(८.४)
॥ ८.४.१ ॥
श्री-शुक उवाच—
तदा देवर्षि-गन्धर्वा ब्रह्मेशान-पुरोगमाः ।
मुमुचुः कुसुमासारं शंसन्तः कर्म तद् धरेः ॥**
श्रीधरः :
चतुर्थे तु तयोर् ग्राहः प्राप गन्धर्वतां पुनः ।
गजं स्व-पार्षदं कृत्वा हरिर् निन्ये निजं पदम् ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
पार्षदत्वं गजेन्द्रस्य गन्धर्वत्वं च यादसः ।
चतुर्थे भगवद्-वाक्यं हितम् उक्तं मरिष्यताम् ॥१॥
—ओ)०(ओ—
॥ ८.४.२ ॥
नेदुर् दुन्दुभयो दिव्या गन्धर्वा ननृतुर् जगुः ।
ऋषयश् चारणाः सिद्धास् तुष्टुवुः पुरुषोत्तमम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.३-४ ॥
योऽसौ ग्राहः स वै सद्यः परमाश्चर्य-रूप-धृक् ।
मुक्तो देवल-शापेन हूहूर् गन्धर्व-सत्तमः ॥**
प्रणम्य शिरसाधीशम् उत्तम-श्लोकम् अव्ययम् ।
अगायत यशो-धाम कीर्तन्य-गुण-सत्-कथम् ॥**
श्रीधरः : हूहू-संज्ञो गन्धर्व-सत्तमः, असौ देवलस्य शापेन ग्राहो जातः । स वै स तु ततः सद्यो मुक्तः सन्न् **उत्तम-श्लोकम् अगायत **इत्य् अन्वयः । एवं हीतिहासोत्तमे कथा सरसि स्त्रीभिः क्रीडन्न् असौ स्नातुं प्रविष्टं देवलं पादे प्रगृह्य विचकर्ष । स च प्रकुपितो “ग्राहो भव” इति शशाप, तेन च प्रसादितः सन्न् उवाच—एवम् एव गजेन्द्रं गृह्णीष्व, ततश् च गजेन्द्रम् उद्धरन् हरिस् त्वाम् अपि मोचयिष्यतीति ॥३॥
कथं-भूतम् ? याशसो धाम आश्रयम् । अतः कीर्तन्याः कीर्तनीया गुणाः सती कथा च यस्य तम् ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : देवल-शापेनेत्य् एवम् अत्र कथा । सरसि स्त्रीभिः क्रीडन्न् असौ स्नातुं प्रविष्टं देवलं पादे प्रगृह्य विचकर्ष । स च कुपितो “ग्राहो भव” इति शशाप । तेन च प्रसादितः सन्न् उवाच । “एवम् एव गजेन्द्रं गृहीतवन्तं त्वाम् हरिर् मोचयिष्यति” इति । अधीशं कीदृशं ? यशसो धाम आश्रयम् ॥३-४॥
—ओ)०(ओ—
॥ ८.४.५ ॥
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् ।
लोकस्य पश्यतो लोकं स्वम् अगान् मुक्त-किल्बिषः ॥**
**श्रीधरः : **स्वं लोकं गन्धर्व-लोकम् ॥५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.६ ॥
गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तोऽज्ञान-बन्धनात् ।
प्राप्तो भगवतो रूपं पीत-वासाश् चतुर्-भुजः ॥**
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **विमुक्त इति तत्-सारूप्यस्य मायातीतत्वम् उक्तम् ॥६॥
विश्वनाथः : भगवत्-स्पर्शात् भगवत्-कर्मक-स्पर्शात्, तत्र मनो-वचोभ्यां स्पर्शात् अज्ञान-बन्धतो मुक्तः । स्थूल-देहेन स्पर्शात् स्पर्श-मणि-न्यायेन भगवतो रूपं प्राप्तो ध्रुव इवेति ज्ञेयम् । देहम् अव्ययं करोतु [८.३.१९] इति पूर्व-प्रार्थनात् ॥६॥
—ओ)०(ओ—
॥ ८.४.७ ॥
स वै पूर्वम् अभूद् राजा पाण्ड्यो द्रविड-सत्तमः ।
इन्द्रद्युम्न इति ख्यातो विष्णु-व्रत-परायणः ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.८ ॥
स एकदाराधन-काल आत्मवान्
गृहीत-मौन-व्रत ईश्वरं हरिम् ।
जटा-धरस् तापस आप्लुतोऽच्युतं
समर्चयाम् आस कुलाचलाश्रमः ॥
श्रीधरः : कुलाचले मलयाद्राव् आश्रमो यस्य ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कुलाचले मलयाद्राव् आश्रमो यस्य सः ॥८॥
—ओ)०(ओ—
॥ ८.४.९ ॥
यदृच्छया तत्र महा-यशा मुनिः
समागमच् छिष्य-गणैः परिश्रितः ।
तं वीक्ष्य तूष्णीम् अकृतार्हणादिकं
रहस्य् उपासीनम् ऋषिश् चुकोप ह ॥
श्रीधरः : तूष्णीं रहस्य् उपासीनं वीक्ष्य ॥९॥
क्रम-सन्दर्भः : चुकोप ह इति न स्वावमानेन, किन्तु विध्य्-अतिक्रमेण । अत एव विप्रावमन्ता इति वक्ष्यति । अनेन च पूर्व-पूर्व-विप्रेष्व् अवमानं कृतवान् इति बोध्यते । तत्र हेतुः—स्तब्ध-मतिर् इत्य् अनेन दर्शितः । कोप-विधानं चेदं तद्-अपराध-जन्य-महा-दुःख-भोगान्तर-शान्तये अभूद् इति कृपा-मयम् एव ज्ञेयम् ॥९-१०॥
विश्वनाथः : मुनिर् अगस्त्यः ॥९॥
—ओ)०(ओ—
॥ ८.४.१० ॥
तस्मा इमं शापम् अदाद् असाधुर्
अयं दुरात्माकृत-बुद्धिर् अद्य ।
विप्रावमन्ता विशतां तमिस्रं
यथा गजः स्तब्ध-मतिः स एव ॥
**श्रीधरः : **शापम् एवाह—असाधुर् इत्य्-आदि । अकृटऽशिक्षिता बुद्धिर् यस्य । गजो यथा स्तब्ध-मतिस् तथैवायम् । अतः स एव गज एव, भवत्व् इति शेषः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अकृत-बुद्धिः अशिक्षित-धीः । स एव गज एव भवत्व् इति शेषः ॥१०॥
—ओ)०(ओ—
॥ ८.४.११ ॥
श्री-शुक उवाच—
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
इन्द्रद्युम्नोऽपि राजर्षिर् दिष्टं तद् उपधारयन् ॥**
श्रीधरः : दिष्टं दैव-प्रापितं तद् उपधारयन्न् आलोचयन् ॥११॥
क्रम-सन्दर्भः : एवम् इत्य् अर्धकम् । अत एव्आगस्त्यो भगवान् इति दयालुत्व-सर्वज्ञत्वादिनैव तं शशापेति भावः । तत्र चान्यथास्यान्यत्रापि बहुत्रेदृशापराधास् तत्-फल-दुर्भोगाश् च समुत्पत्स्यन्ते । स्तब्धत्वं सति शिक्षा-मात्रेणाचिकित्स्यत्वात्1 । ततश् चास्य कदाचिद् अपि न निस्तारः2 स्याद् इति तद्-अभिप्रायो ज्ञेयः ॥११॥
विश्वनाथः : दिष्टं दुरदृष्टम् उपधारयन् जानन् ॥११॥
—ओ)०(ओ—
॥ ८.४.१२ ॥
आपन्नः कौञ्जरीं योनिम् आत्म-स्मृति-विनाशिनीम् ।
हर्य्-अर्चनानुभावेन यद् गजत्वेऽप्य् अनुस्मृतिः ॥**
श्रीधरः : कौञ्जरीं योनिम् आपन्नः । तर्हि पश्चात् कथं स्मृतिर् जाता ? तत्राह—**हरेर् अर्चनस्यानुभावेन **इति ॥१२॥
**क्रम-सन्दर्भः : **हर्य्-अर्चनेति । **गजत्वेऽप्य् अनुस्मृतिर् यद् **अभूत्, तत् तु हर्य्-अर्चनानुभावेन एवेत्य् अर्थः ॥१२॥
**विश्वनाथः : **यस्य गजत्वे यद् गजत्वे ॥१२॥
—ओ)०(ओ—
॥ ८.४.१३ ॥
**एवं विमोक्ष्य गज-यूथ-पम् अब्ज-नाभस् **
तेनापि पार्षद-गतिं गमितेन युक्तः ।
**गन्धर्व-सिद्ध-विबुधैर् उपगीयमान- **
कर्माद्भुतं स्व-भवनं गरुडासनोऽगात् ॥
श्रीधरः : अद्भुतं स्व-भवनम् अगात् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विमोक्ष्येति ग्राहाद् इति शेषः ॥१३॥
—ओ)०(ओ—
॥ ८.४.१४ ॥
एतन् महा-राज तवेरितो मया
कृष्णानुभावो गज-राज-मोक्षणम् ।
स्वर्ग्यं यशस्यं कलि-कल्मषापहं
दुःस्वप्न-नाशं कुरु-वर्य शृण्वताम् ॥
**श्रीधरः : **एतद् गज-राज-मोक्षणं नाम कृष्णानुभावस् तवेरितः । कथं-भूतम् ? तत्राह—स्वर्ग्यम् इत्य्-आदि । दुःस्वप्नं नाशयतीति तथा ॥१४॥
**चैतन्य-मत-मञ्जुषा : **कृष्णानुभावो गज-राज-मोक्षणम् इत्य्-आदि । श्री-कृष्णस्यैवानुभावोऽयम्, यतोऽस्य हरि-नाम्नांशेनैव गजं मोचयामास ॥१४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.१५ ॥
यथानुकीर्तयन्त्य् एतच् छ्रेयस्-कामा द्विजातयः ।
शुचयः प्रातर् उत्थाय दुःस्वप्नाद्य्-उपशान्तये ॥**
**श्रीधरः : **अतः श्रेयस्-कामा ये एतद् यथा-वद् अनुकीर्तयन्ति ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यथा यथावत् ॥१५॥
—ओ)०(ओ—
॥ ८.४.१६ ॥
इदम् आह हरिः प्रीतो गजेन्द्रं कुरु-सत्तम ।
शृण्वतां सर्व-भूतानां सर्व-भूत-मयो विभुः ॥**
**श्रीधरः : **अनेन श्रेयो भवतीति कुतो ज्ञातम् ? साक्षाद् भगवद्-वचनाद् एवेत्य् आह—इदम् आहेत्य्-आदि यावत् समाप्ति ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.१७ ॥
श्री-भगवान् उवाच—
ये मां त्वां च सरश् चेदं गिरि-कन्दर-काननम् ।
वेत्र-कीचक-वेणूनां गुल्मानि सुर-पादपान् ॥**
**श्रीधरः : **प्रसङ्गाद् अन्यस्यापि स्मरणे फलम् उच्यते । सर्वेषां द्वितीयान्तानां स्मरन्तीत्य् अष्टमेनान्वयः ॥१७॥
**क्रम-सन्दर्भः : **ये माम् इत्य् अष्टकम् । ये माम् इत्य्-आदिना स्व-भक्तोद्धार-जात-परमानन्दः श्री-भगवान् आशिषो ददाति, य एतत्-प्रसङ्ग-सङ्गिनः, तेषां स्मरणानुवादेन, तत्र तु शेषादीनाम् अप्य् आगमनं ज्ञेयम्, दिविजैः सह संस्तुवद्भिः [भा।पु। ८.३.३१] इत्य् उक्तेः । प्रह्लादोऽयं नित्य-पार्षदः, अक्रूरेण ब्रह्म-ह्रदे दृष्टत्वात् । मत्स्याद्य्-अवतार-कृतानि तदानीं गन्धर्वादिभिर् गीयमानानि । प्रणवादिकम् अपि तत्-प्रसङ्गे कीर्त्यमानम् । गङ्गाद्यास् तद्-अधिष्ठात्र्यः । पुण्य-श्लोकाश् च तल्-लीलान्तः कीर्त्यमानास् तत्-पार्षदादिना प्राप्तत्वेन तत्-सहिता एव चेति ॥१७॥
विश्वनाथः : मां त्वां चेत्य्-आदि द्वितीयान्तानां स्मरन्तीत्य् अष्टमेनान्वयः ॥१७॥
—ओ)०(ओ—
॥ ८.४.१८-२२ ॥
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च ।
क्षीरोदं मे प्रियं धाम श्वेत-द्वीपं च भास्वरम् ॥**
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥**
शेषं च मत्-कलां सूक्ष्मां श्रियं देवीं मद्-आश्रयाम् ।
ब्रह्माणं नारदम् ऋषिं भवं प्रह्रादम् एव च ॥**
मत्स्य-कूर्म-वराहाद्यैर् अवतारैः कृतानि मे ।
कर्माण्य् अनन्त-पुण्यानि सूर्यं सोमं हुताशनम् ॥**
प्रणवं सत्यम् अव्यक्तं गो-विप्रान् धर्मम् अव्ययम् ।
दाक्षायणीर् धर्म-पत्नीः सोम-कश्यपयोर् अपि ॥**
**श्रीधरः : **अव्यक्तं मायाम् । अव्ययं धर्मं भक्ति-लक्षणम् । सोम-कश्यपयोर् अपि पत्नीर् दाक्षायणीः ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अव्यक्तं मायां, अव्ययं धर्मं भक्तिम् । सोम-कश्यपयोर् अपि पत्नीः ॥२२॥
—ओ)०(ओ—
॥ ८.४.२३ ॥
गङ्गां सरस्वतीं नन्दां कालिन्दीं सित-वारणम् ।
ध्रुवं ब्रह्म-ऋषीन् सप्त पुण्य-श्लोकांश् च मानवान् ॥**
**श्रीधरः, विश्वनाथः : **सित-वारणम् ऐरावतम् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.२४ ॥
उत्थायापर-रात्रान्ते प्रयताः सुसमाहिताः ।
स्मरन्ति मम रूपाणि मुच्यन्ते तेऽंहसोऽखिलात् ॥**
**श्रीधरः : **सु-समाहिता एकाग्र-चित्ताः । मम रूपाणि मद्-विभूतीः ॥२४॥
**क्रम-सन्दर्भः, विश्वनाथः **: न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.२५ ॥
ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये ।
तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.४.२६ ॥
श्री-शुक उवाच—
इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् ।
हर्षयन् विबुधानीकम् आरुरोह खगाधिपम् ॥**
**श्रीधरः : **जल-जोत्तमं शङ्ख-वरं प्रध्माय वादयित्वा ।
**क्रम-सन्दर्भः, विश्वनाथः **: न व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमस्य चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्याम् अष्टम-स्कन्धे
गजेन्द्र-मोक्षणं नाम
चतुर्थोऽध्यायः ।
॥ ८.४ ॥
(८.५)