०५ ब्रह्म-स्तुतिः

॥ ८.५.१ ॥

श्री-शुक उवाच—

राजन्न् उदितम् एतत् ते हरेः कर्माघ-नाशनम् ।
गजेन्द्र-मोक्षणं पुण्यं रैवतं त्व् अन्तरं शृणु ॥**

**श्रीधरः : **

अमृताख्यानम् अष्टाभिर् अध्यायैर् अनुवर्ण्यते ।

स्व-भक्त-पक्ष-पातेन यत्र योषायितं प्रभोः ॥

पञ्चमे पञ्चमं चाथ षष्ठं चाकथयन् मनुम् ।

विप्र-शापाच् च निःस्रीकैः कृतां देवैर् हरेः स्तुतिम् ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

षष्ठ-मन्वन्तरे श्रीमद्-अजितस्य कथाम् अनु ।

दुर्वासः-शाप-निःश्रीकाः पञ्चमे तुष्टुवुः सुराः ॥ओ॥

—ओ)०(ओ—

**॥ ८.५.२ ॥ **

पञ्चमो रैवतो नाम मनुस् तामस-सोदरः ।
बलि-विन्ध्यादयस् तस्य सुता हार्जुन-पूर्वकाः ॥**

**श्रीधरः : **तामसश् चतुर्थो मनुः, तस्य सोदरो भ्राता ॥२॥

**चैतन्य-मत-मञ्जुषा :**पञ्चमं मनुम् आह—पञ्चम इत्य्-आदि ॥२॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

**॥ ८.५.३ ॥ **

विभुर् इन्द्रः सुर-गणा राजन् भूतरयादयः ।
हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्व्-आदयो द्विजाः ॥**

न कतमेन व्याख्यातम्।

—ओ)०(ओ—

**॥ ८.५.४-५ ॥ **

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः ।
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥**

वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया ॥**

श्रीधरः : न व्याख्यातम्।

**चैतन्य-मत-मञ्जुषा :**तयोर् विकुण्ठा-शुभ्रयोर् भगवान् स्वयं श्री-कृष्णः सकलया जज्ञे इत्य्-अन्वयः । येन रमया प्रार्थ्यमानेन विकुण्ठाख्यो लोकः कल्पितः, वैकुण्ठ-सदृशं धामान्तरं चक्रे । अयं भावः—प्राक्-सिद्धं लोकं नित्यं परम-वैकुण्ठं नित्यत्वेनैव वर्तते, यद् धि ब्रह्मणे भगवता दर्शितं, यत्र सनकादयो गत्वा भगवन्तं ददृशुः, यत्र नैःश्रेयसं नाम वनं, तन् नित्यं वैकुण्ठम् । इदं तु सहावतीर्णया कलया रमया प्रार्थैतः सन्, तद्-अनुकल्पः सन्, तद्-अनुकल्पं वैकुण्ठं चकार । वैकुण्ठ-कृतत्वाद् वैकुण्ठम् इदं, तत् तु वैकुण्ठं सनातनम्, ब्रह्म-रूप-लोकः कुण्ठातीतं विकुण्ठम् अकुण्ठं सर्व-शक्ति-सम्पन्नत्वात् कुत्रापि न कुण्ठम् । विकुण्ठम् एव वैकुण्ठं, स्वार्थेऽण् । तथा च—क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः [भा।पु। ११.२०.३७] इत्य्-आदयो यस्य निरुक्तयः । लोकेऽपि ईश्वरो लोकः स्व-स्थानात् कस्यापि हेतोः स-परिकरश् चेद् गच्छति, तदा परिकर-परितोषात् पुरान्तरं करोति, अन्यथा अस्यैव कुण्ठत्वं यदि, तदा पूर्व-पूर्व-कथित-वैकुण्ठ-लोकस्य प्रात्वम् असङ्गतम् ॥४-५॥

**क्रम-सन्दर्भः : **यथा भगवद्-वपुर् आविर्भवति लोके, तथैव क्वचित् कस्यचित् तत्-पदस्याविर्भावः श्रूयते—पत्नीति द्वयेन । यथा भगवत आविर्भाव-मात्रं जन्मेति मन्यते, तथैव वैकुण्ठस्यापि कल्पनम् आविर्भावनम् एव, न तु प्राकृतवत् कृत्रिमत्वम् । उभयत्रापि नित्यत्वात्, इत्य् अभिप्रायेण तत्-साम्येनाह—जज्ञ इति । श्री-विकुण्ठा-सुतस्यैवेदं वैकुण्ठं, मूल-वैकुण्ठं तु सृष्टेः प्राक् श्री-ब्रह्मणा दृष्टम् इति द्वितीय-स्कन्धे [भा।पु। २.९.९-१६] प्रसिद्धम् एव । सतन्-निकेतं परिसृत्य शून्यम् अपश्यमानः कुपितो ननाद[भा।पु। ८.१९.११] चेति निर्दिष्टं तत् स्थानं तु सर्गादि1-गतम् एव ज्ञेयम् ।_।_४-५॥ [भगवत्-सन्दर्भः ६३]

**विश्वनाथः : **शुभ्रस्य पत्नी विकुण्ठा आसीद् इति शेषः । तयोर् भगवान् वैकुण्ठैः सह जज्ञे॥४॥ यथा भगवत आविर्भाव-मात्रं जन्मेति भण्यते तथैव वैकुण्ठस्य कल्पनम् आविर्भावनम् एव, न तु प्राकृतवत् कृत्रिमत्वम् । उभयत्रापि नित्यत्वात् नित्यत्वाभिप्रायेण तत्-साम्येनाह जज्ञ इति । श्री-विकुण्ठ-सूतस् तस्येवेदं वैकुण्ठं मूल-वैकुण्ठस् तु अष्टावरण-पारे विरजं सृष्टेः प्राक् ब्रह्मणा दृष्टम् इति द्वितीय-स्कन्धे प्रसिद्धम् इति सन्दर्भः ॥५॥

—ओ)०(ओ—

**॥ ८.५.६ ॥ **

तस्यानुभावः कथितो गुणाश् च परमोदयाः ।
भौमान् रेणून् स विममे यो विष्णोर् वर्णयेद् गुणान् ॥**

**श्रीधरः : **तस्य वैकुण्ठ-संज्ञस्य हरेर् अनुभावः सनकादि-शापेन दैत्यतां प्राप्ताभ्यां स्व-पार्षदाभ्यां वराहादि-रूपेना यूद्धादि-लक्षणः, गुणाश् च ब्रह्मण्यतादयः, परमोदयाश् च महर्द्धयः कथिताः तृतीय-स्कन्धादिषु ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कथितस् तृतीय-स्कन्धे गुणा ब्रह्मण्यत्वादयः ॥६॥

—ओ)०(ओ—

**॥ ८.५.७-१० ॥ **

षष्ठश् च चक्षुषः पुत्रश् चाक्षुषो नाम वै मनुः ।
पूरु-पूरुष-सुद्युम्न- प्रमुखाश् चाक्षुषात्मजाः ॥**

इन्द्रो मन्त्रद्रुमस् तत्र देवा आप्यादयो गणाः ।
मुनयस् तत्र वै राजन् हविष्मद्-वीरकादयः ॥**

तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः ।
अजितो नाम भगवान् अंशेन जगतः पतिः ॥**

अयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्म-रूपेण मन्दरः ॥**

चैतन्य-मत-मञ्जुषा : षष्ठं मनुम् आह—अजितो नामेत्य्-आदि । भगवान् श्री-कृष्णोऽजित-नामाभूत् । एवं स्वायम्भुवे मन्वन्तरे प्रथमे मन्वन्तरावतारः कपिलो यज्ञश् च, द्वितीये स्वारोचिषे मन्वन्तरे विभुः । तृतीये उत्तमे मन्वन्तरे सत्यसेनः । चतुर्थे तामसे हरिः । पञ्चमे रैवते वैकुण्ठः, यो वैकुण्ठान्तरं चकार । षष्ठे चाक्षुषेऽजितोऽयम् ॥९॥

अन्यैर् न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.५.११-१२ ॥

श्री-राजोवाच——

यथा भगवता ब्रह्मन् मथितः क्षीर-सागरः ।
यद्-अर्थं वा यतश् चाद्रिं दधाराम्बुचरात्मना ॥**

यथामृतं सुरैः प्राप्तं किं चान्यद् अभवत् ततः ।
एतद् भगवतः कर्म वदस्व परमाद्भुतम् ॥**

**श्रीधरः : **यतो हेतोः । अम्बु-चरात्मना कूर्म-रूपेण । सुराणां साधिता सुधा इत्य् उक्त्या युद्धाद्य् अपि सूचितम्, अतः पृच्छति—किं चान्यद् इति ॥११-१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अम्बुचरः कूर्मस् तद्-आत्मना ॥११-१२॥

—ओ)०(ओ—

**॥ ८.५.१३ ॥ **

त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः ।
नातितृप्यति मे चित्तं सुचिरं ताप-तापितम् ॥**

**श्रीधरः : **नोत्तिष्ठेरन्न् अपुनर् जीवन्ति स्मेत्य् अर्थः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ८.५.१४ ॥

श्री-सूत उवाच—

सम्पृष्टो भगवान् एवं द्वैपायन-सुतो द्विजाः ।
अभिनन्द्य हरेर् वीर्यम् अभ्याचष्टुं प्रचक्रमे ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ८.५.१५-१६ ॥

श्री-शुक उवाच—

यदा युद्धेऽसुरैर् देवा बध्यमानाः शितायुधैः ।
गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥**

यदा दुर्वासः-शापेन सेन्द्रा लोकास् त्रयो नृप ।
निःश्रीकाश् चाभवंस् तत्र नेशुर् इज्यादयः क्रियाः ॥**

**श्रीधरः : **दुर्वाससा हि कदाचिन् मार्गे गच्छन्तम् इन्द्रं दृष्ट्वा स्व-कण्ठ-स्था माला तस्मै दत्ता, तेन च श्री-मदेनानादृत्यैरावतस्य कुम्भयोर् निक्षिप्ता, स च गजो मत्तः पद्भ्यां तां मालां चूर्णी-चकार, ततः कुपितो दुर्वासास् तं शशाप त्रिभिर् लोकैः सह त्वं निःश्रीको भवेति । तद् एतद् आह—यदा दुर्वाससः शापाद् इति । इज्यादयो यागाद्याः। ॥१५-१६॥

**क्रम-सन्दर्भः : **यदा युद्ध इति युग्मकम् । सेन्द्रा इन्द्रानुगता ये, त एव, न त्व् असुरा इत्य् अर्थः ॥१५-१६॥2

विश्वनाथः : नोत्तिष्ठेरन् न पुनर् जीवन्ति स्म इति देवानां पराभव उक्तः, तत्र कारणम् आह—दुर्वासः-शापेनेति । दुर्वासा हि कदाचिन् मार्गे गच्छन्तम् इन्द्रं दृष्ट्वा स्व-कण्ठ-स्था माला तस्मै दत्ता । तेन श्री-मदेनानादृत्यैवैरावतस्य कुम्भयोर् निक्षिप्ता । स च पशुत्वान् मत्तः पतितां तां मालां पद्भ्यां चूर्णीचकार । तद् दृष्ट्वा कुपितो दुर्वासास् त्रिभिर् लोकैः सह त्वं निःश्रीको भवेति शशाप ॥१५-१६॥

—ओ)०(ओ—

**॥ ८.५.१७-१८ ॥ **

निशाम्यैतत् सुर-गणा महेन्द्र-वरुणादयः ।
नाध्यगच्छन् स्वयं मन्त्रैर् मन्त्रयन्तो विनिश्चितम् ॥**

ततो ब्रह्म-सभां जग्मुर् मेरोर् मूर्धनि सर्वशः ।
सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

**॥ ८.५.१९-२० ॥ **

स विलोक्येन्द्र-वाय्व्-आदीन् निःसत्त्वान् विगत-प्रभान् ।
लोकान् अमङ्गल-प्रायान् असुरान् अयथा विभुः ॥**

समाहितेन मनसा संस्मरन् पुरुषं परम् ।
उवाचोत्फुल्ल-वदनो देवान् स भगवान् परः ॥**

**श्रीधरः : **असुरान् अयथा देव-वैलक्षण्येन । बल-पुष्ट्य्-आदि-युक्तान् विलोक्येत्य् अर्थः । हरिं शरणं गताः सन्तो यथा-पूर्वं सर्वं प्राप्स्याम इति हर्षेणोत्फुल्लं विकसितं वदनं यस्य ॥१९-२०॥

**चैतन्य-मत-मञ्जुषा :**समाहितेन मनसेत्य्-आदि । पुरुषं परं श्री-कृष्णम् एवेत्य् अर्थः । समाहितेन मनसा संस्मरन्, न तु तत्र गत्वा पश्यन् । उत्फुल्ल-वदन इत्य् अस्यायम् अर्थः—स्मरण-मात्रेण प्रसाद-सुमुखस्य प्रादुर्भूतः श्री-कृष्ण इति सर्व-कार्य-सिद्धिर् अनुमिता ॥२०॥

**क्रम-सन्दर्भः : **स विलोक्येति युग्मकम् । असुरान् अयथेति ज्ञान-दृष्ट्यैव दृष्टम्, तेषाम् अत्रानागमनात् । उत्फुल्ल-वदन इति समाधौ हरेः प्रसादानुभवात् ॥१९-२०॥

विश्वनाथः : स परमेष्ठी असुरांस् तु अयथा बल-पुष्ट्य्-आदि-युक्तान् ॥१९-२०॥

—ओ)०(ओ—

**॥ ८.५.२१ ॥ **

अहं भवो यूयम् अथोऽसुरादयो

मनुष्य-तिर्यग्-द्रुम-घर्म-जातयः ।

यस्यावतारांश-कला-विसर्जिता

व्रजाम सर्वे शरणं तम् अव्ययम् ॥

**श्रीधरः :**मनुष्यादयो जरा-युजाण्ड-जोद्भिज्ज-स्वेद-जाः । यस्यावतारः पुरुषस् तस्यांशो ब्रह्मा तस्य कला मरीच्य्-आदयस् ताभिर् विसर्जिताः पुत्र-पौत्रादि-द्वारा जनिताः ॥२१॥

**चैतन्य-मत-मञ्जुषा :**यद् उवाच तद् एव दर्शयति—अहं भवेत्य्-आदिभिः त्रिभिः ॥२१॥

**क्रम-सन्दर्भः : **यस्यावतार-रूपा येऽंशाः कलाश् च पुरुषस्य त्रि-देव्य्-आदयो मरीच्य्-आदयश् च ताभिर् विसर्जिताः । तत्र मूलावतारिणः पुरुष-त्रयं, तत्र द्वितीयात् पुरुषात् त्रिदेवी । तत्र ब्रह्मणो मरीच्य्-आद्याः । तेभ्योऽन्येऽन्य इति विवेचनीयम् । तद् एतद् अवतारि-दृष्ट्योक्तम् ॥२१॥

**विश्वनाथः : **धर्म-जातयः स्वेदजाः । यस्यावतारः पुरुषस् तेनाहं भवश् च विसर्जितो विविधां सृष्टिं कारितौ पुरुषांशेन मया च मरीच्य्-आदयः । मत्-कलाभिर् मरीच्य्-आदिभिः पुत्र-पौत्र-द्वारा औस्रादयो विसर्जिताः ॥२१॥

—ओ)०(ओ—

**॥ ८.५.२२ ॥ **

न यस्य वध्यो न च रक्षणीयो

नोपेक्षणीयादरणीय-पक्षः ।

तथापि सर्ग-स्थिति-संयमार्थं

धत्ते रजः-सत्त्व-तमांसि काले ॥

**मध्वः-**अनुग्राह्यतया पक्षा देवानात्म्यर्थतो हरेः इति च ॥२२॥

**श्रीधरः : **ननु तर्हि सर्वेष्व् असौ समः स्यात्, किं तच् छरणाश्रयेण ? सत्यम्, यद्यप्य् एवं, तथाप्य् अस्मत्-पक्षपाती भविष्यतीत्य् आशयेनाह—न यस्येति द्वाभ्यम् ॥२२॥

**क्रम-सन्दर्भः : **न यस्येत्यादौ सर्गादयः, लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इति न्यायेनैवेति भावः । तद् उक्तम्—

सृष्ट्य्-आदिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥ इत्य् आदि3 ॥२२॥

विश्वनाथः : न यस्य बध्य इति तस्य सर्वत्र साम्याद् इति भावः । ननु तर्हि वधादयः कथं जगति दृश्यन्ते तत्राह धत्ते इति । गुणानां तच्-छक्तित्वात् सृष्ट्य्-आद्य्-अर्थं स एव रज-आदि धत्ते इत्य् उच्यते तमः-सत्त्व-रजोभिर् गुणैर् एव वध-रक्षणोपेक्षणानि क्रियन्ते तत्र परमेश्वरे केवलम् उपचार इति भावः ॥२२॥

—ओ)०(ओ—

**॥ ८.५.२३ ॥ **

अयं च तस्य स्थिति-पालन-क्षणः

सत्त्वं जुषाणस्य भवाय देहिनाम् ।

तस्माद् व्रजामः शरणं जगद्-गुरुं

स्वानां स नो धास्यति शं सुर-प्रियः ॥

**श्रीधरः : **स्थिति-पालनस्य क्षणः कालः । अतः सुर-प्रियः सन् स्वीयानां नः शं सुखं करिष्यति ॥२३॥

**क्रम-सन्दर्भः : **ननु, सर्गादिकालाऽनुसारी चेद् असौ तर्हि कालान्तरेऽस्मद्-विपक्षी-भावान् नातिविश्वसनीयस् तत्राह—स्वानाम् इति । ननु, तर्हि स्वीयत्वम् अप्य् अस्मासु न घटते ? तत्राह—सुर-प्रियः । सुरेषु प्रियास् तद्-भक्ताः श्री-नारदादयो यस्य स इति । सुरेष्व् एव तद्-भक्तानां स्थिति-प्राचुर्याद् अस्मास्व् एवास्याऽनुग्रहः पर्यवस्यतीति भावः ॥२३॥

विश्वनाथः : किन्तु सम्प्रति तमः-कार्य-वध-कालो नेत्य् आह—अयं स्थितिर् मर्यादा तस्याः पालन-क्षणः समयः । सत्त्वं जुषाणस्येति सम्प्रति सत्त्वं स्वीकुर्वन् सुर-प्रियः एव भवितुम् अर्हतीति भावः ॥२३॥

—ओ)०(ओ—

॥ ८.५.२४ ॥

श्री-शुक उवाच—

इत्य् आभाष्य सुरान् वेधाः सह देवैर् अरिन्दम ।
अजितस्य पदं साक्षाज् जगाम तमसः परम् ॥**

**श्रीधरः : **यत्र क्षीराब्धौ हरेर् वासस् तद् एव तमसः परं स्थानम् । यद् वा, लोकालोकात् परतो यत् तमस् ततः परं स्थानं जगाम ॥२४॥

**चैतन्य-मत-मञ्जुषा :**अजितस्य पदं स्थानं तमसः परं लोकाद् बहिर् यद् उत्तमं तस्माद् अपि परम्, तत्रार्जुनेन सह भगवान् श्री-कृष्णो ब्राह्मण-पुत्रानयनार्थं गतः । यद् वा, तमसः परं शुद्ध-सत्त्वं, किन्तु ब्रह्माण्डान्तर्-वर्त्य् एव तत् । क्षीराब्धि-स्थं वा ॥२४॥

**क्रम-सन्दर्भः : **अजितस्य पदं विकुण्ठा-सुतस्यैव तेनैव प्रकाशितं वैकुण्ठ-विशेषम् । तमसः परम् प्रपञ्च-मध्याविर्भूतत्वेऽपि श्री-भगवद्-विग्रहवद् एव प्रकृत्या न स्पृष्टं यत् तज् जगाम, तत्-समीप-देशं प्रापेत्य् अर्थः ॥२४॥

विश्वनाथः : पदं क्षीरोदधि-स्थ-श्वेतद्वीपम् । तमसः प्रकृतेः परम् ॥२४॥

—ओ)०(ओ—

**॥ ८.५.२५ ॥ **

तत्रादृष्ट-स्वरूपाय श्रुत-पूर्वाय वै प्रभुः ।
स्तुतिम् अब्रूत दैवीभिर् गीर्भिस् त्व् अवहितेन्द्रियः ॥**

**श्रीधरः : **दैवीभिर् लोकेऽप्रसिद्धाभिर् वैदिकीभिर् गीर्भिः स्तुतिम् अकरोत् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अदृष्ट-स्वरूपायेति तत्र वर्तमानत्वेऽपि तद्-इच्छां विना द्रष्टुम् अशक्तेः । अब्रूत अकरोत् । दैवीभिः पुरुष-सूक्तादिभिः वैदिकीभिः ॥२५॥

—ओ)०(ओ—

॥ ८.५.२६ ॥

श्री-ब्रह्मोवाच—

अविक्रियं सत्यम् अनन्तम् आद्यं

गुहाशयं निष्कलम् अप्रतर्क्यम् ।

मनोऽग्र-यानं वचसानिरुक्तं

नमामहे देव-वरं वरेण्यम् ॥

**श्रीधरः : **देव-वरं नमामहे नमाम । हे देव ! वरं त्वां नमामेति वा । वरत्वे हेतुः—सत्यम् । कुतः ? अविक्रियम् । तत् कुतः ? अनन्तम् आद्यं चानादिम् । आद्य्-अन्तवन्तो हि वृद्ध्य्-आदि-विक्रिया-युक्ता भवन्ति । किं च—गुहाशयं सर्वान्तरम् । कुतः ? निष्कलं निरुपाधिम् । तत् कुतः ? अप्रतर्क्यम् । तत् कुतः ? मनोऽग्र-यानं मनसोऽपि जविष्टम् । मनः-प्राप्ये स्थाने ततः प्राग् एव विद्यमानत्वात् । तथा च श्रुतिः—अनेजद् एकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वम् अर्शत् । तद् धावतोऽन्यानेत्य् एति तिष्ठेत् इति । वचसा अनिरुक्तं, अविषयत्वात्—यद्-वाचा नाभ्युदितं येन वाग् अभ्युद्यते इति श्रुतेः । मनो-वचसोर् अगोचरत्वाद् अप्रतर्क्यम् । यथेष्टं वा सर्वेषां हेतु-हेतुमद्-भावः ॥२६॥

**क्रम-सन्दर्भः : **ब्रह्मत्वेन स्तौति—अविक्रियम् इति ॥२६॥

विश्वनाथः : हे देव ! त्वां वयं नमाम एव न तु ध्यातुं स्तोतुं च प्रभवाम इत्य् आहुः । मनसोऽग्रे यानं यस्य तम् । तथा च श्रुतिः—अनेजद् एकं मनसो जवीयो नैनद् देवा आप्नुवन् पूर्वम् अर्शत् । तद् धावतोऽन्यानेत्य् एति तिष्ठेत् [ईश।उ। ४]इति । वचसापि अनिरुक्तं—यद् वाचा नाभ्युदितं येन वाग् अभ्युद्यते इति श्रुतेः । अस्मन्-मनो-वचसोर् मायिकत्वात् तव तु मायातीतत्वाद् इति भावः । मायातीतत्वे लिङ्गम् आह विक्रियं गुणानाम् एव विकार-धर्मत्वाद् इति भावः । न च मन आद्यगम्यत्वेऽपि तवावस्तुत्वम् इत्य् आह—सत्यम् । ननु, किं घट-पटादिकम् इव नेत्य् आह अनन्तं काल-देश-परिच्छेद-रहितं यत्र आद्यं सर्व-जगत्-कारणम् । अत एव सर्वेषाम् अगम्यत्वाद् गुहायाम् इव शेते इति तं, यतो निष्कलं निरुपाधिम् । यद् वा, अप्रमेयत्वान् निष्कलं—कलो नाकालम् आनायोर् इति मेदिनी। तत्र हेतुः अप्रतर्क्यम् ॥२६॥

—ओ)०(ओ—

**॥ ८.५.२७ ॥ **

विपश्चितं प्राण-मनो-धियात्मनाम्

अर्थेन्द्रियाभासम् अनिद्रम् अव्रणम् ।

छायातपौ यत्र न गृध्र-पक्षौ

तम् अक्षरं खं त्रि-युगं व्रजामहे ॥

**मध्वः-**छाया त्व् अविद्या सम्प्रोक्ता जन्य-विद्याऽऽतपः स्मृतम् ।

जीव-गृध्रस्य तौ पक्षाव् अध-ऊर्ध्व-पथोः पृथक् ।
तौ विष्णोस् तु न विद्येते नित्य-विद्या स्वरूपिणः ॥ इति च ॥२७॥

**श्रीधरः : **किं च, प्राणादीनां विपश्चितं ज्ञातारम् । आत्माहङ्कारो देहो वा, न तु तद्-व्यतिरिक्तं ज्ञेयम् अस्तीत्य् आह—अर्थो विषयः । इन्द्रियाणि तद्-वाहकानि तद्-उभय-रूपेणाभासत इति तथा तम् । तथाप्य् अनिद्रं स्वप्न-दर्ष्टृवद् अज्ञान-रहितम् । कुतः ? अव्रणम् अदेहम् । अत एवाक्षरं खम् इव व्यापिनं च । सर्वत्र हेतुः—यत्र यस्मिन् गृध्र-पक्षौ जीव-पक्ष-पातिनौ छायातपाव् अविद्या च तन्-निवर्तिका विद्या च नास्ति तं त्रि-युगं त्रिषु युगेष्व् आविर्भवन्तं शरणं व्रजाम ॥२७॥

**क्रम-सन्दर्भः : **परमात्मत्वेन स्तौति—विपश्चितम् इति द्वाभ्याम् । तत्-तद्-अवतार-रूपेण त्रि-युगम् ॥२७॥

विश्वनाथः : अतस् तस्य सर्वज्ञत्वं सर्वाज्ञेयत्वं चाह—विपश्चितं प्राणादीनां ज्ञातारम्। आत्मा अहङ्कारो देहो जीवो वा । अर्था विषयाः इन्द्रियाणि तद्-ग्राहकाणि तैर् न भासते इति तं विषय-निष्ठेन्दिर्यागोचरम् इत्य् अर्थः । अनिद्रं द्रष्टारं तद् अपि अव्रणं जीव-दुःख-दर्शिनेऽप्य् अदुःखितं सर्वत्र हेतुः । यत्र यस्मिन् गृध्र-पक्षौ जीव-पक्ष-तुल्यौ छाया-तपौ अविद्या-विद्ये न स्तः । अत एवाक्षरं खं नित्य-सुख-रूपम् इत्य् अर्थः । खम् इन्द्रिये सुखे स्वर्ग इति कोषः । नित्य-सुखम् एव गणयति । त्रियुगं त्रीणि युगानि यत्र तं षड्-ऐश्वर्यवन्तम् इत्य् अर्थः । व्रजामहे शरणं व्रजामः ॥२७॥

—ओ)०(ओ—

**॥ ८.५.२८ ॥ **

अजस्य चक्रं त्व् अजयेर्यमाणं

मनोमयं पञ्चदशारम् आशु ।

त्रि-नाभि विद्युच्-चलम्4** अष्ट-नेमि**

यद्-अक्षम् आहुस् तम् ऋतं प्रपद्ये ॥

**मध्वः-**गुण-त्रय-नाभि । विद्युद् ब्रह्म । विद्युद् ब्रह्मेत्य् उपासीत इति श्रुतेः । जगच्-चक्रस्याक्ष-भूतो बल-रूपश् च केशवः ॥ इति च ॥२८॥

**श्रीधरः : **तद् एवम् अविक्रियत्वादिभिः सर्व-ज्ञत्वादिभिश् च सत्यत्वं वरेण्यत्वं चोक्तम्, संसार-चक्राधारत्वेनापि तद् एव दर्शयन्न् आह—अजस्य जीवस्य चक्रं चक्रवद् आवर्तमानं देहाद्य्-अजया मायया प्रेर्यमाणम् । योऽक्षो यस्य यद् अधिष्ठानम् आहुस् तम् ऋतं सत्यं प्रपद्ये । कथं-भूतं चक्रम् ? मनो-मयं मनः प्रधानम् । दशेन्द्रियाणि पञ्च-प्राणाश् चेत्य् एवं पञ्च-दश अरा यस्य । आशु शीघ्र-गम् । त्रयो गुणा नाभिर् इव मध्ये यस्य । विद्युद् इव चलम् । अष्टौ प्रकृतयो नेमय इवावरणानि यस्य ॥२८॥

**क्रम-सन्दर्भः : **यद् अक्षम् आहुर् इत्य् अस्य टीकायां—गुणीभूत-प्रथमान्त-यच्-छब्देनैव तम् इत्य् अस्यान्वयः कृतः । अष्टौ प्रकृतयः [श्रीधर-टीकायाम्]इति भूमिर् आपोऽनलो वायुः[गीता७.४] इत्य्-आदि-गीतोक्तेः ॥२८॥

**विश्वनाथः : **एवम्-भूतः स एव जीवैर् उपास्यो यतो जीवाविद्या तद्-आश्रययैवेत्य् आह अजस्य जीवस्य चक्रं संसार-चक्रम् अजया मायया प्रेर्यमाणं चाल्यमानं मनो-मयं मनः-प्रधानं दशेन्द्रियाणि पञ्च-प्राणाश् चेत्य् एवं पञ्चदश अरायस्य आशु शीघ्र-गं त्रयोगुणा नाभिर् इव मध्ये यस्य विद्युद् इव चपलम् अष्ट-प्रकृतयो नेमय इवाकरणानि यस्य तत् । यद् अक्षं यः परमेश्वर एवाक्षो यस्य तत् यद् अधिष्ठानम् आहुर् इत्य् अर्थः । तत् ऋतं प्रपद्ये ॥२८॥

—ओ)०(ओ—

**॥ ८.५.२९ ॥ **

य एक-वर्णं तमसः परं तद्

अलोकम् अव्यक्तम् अनन्त-पारम् ।

आसां चकारोपसुपर्णम् एनम्

उपासते योग-रथेन धीराः ॥

**श्रीधरः : **सर्व-जीव-नियन्तृत्वादिना च वरिष्ठत्वम् आह, य इति । य उप-सुपर्णं जीव-समीपे तन् नियन्तृत्वेनासाञ्चकारास् ते स्म । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते [मु।उ। ३.१.१] इति श्रुतेः । यद् वा, भक्त-रक्षणार्थं गरुडस्योपरि य उपविष्ट इत्य् अर्थः । तर्हि देह-स्थत्वाद् भक्त-रक्षणादि-क्रियावेशाज् जीव-साम्यं स्यात् तत्राह, एक-वर्णं ज्ञानैक-स्वरूपं, तमसः प्रकृतेः परम्, अलोकम् अदृश्यम् अव्यक्तं निर्विकल्पम्, अनन्त-पारं कालतो देशतश् चापरिच्छिन्नं तद् ब्रह्मैव यः । अप्रच्युत-स्वरूपत्वान् न जीव-साम्यम् । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [मु।उ। ३.१.१] इति विशेष-श्रवणाद् इत्य् अर्थः । अत एव यम् एनं धीरा योगेन रथेन प्राप्ति-साधनेनोपासते भजन्ते तं नमामेत्य् उत्तरेणान्वयः ॥२९॥

**क्रम-सन्दर्भः : **भगवत्त्वेन स्तौति—य इति युग्मकेन । यस् तमसः परं स्व-धाम आसाञ्चकार अनादित एवाऽध्यास्ते तम् एनं योग-रूप-प्राप्ति-साधनेन धीरा उपासते । तच् चोपसुपर्णं यथा स्यात् तथेति । गरुडम् अप्य् अनुगम्योपासत इत्य् अर्थः । इति दाक्ष्यं दर्शितम् । तद् धाम विशिनष्टि—एक-वर्णं शुद्ध-सत्त्वैक-स्वरूपम् यतस् तमसः प्रकृतेः परम्, यत एवालोकम् लोकातीतम् । अत एवानन्त-पारम् अव्यक्तम् प्राकृतागोचरम् इति ॥२९॥

**विश्वनाथः : **प्रपत्ति-प्रकारम् अभिव्यञ्जयति—य इति । एक-वर्णम् एकाक्षरं प्रणव-रूपं सुपर्णं गरुडं य उप आधिक्येन उपरि वा आसाञ्चकार अध्यास्ते स्म । कीदृशम् ? तमसः प्रकृतेः परं तत् तं प्रसिद्धम् अलोकं लोकातीतं, अत एव अव्यक्तं लोकागम्यम् । तत्र हेतुः—अनन्त-पारं सर्व-वेद-रूपत्वाद् अर्थतः शब्दतश् च एतावत्तया निश्चेतुम् अशक्यम् । एति भावःभावं प्रणव-सुपर्णम् आरूढम् एनं परमेश्वरं योग एव रथः, तेन योग-लक्षणं रथम् आरुह्येत्य् अर्थः । उपासते उत्साह-स्थायिना वीर-रसेन युद्ध्यमाना इवेत्य् अर्थः । तन् मां मोक्षानन्द-जिघृक्षयेति भावः । धीरा युद्धाद् अनपसरन्तः तं नमामेत्य् उत्तरेणान्वयः ॥२९॥

—ओ)०(ओ—

**॥ ८.५.३० ॥ **

न यस्य कश्चातितितर्ति5** मायां**

यया जनो मुह्यति वेद नार्थम् ।

तं निर्जितात्मात्म-गुणं परेशं

नमाम6** भूतेषु समं चरन्तम् ॥**

मध्वः : आत्मा च आत्म-गुणाश् च निर्जिता येन ॥३०॥

**श्रीधरः : **माया-नियन्तृत्वेनापि जीव-साम्यं परिहरन् वरिष्ठत्वम् आह—यस्य मायां कश् च कश्चिद् अपि नातितितर्ति नातिक्रामति । कथं-भूताम् ? जनो यया मुह्यति । अर्थम् आत्म-स्वरूपं न तु वेद । निर्जित आत्मात्म-शक्तिर् माया च तद् गुणाश् च येन तम् ॥३०॥

**क्रम-सन्दर्भः : **अधीराणां तु दुर्गमत्वम् आह—न यस्येति । अर्थं परमार्थं यं न वेद, तं परेशं7 भगवन्तं नमामि । कीदृशम् ? निर्जिता वशीकृता आत्मानः स्वांश-भूताः महा-पुरुषादयः आत्म-भूता गुणा ऐश्वर्यादयश् च येन तम् एवं-भूतैश्वर्यत्वेऽपि न तूच्चावचा दृष्टिर् इत्य् आह—भूतेष्व् इति ॥३०॥

विश्वनाथः : प्रभविष्णुताम् आह—न यस्येति । कश् च कोऽपि प्रपत्तिं विनेति शेषः । निर्जिता वशीकृता आत्मानो जीवा आत्म-शक्तिर् माया तद्-गुणाश् च येन तम् ॥३०॥

—ओ)०(ओ—

**॥ ८.५.३१ ॥ **

इमे वयं यत्-प्रिययैव तन्वा

सत्त्वेन सृष्टा बहिर्-अन्तर्-आविः ।

गतिं न सूक्ष्माम् ऋषयश् च विद्महे

कुतोऽसुराद्या इतर-प्रधानाः ॥

**श्रीधरः : **अर्थं न वेद[भा।पु। ८.५.३०] इति यद् उक्तं, तत् प्रपञ्चयन्न् आह—इमे वयं देवा ऋषयश् च यस्य प्रियया तन्वा सत्त्वेनैव सृष्टा अपि बहिर् अन्तश् च सत्ता-प्रकाशाभ्याम् आविः प्रकटाम् अपि सूक्ष्मां गतिं निरुपाधि-स्वरूपं न विद्मः । इतर-प्रधाना रजस्-तमो-मयाः कुतो विदुः ? तं नमामेति पूर्वेणान्वयः ॥३१॥

**चैतन्य-मत-मञ्जुषा :**अजितं स्तुत्वा तस्मात् परं श्री-कृष्णं स्तौति—इमे वयम् इत्य्-आदि । इमे मदाद्याः सुरा इति बहु-वचनम् । यद् यस्य तव प्रियया तन्वा श्री-कृष्णाख्येन श्री-विग्रहेण सूक्ष्माम् अतिदूरस्थत्वेन दुष्प्रापां गतिं काष्ठाम् अवधि-भूतां तां न विद्मः, सत्त्वेन सृष्टा अपि ऋषयश् च न विन्दन्तीत्य् अर्थः । बहिर् अवतारादिभिर् अन्तः केवलेऽन्तः-पुरे आविः प्रादुर्भवन्तीत्य् अपि, कुतोऽसुरा इत्य् अर्थः ॥३१॥

**क्रम-सन्दर्भः : **दुर्गमत्वम् एव दर्शयति—इमे वयम् इति ॥३१॥

**विश्वनाथः :**अर्थं न वेद[भा।पु। ८.५.३०] इति यद् उक्तं, तत् प्रपञ्चयति—इमे इति । बहिः काल-रूपेण अन्तर् अन्तर्यामि-रूपेण आविः प्रकटाम् अपि गतिं चरित्रम् ऋषयः सन्तो न विद्मः । इतर-प्रधाना रजस्-तमो-मयाः कुतो विदुस् तं नमामेति पूर्वेणान्वयः वयं देवा ऋषयश् च यस्य प्रियया तन्वा सत्त्वेनैव सृष्टा अपि बहिर् अन्तश् च सत्ता-प्रकाशाभ्याम् आविः प्रकटाम् अपि सूक्ष्मां गतिं निरुपाधि-स्वरूपं न विद्मः । इतर-प्रधाना रजस्-तमो-मयाः कुतो विदुः ? तं नमामेति पूर्वेणान्वयः ॥३१॥

—ओ)०(ओ—

**॥ ८.५.३२ ॥ **

पादौ महीयं स्व-कृतैव यस्य

चतुर्-विधो यत्र हि भूत-सर्गः ।

स वै महा-पूरुष आत्म-तन्त्रः

प्रसीदतां ब्रह्म महा-विभूतिः ॥

**श्रीधरः : **इदानीं वैराज-रूपेण स्तुवन् प्रार्थयते । पादौ महीति द्वादशभिः । यत्र मह्यां जरा-युजादि-भूत-सर्गः सा मही यस्य पादौ स नः प्रसीदतु । आत्म-तन्त्रः पादादि-मत्त्वेऽपि न तत् पर-तन्त्रः । कुतः ? ब्रह्म अप्रच्युत-रूपः । तत् कुतः ? महती विभूतिर् ऐश्वर्यं यस्य सः ॥३२॥

**चैतन्य-मत-मञ्जुषा :**अजितं स्तुत्वा, ततश् च परात्प्परं श्री-कृष्णं च स्तुत्वा इदानीं विराड्-रूपेण वर्तमानं स्तौति द्वादशभिः ॥३२॥

**क्रम-सन्दर्भः : **तथापि ब्रह्मणोऽपि प्रतिष्ठा-रूपं तम् अर्वाग्-दृष्ट्यैव भजेमहीत्य् आह—पादौ महीति द्वादशभिः । ब्रह्म च महा-विभूतिर् यस्य, अतो महा-विभूतीत्य् अत्रापि महती ब्रह्म-लक्षणा विभूतिर् यस्य स इत्य् एव एकादशे [११.१६] विभूति-कथन-प्रसङ्गे विस्तरेण दर्शयिष्यते ॥३२॥

विश्वनाथः : अतो वयं तव स्थूलं दृश्यं वैराज-रूपं जानीम इति व्यञ्जयन् प्रार्थयते । पादौ महीति द्वादशभिः । महत्यः पृथ्वी-जलाद्या विभूतयो यस्य सः । प्रसीदतां प्रसीदतु । ब्रह्म-मूर्तित्वाद् ब्रह्म ।

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भा।पु। ११.१६.३७]

इति विभूति-गणनाध्याये परम् इत्य् अस्य ब्रह्मेति व्याख्यानात् । परात्परं ब्रह्म च ते विभूतयः [स्तो।र। १४] इति यामुनाचार्य-कृत-स्तोत्राच् च, ब्रह्मापि महा-विभूतिर् यस्येति सन्दर्भः । ततश् च प्राकृते लोके प्राकृत्यः पृथिव्य्-आदयः क्षुद्रा एव विभूतय इति ता एव निर्दिशति पादाव् इति चिन्मय-मूर्तेस् तस्य पादयोर् विभूतित्वात् पादौ इयं मही स्व-कृता स्वेनैव सृष्टा यत्र मह्यां जरायुजादिश् चतुर्विधः । स वै स तु महा-पुरुष इति वैराजोऽयं तु प्राकृतः पुरुषः इति भावः । आत्म-तन्त्र-वैराजोऽयं तु काल-परतन्त्रेति भावः ॥३२॥

—ओ)०(ओ—

**॥ ८.५.३३ ॥ **

अम्भस् तु यद्-रेत उदार-वीर्यं8

सिध्यन्ति जीवन्त्य् उत वर्धमानाः ।

लोका यतोऽथाखिल-लोक-पालाः

प्रसीदतां नः स9** महा-विभूतिः ॥**

मध्वः : सूर्य-सोम-यमेन्द्रादीनृतेऽन्ये लोकपा अपि ।

अद्भिर्जीवन्ति सोमाच् च महेन्द्रादीन् ऋतेऽखिलाः ।
अपां सोमस्य चेन्द्राद्याः सर्वे वै जीवन-प्रदाः ॥10 इति च ॥३३-३४॥

**श्रीधरः : **उदारं वीर्यं शक्तिर् यस्य, तद् अम्भो यस्य रेतः, स नः प्रसीदतु । उदार-वीर्यताम् आह, यतोऽम्भसो लोकादयः सिध्यन्ति जायन्ते ॥३३॥

**क्रम-सन्दर्भः : **लोकास् त्रय इति पाठः सर्वत्र । लोका यत इति स्वामि-सम्मतः, श्लोक-लब्धश् च ॥३३॥

विश्वनाथः : उदार-वीर्यं महा-शक्तिकं, यतोऽम्भसो लोकादयः सिद्ध्यन्ति जायन्ते ॥३३॥

—ओ)०(ओ—

**॥ ८.५.३४ ॥ **

सोमं मनो यस्य समामनन्ति

दिवौकसां यो बलम् अन्ध आयुः ।

ईशो नगानां प्रजनः प्रजानां

प्रसीदतां नः स11** महा-विभूतिः ॥**

**श्रीधरः : **यः सोमो देवानाम् अन्धोऽन्नम् । अत एव बलम् आयुश् च । नगानां वृक्षाणाम् । प्रकर्षेण जनयति वर्धयतीति प्रजनः । तं यस्य मनः समामनन्ति स नः प्रसीदतु ॥३४॥

**क्रम-सन्दर्भः : **अधुना अर्वाक् समन्वन्तं तत्र परिहरन्न् ऐश्वर्य-लीलयोर् महिमानम् आह—नमोऽस्त्व् इति । उपशान्ता निरुपद्रवा शक्तिर् यस्य स्वाराज्यस्य त्रिपाद्-विभूतेः स्व-धाम्नो लाभेन प्रतिपूरिता तत्-तद्-अंशेन सम्भाविता आत्मानं स्वांशा येन नभस्वान् इव विचित्र-गतिर् लीला यस्य तस्मै ॥३४॥

विश्वनाथः : यः सोमो देवानाम् अन्धः, अत एव बलम् आयुश् च । नगानां वृक्षाणां, प्रकर्षेण जनयतीति प्रजनः शुक्रस्य सोमात्मकत्वात् ॥३४॥

—ओ)०(ओ—

**॥ ८.५.३५ ॥ **

अग्निर् मुखं यस्य तु जात-वेदा

जातः क्रिया-काण्ड-निमित्त-जन्मा ।

अन्तः-समुद्रेऽनुपचन्12** स्व-धातून्**

प्रसीदतां नः स महा-विभूतिः ॥13

मध्वः : समुद्रे उदरे ॥३५॥14

**श्रीधरः : **अग्निर् यस्य तु मुखं जातः । कथं-भूतः ? जातं वेदो धनं यस्मात् । क्रिया-काण्डं तत् प्रतिपाद्यं कर्म, तन्-निमित्तं जन्म यस्य । अन्तः समुद्रे उदर-मध्ये स्व-धातून् पाकार्हान् एवान्नादीन् अनुपचन् । प्रसिद्ध-समुद्रेऽपि बाडव-रूपेणोदकान्य् एवानुपचन्न् अग्निः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : जातं वेदो धनं यस्मात् सः । अन्तः-समुद्रे उदर-मध्ये । स्व-धातून् पाकार्हान् एवान्नादीन् पचन् प्रसिद्ध-समुद्रेऽपि बाडव-रूपेण जलानि ॥३५॥

—ओ)०(ओ—

**॥ ८.५.३६ ॥ **

यच्-चक्षुर् आसीत् तरणिर् देव-यानं

त्रयीमयो ब्रह्मण एष धिष्ण्यम् ।

द्वारं च मुक्तेर् अमृतं च मृत्युः15

प्रसीदतां नः स महा-विभूतिः ॥16

मध्वः : अमृतस्येति मुक्तेर् इत्य् अस्य विशेषणम् ॥३६॥

**श्रीधरः : **एष तरिणिर् यस्य चक्षुर् आसीत् । कथं-भूतः ? देव-यानम् अर्चिर् आदि-मार्ग-देवता । त्रयी-मयः, सैषा त्रय्य् एव विद्या तपति इति श्रुतेः । ब्रह्मणो धिष्ण्यम् उपासना-स्थानम् । य एषोऽन्तर् आदित्ये हिरण्-मयः पुरुषः इति श्रुतेः । मुक्तेर् द्वारं देव-यानत्वात् । अमृतं च पुण्य-लोकत्वात् । मृत्युश् च कालात्मकत्वात् । एवं-भूतस् तरणिर् यस्य चक्षुः, स प्रसीदतु ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तरणिः सूर्यः देवयानम् । अर्चिर्-आदि-मार्ग-देवता । त्रयी-मयः, सैषा त्रय्य् एव विद्या तपति इति श्रुतेः । ब्रह्मणोऽधिष्ण्यम् उपासना-स्थानम् । य एषोऽन्तरादित्यो हिरण्मयः पुरुष इति श्रुतेः । मुक्तेर् द्वारं देव-यानत्वात् । अमृतं च पुण्य-लोकत्वात् । मृत्युश् च कालात्मकत्वात् ॥३६॥

—ओ)०(ओ—

**॥ ८.५.३७ ॥ **

प्राणाद् अभूद् यस्य चराचराणां

प्राणः सहो बलम् ओजश् च वायुः ।

अन्वास्म सम्राजम् इवानुगा वयं

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **कथं-भूतो वायुः ? चराचराणां सह-आदि-धर्म-वान् प्राणः, यं प्राणं वयं बुद्ध्य्-आद्य्-अधिष्ठातारो देवाः सम्राजं भृत्या इवास्मान् अनुसृत्य स्थिताः । एवं-भूतो वायुर् यस्य प्राणाद् अभूत् सः ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यस्य प्राणाद् वायुर् इत्य् अन्वयः । यो वायुश् चराचराणां सह आदि-धर्मवान् प्राणः, यं प्राणं वयं बुद्ध्य्-आद्य्-अधिष्ठातारो देवाः सम्राजं भृत्या इव अन्वास्म ॥३७॥

—ओ)०(ओ—

**॥ ८.५.३८ ॥ **

श्रोत्राद् दिशो यस्य हृदश् च खानि

प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।

प्राणेन्द्रियात्मासु-शरीर-केतः

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **खानि देह-गतानि च्छिद्राणि, प्राणः पञ्च-वृत्तिः, इन्द्रियाणि च, आत्मा मनश् च, असवो नाग-कूर्मादयः, शरीरं च, तेषां केतम् आश्रय-भूतं खं यस्य पुरुषस्य नाभ्याः प्रजज्ञे सः ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हृदो यस्य हृदयाकाशात् खानि देह-गत-च्छिद्राणि नाभ्याः सकाशात् खं कीदृशं प्राणः पञ्च-वृत्तिश् च, इन्द्रियाणि च, आत्मा मनश् च, असवो नाग-कूर्मादयः, शरीरं च, तेषां केतम् आश्रय-भूतम् ॥३८॥

—ओ)०(ओ—

**॥ ८.५.३९ ॥ **

बलान् महेन्द्रस् त्रि-दशाः प्रसादान्

मन्योर् गिरीशो धिषणाद् विरिञ्चः ।

खेभ्यस् तु छन्दांस्य् ऋषयो मेढ्रतः कः

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **यस्य बलान् महेन्द्रो जज्ञे । छन्दांसि ऋषयश् च खेभ्यः । कः प्रजा-पतिः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **धिषणायाः बुद्धेः सकाशात् । खेभ्यो देह-च्छिद्रेभ्यः ॥३९॥

—ओ)०(ओ—

**॥ ८.५.४० ॥ **

श्रीर् वक्षसः पितरश् छाययासन्

धर्मः स्तनाद् इतरः पृष्ठतोऽभूत् ।

द्यौर् यस्य शीर्ष्णोऽप्सरसो विहारात्

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः, विश्वनाथः : **इतरोऽधर्मः ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

**॥ ८.५.४१ ॥ **

विप्रो मुखाद् ब्रह्म च यस्य गुह्यं

राजन्य आसीद् भुजयोर् बलं च ।

ऊर्वोर् विड् ओजोऽङ्घ्रिर् अवेद-शूद्रौ

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **विड् वैश्यः । ओजो नैपुण्यं तस्य वृत्तिः । अङ्घ्रिर् अङ्घ्रि-जाव् इत्य् अर्थः । अवेद-शूद्रौ अवेदो वेद-व्यतिरिक्ता शुश्रूषा, तद्-वृत्तिमान् शूद्रश् च । पाठान्तरं सुगमम् ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मुखाद् विप्रः । गुह्यं ब्रह्म वेदश् च । विड् वैश्यः । ओजो नैपुण्यं तस्य वृत्तिश् च । अङ्घ्रिः अङ्घ्रेः सकाशात् । अवेदः वेद-व्यतिरिक्ता शुश्रूषा-वृत्तिः, तद्-वृत्तिमान् शूद्रश् च । विशेषोऽङ्घ्रेर् अभवच् च शूद्र इति च पाठः ॥४१॥

—ओ)०(ओ—

**॥ ८.५.४२ ॥ **

लोभोऽधरात् प्रीतिर् उपर्य् अभूद् द्युतिर्

नस्तः पशव्यः स्पर्शेन कामः ।

भ्रुवोर् यमः पक्ष्म-भवस् तु कालः

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **उपर्य् उत्तरोष्ठात् । नस्तो नासिकातः । द्युतिः कान्तिः । पशव्यः पशूनां हितः कामः स्पर्शेनाभूत् ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उपर्य् उत्तरोष्ठात् । नस्तो नासिकातो द्युतिः । पशव्यः पशूनां हितः कामः स्पर्शेनाभूत् ॥४२॥

—ओ)०(ओ—

**॥ ८.५.४३ ॥ **

द्रव्यं वयः कर्म गुणान् विशेषं

यद्-योगमाया-विहितान् वदन्ति ।

यद् दुर्विभाव्यं प्रबुधापबाधं

प्रसीदतां नः स महा-विभूतिः ॥

**श्रीधरः : **द्रव्यं भूतानि । वयः कालम् । विशेषं भौतिक-प्रपञ्चम् । यद् यस्माद् दुर्विभाव्यम् । कुतः ? प्रबुधापबाधं विद्वद्भिर् अपोह्यमानम् । पाठान्तरे प्रबुधानां मायेत्य् अवबोधो यस्मिन्न् इत्य् अर्थः ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **द्रव्यं पृथिव्य्-आदि त्रयोविंशति-तत्त्वम् । वयः कालम् कर्म च तद्-धेतु-भूतान् गुणान् सत्त्वादीन् योग-माययैव विहितान् सृष्टान् वदन्ति । यद् येभ्यः पृथिव्य्-आदिभ्यः दुर्विभाव्यम् विशेषं प्रपञ्चं च वदन्ति । कीदृशं प्रकृष्ट-बुधानाम् अपबाधं निषेधं प्राकृतत्वेनाग्रहणं यस्य तम् । प्रबुधावबोधम् इति पाठे दुर्विभाव्यम् अपि प्रकृष्टैर् बुधैर् एव अवबोध्यम् इत्य् अर्थः । तेन यस्य स्वरूप-शक्ति-वृत्तेर् योग-मायाया विभूतिः सत्त्वादि-गुण-मयी माया, तस्या विभूतयः काल-कर्म-महद्-आदि पृथिव्य्-अन्तानि तत्त्वानि तेषां विभूतिर् इदं मायिकं विश्वम् एवास्माभिर् अवगम्यते इति व्यञ्जितम् ॥४३॥

—ओ)०(ओ—

**॥ ८.५.४४ ॥ **

नमोऽस्तु तस्मा उपशान्त-शक्तये

स्वाराज्य-लाभ-प्रतिपूरितात्मने ।

गुणेषु माया-रचितेषु वृत्तिभिर्

न सज्जमानाय नभस्वद्-ऊतये ॥

**श्रीधरः : **तद् एवं स-प्रपञ्चम् उपवर्ण्य निष्प्रपञ्चम् अनुवर्णयन् प्रणमति—नमोऽस्त्व् इति । वृत्तिभिर् दर्शनादिभिः । नभस्वान् वायुस् तस्येव ऊतिर् लीला यस्य तस्मै ॥४४॥

**क्रम-सन्दर्भः : **अधुना अर्वाक् सम्बन्धं तत्र परिहरन्न् ऐश्वर्य-लीलयोर् महिमानम् आह—नमोऽस्त्व् इति । उपशान्ता निरुपद्रवा शक्तिर् यस्य । स्वाराज्यस्य त्रिपाद्-विभूतेः स्व-धाम्नो लाभेन प्रतिपूरिता तत्-तद्-अंशेन सम्भाविता आत्मानः स्वांशा येन । नभस्वान् इव विचित्र-गतिर् लीला यस्य तस्मै ॥४४॥

विश्वनाथः : मायातीतं स्वरूपं दुरवगम्यं केवलम् अस्माभिर् नमनीयम् एवेत्य् आह—नम इति । उपशान्ताः संविदाद्या अन्तरङ्गाः शक्तयो यस्य तस्मै, स्वेन स्वरूप-शक्त्यैव राजत इति स्वराट् तस्य भावः स्वाराज्यं तेनैव लाभेन प्रतिपूरित आत्मा मनो यस्य तस्मै ।

ननु तर्हि कथं सृष्ट्य्-आद्य्-आसक्तिस् तत्राह—गुणेष्व् इति वृत्तिभिर् दर्शनादिभिः नभस्वतो वायोर् इव ऊतिः सृष्ट्य्-आदि-लीला यस्य तस्मै ॥४४॥

—ओ)०(ओ—

**॥ ८.५.४५ ॥ **

स त्वं नो दर्शयात्मानम् अस्मत्-करण-गोचरम् ।
प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥**

**श्रीधरः : **स-स्मितं मुखाम्बुजं दिदृक्षूणां नोऽस्मच् चक्षुर्-आदि-करण-गोचरं यथा भवत्य् एवं चात्मानं दर्शय ॥४५॥

**क्रम-सन्दर्भः : **अभीष्टम् आह—स त्वम् इति । अस्माकं करणान्य् अपि गोचराः प्रकाश्यानि यस्य, तादृशम् अप्य् आत्मानं दर्शयस्व, स्वयं प्रकाशय ॥४५॥

विश्वनाथः : ननु ब्रह्मन्न् अभीप्सितं वरं गृहाणेत्य् अत आह—स त्वाम् इति । नोऽस्माकं प्रपन्नानाम् अस्मान् प्रपन्नान् आत्मानं स्व-स्वरूपं दर्शय । किं निर्विशेषं स्वरूपं स-विशेषं वा ? तत्राह—अस्मत्-करण-गोचरं स-विशेषम् इत्य् अर्थः । तत्रापि स-स्मितं मुखाम्बुजम् ॥४५॥

—ओ)०(ओ—

**॥ ८.५.४६ ॥ **

तैस् तैः स्वेच्छा-भूतै रूपैः काले काले स्वयं विभो ।
कर्म दुर्विषहं यन् नो भगवांस् तत् करोति हि ॥**

**श्रीधरः : **भक्तेच्छानुवर्तित्वं च तव बहुशो दृष्टम् एवेत्य् आह—तैस् तैर् इति । यन् नो दुर्विषहम् अशक्यं कर्म तद् भगवान् स्वयम् एव करोति हि ॥४६॥

**क्रम-सन्दर्भः : **स्वेषां भक्तानाम् इच्छया भृतेः पुष्टैर् आविर्भावित-प्रकाशैर् इत्य् अर्थः ॥४६॥

विश्वनाथः : भक्त-वात्सल्यं बहुशः स्मरन्न् आह—स्वेच्छा-भूतैः स्व-भक्तेच्छा-पुष्टैः रूपैर् नृसिंहादिभिः यन् नो दुर्विषहं कर्म तत् स्वयम् एव करोति ॥४६॥

[अत्रानुरूपार्थकं ४.३१.१४, यथा तरोर् मूल- इति पद्यं तथा ८.९.२९ यद् युज्यते इत्य्-आदि पद्यं च द्रष्टव्यम् ]

—ओ)०(ओ—

**॥ ८.५.४७ ॥ **

क्लेश-भूर्य्-अल्प-साराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥**

**श्रीधरः : **न च बहिर् मुखानाम् इव त्वद्-भक्तानाम् अस्माकं त्वय्य् अर्पितानि पूर्व-पुण्यानि विपरीत-फलानि भवितुम् अर्हन्तीत्य् आह, क्लेशो भूरिर् येषु । अल्पं सारं फलं येषु । यद् वा, विफलान्य् एव सकामानां कर्माणि । त्वय्य् अर्पितं तु नैव तथा ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न च बहिर्मुखानाम् इव त्वद्-भक्तानाम् अस्माकं त्वय्य् अर्पितानि पूर्व-पुण्यानि विपरीत-फलानि भवितुम् अर्हन्तीत्य् आह । क्रोशो भूरि येषु अल्पं सारं फलं येषु तानि तान्य् अपि यथा त्वद्-विमुखानां कर्माणि वा एवार्थे विफलान्य् एव, तथा त्वय्य् अर्पितं भक्तानां कर्म न ॥४७॥

—ओ)०(ओ—

**॥ ८.५.४८ ॥ **

नावमः कर्म-कल्पोऽपि विफलायेश्वरार्पितः ।
कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः ॥**

**श्रीधरः : **तत्रावैफल्यम् उपपादयति, अवमोऽल्पोऽपि कर्म-कल्पः कर्माभासोऽपीश्वरार्पितश् चेद् विफलायायासाय न कल्पते । हि यस्मात् स एष ईश्वरः पुरुषस्यात्मा । अत एव दयितो हितश् च । न ह्य् आत्मनि दयिते हिते चार्पितं निष्फलं स्यात् ॥४८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : त्वय्य् अर्पितम् अल्पम् अपि कर्म महद् भवति, अनर्पितं महद् अपि व्यर्थम् एव भवतीत्य् आह—नेति । अवमः अल्पोऽपि कर्म-कल्पः कर्माभासोऽपि न विफलाय । हि यस्मात् । स ईश्वरः पुरुषस्यात्मा दयितो हितश् चेत्य् अतस् तद्-आदरानादराव् एव कर्म-साफल्य-वैफल्य-हेतू इति भावः ॥४८॥

—ओ)०(ओ—

**॥ ८.५.४९ ॥ **

यथा हि स्कन्ध-शाखानां तरोर् मूलावसेचनम् ।
एवम् आराधनं विष्णोः सर्वेषाम् आत्मनश् च हि ॥**

**श्रीधरः : **अनन्त-फलत्वम् आह—यथा हि मूलावसेचनं स्कन्धानां शाखानां च भवति ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किं च, कर्माकरणेऽपि विष्णोर् आराधने सति सर्वाणि कर्म-फलानि भवन्ति, तद्-आराधनाभावे तान्य् अपि कर्माणि विफलान्य् एव भवन्तीत्य् एतत् स-दर्शनम् आह—यथा हीति ॥४९॥

—ओ)०(ओ—

**॥ ८.५.५० ॥ **

नमस् तुभ्यम् अनन्ताय दुर्वितर्क्यात्म-कर्मणे ।
निर्गुणाय गुणेशाय सत्त्व-स्थाय च साम्प्रतम् ॥**

**श्रीधरः : **एवं सत्य् अपि त्वद्-अर्पित-कर्मणां त्वद्-भक्तानाम् अस्माकं किं-निमित्तम् इदं दुःखम् ? इति त्वम् एव वेत्सीत्य् आशयेनाह—नम इति । दुर्वितर्क्याण्य् आत्म-कर्माणि स्वभाव-चेष्टितानि यस्य तस्मै ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अस्मद्-अभीप्सितं पूरयिष्यसि न वेत्य् अन्तं न प्राप्नुम इत्य् आह—अनन्ताय सर्वज्ञानाम् अप्य् अस्माकं त्वयि सार्वज्ञ्यं नास्त्य् एव सम्प्रति तत् करिष्यमानं कर्म अनुमानेनापि न विद्म इत्य् आह—दुर्वितर्क्येति । ननु मत्-कृपाम् एव हेतु-कृत्य भक्तानाम् इन्द्रादीनाम् अभीष्ट-सिद्धिर् अनुमीयतां तत्र नेत्य् आह निर्गुणाय कृपयैव गुण-जन्यां सम्पत्तिम् अनर्थ-हेतुं न ददासि, गुणेशायेति कृपयैव गुण-जन्यां सम्पत्तिं ददास्य् अपीति तयैव तद्-द्वयानुमान-सम्भवात् । तर्ह्य् एवं संशये कथं स्तौषि ? तत्राह—सत्त्वस्थाय सत्त्व-गुणस्य सम्प्रति वृद्धि-काल इति सात्त्विकान् देवान् वर्धयितुम् अरहसीति एषां च शुद्ध-भक्त्य्-अभावात् विषय-भोग-विच्छेदं कर्तुं च नार्हसीति निश्चयोऽपि वर्तत इति भावः ॥५०॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

अष्टमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
ब्रह्म-स्तुतिर् नाम पञ्चमोऽध्यायः ।

॥ ८.५ ॥

(८.६)


  1. स्वर्गादि- इति पुरिदासः। ↩︎

  2. अत्र विष्णु-पुराणस्य १.९ अध्यायः द्रष्टव्यः। ↩︎

  3. नारायण-संहितायाम् इति भगवत्-परमात्म-सन्दर्भयोर् धृतः श्लोकः। ↩︎

  4. विद्युद्-बलम् इति तत्त्ववादि-पाठः। अयम् अर्थः—इदं संसार-चक्रं यस्याजस्य वास-स्थानम् । पुरम् एकादश-द्वारम् अजस्य इति । ईशावास्यम् इदं सर्वम् इति च श्रुतिः । चक्रं न वृत्तं व्यतीरवीविपत् इति च । योऽजः परमात्मैवाक्षम् आश्रयश् च यस्य चक्रस्य तम् ऋतं प्रपद्ये । ऋतं सत्यं परं ब्रह्म इति श्रुतिः । अजस्य जीवस्य चक्रं वा । अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः । कीदृशं चक्रम् ? अजया प्रकृत्या प्रेर्यमाणम् । मनोमयं मनः-प्रचुरम् । मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः इति हि स्मरन्ति । पञ्च भूतानि दशेन्द्रियाणि च पञ्चदश अरा यस्य तत् । शब्दाद्या पञ्च वा । प्राणाद्या वा । भूतानि पञ्च, शब्दाद्याः पञ्च, ज्ञानेन्द्रियाणि पञ्चैते वा । आशु वेगेन धावत्, अत एवाश्वत्थम् आहुः । गुण-त्रय-नाभि । विद्युत् ब्रह्मैव बल-प्रदं यस्य । चक्रेऽधिष्ठितः, चक्रस्याश्रयश् च यः स एवास्य बल-दाता । बलम् इति परिवर्तन-शक्तिः । विद्योतत इति विद्युत् प्रकाश-रूपं ब्रह्म । भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥ इत्य् अष्टौ नेमय आवरणानि यस्य । यद् वा, असुरा मनुष्या गन्धर्वा राक्षसाः पिशाचास् तिर्यञ्चः स्थावराणि चेत्य् अष्टौ भूतानि नेमयः । अत्र व-बयोर् अभेदेन विद्युद्वत् वलति चलतीति विद्युच् चपलम् इति भौतिकोऽर्थः ॥ (बन्नन्जे गोविन्दाचार्य) ↩︎

  5. कश्चातिपिपर्ति इति तत्त्ववादि-पाठः। ↩︎

  6. नमामि इति तत्त्व-वादि-पाठः। यस्य मायां कोऽपि नातिपिपर्ति, यद्-अनुग्रहाद् ऋते नातिक्रमितुं पारयति । मम माया दुरत्यया इति स्मरणात् । यय मुह्यन् परमार्थं न वेद । स्वयं तु निर्जिता आत्मा माया-शक्तिः तद्-गुणाश् च सत्त्वादयो येन तादृशः । पुरुष-शब्दवद् आत्म-शब्दोऽपि प्रकृति-वाची । प्रकृतिः पुरुषः कालः, क्षरात्मनौ इत्य्-आदि-दर्शनात् ॥ (गोविन्दाचार्यः) ↩︎

  7. परमेशं (ङ)। ↩︎

  8. उदार-वर्यं इति क्वचित् प्राचीन-कोशे । अम्भस् तु यद् रेतः, तद् ब्रह्म प्रसीदताम् । आपो वै नर-सूनवः । कीदृशं ? उदार-वीर्यं यत् त्रयो लोका जीवन्ति उपजीवन्ति । अत एवाम्भो जीवनम् इत्य् उच्यते । अम्भसैव वर्धमानाः स्व-कार्येषु सिध्यन्ति । अपि चाम्भ इति तद्-अभिमानी वरुणः । आदित्येष्व् एक आषाढ-देवता च । स एव चाध्यात्मं रसनाभिमानी । रसनया हि रसितम् अन्नम् अश्यते । अतः स सर्व-लोक-स्थ-मनुष्याणां जीवन-हेतुः । न केवलं मनुष्याः, किन्त्व् अखिल-लोक-पाला अपि तम् उपजीवन्ति । अत्राखिलेति प्रायो-वचनम् । इन्द्र-कामौ प्राणम् अनिरुद्धं मनु-गुरु-दक्षान्, प्रवहं, सूर्य-सोम-यमांश् च विहाय इतरेषां सर्वेषाम् अपि देवानां स किलोपजीव्यः ॥३३॥ (गोविन्दाचार्यः) ↩︎

  9. ब्रह्म इति तत्त्व-वादि-पाठः। एवम् उत्तरत्र च। ↩︎

  10. आदि-पदेन कामादि-प्रवहान्तान् ऋते । अद्भिर् इति वरुणेन च । इन्द्रादि-प्रवाहान्त-स्वोत्तम-कक्ष्यागतान् सर्वान् स्व-कक्ष्यागतौ सूर्य-यमौ च र्ते अखिलाः सोमाज् जीवन्ति । इन्द्राद्याः सोम-वरुणयोर् अपि जीवन-प्रदाः ॥ (गोविन्दाचार्यः) ↩︎

  11. सोमं यस्य मनः समामनन्त्य् आम्नायाः, चन्द्रमा मनसो जातः इत्य् आद्याः । स किल सोमो लोकानां लोक-पालानां च बल-प्रदः । अन्नद आयुः-प्रदश् च । सोमो हि राजा ओषधि-वनस्पतीनां यज्ञियानाम् । तद्-द्वारा देवानां नराणां च बलम् अन्ध आयुः । बलम् अन्नम् आयुः इति च क्वचित् पाठान्तरम् । अपि च, चन्द्रः सोमाभिमानी देवता ये वरुणम् उपजीवन्ति, तेषां दिवौकसां वरुणस्य चोपजीव्यः । नगानां वृक्षाणां ईशः । अङ्कुर-जननात् । प्रजानां प्रजनः, काम-जननात् । सोमं राजानम् अवसे, सोमेनादित्या बलिनः सोमेन पृथिवी मही, यत् त्वा देव प्रपिबन्ति तत आप्यायसे पुनः, प्र चन्द्रमास् तिरते दीर्घम् आयुः, सोम राजन् प्र ण आयूंषि तारीः इत्य्-आद्याः श्रुतयः ॥३४॥ (गोविन्दाचार्यः) ↩︎

  12. अन्तः समुद्रे पचतः इति तत्त्व-वादि-पाठः। ↩︎

  13. जाति-वेदा अग्निर् यस्य मुखं मुखात् जातः । मुखाद् इन्द्रश् चाग्निश् च इति श्रुतेः । कुतो जातः ? क्रिया-काण्ड-निमित्तं मथनादिना जन्म यस्य । समुद्रे उदरेऽन्तर् वैश्वानर-रूपेण स्थित्वा स्वाधीनान् अन्नादि-धातून् पचतो यस्याग्निर् मुखं स नः प्रसीदताम् । अत एवोक्तं—अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः । प्राणापान-समायुक्तः पचाम्य् अन्नं चतुर्विधम् ॥ इति ॥ (गोविन्दाचार्यः) ↩︎

  14. निरुक्ति-साम्यात् । तथा हि समन्ताद् उद्रम् उदकम् अत्रेति समुद्रः । उदं रातीति चोदरम् । ननु किम् उददम् एव राति ? उक्तोत्तरम् एतत् । तापापनोदो भूयस्त्वम् अम्भसो वृत्तय इत्य् उक्तं हि । भूयस्त्वाच् चापाम् इति च भाष्यम्, त्र्य्-आत्मकत्वात् तु भूयस्त्वात् इति सूत्रे । प्राचुर्येण व्यपदेशो भवन्ति । अपि च उनत्तीति निरुक्त्या उद्रम् उदरम् इति च समानार्थं । तेन चोदरं समुद्र इति भवन्ति ॥ (गोविन्दाचार्यः) ↩︎

  15. द्वारं च मुक्तेर् अमृतस्य मृत्योः इति तत्त्व-वादि-पाठः। ↩︎

  16. तरणिः सूर्यः यस्य चक्षुष आसीत् । चक्षोः सूर्यो अजायत देवयानम् अर्चिर् आदि-मार्ग-देवता । त्रयी-सारः । वेद-मातुर् गायत्र्यास् तद्-अधिष्ठित-भगवत्-प्रतिपादकत्वात् । अत एव ब्रह्मणो नारायणस्य धिष्ण्यम् अधिष्ठानम् । यश् चासाव् आदित्ये, य आदित्ये तिष्ठन्, य एषोऽन्तर् आदित्ये इत्य्-आदेः । अत एव साक्षात्काराय सूर्य-मण्डलापावरणं प्रार्थ्यते, तत् त्वं पूषन्न् अपावृणु इति । वाजसनेय-प्रवर्तकत्वाच् च त्रयीमयः । अमृतस्य जातापरोक्षस्य मृत्योः संसारान् मुक्तेः द्वारम् । देवयानत्वाद् एव । अथवा अमृतस्य अमरण-रूपाया मुक्तेर् द्वारम् । मृत्योश् च द्वारम् उदयास्त-मयाभ्याम् आयुः-क्षय-हेतुत्वात् । एतादृश-सूर्याश्रय-चक्षुष्ट्वादि-महा-विभूतिः प्रसीदताम् ॥ (गोविन्दाचार्यः) ↩︎