्रेर्षाम् अकुर्वन्न् इत्य् अर्थः ॥३-४॥
विश्वनाथः : मानं गृहीत्वा विष-ज्वालया यूयम् एव म्रियध्वम् इत्य् अभिप्रायेण स्मयमानः ॥३-४॥
—ओ)०(ओ**—**
**॥ ८.७.५ ॥ **
कृत-स्थान-विभागास् त एवं कश्यप-नन्दनाः ।
ममन्थुः परमं यत्ता अमृतार्थं पयो-निधिम् ॥
**श्रीधरः : **कृतो धारणे स्थान-विभागो यैः ॥५॥
**क्रम-सन्दर्भः :**कश्यप-नन्दना इति षष्ठ-सप्तम-मन्वन्तरे देवानाम् ऐक्यं बोधयति । तेन तद्-भेदेन इन्द्रादि-भेदश् च प्रायिक एवेति ज्ञेयम् । तत् तच् च पुण्याधिक्य-न्यूनत्वाभ्यां समाधेयम् । यथात्र षष्ठ-मन्वन्तरादौ जातानाम् आकस्मिक-त्रैलोक्य-नाशेन प्रायो नाशात् तन्-मध्य-जातानां सप्तम-मन्वन्तरानुवृत्तिः, यथोक्तं चतुर्थे प्राक् सर्गे प्रलयं गते [भा।पु। ४.३०.४९] इति । परमं यथा भवति, तथा यत्ताः कृत-यत्नाः ॥५॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.६-७ ॥ **
मथ्यमानेऽर्णवे सोऽद्रिर् अनाधारो ह्य् अपोऽविशत् ।
ध्रियमाणोऽपि बलिभिर् गौरवात् पाण्डु-नन्दन ॥
ते सुनिर्विण्ण-मनसः परिम्लान-मुख-श्रियः ।
आसन् स्व-पौरुषे नष्टे दैवेनातिबलीयसा ॥
**श्रीधरः : **दैवेन हेतुना स्व-पौरुषे नष्टे सति ॥६-७॥
**क्रम-सन्दर्भः : **अनाधार इति तल-स्थ-मृत्तिकायाः कर्दम-प्रायत्वात् अन्यथा प्रथमम् एव मग्नः स्यात् ॥६॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.८ ॥ **
विलोक्य विघ्नेश-विधिं तदेश्वरो
दुरन्त-वीर्योऽवितथाभिसन्धिः ।
कृत्वा वपुः कच्छपम् अद्भुतं महत्
प्रविश्य तोयं गिरिम् उज्जहार ॥
**श्रीधरः : **विघ्नेशस्य विधिं तेन रचितं विघ्नम् । अवितथः सत्योऽभिसन्धिः सङ्कल्पो यस्य ॥८॥
**क्रम-सन्दर्भः :**विघ्नेश-विधि-शब्दस्य विघ्न-वाचित्व-मात्रे तात्पर्यम्, न तु विघ्नेश-रचितत्वे स्थल-जल-रुह-शब्दवत्, तस्यापि देवतास्व् एकत्वात्1 ॥८॥
विश्वनाथः : विघ्ने ईष्टे समर्थो भवतीति विघ्नेशो यो विधिस् तं विलोक्य अस्मिन् विघ्ने । अयम् एव प्रकारो योग्य इति विचार्य काच्छपं वपुः कृत्वा उज्जहार ऊर्ध्वं प्रति नीतवान् । कच्छप-जातेर् एव जलाधः-
स्थ-वस्तूर्ध्वानयने योग्यता स्वाभाविकीति विमृश्येति भावः । अवितथाभिसन्धिः सत्य-सङ्कल्पः ॥८॥
—ओ)०(ओ**—**
**॥ ८.७.९ ॥ **
तम् उत्थितं वीक्ष्य कुलाचलं पुनः
समुद्यता निर्मथितुं सुरासुराः ।
दधार पृष्ठेन स लक्ष-योजन-
प्रस्तारिणा द्वीप इवापरो महान् ॥
**श्रीधरः : **लक्ष-योजनः प्रस्तारो विस्तारोऽस्यास्तीति तथा तेन पृष्ठेन ॥९॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : तं च कुलाचलं स कच्छपः पृष्ठेन दधार । महान् जलाधःस्थो जम्बू-द्वीप इवेत्य् अर्थः ॥९॥
—ओ)०(ओ**—**
**॥ ८.७.१० ॥ **
सुरासुरेन्द्रैर् भुज-वीर्य-वेपितं
परिभ्रमन्तं गिरिम् अङ्ग पृष्ठतः ।
बिभ्रत् तद्-आवर्तनम् आदि-कच्छपो
मेनेऽङ्ग-कण्डूयनम् अप्रमेयः ॥
**श्रीधरः : **यस्य गिरेर् आवर्तनं भ्रमणम् अङ्ग-कण्डूयनं नेने ।
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : पृष्ठोपरि गुरुतर-पर्वत-परिभ्रमणे न च तस्य कष्टम् । प्रत्युत सुखम् एवाभूद् इत्य् आह सुरेति ॥१०॥
—ओ)०(ओ**—**
**॥ ८.७.११ ॥ **
तथासुरान् आविशद् आसुरेण
रूपेण तेषां बल-वीर्यम् ईरयन् ।
उद्दीपयन् देव-गणांश् च विष्णुर्
दैवेन नागेन्द्रम् अबोध-रूपः ॥
**श्रीधरः : **आसुरेणासुराकारेण दैवेन देवाकारेण रूपेणाविशत् ॥११॥
क्रम-सन्दर्भः : तथेत्य् अत्र भगवतो भक्ति-रस-पोषक-लीला-वैचित्त्र्यार्थम् एव तत्-तद्-रूपेण तत्-तद्-आवेश इति ज्ञेयम् । आसुरेण राजसेन, दैवेन सात्त्विकेन रूपेण, शक्ति-विशेषेण । अबोधस् तु तामसः । अत्र तामस-शक्त्या वासुकिम् उद्दीपयन् संवर्धयन्न् इत्य् अर्थः ॥११॥
विश्वनाथः : कतिपय-क्षपानन्तरं तेषां मन्थने सामर्थ्याभावं वासुकेश् सङ्घर्षण-पीडया प्राण-त्यागम् इव विलोक्य कृपया प्रभुर् एवं विदधाव् इत्य् आह—तथेति आसुरेण राजस्या शक्त्येत्य् अर्थः । ईरयन् प्रवर्तयन् दैवेन रूपेण सात्त्विक्या शक्त्येत्य् अर्थः। अबोध-रूपस् तामस-शक्तिमयः सन्न् इत्य् अर्थः । अबोध इति मोहेन तस्य पीडा-बोधो नाभूद् इति भावः ॥११॥
—ओ)०(ओ**—**
**॥ ८.७.१२ ॥ **
उपर्य् अगेन्द्रं गिरि-राड् इवान्य
आक्रम्य हस्तेन सहस्र-बाहुः ।
तस्थौ दिवि ब्रह्म-भवेन्द्र-मुख्यैर्
अभिष्टुवद्भिः सुमनो-ऽभिवृष्टः ॥
श्रीधरः :न व्याख्यातम्।
**क्रम-सन्दर्भः :**दिवि ब्रह्म-भवेन्द्र-मुख्यैर् इत्य् अत्र भवस्य कैलासे, दिवि च महेन्द्रादीनां क्षीरोद-तीरे दिवि च काय-व्यूहो ज्ञेयः ॥१२॥
विश्वनाथः : ततश् च मन्दरम् ऊर्ध्वम् उच्छलन्तं वीक्ष्य यत् कृतवांस् तद् आह—उपरीति ब्रह्मादि-मुख्यैर् विष्णु-पार्षदैर् इत्य् अर्थः । यद् वा । इन्द्रादीनां क्षीरोद-तीरे दिवि च काय-व्यूहो ज्ञेयः ॥१२॥
—ओ)०(ओ**—**
**॥ ८.७.१३ ॥ **
उपर्य् अधश् चात्मनि गोत्र-नेत्रयोः
परेण ते प्राविशता समेधिताः ।
ममन्थुर् अब्धिं तरसा मदोत्कटा
महाद्रिणा क्षोभित-नक्र-चक्रम् ॥
**श्रीधरः : **आत्मनि देव-दैत्य-मध्ये । गोत्रे दार्ध्य-रूपेण, नेत्रे अभेद्याबोध-रूपेण, परेण हरिणा क्षोभितं नक्राणां चक्रं समूहो यस्मिन् ॥१३॥
क्रम-सन्दर्भः :न व्याख्यातम्।2
विश्वनाथः : तद् एवम् उपरि सहस्र-बाहु-रूपेण आत्मनि दैत्य-देव-समूहे आसुर-दैव-रूपेण गोत्रे दार्ढ्य-रूपेण नेत्रे अबोध-रूपेण प्रविशता परेण हरिणा ॥१३॥
—ओ)०(ओ**—**
**॥ ८.७.१४ ॥ **
अहीन्द्र-साहस्र-कठोर-दृङ्-मुख-
श्वासाग्नि-धूमाहत-वर्चसोऽसुराः ।
पौलोम-कालेय-बलील्वलादयो
दवाग्नि-दग्धाः सरला इवाभवन् ॥
**श्रीधरः : **दृशश् च मुखानि च श्वासाश् च । अहीन्द्रस्य साहस्रम् अपरिमिताः कठोरा ये दृग् आदयस् तेभ्यो निर्गताभ्याम् अग्नि-धूमाभ्याम् आहतं वर्चो येषां ते सरला द्रुम-विशेषाः ।
**क्रम-सन्दर्भः :**अहीन्द्र-साहस्राः सहस्र-सङ्ख्ययैव परिवृताः, न तु शताधिक-सङ्ख्यया ॥१४॥
विश्वनाथः : आ सम्यग् एव हत-वर्चसः शरला द्रुम-भेदाः ॥१४॥
—ओ)०(ओ**—**
**॥ ८.७.१५ ॥ **
देवांश् च तच्-छ्वास-शिखा-हत-प्रभान्
धूम्राम्बर-स्रग्-वर-कञ्चुकाननान् ।
समभ्यवर्षन् भगवद्-वशा घना
ववुः समुद्रोर्म्य्-उपगूढ-वायवः ॥
**श्रीधरः : **देवांस् तु भगवद्-वशा घनाः समभ्यवर्षन् । समुद्रोर्मिभिर् उपगूढा वायवश् च शीतला ववुर् वान्तिस्म । कथं भूतान् । तस्याहीन्द्रस्य श्वास-शिखाभिर्हता प्रभा येषाम् । धूम्राण्य् अम्बरादीनि येषाम् ॥१५॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : देवांश् च दूरवर्तिनस् तत्-पुच्छ-धारिणोऽपि । सुधा न जायेतेति मन्थनाधिक्याद् असार-भागे निःसृत एव सुधोद्गम-सम्भवाद् इति भावः ॥१५॥
—ओ)०(ओ**—**
**॥ ८.७.१६ ॥ **
मथ्यमानात् तथा सिन्धोर् देवासुर-वरूथ-पैः ।
यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥
श्रीधरः, विश्वनाथः :न व्याख्यातम्।
**क्रम-सन्दर्भः :**मथ्यमान इत्य्-आदि स-टीकं पद्य-द्वयं विगीतम् ॥१६॥
—ओ)०(ओ**—**
**॥ ८.७.१७ ॥ **
मेघ-श्यामः कनक-परिधिः कर्ण-विद्योत-विद्युन्
मूर्ध्नि भ्राजद्-विलुलित-कचः स्रग्-धरो रक्त-नेत्रः ।
जैत्रैर् दोर्भिर् जगद्-अभय-दैर् दन्दशूकं गृहीत्वा
मथ्नन् मथ्ना प्रतिगिरिर् इवाशोभताथो धृताद्रिः ॥
**श्रीधरः : **धृतोऽद्रिर् येन स धृताद्रिर् भगवान् परम-पुरुषोऽनन्तरम् अशोभतेत्य् अन्वयः । कथं-भूतः ? कनक-परिधिः पीत-वासाः । कर्णयोर् विद्योतमाना विद्युत्-कुण्डल-लक्षणा यस्य । तथा मूर्ध्नि भ्राजन्तो विलुलिताः कचा यस्य स तथा । जैत्रैर् जिष्णुभिः । दन्दशूकं सर्पम् । प्रति-गिरिः प्रति-द्वन्द्वी पर्वतः ॥१७॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : कनकः परिधिः कनक-वर्णं परिधानं यस्य स विद्युन्-मकर-कुण्डलम् । मथ्ना मथन-साधनेन मन्दर-गिरिणा प्रति-गिरिः कनक-गिरेस् तस्य प्रतियोगीन्द्र-नील-गिरिर् इत्य् अर्थः ॥१७॥
—ओ)०(ओ**—**
**॥ ८.७.१८ ॥ **
निर्मथ्यमानाद् उदधेर् अभूद् विषं
महोल्बणं हालहलाह्वम् अग्रतः ।
सम्भ्रान्त-मीनोन्मकराहि-कच्छपात्
तिमि-द्विप-ग्राह-तिमिङ्गिलाकुलात् ॥
**श्रीधरः : **हालाहलम् इत्य् आह्वा नाम यस्य । संभ्रान्ता मीना उद्गता मकरादयश् च यस्मिंस् तस्मात् तिम्य्-आदिभिर् आकुलाच् च ॥१८॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : विषम् अभूद् इति । वीरुद्-आदिषु विषस्यामृतस्य च सत्त्वात् मथने सति प्रथमं विष-भागः पृथक्तया उत्थित इति ज्ञेयः । हालाहलाह्वम् इति हालाहलं हालहलं तथैव च हलाहलम् इति द्वि-रूप-कोषः । सन्त्रास्ताः केयं विपत्तिर् आगतेति आविग्ना मीनादयो यस्मिंस् तस्मात् । उन्मकर उत्कृष्टो मकरः तिमि-तिमिङ्गिलौ मत्स्य-भेदौ ॥१८॥
—ओ)०(ओ**—**
**॥ ८.७.१९ ॥ **
तद् उग्र-वेगं दिशि दिश्य् उपर्य् अधो
विसर्पद् उत्सर्पद् असह्यम् अप्रति3** ।**
भीताः प्रजा दुद्रुवुर् अङ्ग सेश्वरा
अरक्ष्यमाणाः शरणं सदा-शिवम् ॥4
**मध्वः :**रुद्रस्य यशसोऽर्थाय स्वयं विष्णुर् विषं विभुः ।
न संजह्रे समर्थोऽपि वायुं चोचे प्रशान्तये ॥ इति च ॥१९॥
**श्रीधरः : **तद् विषम् अप्रति अप्रतिमं प्रतिक्रियाशून्यम् इति वा । कुतः ? उग्रो वेगो यस्य । तद् एवाह, दिशि दिशीति । यद् वा, उग्रा वेगा रोमाञ्च-स्वेदादयो यस्मात् । अत एवासह्यं विलोक्य भीता अन्येन केनाप्य् अरक्ष्यमाणाः सदा-शिवं शरणं दुद्रुवुर् जग्मुः ॥१९॥
**क्रम-सन्दर्भः :**दिशि दिशीति शनैः शनैर् एवेति ज्ञेयम् । शीघ्रत्वे झटिति सृष्टि-नाशापत्तेः प्रजाश् चात्र देवासुरा एव । साधारणानां समुद्र-वृन्द-लङ्घनाद्य्-अशक्तेः । तत्रापि झटिति। ऊर्ध्व-स्थित-तत्-तद्-व्यूहानां तत्र-स्थ-शिव-प्रभावेणैव तथा-स्थितिर् ज्ञेया । अधः-स्थितानां तु तस्मिन् न गमनम् । विषाग्निना झटित्य् ऊर्ध्व-व्याप्तेः सम्भ्रमेण तत्-तद्-अस्फूर्तेश् च । अरक्ष्यमाणाः श्री-शिव-महिम-दर्शनार्थे श्री-भगवत उदासीनीभावात् ॥१८॥
विश्वनाथः : दिशि दिशि विसर्पत् उपरि उपसर्पत् अधोऽवसर्पच् चेति शेषो ज्ञेयः । सर्पणं च शनैः शनैर् एवेति ज्ञेयम् । शीघ्रत्वे झटिति सृष्टि-नाशापत्तेः । प्रजाश् चात्र देवासुरा एव साधारणानां झटिति समुद्र-लङ्घनाद्य्-अशक्तेः । अप्रति अप्रतिमं प्रतिक्रिया-शून्यम् इति वा विलोक्येति शेषः । अरक्ष्यमाणा इति तदानीं भगवता तद्-अपेक्षणं स्व-भक्त-श्रेष्ठाय चन्द्रार्ध-मौलये तादृश-कीर्ति-प्रदानार्थम् इति ज्ञेयम् ॥१९॥
—ओ)०(ओ**—**
**॥ ८.७.२० ॥ **
विलोक्य तं देव-वरं त्रि-लोक्या
भवाय देव्याभिमतं मुनीनाम् ।
आसीनम् अद्राव् अपवर्ग-हेतोस्
तपो जुषाणं स्तुतिभिः प्रणेमुः ॥
**श्रीधरः : **त्रि-लोक्या उद्भवाय देव्या सहाद्रौ कैलासे आसीनं, तथापि मुनीनाम् अभिमतं तेषाम् एवापवर्गाय तपो-जुषाणम् ॥२०॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : भवाय भूत्यै सम्पत्त्य्-अर्थम् इति यावत् । अद्रौ कैलासे । मुनीनाम् अपवर्ग-हेतोस् तपो-जुषाणम् ॥२०॥
—ओ)०(ओ**—**
॥ ८.७.२१ ॥
श्री-प्रजापतय ऊचुः—
देव-देव महा-देव भूतात्मन् भूत-भावन ।
त्राहि नः शरणापन्नांस् त्रैलोक्य-दहनाद् विषात् ॥
**श्रीधरः : **
निर्गुणं सगुणं चैव शिवं हरि-पराक्रमैः ।
स्तुवन्तस् तु प्रजेशाना नामन्य् अन्तान्तरं तयोः ॥ इति ॥२१॥
क्रम-सन्दर्भः5** :**निर्गुणम् इत्य्-आदि-टीका-पद्ये हरि-पराक्रमैर् इत्य् अनेन हरेर् एव मूलत्वम् आयातम् । अत एव यत् तद्-अन्तरम् अस्ति, तद् अपि स्तुति-तात्पर्यान् नामन्य् अन्तेत्य् आयाति । स्तुतिश् च—महिम्ना स्तूयमाना हि देवा वीर्येण वर्धन्ते इति वैदिक-न्यायेन कालकूट-नाशनार्थम् । श्री-हरेर् मूलत्वं तु स्वयं श्री-शिवेनैव वक्ष्यते—
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ॥[भा।पु। ८.७.४१] इति ।
तथा नवमे—
वयं न तात! प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्य् अज-जीव-कोशाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥[भा।पु। ९.४.५६] इति ।
एते वयं यस्य वशे महात्मनः
स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः ॥ [भा।पु। ५.१७.२२] इत्य्-आदि ।
अन्यथा [श्री-रुद्रस्य परत्वे] तद्-वाक्य-विरोधोपपत्तेः ॥२१॥
विश्वनाथः : हे महादेव ! त्राहि त्रायस्व ! ननु महादेवो न त्रायते किन्तु संहरति संहारावतारत्वात् तत्राहुः । भूतत्मन् भूतानि चेतयसि । हे भूत-भावन ! भूतानि पालयस्य् एव ॥२१॥
—ओ)०(ओ**—**
**॥ ८.७.२२ ॥ **
त्वम् एकः सर्व-जगत ईश्वरो6** बन्ध-मोक्षयोः ।**
तं त्वाम् अर्चन्ति कुशलाः प्रपन्नार्ति-हरं गुरुम् ॥7
**मध्वः :**तत्र तत्र स्तुति-पदैर् हरिर् एव तु तद्-गतः ।
स्तूयतेऽतो युक्तम् एव गुणाधिक्य-वचोऽपि तु ॥ इति च ॥२१॥
श्रीधरः, क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : ननु भूत-भावनो विष्णुर् एव तं शरणं यातेति तत्राहुः । त्वम् एकः नहीश्वरो बहवो भवन्त्य् अतस् त्वं विष्णुश् चैक एव माया-गुण-स्पर्शास्पर्शाभ्याम् एव भेद इति भावः ॥२२॥
—ओ)०(ओ**—**
**॥ ८.७.२३ ॥ **
गुण-मय्या स्व-शक्त्यास्य सर्ग-स्थित्य्-अप्ययान् विभो ।
धत्से यदा स्व-दृग् भूमन् ब्रह्म-विष्णु-शिवाभिधाम् ॥
**श्रीधरः : **नन्व् एवं-भूतो विष्णुर् इति प्रसिद्धं तत्राहुः, गुण-मय्येति । अस्य जगतो यदा सर्गादीन् धत्से तदा हे भूमन्, स्व-दृक् स्वतः सिद्ध-ज्ञानस् त्वं ब्रह्मादि-संज्ञां धत्से ॥२३॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : पुरुष-रूपेण स्तुवन्ति गुण-मय्येति यदा सर्गादीन् धत्से तदा ब्रह्मादि-संज्ञां धत्से ॥२३॥
—ओ)०(ओ**—**
**॥ ८.७.२४ ॥ **
त्वं ब्रह्म परमं गुह्यं सद्-असद्-भाव-भावनम् ।
नाना-शक्तिभिर् आभातस् त्वम् आत्मा जगद्-ईश्वरः ॥
**श्रीधरः : **तत्र हेतुः—त्वं ब्रह्मेति । सद्-असतो भवान् देव-तिर्यग्-आदि-रूपान् भावयतीति तथ । सृज्यं तु त्वद्-व्यतिरिक्तं नास्तीत्य् आहुः—आत्मैव त्वं नाना-शक्तिभिर् जगद्-रूपेणाभातस् तस्माद् ईश्वरः ॥२४॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : निर्विशेष-स्वरूपत्वेन स्तुवन्ति—त्वं ब्रह्मेति । ब्रह्मत्वेन स्तुवन्ति सदसद्-भावान् उत्कृष्ट-निकृष्ट-स्वभावान् देव-तिर्यग्-आदीन् भावयसि सृजसि विष्णुत्वेन स्तुवन्ति नानेति ॥२४॥
—ओ)०(ओ**—**
**॥ ८.७.२५ ॥ **
त्वं शब्द-योनिर् जगद्-आदिर् आत्मा
प्राणेन्द्रिय-द्रव्य-गुणः स्वभावः ।
कालः क्रतुः सत्यम् ऋतं च धर्मस्
त्वय्य् अक्षरं यत् त्रि-वृद्-आमनन्ति ॥
**श्रीधरः : **स्वतः-सिद्ध-ज्ञानत्वम् उपपादयतो जगद्-आत्मना आभान-प्रकारम् आहुः, त्वं शब्दस्य वेदस्य योनिः । अतः स्वतः-सिद्ध-ज्ञानः । त्वं जगद्-आदिर् महत्-तत्त्वम् । आत्मा चाहङ्कारः । कथं-भूतः ? प्राणेन्द्रिय-द्रव्याणां कारण-भूता गुणा यस्य । राजसादि-त्रि-विध इत्य् अर्थः । स्वभावादयश् च त्वम् एव । क्रतुः सङ्कल्पः सत्यम् ऋतं चेति यो धर्मः स त्वम् । महद्-आदि-स्वरूपत्वे हेतुः—त्रि-वृत् त्रि-गुणात्मकं यद् अक्षरं प्रधानं त्वयि त्वद्-आश्रयं तद् आमनन्ति । यद् वा, एवं-भूते त्वयि त्रि-वृद् अक्षरं प्रणवं प्रकाशकम् आहुर् इत्य् अर्थः ॥२५॥
**क्रम-सन्दर्भः :**ऋतं च सूनृता वाणी [भा।पु। ११.१९.३८], सत्यं च सम-दर्शनम्[भा।पु। ११.१९.३७] ॥२५॥
विश्वनाथः : सर्व-वाचक-वाच्यत्वेन स्तुवन्ति त्वं निखिल-शब्दानां योनिर् अकारादि-वर्ग-सङ्घः । प्राणश् च इन्द्रियाणि च द्रव्याणि पृथिव्य्-आदीनि च तैः सह गुणः सत्त्वादिश् च त्वम् । त्रिवृद्-अक्षरं यत् प्रणव-संज्ञं तत् त्वय्य् एव आमनन्ति । तद्-वाचिकम् इति निश्चिन्वन्तीत्य् अर्थः ॥२५॥
—ओ)०(ओ**—**
**॥ ८.७.२६ ॥ **
अग्निर् मुखं तेऽखिल-देवतात्मा
क्षितिं विदुर् लोक-भवाङ्घ्रि-पङ्कजम् ।
कालं गतिं तेऽखिल-देवतात्मनो
दिशश् च कर्णौ रसनं जलेशम् ॥
**श्रीधरः : **अखिल-देवतात्मा, अग्निः सर्वा देवताः इति श्रुतेः । सोऽग्निस् ते मुखम् । हे लोक-भव । द्वितीयान्तेषु विदुर् इत्य् अस्य संबन्धः ॥२६॥
**क्रम-सन्दर्भः :**गतिं चेष्टाम् ॥२६॥
विश्वनाथः : समष्टि-रूपत्वेन स्तुवन्ति अग्निर् इति पञ्चभिः । अखिल-देवतात्मा अग्निः सर्व-देवताः इति श्रुतेः । हे लोक-भव ॥२६॥
—ओ)०(ओ**—**
**॥ ८.७.२७ ॥ **
नाभिर् नभस् ते श्वसनं नभस्वान्
सूर्यश् च चक्षूंषि जलं स्म रेतः ।
परावरात्माश्रयणं तवात्मा
सोमो मनो द्यौर् भगवन् शिरस् ते ॥
**श्रीधरः : **परे अवरे च ये आत्मानो जीवास् तेषाम् आश्रयस् तवात्माहङ्कारः ॥२७॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : परेषाम् अवरेषाम् आत्मनाम् उत्कृष्ट-निकृष्ट-जीवानाम् आश्रयणम् आश्रयस् तवात्मा अहङ्कारः ॥२७॥
—ओ)०(ओ**—**
**॥ ८.७.२८ ॥ **
कुक्षिः समुद्रा गिरयोऽस्थि-सङ्घा
रोमाणि सर्वौषधि-वीरुधस् ते ।
छन्दांसि साक्षात् तव सप्त धातवस्
त्रयी-मयात्मन् हृदयं सर्व-धर्मः ॥
**श्रीधरः, विश्वनाथः : **त्रयी-मयात्मन् वेद-त्रय-मूर्ते ॥२८॥
क्रम-सन्दर्भः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.२९ ॥ **
मुखानि पञ्चोपनिषदस् तवेश
यैस् त्रिंशद्-अष्टोत्तर-मन्त्र-वर्गः ।
यत् तच् छिवाख्यं परमात्म-तत्त्वं
देव स्वयं-ज्योतिर् अवस्थितिस् ते ॥
**श्रीधरः : **पञ्चोपनिषदस् तत् पुरुषाघोर-सद्यो-जात-वाम-देवेशान-रूपा मन्त्राः । यैर् मुखैर् अष्टोत्तर-त्रिंशन् मन्त्राणां वर्गः, तेषाम् एव मन्त्राणां पद-च्छेदेनाष्टोत्तर-त्रिंशत्-कलात्मका मन्त्रा इत्य् अर्थः । अवस्थितिर् उपरतावस्था ॥२९॥
चैतन्य-मत-मञ्जुषा : यत् तच् छिवाख्यम् इत्य्-आदि । ते तव शिवाख्यं यत् परमात्म-तत्त्वं तत् स्वयं-ज्योतिर् ब्रह्म-भूतं ते उपरतिर् उपरतावस्था । वस्तुतस् तु भगवान् श्री-कृष्ण एव शिव-ब्रह्म-विष्णु-भेदेनाविर्भावे गुण-भेदाद् अवस्था-भेदवान् । गुणश् च गुणान्तर-मिश्रो रजस्-तमसोर् अपि सत्त्वान्तर्-भावः । सत्त्वेऽपि तयोर् यदा रुद्रस् तमस उपरतः शुद्ध-सत्त्व एव, तदासौ शिवः । स च भगवतः श्री-कृष्णस्य परमात्म-तत्त्वं परमा विभूतिः स एव ब्रूते । अवस्थितिः स्थानम् ॥२९॥
क्रम-सन्दर्भः :न व्याख्यातम्।
**विश्वनाथः : **पञ्चोपनिषदः पुरुषोऽघोर-सद्योजात-वामदेवेशान-रूपा मन्त्राः । यैर् मुखैर् अष्टोत्तर-त्रिंशन्-मन्त्राणाम् वर्गः । तेषाम् एव मन्त्राणाम् पद-च्छेदेन अष्टोत्तर-त्रिंशत्-कलात्मका मन्त्रा इत्य् अर्थः । यत् तव परमात्म-तत्त्वं परमात्मा तच्-छिवाख्यं शिव एव परं स्वयं-ज्योतिः स्व-प्रकाशो देवो विष्णुर् अवस्थितिर् आश्रयः ॥२९॥
—ओ)०(ओ**—**
**॥ ८.७.३० ॥ **
छाया त्व् अधर्मोर्मिषु यैर् विसर्गो
नेत्र-त्रयं सत्त्व-रजस्-तमांसि ।
साङ्ख्यात्मनः शास्त्र-कृतस् तवेक्षा
छन्दोमयो देव ऋषिः पुराणः ॥
**श्रीधरः : **अधर्मस्योर्मिषु दम्भ-लोभादिषु यैर् ऊर्मिभिर् विसर्गः प्रतिसर्गः संहारः। यद् वा, यैः सत्त्वादिभिर् विविधः सर्गः, तानि नेत्र-त्रयम् । हे देव छन्दो-मय ! ऋषिर् वेदः स तवेक्षा ईक्षणम् । साक्षान् मनुर् इति पाठे मनुर् वेदः । तम् एवाह— छन्दो-मय इति ॥३०॥
**क्रम-सन्दर्भः :**अधर्मोर्मिषु ते तव छाया प्रकाशाभावः ॥३०॥
विश्वनाथः : अधर्मस्य ऊर्मिषु ऊर्मयः दम्भाद्याः छाया इत्य् अर्थः । यैः सत्त्वादिभिर् विविधः सर्गस् तानि नेत्र-त्रयं हे देव छन्दो-मय ऋषिर् वेदस् तवेक्षा ईक्षणम् । साक्षान् नमुर् इति पाठेऽपि मनुर् वेदः ॥३०॥
—ओ)०(ओ**—**
॥ ८.७.३१ ॥8
न ते गिरित्राखिल-लोक-पाल-
विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम् ।
ज्योतिः परं यत्र रजस् तमश् च
सत्त्वं न यद् ब्रह्म निरस्त-भेदम् ॥
**श्रीधरः : **हे गिरित्र, ते परं ज्योतिर् अखिलानां लोक-पालादीनां गम्यं न भवति । कुतः ? यत्र रज-आदि नास्ति । किं तज्-ज्योतिः ? यन् निरस्त-भेदं ब्रह्म ॥३१॥
**चैतन्य-मत-मञ्जुषा : **न ते गिरित्रेत्य्-आदि । हे गिरित्र ! हे निखिल-लोक-पाल ! हे विरिञ्च ! हे वैकुण्ठ ! अभेदोपचारात् तत् तत् तेन सम्बोधनम् । ते परं ज्योतिर् न सुरेन्द्र-गम्य सुराणाम् इन्द्रियस्य च गम्यम्, यत्र सत्त्वं रजस् तमश् च नास्ति, यन् निरस्त-भेदं ब्रह्म, तत् ते परं ज्योतिर् इत्य् अर्थः ॥३१॥
**क्रम-सन्दर्भः :**न ते इति । यच् छिवस्य ज्योतिः परमात्म-लक्षणं तत्र स्थितं, तत् सम्यग् ज्ञाने तस्याप्य् अक्षमता युक्तैवेति वा व्याख्येयम् । तद् उक्तम्—द्युपतय एव ते न ययुर् अन्तम् अनन्ततया त्वम् अपि [भा।पु। १०.८७.४१] इति । ब्रह्म-संहिता-मते तु भगवद्-अङ्ग-विशेष एव सदा-शिवः, न त्व् अन्यः । यथा तत्रैव सर्वादि-कारण-गोविन्द-कथने—
नियतिः सा रमा देवी तत्-प्रिया तद्-वशं तदा ।
तल्-लिङ्गं भगवान् शम्भुर् ज्योति-रूपः सनातनः ।
या योनिः सापरा शक्तिः [ब्र।सं। ७-८] इत्य्-आदि ।
तत्रैव—तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः [ब्र।सं। १०] इत्य्-आद्य्-अन्तम् ॥३१॥ (परमात्म-सन्दर्भः १७ द्रष्टव्यः]
विश्वनाथः : हे गिरित्र ! ते तव ज्योतिर् यत् परं ब्रह्म, तद् अखिल-लोक-पालादीनां गम्यं न भवति । अत्र वैकुण्ठस्य विष्णोः स्वरूपम् एव यद्यपि परं ब्रह्म, तद् अपि तस्य स्व-स्वरूपस्य स्वागम्यत्वं नापकर्षः खपुष्प-ज्ञानं सार्वज्ञ्यं न निहन्तीति न्यायात् । यद् वा, गिरित्रादि सुरेन्द्रान्तानि सम्बोधन-पदान्य् एव व्याख्येयानि ॥३१॥
—ओ)०(ओ**—**
**॥ ८.७.३२ ॥ **
कामाध्वर-त्रिपुर-कालगराद्य्-अनेक-
भूत-द्रुहः क्षपयतः स्तुतये न तत् ते ।
यस् त्व् अन्त-काल इदम् आत्म-कृतं स्व-नेत्र-
वह्नि-स्फुलिङ्ग-शिखया भसितं न वेद ॥
**श्रीधरः : कामश् चाध्वरश् च दक्ष-यज्ञस् त्रिपुरादयश् च ये अनेक-भूत-द्रुहः, तान् क्षपयतः संहरतस् ते तत् कर्म स्तुतये न भवति । अत्य्-अल्पम् एतद् इत्य् अर्थः । गर-क्षपणस्याप्य् अवश्यं भावित्वेन सिद्धवन् निर्देशः । स्तुतयेऽलं न भवतीत्य् अत्र हेतुः—**यस् तु भवान् स्व-नेत्र-वह्नि-विस्फुलिङ्गस्य शिखयेदं जगद् भसितं भस्म-साज्जातं न वेद नालोचयत्य् अपि ॥३२॥
क्रम-सन्दर्भः :न व्याख्यातम्।
**विश्वनाथः : **न च साम्प्रतिकं विषस्योपशमनं त्वया दुष्करम् इत्य् आहुः—कामेति । कामादयो ये अनेक-भूत-द्रुहस् तान् क्षपयतः संहरतस् तव तत्-विषोपशमनं कर्म स्तुतये न भवति अत्यल्पत्वात् । अध्वरो दक्ष-यज्ञः । कालो गरश् च दैत्य-विशेष आसीत् । किं वा, अस्यैवावश्य-संहार्यत्वेन सिद्धवन्-निर्देशः । भसितं न वेदेति कदा जगद् इदं भस्मीकृतम् इत्य् अपि न वेद, नानुसन्धत्ते । तस्यैतद् विष-मात्र-संहारः कियान् इति भावः ॥३२॥
—ओ)०(ओ**—**
**॥ ८.७.३३ ॥ **
ये त्व् आत्म-राम-गुरुभिर् हृदि चिन्तिताङ्घ्रि-
द्वन्द्वं चरन्तम् उमया तपसाभितप्तम् ।
कत्थन्त उग्र-परुषं निरतं श्मशाने
ते नूनम् ऊतिम् अविदंस् तव हात-लज्जाः ॥
**श्रीधरः : **तद् एवं नित्यं परानुग्रह-व्यग्रं त्वां ये निन्दन्ति तेऽति-मूर्खा इत्य् आहुः, ये तु उमया सह चरन्तं तस्यां नितरां रतं कामिनं कत्थन्ते प्रलपन्ति । तथा श्मशाने चरन्तम् उग्रं क्रूरं पुरुषं च हिंस्रं कत्थन्ते । कथं भूतम् । आत्मारामाश् च ते गुरवो विश्वहितोपदेष्टारस्तैर् हृदि चिन्तितम् अङ्घ्रि-द्वन्द्वं यस्य तथा-भूतम् अपि तपसाभितप्तम् अपि । ते नूनं तवोतिम् अविदन्न् इति काकुः । त्वल्-लीलां नैव विदुर् इत्य् अर्थः । अतो हात-लज्जास् त्यक्त-त्रपाः । कथम् आत्मारामैः सेवित-चरण-युगलस्य ते कामित्वं संभवति ? कथं वा तपसाभितप्तस्य शान्तस्योग्रत्वं परुषत्वं वा संभवति ? इत्य् अविचार्यैव प्रलापाद् इत्य् अर्थः ॥३३॥
**क्रम-सन्दर्भः :ये त्व् इति । अयम् अर्थः—**ये त्वाम् उग्रत्वेन परुष-वचनत्वेन श्मशान-निरतत्वेन च प्रतीयमानम् अपि हात-लज्जाः त्यक्त-सङ्कोचाः सन्तः कत्थन्ते श्लाघन्ते, त एव तवोतिं तेन तेन माया-कृतेन स्व-संवरण-मयीं लीलाम् अविदन् ? नैव ज्ञातवन्तः9 । कत्थ श्लाघायाम्, विद सम्वरणे इति धातु-द्वयम् अत्रोपजीव्यत इति भावः ।
माया-पिहित-दृष्टीनां तु त्वम् इत्थं भासीत्य् अभिप्रेत्य तम् अन्यथा विशिंषन्ति [स्वामि-चरणाः]**—**आत्मारामेति । भागवत-परमहंसानां गुरुत्वेन परमादर-विषयम् इत्य् अर्थः । तथा उमया तन्-नाम्ना विख्यात-तपस्यया देव्या सह चरन्तं, तथा स्वयम् अपि तपसा परम-ज्ञान-प्रभावेण अभि सर्वतो-भावेन तप्तम् ऐश्वर्यं यस्य तादृशम् इति । तप ऐश्वर्ये इति धातुर् उपजीव्य इति ॥३३॥
विश्वनाथः : तव माहात्म्यं बहिर् दर्शिभिर् दुर्गम्म् इत्य् आहुः**—**ये त्व् इति । उमया सह चरन्तं रममाणम् अपि तपसा अभितप्तं न तु कामेन व्याप्तम् अत एवात्मारामाणां गुरुभिर् अपि ध्याताङ्घ्रिं तथाभूतम् अपि त्वाम् उग्रं पुरुषं कत्थन्ते विपरीत-लक्षणानया श्लाघन्ते । ये निन्दन्ति ते नूनं तवोतिम् अविदन्न् इति काकुः । त्वल्-लीलां नैव जानन्तीति काम-क्रोधाद्य्-अनाचार-मयी तवेयं चेष्टा लोकोपहासिका लीलैवेत्य् अर्थः । हात-लज्जास् त्यक्त-त्रपाः स्वयं काम-क्रोधादिभिश् चर्यमाणास् त्वाम् आत्माराम-शिखामणिर् ध्याटाङ्घ्रिं निन्दितुं किं लज्जाम् अपि न प्राप्नुवन्तीत्य् अर्थः ॥३३॥
—ओ)०(ओ**—**
**॥ ८.७.३४ ॥ **
तत् तस्य ते सद्-असतोः परतः परस्य
नाञ्जः स्वरूप-गमने प्रभवन्ति भूम्नः ।
ब्रह्मादयः किम् उत संस्तवने वयं तु
तत्-सर्ग-सर्ग-विषया अपि शक्ति-मात्रम् ॥
**श्रीधरः : **आस्तां तावन् निन्दकानां वार्ता, महान्तोऽपि तव तत्त्वं न जानन्तीत्य् आहुः, तत् तस्मात् तव स्वरूपस्य गमने ज्ञाने ब्रह्मादयोऽपि न समर्थाः, संस्तवने तु कुतः शक्ताः स्युः ? तत्र वयं कथं प्रभवेम ? यतस् तेषां सर्गेऽत्य्-अन्तार्वाचीनाः । तथापि यद् एतत् तव स्तवनम् एतद् आत्म-शक्ति-परिमित-मात्रम् इत्य् अर्थः ॥३४॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : तेषां का कथा ब्रह्मादयोऽपि ते तत्त्वं न जानन्तीत्य् आहुः—तद् इति । तस्माद् ब्रह्मतः सर्गो येषां तेषां मरीद्य्-आदीनां सृष्टि-विषयाः । शक्ति-मात्रं शक्त्य्-अनुरूपम् एव स्तुमः । न तु यथोचितम् ॥३४॥
—ओ)०(ओ**—**
**॥ ८.७.३५ ॥ **
एतत् परं प्रपश्यामो न परं ते महेश्वर ।
मृडनाय हि लोकस्य व्यक्तिस् तेऽव्यक्त-कर्मणः ॥
**श्रीधरः : **तद् एवाहुः—एतत् परम् इति । न परं रूपं, तथापि त्वद्-दर्शनाद् एव कृटार्था वयम् इत्य् आहुः—मृडनाय हीति ॥३५॥
**क्रम-सन्दर्भः :**मृडनायेति । मृड सुखे धातुः ॥३५॥
विश्वनाथः : मृडनायेति विषं संहृत्य शीघ्रं लोक-सुखं निष्पादयति ध्वनिः ॥३५॥
—ओ)०(ओ**—**
॥ ८.७.३६ ॥
श्री-शुक उवाच—
तद्-वीक्ष्य व्यसनं तासां कृपया भृश-पीडितः ।
सर्व-भूत-सुहृद् देव इदम् आह सतीं प्रियाम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.७.३७ ॥
श्री-शिव उवाच—
अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् ।
क्षीरोद-मथनोद्भूतात् कालकूटाद् उपस्थितम् ॥
**श्रीधरः : **मत्-प्रभावम् अविचार्य विष-पाने प्रवृत्तं मां कथञ्चिद् इयं प्रिया वारयेद् इति शङ्कया ताम् अनुज्ञापयन्न् आह—अहो बतेति सार्धैश् चतुर्भिः । वैशसं दुःखम् ॥३७॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.३८ ॥ **
आसां प्राण-परीप्सूनां विधेयम् अभयं हि मे ।
एतावान् हि प्रभोर् अर्थो यद् दीन-परिपालनम् ॥
**श्रीधरः : **प्राण-परीप्सूनां प्राण-रक्षणेच्छूनाम् । मे मया । प्रभोः समर्थस्य । अर्थः कार्यम् ॥३८॥
**क्रम-सन्दर्भः :**आसाम् इति सार्धकम् ॥३८॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.३९ ॥ **
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः ।
बद्ध-वैरेषु भूतेषु मोहितेष्व् आत्म-मायया ॥
**श्रीधरः : **किं च, बद्ध-वैरेषु भूतेषु परस्परं जिघांसत्सु ॥३९॥
**चैतन्य-मत-मञ्जुषा : **एतन् मया अवश्यं कर्तव्यम् इति श्री-रुद्र-वचनम् आह—प्राणैः स्वैर् इत्य्-आदि । ननु स्व-प्राणैः पर-प्राण-रक्षणे किं फलम् ? तत्राह—बद्ध-वैरेष्व् इत्य्-आदि ॥३९॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : नन्व् अमीषु सांसारिक-जीवेषु परस्पर-बद्ध-वैरेषु आत्मारामाणां भवादृशाम् उपेक्षणम् एवोचितम् । तत्राह—बद्धेति ॥३९॥
—ओ)०(ओ**—**
**॥ ८.७.४० ॥ **
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहं स-चराचरः ।
तस्माद् इदं गरं भुञ्जे प्रजानां स्वस्तिर् अस्तु मे ॥
**श्रीधरः : **कृपयतः कृपां कुर्वतः पुंसः । मे मत्तः । स्वस्तिः शोभना सत्ता, सुखेन जीवितम् अस्त्व् इत्य् अर्थः ॥४०॥
**चैतन्य-मत-मञ्जुषा : **आत्मनः परमेश्वरस्य मायया मोहितेषु कृपयतः पुंसः सर्वात्मा हरिः प्रीयते, हरि-प्रीतिर् एव ममोद्देश्या । तेनैतत् पातव्यम् एव विषम् इत्य् आशयः । हरौ प्रीते तव किम् ? इत्य् आह—प्रीते हराव् इति । अहं स-चराचरं प्रीये, तस्य सर्वात्मकत्वात् ॥४०॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : मे मत्तः । स्वस्तिः शोभना सत्ता ॥४०॥
—ओ)०(ओ**—**
॥ ८.७.४१ ॥
श्री-शुक उवाच——
एवम् आमन्त्र्य भगवान् भवानीं विश्व-भावनः ।
तद् विषं जग्धुम् आरेभे प्रभाव-ज्ञान्वमोदत ॥
**श्रीधरः : **जग्धुम् अत्तुम् ॥४१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.४२ ॥ **
ततः करतली-कृत्य व्यापि हालाहलं विषम् ।
अभक्षयन् महा-देवः कृपया भूत-भावनः ॥
**श्रीधरः : **करतली-कृत्य करतल-परिमित-मात्रं कृत्वा ॥४२॥
क्रम-सन्दर्भः : ततः करोति । व्यापि व्याप्ति-शीलं विषम् ॥४२॥
विश्वनाथः : व्यापि तावद् देश-व्यापकम् अपि करतल-मात्र-परिमिती-कृत्य ॥४२॥
—ओ)०(ओ**—**
**॥ ८.७.४३ ॥ **
तस्यापि दर्शयाम् आस स्व-वीर्यं जल-कल्मषः ।
यच् चकार गले नीलं तच् च साधोर् विभूषणम् ॥
**श्रीधरः : **जल-कल्मषो जल-दोषो विषम् । यस्मात् तं गले-नीलं चकार । साधोः कृपालोः ॥४३॥
**क्रम-सन्दर्भः :तस्यापीति तत्रापि [तस्मिन् रुद्रे] इत्य् अर्थः । गले नीलम् इत्य् अलुक् समासः । नन्व् इदम् असम्भवम् ? तत्राह—**तच् चेति, कृपया स्वाभीष्टं तद्-विभूषणत्वेन धृतवतः स्वस्यैव तादृशीच्छेति भावः ॥४३॥
विश्वनाथः : जल-कल्मषो विषं तस्यापि तस्मिन्न् अपि ॥४३॥
—ओ)०(ओ**—**
**॥ ८.७.४४ ॥ **
तप्यन्ते लोक-तापेन साधवः प्रायशो जनाः ।
परमाराधनं तद् धि पुरुषस्याखिलात्मनः ॥
श्रीधरः, विश्वनाथः :न व्याख्यातम्।
**क्रम-सन्दर्भः :**लोक-तापेन तप्यन्ते तत्-तापम् अङ्गीकुर्वन्तीत्य् अर्थः । साधवः साधारणा अपि, किम् उत स इत्य् अर्थः ॥४४॥
—ओ)०(ओ**—**
**॥ ८.७.४५ ॥ **
निशम्य कर्म तच् छम्भोर् देव-देवस्य मीढुषः ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश् च शशंसिरे ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.७.४६ ॥ **
प्रस्कन्नं पिबतः पाणेर् यत् किञ्चिज् जगृहुः स्म तत् ।
वृश्चिकाहि-विषौषध्यो दन्दशूकाश् च येऽपरे ॥
**श्रीधरः : **प्रस्कन्नं गलितम् । अपरे ये स-विषास् तेऽपि जगृहुः । अनेन विषस्य तीव्रतोक्ता ॥४६॥
क्रम-सन्दर्भः :न व्याख्यातम्।
विश्वनाथः : पिबतस् तस्य पाणेः सकाशात् यत् प्रस्कन्नं क्षरितं येऽपरे श्व-शृगालाद्यास् ते च जगृहुः ॥४६॥
—ओ)०(ओ**—**
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे सप्तमोऽध्यायः ।
॥७॥
(८.८)
-
देवता-सेवकत्वात् (ग) ↩︎
-
उपरि मन्दरोपरि सहस्र-बाहु-रूपेण, अधः कूर्म-रूपेण, आतम्नि देव-दैत्य-मध्ये सात्त्विक-राजस-शक्त्या, गोत्रे मन्दर-गिरौ दार्ढ्य-रूपेण, नेत्रे मन्थन-रज्जू-रूपि-वासुकौ तामस-शक्त्या प्रविशता परेण हरिणा । क्षोभितं नक्रानां चक्रं समूहो यस्मिन् ॥ (पुरि-दासः) ↩︎
-
असह्य-वीर्यम् इति तत्त्व-वादि-पाठः। ↩︎
-
दिशि दिशि अधश् च विसर्पत्, उपर्य् उत्सर्पत् । अरक्ष्यमाणाः श्री-शिव-महिम-दर्शनार्थं भगवता उदासीनीभावात् इति जीव-गोस्वामी । तदानीं भगवता तद्-अपेक्षणं स्व-भक्त-श्रेष्ठाय चन्द्रार्ध-मौलये तादृश-कीर्ति-प्रदानार्थम् इति ज्ञेयम् इति विश्वनाथ-चक्रवर्ती ॥ (गोविन्दाचार्यः) ↩︎
-
पुरि-दास-संस्करणे इयं टीका ३१-साङ्ख्यक-श्लोके युक्ता । ↩︎
-
त्वम् एव सर्व-जगताम् ईश्वरः इति तत्त्व-वादि-पात्ःअः। ↩︎
-
इतः परं—एतत् परं प्रवक्ष्यामः [भा।पु। ८.७.३५] इत्य् अन्तानि पद्यानि शिव-स्तुति-पराणि मूले पठ्यन्ते । तत्र तु मुख्यतो विष्णु-गुणा एवोच्यन्ते, यथास्मिन् श्लोके बन्ध-मोक्ष-प्रदत्वम् । तेन ज्ञायते शिवान्तर्यामी विष्णुर् अत्र स्तूयते । भाष्योदाहृत-प्रमाणेन चैतत् स्फुटम् । नियामके स्तुते नियम्यः प्रीयत इति शास्त्र-सम्प्रदायः । शिव एव च उत्तरत्र स्फुटम् एवं वक्ष्यति—प्रीते हरौ भगवति प्रीयेऽहं स-चराचरः [भा।पु। ८.७.४०] इति । तथा चैतानि पद्यानि विष्णौ सामस्त्येन शिवे च यथा-योगं व्याख्यातव्यानि । अत्र स्तोत्र-मध्ये सम्प्रति पद्यम् एकं पठ्यते—न ते गिरित्राखिल-लोक-पाल-विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम् । ज्योतिः परं यत्र रजस् तमश् च सत्त्वं न यद् ब्रह्म निरस्त-भेदम् ॥ [भा।पु। ८.७.३१] इति । अत्र रुद्र-महिमा ब्रह्म-विष्णुभ्याम् अप्य् अगम्य इति पठ्यते । व्याख्यातारस् तु यथा-कथा च व्याचक्षते । परं तु मूल-कोशे प्राचीने पद्यम् एवेदं न पठ्यते । तेन प्रक्षिप्तम् इत्य् एव सुवचम् इति भाति । यतोऽन्तर्यामि-परतयापि नेदं स्वरसम् । एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः, तीर्थेन मूर्ध्नि विधृतेन शिवः शिवोऽभूत्, नाहं परायु ऋषयो न मरीच-मुख्याः इत्य्-आदि-स्व-वचन-विरुद्धं च ॥२२॥ ↩︎
-
तत्त्व-वादि-मते अयं श्लोकः प्रक्षिप्तः। ८.७.२२-श्लोकस्य गोविन्दाचार्य-कृत-पाद-टीका द्रष्टव्या। ↩︎
-
अविदुः न ज्ञातवन्तः ↩︎