॥ ८.६.१ ॥
श्री-शुक उवाच—
एवं स्तुतः सुर-गणैर् भगवान् हरिर् ईश्वरः ।
तेषाम् आविरभूद् राजन् सहस्रार्कोदय-द्युतिः ॥**
श्रीधरः :
षष्ठे पुनः स्तुतिर् विष्णाव् आविर्भूते सुरैः कृता ।
तन् मन्त्राच् चासुरैः साकम् अमृतार्थे महोद्यमः ॥
सहस्रार्काणाम् उदये द्युतिर् इव द्युतिर् यस्य ॥१॥
**चैतन्य-मत-मञ्जुषा : **एवम् इत्य्-आदि । भगवान् श्री-कृष्णेन सह भेदेन हरिर् इति सर्वेषां नाम्नां श्री-कृष्ण-परत्वात् । सहस्रार्कोदय-द्युतिर् इति सहस्र-शब्दो बहुल-परः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
आविर्भूते हरौ षष्ठे ब्रह्मा तुष्टाव तं पुनः ।
तन्-मन्त्रणेनामृतार्थे बलिं देवाः प्रपेदिरे ॥ओ॥
—ओ)०(ओ**—**
**॥ ८.६.२ ॥ **
तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः ।
नापश्यन् खं दिशः क्षौणीम् आत्मानं च कुतो विभुम् ॥**
**श्रीधरः : **महसा तेजसा प्रतिहतानीक्षणानि चक्षूंषि येषाम् ॥२॥
**चैतन्य-मत-मञ्जुषा : **तेनैव महसा सर्वे देवाः प्रतिहतेक्षण आत्मानम् अपि न ददृशुः, अस्तु तावत् श्री-कृष्ण-मह इति भावः ॥२॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.६.३-७ ॥ **
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् ।
स्वच्छां मरकत-श्यामां कञ्ज-गर्भारुणेक्षणाम् ॥**
तप्त-हेमावदातेन लसत्-कौशेय-वाससा ।
प्रसन्न-चारु-सर्वाङ्गीं सुमुखीं सुन्दर-भ्रुवम् ॥**
महा-मणि-किरीटेन केयूराभ्यां च भूषिताम् ।
कर्णाभरण-निर्भात- कपोल-श्री-मुखाम्बुजाम् ॥**
काञ्ची-कलाप-वलय- हार-नूपुर-शोभिताम् ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वन-मालिनीम् ॥**
सुदर्शनादिभिः स्वास्त्रैर् मूर्तिमद्भिर् उपासिताम् ।
तुष्टाव देव-प्रवरः स-शर्वः पुरुषं परम् ।
सर्वामर-गणैः साकं सर्वाङ्गैर् अवनिं गतैः ॥**
**श्रीधरः : **ताम् आविर्भूतां तनुं विरिञ्चो दृष्ट्वा तुष्टाव् एति पञ्चमेनान्वयः । कञ्ज-गर्भ-वद् अरुणे ईक्षणे यस्य ॥३॥
तप्त-हेम-वद् अवदातेन पीतेन लसता कौशेय-वाससा युक्ताम् । प्रसन्नानि चारूणि सर्वाण्य् अङ्गानि यस्याः । शोभनं मुखं यस्याः । सुन्दरे भ्रुवौ यस्याः ॥४॥
महान्तो मणयो यस्मिंस् तेन किरीटेन । कर्णाभरणे कुण्डले ताभ्यं निर्भातौ यौ कपोलौ ताभ्यां श्रीर् मुखाम्बुजे यस्याः ॥५॥
कौस्तुभ आभरणं कण्ठे यस्याः । लक्ष्मीं वक्षसि बिभ्रतीम् ॥६॥
देव-प्रवरो ब्रह्मा । सर्वाङ्गैर् अवनिं गतैः साष्टाङ्गं प्रणतैः ॥७॥
**चैतन्य-मत-मञ्जुषा : **तां तनूम् इत्य्-आदि । तनूं श्री-विग्रहं मरकत-श्यामम् अपि स्वच्छां कनकाभरण-पीत-वसनादि-गौरिमण्य् स्वभावेन्द्र-मणि-श्यामस्यापि धाम्नो मरकत-श्यामत्वम् ॥३॥
**क्रम-सन्दर्भः : **विरिञ्च इति पञ्चकम् ॥३-७॥
विश्वनाथः : विरिञ्चः तुष्टावेति पञ्चमेनान्वयः । तप्त-हेमवद् अवदातेन पीतेन । कर्णाभरणेन निर्भ्यातौ वपोलौ यत्र तादृशं श्री-मुखम् एवाम्बुजं यत्र ताम् ॥३-७॥
—ओ)०(ओ**—**
॥ ८.६.८ ॥
श्री-ब्रह्मोवाच—
अजात-जन्म-स्थिति-संयमाया-
गुणाय निर्वाण-सुखार्णवाय ।
अणोर् अणिम्नेऽपरिगण्य-धाम्ने
महानुभावाय नमो नमस् ते ॥
**श्रीधरः : **
अनाविराविरासेयं नाभूताभूद् इति ब्रुवन् ।
ब्रह्माभिप्रैति नित्यत्व-विभुत्वे भगवत्-तनोः ॥ इति ।
श्री-मूर्तेर् अयम् आविर्भाव एव, न त्व् अस्मद्-आदिवज् जन्मादि तवास्तीत्य् आह—न जाता जन्मादयो यस्य । कुतः ? अगुणाय, अतो निर्वाण-सुखस्यार्णवाय, अपार-मोक्ष-सुख-रूपायेत्य् अर्थः । तथाप्य् अणोर् अप्य् अणिम्नेऽतिसूक्ष्माय, दुर्ज्ञानत्वात् । वस्तुतस् त्व् अपरिगण्यम् इयत्तातीतं धाम मूर्तिर् यस्य तस्मै । न चैतद् असंभावितम्, यतो महान् अचिन्त्योऽनुभावो यस्य तस्मै ॥८॥
**क्रम-सन्दर्भः : **अजातेति स्थितिर् अत्र जन्मान्तरास्तित्व-लक्षणैव न नित्या, तस्या विकारित्वाभावात् । निर्वाण-सुखस्य1 ब्रह्मानन्दस्यार्णवायेति भगवत्त्वेनाविर्भावस्य परम-वैशिष्ट्यं दर्शितम् ॥८॥
**[भगवत्-सन्दर्भः ३२]:**अत्र “निर्वाण-सुखार्णवाय” इति अर्णवत्व-रूपकेण निर्वाण-सुख-मात्रत्वं निरस्य, ततोऽप्य् अधिक-महा-सुखत्वम् दर्शितम् । तद् उक्तं श्री-ध्रुवेन—
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भा।पु। ४.९.१०] इति ।
तथा “अणोर् अणिम्ने” इति प्रोच्य अपरिमेय-धाम्न इत्य् उक्तेर् अचिन्त्य-शक्तित्व-रूपेण महानुभावत्वेन सर्व-परिमाणाधारत्वं तत्र दर्शितम् इति विशेषोऽपि ज्ञेयः ॥८॥
विश्वनाथः : न जातो जन्म-स्थित्योः संयम उपरमो यस्येति । कृष्ण-रामाद्य्-अवताराणां जन्म-स्थित्योर् नित्यत्वं, स्थितिर् अकर्मका जातस्य चेतनस्य न सम्भवतीति कर्मणोऽपि नित्यत्वम् । अगुणाय प्राकृत-गुण-रहिताय, विना हेयैर् गुणादिभिर्[वि।पु। ६.५.७९] इति, समस्त-कल्याण-गुणात्मकोहि[वि।पु। ६.५.८४] इति वैष्णवोक्तेर् अप्राकृत-षाड्गुण्यवत्त्वेन भगवत्त्वम् उक्तम् । निर्वाण-सुखार्णवायेति ब्रह्मत्वम् । अणोर् अप्य् अणिम्ने अतिसूक्ष्मायेति परमात्मत्वम् । अपरिगण्यम् इयत्तातीतं धाम मूर्तिर् यस्य तस्मै इति त्वन्-मूर्तेः परिच्छिन्नत्वेऽप्य् अचिन्त्य-शक्त्या विभुत्वं चोक्तम् ॥८॥
—ओ)०(ओ**—**
**॥ ८.६.९ ॥ **
रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयोऽर्थिभिर् वैदिक-तान्त्रिकेण ।
योगेन धातः सह नस् त्रि-लोकान्
पश्याम्य् अमुष्मिन्न् उ ह विश्व-मूर्तौ ॥
**श्रीधरः : **तन्-मूर्तेः सनातनत्वम् अपरिमेयत्वं चोपपादयति—रूपम् इति । हे पुरुषर्षभ! हे धातः ! एतत् तव रूपं वैदिकेन तान्त्रिकेण च योगेनोपायेन श्रेयोऽर्थिभिः सदा इज्यं पूज्यं, अतो नेदम् इदानीम् अपूर्वं जातम् इति भावः ।
ननु यूयं देवाः पूज्यत्वेन प्रसिद्धाः ? सत्यं, सर्वेऽप्य् अत्रैवान्तर्भूता इत्य् आह । उ अहो, ह स्फुटम् । अमुष्मिंस् त्वयि नोऽस्मांस् त्रीन् लोकांश् च सह पश्यामि । तत्र हेतुः—विश्वं मूर्तौ यस्य, अतस् तवैतद् रूपं परिच्छिन्नम् अपि न भवतीत्य् अर्थः ॥९॥
**चैतन्य-मत-मञ्जुषा : **रूपं तवैत्य्-आदि । हे पुरुष्र्षभ । तवैतद् रूपं श्रेयोऽर्थ्भिर् इज्यं वैदिकेन तान्त्रिकेण च योगेन । हे धातः ! अमुष्मिन् रूपे नोऽस्मान् त्रिलोकं च सह मिलितान् पश्यामि । त्वय्य् एव सर्वे दृश्यन्ते, यतस् त्वं विश्व-मूर्तिः, तव मूर्तिर् एव सनातनी अपरिच्छिन्ना चेति भावः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**ब्रह्माभिप्रैति नित्यत्व-विभुत्वे भगवत्-तनोः [भावार्थ-दीपिका ८.६.८] इति कारिका, तन्-मूर्तेः सनातनत्वम् अपरिमेयत्वं चोपपादयति—रूपम् इति । अत्रावतारिका च श्री-स्वामि-पादानाम् अत्र दृश्या ॥९॥
—ओ)०(ओ**—**
**॥ ८.६.१० ॥ **
त्वय्य् अग्र आसीत् त्वयि मध्य आसीत्
त्वय्य् अन्त आसीद् इदम् आत्म-तन्त्रे ।
त्वम् आदिर् अन्तो जगतोऽस्य मध्यं
घटस्य मृत्स्नेव परः परस्मात् ॥
**श्रीधरः : **विश्व-मूर्तित्वम् एवाह, त्वयीति । घटस्य मृत्तिका यथा आदिर् अन्तश् च मध्यं च तथा त्वम् अस्य जगतः । तत्र हेतुः, परस्मात् प्रधानाद् अपि परः ॥१०॥
**क्रम-सन्दर्भः : **परस्माद् ब्रह्मणोऽपि परः ब्रह्मानुभवोत्तर-भाव्य्-अनुभवः, तस्माद् उत्कृष्टाविर्भावश् च । उक्तं च चतुर्थे—यः परं रंहसः साक्षात्[भा।पु। ४.२४.२८] इति । विष्णु-पुराणे च—स ब्रह्म-पारः पर-पार-भूतः[वि।पु। १.१५.५५] इति । अक्षरात् परतः परः [मु।उ। २.१.२] इति श्रुतेः ॥१०॥
विश्वनाथः : विश्व-मूर्तित्वम् एवाह—त्वयीति घटस्य मृत्तिका यथा आदिर् अन्तश् च मध्यं च । तथा त्वम् अस्य जगतः । मृत्तिकादृष्टान्तेन प्रसक्तं परिणामं वारयति परस्मात् प्रधानाद् अपि परः । प्रधानम् एव विश्व-रूपेण परिणमति, न तु त्वम् इति भावः ॥१०॥
—ओ)०(ओ**—**
**॥ ८.६.११ ॥ **
त्वं माययात्माश्रयया स्वयेदं
निर्माय विश्वं तद्-अनुप्रविष्टः ।
पश्यन्ति युक्ता मनसा मनीषिणो
गुण-व्यवायेऽप्य् अगुणं विपश्चितः ॥
**श्रीधरः : **मृत्तिकादृष्टान्तेन परिणामं प्राप्तं वारयति, त्वम् इति । स्वया स्वाधीनया । अत एव गुणानां व्यवाये परिणामेऽप्य् अगुणम् एव त्वां युक्ताः पश्यन्ति । मनीषिणो विवेकिनः । विपश्चितः शास्त्र-ज्ञाः ॥११॥
**क्रम-सन्दर्भः : **ननु, मृत्तिका-दृष्टान्तेन परः परस्माद् इति न सङ्गच्छते ? तत्राह—त्वं माययेति । स्वया स्वस्य बहिरङ्गांश-रूपया आत्माश्रयया स्वाधीनया मायया प्रकृत्य्-आख्योपादान-रूपया । तद् उक्तं श्री-भगवता—पृथिवी वायुर् आकाशः [भा।पु। ११.१६.३७] इत्य्-आदिना । तद्-अनुप्रविष्ट इति मूर्तेः परिच्छिन्नापरिच्छिन्नतयाचिन्त्य-शक्ति-मय-स्थितित्वाद् इति भावः ॥११॥
विश्वनाथः : ननु तर्हि प्रधानस्यैव विश्व-हेतुत्वम् आयातं न तु मेमेति । तत्राह—त्वम् इति । मायया स्वया स्व-शक्त्येति तव ततः परत्वेऽपि तस्यास् त्वच्-छक्तित्वात् त्वम् एवेदं विश्वं निर्माय तत्र विश्वस्मिन्न् अनुप्रविष्टो वर्तसे । मायया कीदृश्या आत्मा त्वम् एवाश्रयो यस्या तया त्वद्-अधीनयेत्य् अर्थः । अतो गुण-व्यवाये गुण-परिणाम-भूते अत्र विश्वस्मिन्न् एव प्रविष्टम् अप्य् अगुणं गुण-सङ्ग-रहितं त्वां मनसा युक्ताः स-मनस्का जनाः पश्यन्ति । ये च पश्यन्ति त एव मनीषिणो विवेकिनः । त एव विपश्चितः शास्त्र-तात्पर्य-विज्ञाः । ये न पश्यन्ति त एवाविपश्चितोऽमनीषिणोऽमनसोऽन्धाश् चेति ॥११॥
—ओ)०(ओ**—**
**॥ ८.६.१२ ॥ **
यथाग्निम् एधस्य् अमृतं च गोषु
भुव्य् अन्नम् अम्बूद्यमने च वृत्तिम् ।
योगैर् मनुष्या अधियन्ति हि त्वां
गुणेषु बुद्ध्या कवयो वदन्ति ॥
**श्रीधरः : **एतद् एव सदृष्टान्तम् आह, यथाग्निं काष्ठे मथनेन, अमृतम् आज्यं गोषु दोहनादिना, भुव्य् अन्नं व्रीह्य्-आदि कर्षणादिना, अम्बु च खननेन, उद्यमने पुरुष-कारे वाणिज्यादिना । वृत्तिं जीविकाम् । यद् वा, अम्बु उद्यमने घटी-यन्त्रादिनोद्धरणे । योगैर् उपायैर् मनुष्या अधियन्ति प्राप्नुवन्ति, तथा कवयस् त्वं बुद्ध्या गुणेष्व् अधियन्ति वदन्ति च ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कथं मां पश्यन्तीत्य् अतस् तद्-उपायं स-दृष्टान्तम् आह—यथेति । मनुष्या गुणेषु गुणमये जगति निर्गुणं त्वां योगैर् भक्त्याहम् एकया ग्राह्य इति त्वद्-उक्तेर् भक्ति-भेदैः अधियन्ति प्राप्नुवन्ति बुद्ध्या त्वद्-दत्तया वदन्ति च । तया सहोक्ति-प्रत्युक्तौ कुर्वन्ति । एधसि काष्ठे अग्निं मन्थनेन यथेति मन्थनम् अपि गुरूपदेशेनैव यथा जानन्ति तथैव श्री-गुरूपदिष्टया श्रवण-कीर्तनादि-भक्त्या मनो मन्थनेन मुहुर् मथितया त्वां पश्यन्ति ।
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्व् इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर् नम ईरितात्मने ॥ [भा।पु। ५.१८.३६] इति पञ्चमोक्तेः ।
साधु-साहाय्य-भूयस्त्वे त्व् अल्पायासेनैवेत्य् अत्र दृष्टान्तः—गोषु अमृतं दग्धं दोहनेन यथेति वत्स-मुख-सङ्घृष्टा पीन-प्रस्तुतम् इत्य् अर्थः । प्राचीन-भक्ति-बीज-सद्-भावे तु भक्ति-बाहुल्य-प्राप्त्यैव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—भुवि अन्नं कर्षणादिना यथा । प्राचीन-साधु-सङ्ग-बहु-भक्ति-सद्-भावे तु प्रतिबन्धकाभाव एव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—अम्बु जलं खननात् तदावरक-मृत्तिकादि-दूरीकरणेन यथेति । लब्ध-भक्तीनां तु भजन-मात्रेण नित्यम् एव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—उद्यमने वृत्तिं नर्तक-गायकादीनां प्रति स्व-शिल्पोद्यमेनैव जीविकां यथेति ॥१२॥
—ओ)०(ओ**—**
**॥ ८.६.१३ ॥ **
तं त्वां वयं नाथ समुज्जिहानं
सरोज-नाभातिचिरेप्सितार्थम् ।
दृष्ट्वा गता निर्वृतम् अद्य सर्वे
गजा दवार्ता इव गाङ्गम् अम्भः ॥
**श्रीधरः : **हे नाथ सरोज-नाभ, अति-चिरादीप्सितम् अर्थं तं योगैक-प्राप्यं त्वां सम्यग् उज्जिहानम् आविर्भवन्तं प्रत्यक्षतो दृष्ट्वाऽद्य वयं निर्वृतिं गताः । दवार्ता दावाग्नि-पीडिताः।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वयं तु कृतार्था एवाभूमेत्य् आह—तम् इति । त्वाम् त्वां हे सरोज-नाभ ! अतिचिरेप्सितम् अर्थं परमार्थ-वस्तु-रूपम् ॥१३॥
—ओ)०(ओ**—**
**॥ ८.६.१४ ॥ **
स त्वं विधत्स्वाखिल-लोक-पाला
वयं यद् अर्थास् तव पाद-मूलम् ।
समागतास् ते बहिर्-अन्तर्-आत्मन्
किं वान्य-विज्ञाप्यम् अशेष-साक्षिणः ॥
**श्रीधरः : **यद् विधेयं तत् कथयेति चेत् तत्राह, हे अन्तर् आत्मन्, अशेष-साक्षिणस् ते बहिः किं वान्यैर् विज्ञाप्यम् अस्ति ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तद् विधत्स्व यद् अर्था वयं यत्-प्रयोजनाः तद् एव स्पष्टं विज्ञापयतेति चेत् तत्राह । हे अन्तरात्मन् । अशेष-साक्षिणस् तव बहिः किं ज्ञाप्यम् ॥१४॥
—ओ)०(ओ**—**
**॥ ८.६.१५ ॥ **
अहं गिरित्रश् च सुरादयो ये
दक्षादयोऽग्नेर् इव केतवस् ते ।
किं वा विदामेश पृथग्-विभाता
विधत्स्व शं नो द्विज-देव-मन्त्रम् ॥
**श्रीधरः : **यूयम् एव किञ्चित् कुरुतेति चेत् तत्राह, अहम् इति । अग्नेः केतवो विस्फुलिङ्गा इव ते त्वत्तो वयं पृथग्-विभाताः सन्तः आत्मनः शं श्रेयः किं वा विद्मः ? अतस् त्वम् एव द्विजानां देवानां च मन्त्रं विधत्स्व । इदं कुरुतेत्य् उपायम् उपदिशेत्य् अर्थः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु, यूयं सर्वज्ञा माभूत् । सुबुद्धयश् चातुर्यवन्तश् च भवथेति वा अतोऽत्र सङ्कटे यः प्रतीकारः सम्भवति तं ब्रूत । यथा युष्मद्-अशक्यम् अपि तम् अहं निष्पादयामीति चेत्, तत्राह—अहम् इति । अग्नेः केतवो विस्फुलिङ्गा इव केतुर् द्यूतौ पताकायाम् इति कोषात् ते त्वत्तो वयं पृथग्-विभाताः सन्तः आत्मनां शं श्रेयः किं वा विद्मः ? न किम् अपि, तस्मात् त्वम् एव नः शं विधत्स्व । द्विजानां मन्त्रं च विधत्स्व इदं कुरुतेत्य् उपायम् अपि उपदिश । अस्माकं बुद्धि-चातुर्यादिकं तु रसातलं यात्व् इति ॥१५॥
—ओ)०(ओ**—**
॥ ८.६.१६ ॥
श्री-शुक उवाच——
एवं विरिञ्चादिभिर् ईडितस् तद्
विज्ञाय तेषां हृदयं यथैव ।
जगाद जीमूत-गभीरया गिरा
बद्धाञ्जलीन् संवृत-सर्व-कारकान् ॥
**श्रीधरः : **हृदयं मन्त्र उपदेष्टव्य इत्य् अभिप्रेतं यथा तथैव विज्ञाय जगाद, संवृतानि नियमितानि सर्वणि कारकाणीन्द्रियाणि यैस् तान् ॥१६॥
**क्रम-सन्दर्भः : **तद् ईडितं विज्ञायावधार्य यथा तेषां हृदयं, तथा जगाद ॥१६॥
विश्वनाथः : तेषां देवानां यथा हृदयम् अस्माकम् अमरावती-प्राप्तौ काम् अपि मन्त्रणां भगवान् एव ददात्व् इति यथा मनोगतं तत् तथैवेत्य् अर्थः । संवृत-सर्व-कारकान् नियत-सर्वेन्द्रियान् ॥१६॥
—ओ)०(ओ**—**
**॥ ८.६.१७ ॥ **
एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः2** ।**
विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः ॥
**श्रीधरः : **ईश्वरस्यापि तथैवाभिप्रेतम् इत्य् आह । एक एवेश्वरः समर्थोऽपि ॥१७॥
**क्रम-सन्दर्भः : **नृपेश्वर इति स्व-सम्बन्धोक्तिः ॥१७॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
॥ ८.६.१८ ॥
श्री-भगवान् उवाच——
हन्त ब्रह्मन्न् अहो शम्भो हे देवा मम भाषितम् ।
शृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥**
**श्रीधरः : **हे सुराः, हे देवाः, अन्ये च गन्धर्वादयः ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.६.१९ ॥ **
यात दानव-दैतेयैस् तावत् सन्धिर् विधीयताम् ।
कालेनानुगृहीतैस् तैर् यावद् वो भव आत्मनः ॥**
**श्रीधरः : **वः आत्मनः स्वतो यावद् भवो वेद्धिर् भवति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अभवः सम्पत्त्य्-अभावो यावत्-सम्पत्तौ तु जातायां विग्रह एव विधेय इति भावः ॥१९॥
—ओ)०(ओ**—**
**॥ ८.६.२० ॥ **
अरयोऽपि हि सन्धेयाः सति कार्यार्थ-गौरवे ।
अहि-मूषिकवद् देवा ह्य् अर्थस्य पदवीं गतैः ॥**
**श्रीधरः : **अर्थस्य प्रयोजनस्य पदवीं सिद्धिं प्राप्तैः पश्चाद् अहि-मूषकवद् वध्य-घातक-भावेन वर्तितव्यम् इति शेषः । यद् वा, पेटिकायां निरुद्धोऽहिर् यथा निर्गम-द्वार-विधानार्थं प्रथमं मूषकेण सन्धिं विधत्ते, पश्चात् तम् एव कदाचिद् भक्षयति, तथाऽर्थ-मार्ग-प्रवृत्तैः प्रथमं सन्धेया इत्य् अर्थः ॥२०॥
**क्रम-सन्दर्भः : **अहि-मूषिकवद् इति महा-जलाप्लवादौ तयोः संवास-दर्शनात् ॥२०॥
विश्वनाथः : नीतिम् उपदिशति अरय इति । अहि-मूषिकेति दैवात् पेटिकायां निरुद्धोऽहिर् यथा निर्गम-द्वार-विधानार्थं प्रथमं मूषिकेण समं सन्धिं विधत्ते पश्चात् तम् एव भुङ्क्ते एवं स्वार्थ-पदवीं गतैः । पश्चाद् एतान् वधिष्याम इति व्यवसायवर्ति भवद्भिः ॥२०॥
—ओ)०(ओ**—**
**॥ ८.६.२१ ॥ **
अमृतोत्पादने यत्नः क्रियताम् अविलम्बितम् ।
यस्य पीतस्य वै जन्तुर् मृत्यु-ग्रस्तोऽमरो भवेत् ॥**
**श्रीधरः : **ततस् तैः सह यत् कार्यं तद् आह—अमृतोत्पादन इति । यस्यामृतस्य पीतस्य सतः ॥२१॥
**क्रम-सन्दर्भः : **यस्येति यस्मिन् पीते सतीत्य् अर्थः ॥२१॥
विश्वनाथः : यस्य पीतस्य यस्मिन् पीते सति ॥२१॥
—ओ)०(ओ**—**
**॥ ८.६.२२-२३ ॥ **
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्-तृण-लतौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥**
सहायेन मया देवा निर्मन्थध्वम् अतन्द्रिताः ।
क्लेश-भाजो भविष्यन्ति दैत्या यूयं फल-ग्रहाः ॥**
**श्रीधरः : **नेत्रं रज्जुम् । ननु तर्हि तेऽप्य् अमृत-पानेनामराः स्युस् तत्राह, क्लेश-भाज इति।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : क्षिप्त्वेति दुग्ध-योगेन मथित-वीरुधादि-क्वाथ-परिणाम एवामृतं भवतीति भावः । नेत्रं रज्जुम् । सहायेन मयेत्य् एतत् फलम् आह—क्लेश-भाज इति । फल-ग्रहाः फलम् अमृतं यूयम् एव प्राप्यथेत्य् अर्थः ॥२२-२३ ॥
—ओ)०(ओ**—**
**॥ ८.६.२४ ॥ **
यूयं तद् अनुमोदध्वं यद् इच्छन्त्य् असुराः सुराः ।
न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥**
**श्रीधरः : **बलिभिः सह-कारिभिः साध्या अर्थास् तद्-अनुसरणं विना न सिध्यन्तीति कृत्वा सामादिकम् उपदिशति—यूयम् इति द्वाभ्याम् । हे सुराः ! संरम्भेण संभ्रमेण सान्त्वया साम-मार्गेण यथा सिध्यन्ति ॥२४॥
**क्रम-सन्दर्भः : **सम्रम्भेण क्रोधेन ॥२४॥
विश्वनाथः : हे सुराः ! संरम्भेण विग्रहेण सान्त्वया साम्ना यथा ॥२४॥
—ओ)०(ओ**—**
**॥ ८.६.२५ ॥ **
न भेतव्यं कालकूटाद् विषाज् जलधि-सम्भवात् ।
लोभः कार्यो न वो जातु रोषः कामस् तु वस्तुषु ॥**
**श्रीधरः : **वस्तुषु मथनाद् उत्पन्नेषु ॥२५॥
**क्रम-सन्दर्भः : **लोभो दृष्टे वस्तुनि, कामस् त्व् अदृष्टे वस्तुनि ॥२५॥
विश्वनाथः : तुश् चार्थे रत्नादिषु न लोभः तेष्व् एवासुरैर् नीतेषु सत्सु न रोषः । स्त्री-रत्नेषु न कामश् च कार्य इत्य् अर्थः । वस्तुषु मथनाद् उत्पन्नेषु ॥२५॥
—ओ)०(ओ**—**
॥ ८.६.२६ ॥
श्री-शुक उवाच—
इति देवान् समादिश्य भगवान् पुरुषोत्तमः ।
तेषाम् अन्तर्दधे राजन् स्वच्छन्द-गतिर् ईश्वरः ॥**
**श्रीधरः : **सुरास् तु बलिम् उपेयुर् उपजग्मुः ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तेषाम् ईश्वरः ॥२६॥
—ओ)०(ओ**—**
**॥ ८.६.२७ ॥ **
अथ तस्मै भगवते नमस्कृत्य पितामहः ।
भवश् च जग्मतुः स्वं स्वं धामोपेयुर् बलिं सुराः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सुरास् तु बलिम् उपेयुर् उपजग्मुः ॥२७॥
—ओ)०(ओ**—**
**॥ ८.६.२८ ॥ **
दृष्ट्वारीन् अप्य् असंयत्तान् जात-क्षोभान् स्व-नायकान् ।
न्यषेधद् दैत्य-राट् श्लोक्यः सन्धि-विग्रह-कालवित् ॥**
**श्रीधरः : **असंयत्तान् अपि दृष्ट्वा । श्लोक्यः कीर्त्य्-अर्हः ॥२८॥
**क्रम-सन्दर्भः : **असंयत्तान् अप्य् अरीन् दृष्ट्वा स्व-नायकान् दैत्यान् न्यषेधत् । कीदृशान् ? जात-क्षोभान् हन्तुम् उद्यतान् इत्य् अर्थः ॥२८॥
विश्वनाथः : असंयत्तान् अधृत-कवचास्त्रादीन् अपि दृष्ट्वा स्व-नायकान् स्वसेनापतीन् जात-क्षोभान् हतुम् उद्यतान् । श्लोक्यो यशस्वी ॥२८॥
—ओ)०(ओ**—**
**॥ ८.६.२९ ॥ **
ते वैरोचनिम् आसीनं गुप्तं चासुर-यूथ-पैः ।
श्रिया परमया जुष्टं जिताशेषम् उपागमन् ॥**
**श्रीधरः : **वैरोचनिं बलिम् । जितम् अशेषं त्रै-लोक्यं येन तम् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : जिताशेषं सर्व-दिग्-विजयिनम् ॥२९॥
—ओ)०(ओ**—**
**॥ ८.६.३० ॥ **
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महा-मतिः ।
अभ्यभाषत तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥**
**श्रीधरः : **तत् सर्वम् अमृतोन्मथनादि ॥३०॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.६.३१ ॥ **
तत् त्व् अरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।
शम्बरोऽरिष्टनेमिश् च ये च त्रिपुर-वासिनः ॥**
**श्रीधरः : **तत्र ये अन्ये चासुराधिपाः पौलोम-कालेयादयः शम्बरादयश् च तेभ्यश् चारोचत ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दैत्यस्य दैत्याय येऽन्ये तेभ्यश् चेति उत्पत्स्यमानम् अमृतं दुर्बलानिमांस् तिरस्कृत्य वयम् एव ग्रहीष्याम इत्य् अभिर्पायेणारोचत ॥३१॥
—ओ)०(ओ**—**
**॥ ८.६.३२ ॥ **
ततो देवासुराः कृत्वा संविदं कृत-सौहृदाः ।
उद्यमं परमं चक्रुर् अमृतार्थे परन्तप ॥**
**श्रीधरः : **संविदं समयम् ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : संविदं सङ्केतं संवादं वा । संविद् युद्धे प्रतिज्ञायाम् आचारे नाम्नि तोषणे । संभाषणे क्रियाकारे सङ्केत-ज्ञानयोर् अपीत्य् अजयह् ॥३२॥
—ओ)०(ओ**—**
**॥ ८.६.३३ ॥ **
ततस् ते मन्दर-गिरिम् ओजसोत्पाट्य दुर्मदाः ।
नदन्त उदधिं निन्युः शक्ताः परिघ-बाहवः ॥**
**श्रीधरः : **परिघा इव बाहवो येषाम्।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : परिघा इव बाहवो येषाम् ॥३३॥
—ओ)०(ओ**—**
**॥ ८.६.३४ ॥ **
दूर-भारोद्वह-श्रान्ताः शक्र-वैरोचनादयः ।
अपारयन्तस् तं वोढुं विवशा विजहुः पथि ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ**—**
**॥ ८.६.३५ ॥ **
निपतन् स गिरिस् तत्र बहून् अमर-दानवान् ।
चूर्णयाम् आस महता भारेण कनकाचलः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यतः कनकाचलः कनक-मयत्वान् न चलतीति अचलः । कनकस्य प्रस्तराद्य्-अपेक्षया भाराधिक्यात् ॥३५॥
—ओ)०(ओ**—**
**॥ ८.६.३६ ॥ **
तांस् तथा भग्न-मनसो भग्न-बाहूरु-कन्धरान् ।
विज्ञाय भगवांस् तत्र बभूव गरुड-ध्वजः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बभूव आविर्बभूव ॥३६॥
—ओ)०(ओ**—**
**॥ ८.६.३७ ॥ **
गिरि-पात-विनिष्पिष्टान् विलोक्यामर-दानवान् ।
ईक्षया जीवयाम् आस निर्जरान् निर्व्रणान् यथा ॥**
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **यथा यथावत् । निर्जरान् निर्व्रणान् कृत्वेति शेषः ॥३७॥
—ओ)०(ओ**—**
**॥ ८.६.३८-३९ ॥ **
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया ।
आरुह्य प्रययाव् अब्धिं सुरासुर-गणैर् वृतः ॥**
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः ।
ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥**
**मध्वः-**अनन्तोढो मन्दरस् तु यदा वैवस्वतान्तरम् ।
अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः ॥ इति ब्राह्मे ॥३८-३९॥3
**श्रीधरः : **विसर्जितः प्रस्थापितः । सुपर्णे तत्र स्थिते वासुकेर् आगमनायोगाद् इति भावः ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विसर्जितः अन्यत्र प्रस्थापितः । सुपर्णे तत्र स्थिते वासुकेर् आगमनायोगाद् इति भावः ॥३८-३९ ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽयम् अष्टम-स्कन्धे सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे षष्ठोऽध्यायः ।
॥६॥
(८.७)