॥ ८.३.१ ॥
श्री-बादरायणिर् उवाच—
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्-जन्मन्य् अनुशिक्षितम् ॥
श्रीधरः :
तृतीये तु गजेन्द्रेण स्तुतो हरिर् उपेत्य तम् ।
समुद्दधार तं ग्राहाद् ग्राहं देवल-शापतः ॥
जाप्यं जप्यं स्तोत्रम् । प्राग् जन्मनि इन्द्रद्युम्न-संज्ञे ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
तृतीये संस्तुतो विष्णुर् जलाद् उद्धृत्य हस्तिनम् ।
ग्राहं चक्रेण संछिद्य तं तं चापात् कृपाम्बुधिः ॥
एवं व्यवसितं निश्चयो यस्य सः ॥१॥
—ओ)०(ओ**—**
॥ ८.३.२ ॥
श्री-गजेन्द्र उवाच—
ॐ नमो भगवते तस्मै यत एतच् चिद्-आत्मकम् ।
पुरुषायादि-बीजाय परेशायाभिधीमहि ॥
**श्रीधरः : **तस्मै नमो नमनम् अभिधीमह्य् अभिध्यायेम केवलम् । ग्राह-गृहीतत्वेन काय-प्रण-तेर-शक्यत्वात् । स्वस्य तज् ज्ञानं भवयितुं विशिनष्टि । यतश् चिद्-रूपाद् एतद् देहादि-चिद्-आत्मकं चेतनं भवति । तद् उक्तम्—येन चेतयते विश्वम् इति । तत्र हेतुः—पुरुषाय पूर्षु कारणत्वेन प्रविष्टाय । ननु प्रकृति-पुरुषौ कारणम् इति प्रसिद्धम् ? तत्राह—आदिः प्रकृतिर् बीजं पुरुषस् तद्-रूपाय । प्रविष्टत्वेऽपि जीववत् पार-तन्त्र्यं वारयति—परेशयेति ॥२॥
चैतन्य-मत-मञ्जुषा : ॐ नमो भगवत इत्य्-आदि सर्वेश्वराय भगवते तस्मै नमः, यतो यस्माद् एतत् प्रसिद्धं चिद्-अन्तः-करणं ब्रह्म, तर्ह्य् असौ किम्-अन्तः-करणः ? तत्राह—आदि-बीजाय पुरुषाय पुरुषोत्तमाय पुरुषाणाम् अन्तर्यामि-हिरण्यगर्भादीनां पुरुषाणाम् अयनम् आय आश्रयः पुरुषायः स च सर्वादि-बीजं चेति तथा तस्मै, अत एव परेशाय ॥२॥
**क्रम-सन्दर्भः : **नमो भगवत इत्य् अस्य टीकायां—ग्राह-गृहीतत्वेन इत्य् आदि । यद्यपि प्राग्-जन्मन्य् अस्य न सम्भवति, तथापि प्रस्ताव-वशाद् अनेनात्र तथा भावितम् इति ज्ञेयम् ॥२॥
विश्वनाथः : नमस्कुर्मः धीमहि ध्यायामश् च यतो यस्मात् नमस्कृतात् ध्याताच् च एतन्-मायात्मकम् अपि जगत् स्थूल-सूक्ष्म-देहमयं चिद्-आत्मकं भवति, पुरुषाय पुरुषाकाराय आदि-बीजाय पुरुषाकारत्वेनैवादि-कारणाय, अतः परेशाय परमेश्वराय ॥२॥
—ओ)०(ओ**—**
॥ ८.३.३ ॥
यस्मिन्न् इदं यतश् चेदं येनेदं य इदं स्वयम् ।
योऽस्मात् परस्माच् च परस्1** तं प्रपद्ये स्वयम्भुवम् ॥**
मध्वः : श्री-वेदव्यासाय नमः । यत इति स्रष्टृत्वम्2 । येनेति प्रवर्तकत्वम्3 । य इति सत्ता-प्रदत्वं, न सन्ति यद्-उपेक्षया इत्य् उक्तत्वात् ।
उत्पन्नस्यापि यत् सत्ता हरेस् तत् स इतीर्यते ।
हरेर् विश्वं भिन्नम् अपि परमोऽसौ4 यतो विभुः ॥ इति ब्रह्म-तर्के ॥३॥
**श्रीधरः : **परमैश्वर्यं विवृण्वन्न् आह यावत् समाप्ति । यस्मिन्न् अधिष्ठाने, यत उपादानात्, येन कर्त्रा, यश् च स्वयम् एवेदं विश्वं भवति । अस्मात् कार्यात् परस्मात् कारणाच् च यः परस् तं स्वयंभुवं स्वतः सिद्धं प्रपद्ये शरणं व्रजामि ॥३॥
चैतन्य-मत-मञ्जुषा : यस्मिन्न् इदम् इत्य्-आदि । योऽस्मात् प्रपञ्चात् परस्माद् ब्रह्मणः परः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : परमेश्वरस्य जगद्-उपादानादि कारण-कलापत्वं चाह—यस्मिन् इदं जगत् गृहे घटादिकम् इव यतश् च कुम्भकाराद् इव येन चक्र-दण्डादिनेव यः मृत्पिण्ड इव एवं योऽस्य विश्वस्य स्वयम् एव सर्वाणि कारणानि भवतीत्य् अर्थः । इदम् इत्य् अस्य पुनः पुनर् उक्तिस् तद्-अन्वय-निर्धारणार्थः । इद्म इत्य् अस्य पुनः पुनर् उक्तिस् तद्-अन्वय-निर्धारणार्था । यस् तु अस्मात् विश्वस्मात् परस्मात् विश्व-कारण-कलापाच् च परस् तं स्वयम्भुवं कृष्ण-रामादि-रूपेण यः स्वयम् एव भवतीत्य् अर्थः ॥३॥
—ओ)०(ओ**—**
॥ ८.३.४ ॥
यः स्वात्मनीदं निज-माययार्पितं
क्वचिद् विभातं क्व च तत् तिरोहितम् ।
अविद्ध-दृक् साक्ष्य् उभयं तद् ईक्षते
स आत्म-मूलोऽवतु मां परात्-परः ॥
**श्रीधरः : **विश्व-हेतुत्वं स्वतः सिद्धत्वं चोक्तम्, इदानीं विश्व-प्रकाशकत्वं स्व-प्रकाशत्वं च वर्णयन् प्रार्थयते—यः स्वात्मनीति । विभातम् अभिव्यक्तं सत्, क्वचित् प्रलये तिरोहितं लीनं सत्, तद् उभयं कार्यं कारणं च साक्षी सन्न् ईक्षते । साक्षित्वे हेतुः—अविद्ध-दृग् अलुप्त-दृष्टिः । आत्म-मूलः स्वयं-प्रकाशः । कुतः ? परात् प्रकाशकाच् चक्षुर्-आदेर् अपि परः । तस्यापि प्रकाशक इत्य् अर्थः । चक्षुषश् चक्षुः इत्य्-आदि-श्रुतेः ॥४॥
चैतन्य-मत-मञ्जुषा : य इत्य्-आदि । स परात्परो भगवान् श्री-कृष्णो माम् अवतु । कोऽसाव् इत्य् आह—य आत्मनि ब्रह्मणि इदं विश्वं निज-मायया अर्पितं कल्पितं सत् क्वचिद् विभातं क्वचित् तिरोहितं साक्षी सन् ईहते उभयं कार्यं विश्वं कारणं ब्रह्म, यतः परात्परः । क्वचिद् इत्य् उत्पन्न-भक्तिं तत् तिरोहितं सपदि असद् अन्यत्र सद् एव विशेषेण स्फुरत् ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : किं च, इदं कार्य-कारणात्मकं जगद् अप्य् अनादितः सत्यम् एवास्तीति वदन् स्व-पर-प्रकाशकत्वम् आह—य इति । निज-मायया यद् इच्छा-वशात् सृष्ट्वा सृष्ट्वा अर्पितम् आत्मन्य् एव कदाचित् कल्पादौ विभातं क्व च कदाचित् कल्पान्ते तिरोहितम् अविद्ध-दृक् अलुप्त-दृष्टिर् एव साक्षी सन्न् ईक्षते । उभयं विभातं तिरोहितं च, आत्म-मूलः, आत्मा स्वयम् एव मूलं यस्य स स्व-प्रकाशः, परात् प्रकाशकत्वाद् अपि परः । चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् इति श्रुतेः ॥४॥
—ओ)०(ओ**—**
॥ ८.३.५ ॥
कालेन पञ्चत्वम् इतेषु कृत्स्नशो
लोकेषु पालेषु च सर्व-हेतुषु ।
तमस् तदासीद् गहनं गभीरं
यस् तस्य पारेऽभिविराजते विभुः ॥
**श्रीधरः : **तिरोहितम् ईक्षत इत्य् एतत् प्रपञ्च-पूर्वकं दुर्ज्ञेयत्वं वदन् प्रार्थयते—
कालेनेति द्वाभ्याम् । पञ्चत्वम् इतेषु नाशं प्राप्तेषु गहनं दुरवगाहम् । गभीरम् अनन्तम् । तस्य तमसः । आदित्य-वर्णं तमसः परस्तात् इति श्रुतेः ॥५॥
**क्रम-सन्दर्भः : **कालेनेति त्रिकम् । तस्य पारे महा-वैकुण्ठे ॥५॥
विश्वनाथः : सर्व-काल-विराजमानत्वम् आह—कालेनेति । तमः प्रलय-कालोद्भूतं तस्य पार इति । आदित्य-वर्णं तमसः परस्तात् इति श्रुतेः ॥५॥
—ओ)०(ओ**—**
॥ ८.३.६ ॥
न यस्य देवा ऋषयः पदं विदुर्
जन्तुः पुनः कोऽर्हति गन्तुम् ईरितुम् ।
यथा नटस्याकृतिभिर् विचेष्टतो
दुरत्ययानुक्रमणः स मावतु ॥
**श्रीधरः : **अत एव देवादयो यस्य स्वरूपं न विदुः । जन्तुर् अर्वाचीनः कोऽपि गन्तुं ज्ञातुम् ईरितुं वक्तुं वा । दुरत्ययं दुर्गमम् अनुक्रमणं चरितं कथनं वा यस्य सः । मा माम् ॥६॥
चैतन्य-मत-मञ्जुषा : स यस्य देवा इत्य्-आदि । पदं चरणारविन्दं तद्-धाम वैकुण्ठं वा ॥६॥
**क्रम-सन्दर्भः : **यथा नटस्येति । तस्य तद् यथा साधारणैर् दुर्गमं, तथेत्य् अर्थः ॥६॥
विश्वनाथः : सर्व-दुर्ज्ञेयत्वम् आह—न यस्येति । पदं स्वरूपं जन्तुर् अर्वाचीनः तत्त्वानभिज्ञः गन्तुं ज्ञातुम् ईरितुं वक्तुं वा । यथा नटस्य गीत-पदार्थानां चन्द्र-कमलादीनाम् आकृतिभिर् अभिनीयमानाभिर् विविधं चेषातमानस्य स्वरूपं भ्रू-नेत्र-पाण्य्-अङ्गुल्य्-आदि-चेष्टया किम् आकृतिमयं दर्शयतीति यथा नाट्य-तत्त्वानभिज्ञः ज्ञातुं वक्तुं च नार्हति, तथा । दुरत्ययानुक्रमणः दुर्ज्ञेय-चरित्रः ॥६॥
—ओ)०(ओ**—**
॥ ८.३.७ ॥
दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्त-सङ्गा मुनयः सुसाधवः ।
चरन्त्य् अलोक-व्रतम् अव्रणं वने
भूतात्म-भूताः सुहृदः स मे गतिः ॥
**श्रीधरः : **कथं तर्हि, तम् एव विदित्वातिमृत्युम् एति इत्य्-आदि-श्रुतिर् इत्य्-आशङ्क्य तज्-ज्ञानोपायं कथयन्न् आह—दिदृक्षव इति । अलोक-व्रतं ब्रह्मचर्यादि । अव्रणम् अच्छिद्रम् । भूतानाम् आत्म-भूता भूतेष्व् आत्म-दृष्टयः सन्तः । स मे गतिर् अस्तु ॥७॥
**क्रम-सन्दर्भः : **अलोक-व्रतंलोकातीत-भागवत-धर्म-व्रतम् अत एवाव्रणम्, धावन् निमील्य वा नेत्रे[भा।पु। ११.२.३५] इत्य्-आदेः ॥७॥
विश्वनाथः : सर्वात्म्यैवादृश्यत्वेऽपि भागवत-व्रत-दृश्यत्वम् आह पदं चरण-कमलं विमुक्त-सङ्गास् त्यक्त-सङ्गा मुक्तेभ्योऽपि विशिष्टाये भक्ता तत्-सङ्गिनश् च अलोक-व्रतं लोका वर्णाश्रमाचारवन्तस् तद्-अतीतं भागवतं व्रतम् इत्य् अर्थः । अत एवाव्रणं भ्रंश-शङ्का-रहितम् । धावन् निमील्य वा नेत्रेन स्खलेन् न पतेद् इह [भा।पु। ११.२.३५] इत्य्-आदेः ॥७॥
—ओ)०(ओ**—**
॥ ८.३.८ ॥
न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुण-दोष एव वा ।
तथापि लोकाप्यय-सम्भवाय यः
स्व-मायया तान्य् अनुकालम् ऋच्छति ॥
श्रीधरः : दुरत्ययानुक्रमणत्वं प्रपञ्चयन् प्रणमति—न विद्यते इत्य् आदिना । लोकानाम् अप्ययः प्रलयः । सम्भवो जन्म । तयोर् द्वन्द्वैक्यम् । तद्-अर्थं यस् तानि जन्मादीनि स्वीकरोति तस्मै नम इत्य् उत्तरेणान्वयः ॥८॥
चैतन्य-मत-मञ्जुषा : न विद्यते यस्येत्य्-आदि । यस्य रूपे श्री-विग्रहे जन्म-कर्म जन्म-क्रिया न विद्यते, न नाम शरीरादि-संज्ञा । न गुणाः सत्त्वादयः प्राकृत-गुणाः, दोषा हिंसासूयादयः, जाताव् एक-वचनम् । तथापि जन्म-कर्मादीनि लोकाप्यय-सम्भवाय रुद्र-ब्रह्म-रूपेणानुकालं कालं कालम् अनु ऋच्छति, अप्यय-काले रुद्र-रूपेण, सम्भव-काले ब्रह्म-रूपेण, स्वयं तु तत्र तत्रोदासीन एवास्ते ॥८॥
**क्रम-सन्दर्भः : **भगवति प्राकृतानि रूपादीनि विप्रतिपाद्यान्यानि सम्प्रतिपाद्यन्ते—न विद्यते यस्येति युग्मकम् । अयम् अर्थः—अवस्थान्तर-प्राप्तिर् विकारः । तत्र प्रथमो विकारो—**जन्म **इति । अपूर्णस्य निज-पूर्त्य्-अर्था चेष्टा—**कर्म **इति । मनो-ग्राह्यस्य वस्तुनो व्यवहारार्थं केनापि सङ्केतितः शब्दः—**नाम **इति । चक्षुषा ग्राह्यो गुणः—रूपम् इति । सत्त्वादि-प्राकृत-गुण-निदानो द्रव्यस्योत्कर्ष-हेतुर्-धर्म-विशेषो गुण इति प्रकृतिजे लोके दृश्यते । यस्य च सर्वदा स्वरूपस्थत्वात् पूर्णत्वान् मनसोऽप्य् अगोचरत्वात् स्वप्रकाशत्वात् प्रकृत्य्-अतीत्वात् तानि न विद्यन्ते, तथापि यस् तानि **ऋच्छति **प्राप्नोति तस्मै नम [भा।पु। ८.३.९] इत्य् उत्तर-श्लोकेनान्वयः । अत एव श्रुत्यापि—निष्कलं निष्क्रियं शान्तम् [श्वे।उ। ६.१९] इत्य् आदौ, अशब्दम् अस्पर्शम् अरूपम् अव्ययम् [कठ।उ। १.३.१५] इत्य् आदौ च तन् निषिध्यापि सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रस [छा।उ। ३.१४.४] इत्य् आदौ विधीयते । **गुण-दोष **इति अपरमार्थत्वाद् गुण एव दोष इत्य् अर्थः । ततो रूढ-दोषस् तु सर्वथा न सम्भवत्य् एवेति वक्ष्यते । तथा च कौर्मे—
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अपि तु समाहार्याश् च सर्वतः ॥ इति ।
अयम् आत्मापहत-पाप्मा [छा।उ। ८.७.१] इत्य् आद्याः श्रुतयश् च । एतं संयद् वाम इत्य् आचक्षते एतं सर्वाणि वामान्य् अभिसंयन्ति, एष उ एव वामनीः, एष हि सर्वाणि वामानि नयति, एष उ एव भामनीः, एष सर्वेषु वेदेषु भाति [छा।उ। ४.१५.२-४] इत्य् आद्या च । अत एव सर्व-गन्ध [छा।उ। ३.१४.४] इत्य् आदौ गन्धादि-शब्देन सौगन्ध्यादिकम् एवोच्यते ।
यदा तु ऋच्छतीत्य् अनेन क्रिया-पदेनान्वयः, तदा गुणस्य दोषत्वेन रूपकम् अविवक्षितं, श्रुति-विरुद्धत्वात्, परमार्थत्वेनैव प्रतिपादयिष्यमाणत्वाच् च ।
नन्व् एकत्र तेषां जन्मादीनां भावाभावयोर् विरोध इत्य् आशङ्क्य तद्-अविरोधे हेतुम् आह— स्व-माययाइति । अन्यथानुपपत्ति-प्रमिता दुस्तर्क्या स्वरूप-शक्तिर् एव तत्र हेतुः । अत एव स्वरूप-भूतत्वेन तेभ्यः प्राकृतेभ्यो विलक्षणत्वात् तान्य् अपि न विद्यन्त इति च वक्तुं न शक्यत इति भावः । यथा शाङ्कर-शारीररके समाकर्षाद् [वे।सू। १.४.१५] इत्य् अत्र—नाम-रूप-व्याकृत-वस्तु-विषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद्-व्यकरणाभावापेक्षया प्राग्-उत्पत्तेः सद् एव ब्रह्म-श्रुताव् असद् इत्य् उच्यते इत्य् उक्तम्, तथैव ज्ञेयम् ।
अत एव श्री-विष्णु-पुराणे—गुणांश् च दोषांश् च मुने व्यतीत [वि।पु। ६.५.८३] इत्य् उक्त्वा पुनर् आह—समस्त-कल्याण-गुणात्मको हीति [वि।पु। ६.५.८४] । तथा—
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ।
पाद्मोत्तर-खण्डे च—
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः ।
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥ इति ।
न च **स्व-मायया **इत्य् अन्यथार्थं मन्तव्यम् ।
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः ।
अतो माया-मयं विष्णुं प्रवदन्ति सनातनम् ॥ [चतुर्वेद-शिखा।उ] इति श्रुतेः ॥
आत्म-माया तद्-इच्छा स्यात् इति महा-संहितातः ।
त्रिगुणात्मिकाथ ज्ञानं च विष्णु-शक्तिस् तथैव च ।
माया-शब्देन भण्यन्ते शब्द-तत्त्वार्थ-वेदिभिः ॥ इति शब्द-महोदधेः ।
माया वयुनं ज्ञानमिति निघण्टोः । माया स्याच् छाम्बरी-बुद्ध्योःइति त्रिकाण्ड-शेषाच् च । स्व-तेजसा नित्य-निवृत्त-माया-गुण-प्रवाहं भगवन्तम् ईमहि ॥ [भा।पु। १०.३७.२३]इति श्री-नारद-वाक्यात् । धाम्ना स्वेन सदा निरस्त-कुहकं [भा।पु। १.१.१] इति । मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भा।पु। १.७.२३] इत्य्-आदि-वचनेभ्यः । तथा स्व-सुख-निभृत-चेताः [भा।पु। १२.१२.६९]इत्य्-आदि-वक्तृ-हृदय-विरोधाच् च । ततः सर्वथा चिच्-छक्त्या इत्य् अर्थः । अतः स्वामिभिर् अपि योग-माया-शब्देन चिच्-छक्तिर् व्याख्याता [भावार्थ-दीपिका ३.१५.२६] ।
ननु ऋच्छति इत्य् उक्तेः कदाचित्कत्वम् अप्य् अवगम्यते ? तत्राह—**अनुकालं,**नित्यम् एव प्राप्नोति, कदाचिद् अपि न त्यजतीत्य् अर्थः । स्वरूप-शक्ति-प्रकाशित्वस्य च मिथो हेतुमत्ता ज्ञेया ।
ननु कथं जन्म-कर्मणोर् नित्यत्वम् ? ते हि क्रिये । क्रियात्वं च प्रति-निजांश-लक्षणम् अप्य् आरम्भ-परिसमाप्तिभ्याम् एव सिध्यतीति ते विना स्व-स्वरूप-हान्य्-आपत्तिः । नैष दोषः । श्री-भगवति सदैवाकारानन्त्यात् प्रकाशानन्त्यात् जन्म-कर्म-लक्षण-लीलानन्त्याद् अनन्त-प्रपञ्चानन्त-वैकुण्ठ-गत-तत्-तल्-लीला-स्थान-तत्-तल्-लीला-परिकराणां व्यक्ति-प्रकाशयोर् आनन्त्याच् च । एतद् एवोक्तं श्री-ब्रह्मणा—
को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर् भवतस् त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योग-मायाम् ॥[भा।पु। १०.१४.२१]
अत एव सत्योर् अपि तत्-तद्-आकार-प्रकाश-गतयोस् तद्-आरम्भ-समाप्त्योर् एकत्रैव ते ते जन्म-कर्मणोर् अंशा यावत् समाप्यन्ते न समाप्यन्ते वा, तावद् एवान्यत्राप्य् आरब्धा भवतीत्य् एवं श्री-भगवति विच्छेदाभावान् नित्ये एव5 ते जन्म-कर्मणी वर्तेते । तत्र ते क्वचित् किञ्चिद् विलक्षणत्वेनारभ्येते, ते क्वचिद् ऐकरूप्येण चेति ज्ञेयम्, विशेषण-भेदाद् विशेषणैक्याच् च। एक एवाकारः प्रकाश-भेदेन पृथक् क्रियास्पदं भवतीति चित्रं बतैतद् एकेन वपुषा [भा।पु। १०.६९.२] इत्य्-आदौ प्रतिपादितम् । ततः क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदेष्व् अभिमान-भेदश् च गम्यते । स च श्री-नारदेन श्री-कृष्णस्य योग-माया-वैभव-दर्शने द्वारकायां प्रसिद्धः । तथा सत्य् एकत्रैकत्र लीला-क्रम-जनित-रसोद्बोधश् च जायते ।
ननु, कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तं, पृथग्-आरब्धत्वाद् अन्ये एव ते ? उच्यते—काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम् एकत्वम् । यथा शङ्कर-शारीरके—द्विर् गो-शब्दोऽयम् उच्चारितो… न तु द्वौ गो-शब्दाव् [१.३.२८]इतिप्रतीति-निर्णीतं शब्दैकत्वम् । तथैव द्विः पाकः कृतोऽनेन, न तु द्विधा पाकः कृतोऽनेनेति प्रतीत्या भविष्यति । ततो जन्म-कर्मणोर् अपि नित्यता युक्तैव । अत एवागमादाव् अपि भूत-पूर्व-लीलोपासन-विधानं युक्तम् ।
तथा चोक्तम् मध्व-भाष्ये—परमात्म-सम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व् अप्य् उपसंहार्यत्वं युज्यते [३.३.२१] इति । अनुमतं चैतत् श्रुत्या—यद् गतं भवच् च भविष्यच् च [बृ।आ।उ। ३.८.४]इत्य् अनयैव । [उल्लिखित-माध्व-भाष्योक्तौ] उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य् अर्थः ।
ततस् तस्य (१) जन्मनः प्राकृतात् तस्माद् विलक्षणत्वं प्राकृत-जन्मानुकरणेनाविर्भाव-मात्रत्वं, क्वचित् तद्-अननुकरणेन वा । अजायमाना बहुधा विजायत[शुक्ल-यजुः ३१.१७] इति श्रुतेः।
तद् यथा—
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहाशयः ।
आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ [भा।पु। १०.३.८] इति ।
यथा च—
सत्यं विधातुं निज-भृत्य-भाषितं
व्याप्तित्वं च भूतेष्व् अखिलेषु चात्मनः ।
अदृश्यतात्यद्भूत-रूपम् उद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ [भा।पु। ७.८.१७] इति ।
कार्दमं वीर्यम् आपन्नः [भा।पु। ३.२४.६] इत्य् अत्र श्री-कपिल-देवावतार-प्रसङ्गे कर्दमस्य भक्ति-सामर्थ्य-वशीभूत इत्य् एव व्याख्येयम् । वीर्य-शब्द-न्यासस् तु प्रसिद्धं पुत्रत्वम् अपि श्लिष्टं भवतीत्य् एवम् अर्थः ।
तथा कर्मणो वैलक्षण्यं स्वरूप-शक्त्य्-आनन्द6-विलास-मात्रत्वम् । तद् यथा, लोकवत् तु लीला-कैवल्यम् [वे।सू। २.१.३३] इति । व्याख्यातं च तत्त्व-वादिभिः, यथा—लोके मत्तस्य सुखोद्रेकाद् एव नृत्यादि-लीला, न तु प्रयोजनापेक्षया, एवम् एवेश्वरस्य इति । नारायण-संहितायां च—
सृष्ट्यादिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः ?
मुक्ता अप्य् आप्त-कामाः स्युः किम् उतास्याखिलात्मनः ॥ इति ।
न चोन्मत्त-दृष्टान्तेनासर्वज्ञत्वं प्रसञ्जयितव्यम् । स्वरूपानन्दोद्रेकेण स्व-प्रयोजनम् अननुसन्धायैव लीलायते इत्य् एतद् अंशेनैव स्वीकारात् । उच्छ्वास-प्रश्वास-दृष्टान्तेऽपि सुषुप्त्य्-आदौ तद्-दोषापातात् । तस्मात् स्वरूपानन्द-स्वाभाविक्येन तल्-लीला । श्रुतिश् च—देवस्यैव स्वभावोऽयम् आप्त-कामस्य का स्पृहा [माण्डूक्य-कारिका ९] इति ।
अत्र प्राकृत-सृष्ट्य्-आदि-गतस्य साक्षाद्-भगवच्-चेष्टात्मकस्य वीक्षणादि-कर्मणो वस्तुतस् तु तथा-विधत्वे वैकुण्ठादि-गतस्य कैमुत्यम् एवापतितम् । यथोक्तं नाग-पत्नीभिः अव्याकृत-विहाराय [भा।पु। १०.१६.४७] इति । अत एव श्री-शुकादीनाम् अपि तल्-लीला-श्रवणे रागतः प्रवृत्तिर् युज्यते । यथोक्तं—अजित-रुचिर-लीलाकृष्ट-सारः [भा।पु। १२.१२.६९] इत्य्-आदि ।
अतश् च—
एवं च जन्मानि कर्माणि ह्य् अकर्तुर् अजनस्य च ।
वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत्-पतेः ॥ इति [भा।पु। १.३.३५]
अत्र जन्म-गुह्याध्याय-पद्येऽप्य् एवम् एव व्याख्येयम् । यत्रेमे सद्-असद्-रूपे [भा।पु। १.३.३३-४] इत्य् आदिभ्याम् अव्यवहित-पद्याभ्यां यथा स्वरूप-सम्यग्-ज्ञानेनैव कृतस्याविद्याकृतात्माध्यास-सद्-असद्-रूप-निषेधस्य हेतोर् ब्रह्म-दर्शनं भवति । यथा च—मायोपरताव् एव स्वरूप-सम्पत्तिर् भवति इत्य् उक्तम् । एवम् एव _कवय_आत्मारामा _हृत्-पतेः_परमात्मनो जन्मानि कर्माणि च वर्णयन्ति । तत्-तत्-प्रतिषेधे तद्-उपरतौ चैव सत्यां तज्-जन्म-कर्मानुभव-सम्पत्ती भवत इत्य् अर्थः । सम्पत्तिर् अत्र साक्षाद् दर्शनम्। तस्मात् स्वरूपानन्दातिशयित-भगवद्-आनन्द-विलास-रूपाण्य् एव तानीति भावः । अत एव प्राकृत-वैलक्षण्याद् _अकर्तुर् अजनस्य_इत्य् उक्तम् । अत एव _वेद-गुह्यान्य्_अपि तानीति ।
यथाक्रूर-स्तुतौ त्वयोदितः [भा।पु। १०.४८.२३-२४] इत्य्-आदि-द्वयं टीकायाम् एवेत्थम् उत्थापितम्—ननु तर्हि ममावतारास् तच्-चरितानि च शुक्ति-रजत-वद् अविद्या-कल्पितान्य् एव किम् ? नहि नहि । इयं तु तव लीलेत्य् आह—द्वयेन त्वयोदित इति इति ।
तथैव च भगवत्-स्वरूप-साम्येनोक्तं वैष्णवे—
नाम-कर्म-स्वरूपाणि न परिच्छेद-गोचरे ।
यस्याखिल-प्रमाणानं स विष्णुर् गर्भगस् तव ॥ [वि।पु। ५.२.१९] इति ।
रूप-कर्मेति वा पाठान्तरम्7 । इत्थम् एवाभिप्रेतं श्री-गीतोपनिषद्भिः—जन्म-कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता ४.९] इति ।
तथा नाम्नो वैलक्षण्यं वाङ्-मनसागोचर-गुणावलम्बित्वेन स्वतः-सिद्धत्वम् । तद् यथा वासुदेवाध्यात्मे—अप्रसिद्धेस् तद्-गुणानाम् अनामासौ प्रकीर्तितः इति । ब्राह्मे8—अनामा सोऽप्रसिद्धत्वाद् अरूपो भूत-वर्जनात् इति । अत एव नाम-कर्म-रूपाणि इति पूर्वोदाहरणानुसारेणास्यापि वैष्णव-वाक्यस्यायम् एवार्थः—
न यत्र नाथ विद्यन्ते नाम-जात्य्-आदि-कल्पनाः ।
तद् ब्रह्म परमं नित्यम् अविकारि भवान् अज ॥
न कल्पनाम् ऋतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्त-विष्णु-नामभिर् ईड्यसे ॥[वि।पु। ५.१८.५३-५४] इति ॥
एतद्-वैष्णव-वचनानन्तरम् अपि न तस्य विरुद्धम् । तथा हि—अत्रापाततः प्रतीतार्थतायां कल्पना-शब्दो व्यर्थः स्यात्, नाम-जात्य्-आदयो न विद्यन्ते इत्य् अनेनैव विवक्षितार्थ-सिद्धेः, स्वयम् एव ब्रह्माजादि-शब्दानां परमार्थ-प्रतिपादक-नामतया स्वीकृतेश् च । अजाम् एकां लोहित-शुक्ल-कृष्णाम् [श्वे।उ। ४.५] इत्य्-आदिष्व् अजायमानत्व-लक्षण-जातिश् च दृश्यत एव । तथा नामादि-कल्पना न विद्यन्ते इत्य् उक्त्या स्वयं कृष्णादि-नाम-कल्पनोक्तिर् विरुद्धा स्यात् । कल्पनया वा कथम् ईड्यता स्यात् ? कल्पनाया अनियतत्वाच् च कथं कृष्णादिनाम् नैयत्यम् उच्यते ?
तस्मान् नाम-कर्म-स्वरूपाणीत्य् अनुसाराच् चायम् एवार्थः । यथा यत्र नाम-जात्य्-आदीनां नामनि कृष्णादीनि जातयो देवत्व-मनुष्यत्व-क्षत्रियत्वादि-लीलाः, तद्-आदीनां कल्पना न विद्यन्ते । किन्तु स्व-संस्थया समाप्त-सर्वार्थम्[भा।पु। १०.३७.२२] इत्य्-उक्त-दिशा स्वरूप-सिद्ध-नित्य-शक्ति-विलास-रूपाण्य् एव तानीत्य् अर्थः । ततश् च यतो यस्मात् सर्वस्यापि दृष्टस्य वस्तुनः कल्पनां नामादि-रचनामृतेऽधिगमो व्यवहारिक-बोधो न भवति । ततस् तस्माद् एव हेतोः कल्पना-मयं नाम तन्-नामिनं चार्थं सर्वम् अवज्ञाय निखिल-प्रमाण-परिच्छेदागोचरत्वेन वेदात्मतया स्वतः-सिद्धैः कृष्णादि-नामोपलक्षणैः प्रसिद्धैर् एव नामभिः स्वतः-सिद्धस् त्वम् एवेड्यसे, मुनिभिर् वेदैश् च श्लाघ्यसे । न तु कल्पना-मयैर् अन्यैस् त्वम् अपि श्लाघ्यसे, तादृश-महिमभिस् तैर् एव तव महिमा व्यक्तीभवतीति । यद् वा, तैर् एवेड्यसे व्यक्त-माहात्मीक्रियस इत्य् अर्थः ।
अत्र यैः शास्त्रेऽतिप्रसिद्धैः श्री-भगवान् एव झटिति प्रतीतो भवति, येषां च साङ्केत्यादाव् अपि तादृश-प्रभावः श्रूयते, तेषां स्वतः-सिद्धत्वम्, अन्येषां कल्पना-मयत्वं ज्ञेयम् । अथवा, हे नाथ ! यत्र नाम-जात्य्-आदीनां कल्पना न विद्यन्ते, तत् केवलं विशेष्य-रूपं परमं ब्रह्म भवान् ।
तत्-तत्-कल्पनाया अविषयत्वे हेतुः—विशेषेण करोति लीलायत इति विकारि, तथा न भवतीत्य् अविकारि इति । तद्-रूपेण न जायते न प्रकटीभवतीति हे अजेति च । ततः किम् अवलम्ब्य तत्र नाम-जात्य्-आदि-कल्पनाः क्रियन्ताम् ? इति भावः । तत्-तत्-कल्पनां विना च सर्वस्याप्य् अर्थस्य वस्तु-मात्रस्याधिगम-मात्रं न भवेत्, किम् उत तादृश-ब्रह्म-स्वरूपस्य भवतः । कल्पनामय-नाम-जात्य्-आदयस् तु न कस्यापि स्वरूप-धर्मा भवन्ति । यत एवं, ततः साङ्केत्यादिना भावितैर् अपि भवद्वत्-सर्व-पुरुषार्थ-प्रदैस् तत्-तद्-विशेष-प्रतिपादकैः कृष्णादि-नामभिर् एव त्वम् ईड्यसे, नित्य-सिद्ध-श्रुति-पुराणादिभिः श्लाघ्यसे, न तु निर्विशेषता-प्रतिपादकैर् नितरां9 कल्पनामयैर् इत्य् अर्थः ।
किं च, कृष्णादीनां चतुर्णां नाम्नाम् उपलक्सणत्वम् एव ज्ञेयम् । नारायणादि-नाम्नाम् अपि साङ्केत्यादौ तथा प्रभाव-श्रवणात् । वर्णा एव तु शब्दा इति भगवान् उपवर्ष [जै।सू। १.५.५ शवर-भाष्ये] इत्य् अनेन, तस्य च नित्यत्वाद् [वे।सू। २.४.१७] इत्य् अनेन च न्यायेन वर्णतयैव नित्यत्वम् अस्य वेद-सार-वर्णात्मक-नाम्नः सिध्यति । तथैव गोपाल-तापनी-श्रुतौ नाम-मयाष्टदशाक्षर-प्रसङ्गे ब्रह्म-वाक्यम्—तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं10 प्रकाशयन्न् [गो।ता।उ। १.२६] इति ।
अत्रावर-काल-जात-शब्दादि-मय-जगत्-कारणत्वेन तद्-वैलक्षण्यात् स्वतः-सिद्धत्वं तथा भगवत्-स्वरूपाभिन्नत्वं च तद्-वैलक्षण्यं नाम्नः । तद् यथा श्रुतौ—ॐ आस्य जानन्तो नाम चिद् विविक्तन महस् ते विष्णो सुमतिं भजामहे । ॐ तत् सत् [ऋ।वे। १.१५६.३]इत्य् आदि । अयम् अर्थः—हे विष्णो! ते तव नाम चित् चित्-स्वरूपम्, अत एव महः स्व-प्रकाश-रूपम्। तस्माद् अस्य नाम्न आ ईषद् अपि जानन्तः, न तु सम्यग् उच्चार-माहात्म्यादि-पुरस्कारेण । तथापि विवक्तन ब्रुवाणाः केवलं तद्-अक्षराभ्यास-मात्रं कुर्वाणाः सुमतिं तद्-विषयां विद्यां भजामहे प्राप्नुमः । यतस् तद् एव प्रणव-व्यञ्जितं वस्तु सत् स्वतः-सिद्धम् इति ।
अत एव भय-द्वेषादौ श्री-मूर्तेः स्फूर्तेर् इव साङ्केत्यादाव् अप्य् अस्य मुक्तिदत्वं श्रूयते । तथा चोक्तं ब्राह्मे—
अप्य् अन्य-चित्तः क्रुद्धो वा यः सदा कीर्तयेद् धरिम् ।
सोऽपि बन्ध-क्सयान् मुक्तिं लभेच् चेदि-पतिर् यथा ॥11इति ।
तथा श्री-भगवत इव तस्य नाम्नः सकृद् अपि साक्षात्कारः संसार-ध्वंसको भवति । यथा स्कान्दे—
सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् ।
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥ इति ।
श्रुतौ च प्रणवम् उद्दिश्य—ॐ इत्य् एतत् ब्रह्मणो नेदिष्टं नाम… यस्माद् उच्चार्यमाण एव संसार-भयात् तारयति, तस्माद् उच्यते तारः इत्य्-आदि बहुतरम् ।
न चास्यार्थ-वादत्वं चिन्त्यम्, तथार्थवादो हरिनाम्नि कल्पनम् इति पद्म-पुराणानुसारेणापराधापातात् । यस्य तु गृहीत-नाम्नोऽपि पुनः संसारस् तस्य,
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥
इति श्री-विष्णु-भक्ति-चन्द्रोदयादि-प्रमाणित-पुराण-वचनवन् महद् अपराध-तद्-अर्थ-वाद-कल्पनादिकं प्रतिबन्धकं ज्ञेयम् ।
अत एवानन्द-रूपत्वम् अस्य महद्-धृदय-साक्षिकं यथा श्री-विग्रहस्य । तद् उक्तं श्री-शौनकेन—
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भा।पु। २.३.२४]
अत एव स्कान्दे प्रभास-खण्डे कण्ठोक्त्या कथितैर् हेतुभिः सकल-वेद-फलत्वेन च भगवत्-स्वरूपत्वम् एव प्रतिपादितम्—
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इति ॥
तस्माद् भगवत्-स्वरूपम् एव नाम । स्पष्टं चोक्तं श्री-नारद-पञ्चरात्रेऽष्टादशाक्षरम् उद्दिश्य—
व्यक्तं हि भगवान् एव साक्षान्-नारायणः स्वयम् ।
अष्टाक्षर-स्वरूपेन मुखेषु परिवर्तते ॥ इति ।
माण्डूक्योपनिषत्सु च प्रणवम् उद्दिश्य—ॐ इत्य् एतद् अक्षरम् इदं सर्वं [मा।उ। १] । ओंकार एवेदं सर्वम् [छा।उ। २.२४.४] ।
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परं स्मृतम् ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद्-अनन्तरम् ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
सर्व-व्यापिनम् ओंकारं मत्वा धीरो न शोचति ॥
अमात्रोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः ।
ओंकारो विदितो येन स मुनिर् नेतरो जनः ॥ [आगम-कारिका २६-२९] इति ।
न च परमेश्वरस्यैव तद्-योग्यता-सम्भवाद् वर्ण-मात्रस्य तथोक्तिः स्तुति-रूपैवेति मन्तव्यम् । अवतारान्तरवत् परमेश्वरस्यैव वर्ण-रूपेणावतारोऽयम् इति अस्मिन्न् अर्थे तेनैव श्रुति-बलेनाङ्गीकृते तद्-अभेदेन तत्-सम्भवात् । तस्मान् नाम-नामिनोर् अभेद एव । तद् उक्तं पाद्मे—
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तोऽभिन्नत्वान् नाम-नामिनोः ॥ इति ॥
अस्यार्थः—नामैव चिन्तामणिः, सर्वार्थ-दातृत्वात् । न केवलं तादृशम् एव, अपि तु चैतन्येत्य्-आदि-लक्षणो यः कृष्णः, स एव साक्षात् । तत्र हेतुः—अभिन्नत्वाद् इति।
ननु, तथाविधं नामादिकं कथं पुरुषेन्द्रिय-जन्यं भवति ? न, वेद-मात्रस्य भगवतैव पुरुषेन्द्रियादिष्व् आविर्भावनात् । यथोक्तम् एकादशेस्वयं श्री-भगवता—शब्द-ब्रह्म सुदुर्बोधम् [भा।पु। ११.२१.३६] इत्य् आरभ्य,
मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना ।
भूतेषु घोष-रूपेण विशेष-पूर्णेव लक्ष्यते ॥ [भा।पु। ११.२१.३७] इति ॥
द्वादशस्य षष्ठे वेदव्यसन-प्रसङ्गे क्षीणायुषः [भा।पु। १२.६.४७] इत्य् आदौ । टीका च—तर्हि पुरुष-बुद्धि-प्रभवत्वान् नादरणीयं स्याद् इत्य् आशङ्क्याह हृदि-स्थाच्युत- चोदितेति । इत्य् एषा ।
एतत् सर्वम् अभिप्रेत्य गर्भ-स्तुताव् उक्तम्—
न नाम-रूपे गुण-जन्म-कर्मभिर्
निरूपितव्ये तव तस्य साक्षिणः।
मनो-वचोभ्याम् अनुमेय-वर्त्मनो
देव क्रियायां प्रतियन्त्य् अथापि हि ॥[भा।पु। १०.२.३६] इति ।
कस्मै येन विभासितोऽयम् इत्य् आदौ [भा।पु। १२.१३.१९] तद्-रूपेणेत्य् आदिवत् । तथा-रूपस्यापि वैलक्षण्यं स्व-प्रकाशता-लक्षण-स्वरूप-शक्त्यैवाविर्भावित्वम् । तच् च पूर्व-दर्शितम् । अत एव द्वितीये,
आत्म-तत्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् ।
ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रताद् ऋतः ॥ [भा।पु। २.९.४] इत्य् अत्र ।
टीका च—
यच् चोक्तम् अष्टमाध्यये परमेश्वरस्यापि देह-सम्बन्धाविशेषात् कथं तद्-भक्त्या मोक्षः स्याद् इति, आसीद् यद् उदरात् पद्मम् [भा।पु। २.८.८] इत्य् आदिना । तत्राह—आत्म-तत्त्व-विशुद्ध्य्-अर्थम् इति । आत्मनो जीवस्य तत्त्व-विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं तद् भवेद् एव । किं तत् ? यत् तप-आदिना स्व-भजनं भगवान् ब्रह्मण आह । किं कुर्वन् ? ऋतं सत्यं चिद्-घनं रूपं दर्शयन् । दर्शने हेतुर् अव्यलीकेन तपसादृतः सेवितः सन् । अयं भावः—जीवस्याविद्यया मिथ्या-भूत-देह-सम्बन्धः । ईश्वरस्य तु योगमायया चिद्-घन-विग्रहाविर्भाव इति महान् विशेषः । अतस् तद्-भजने मोक्षोपपत्तिर् इति । इत्य् एषा ॥
अत एव, स त्वं त्रि-लोक-स्थितये12[भा।पु। १०.३.२०-२१]इत्य्-आदि-द्वये श्रीमद्-आनक-दुन्दुभिनापि समाहितम् । अत्र ह्य् अयम् अर्थः—स प्रपञ्चस्य सृष्टि-स्थिति-प्रलय-कर्ता त्वं त्रिलोक-स्थितये यदा तस्य स्थितिम् इच्छसि, तदा स्व-मायया स्वाश्रितया माया-शक्त्या कृत्वा, आत्मनः शुक्लं वर्णं स्वेन सृष्टां धर्म-परां विप्रादि-जातिं बिभर्षि पालयसि । अत्र सत्त्व-मय्य् एव स्व-माया ज्ञेया निष्कृष्टत्वाद्13 उपयुक्तत्वाच् च ।
अथ यदा सर्गम् इच्छसि, तदा रजसा रजो-मय्या स्व-मायया कृत्वा, _उपबृंहितं रक्तम् _कामिनं विप्रादि-वर्णं बिभर्षि । यदा च जनात्ययम् इच्छसि, तदा तमो-मय्या कृत्वा कृष्णं मलिनं पाप-रतं तं बिभर्षि । अथवा, यदा स्थितिम् इच्छसि, तदात्मनः श्री-विष्णु-रूपस्य शुक्लं शुद्धं गुण-सङ्कर-रहितम् इत्य् अर्थः । शिव-ब्रह्मवत् तस्य तत्-सङ्गाभावात् ।
अथवा यदा स्थितिम् इच्छसि तदात्मनः श्री-विष्णु-रूपस्य शुक्लं शुद्धं गुण-सङ्कर-रहितम् इत्य् अर्थः । शिव-ब्रह्म-वत् तस्य तत्-सङ्गाभावात् । तथैव सिद्धान्तितं श्री-शुकदेवेन—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भा।पु। १०.८८.३] इत्य् आदौ, हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.८८.५] इत्य्-आदि । अत एव—
चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः ।
स्वकार्थानाम् इव रजः-सत्त्वाभ्यां स्रष्टृ-पालकाः ॥ [भा।पु। १०.१३.५०] इति ।
अत्र सात्त्विकत्व-राजसत्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते । वर्णं रूपं, न तु कान्ति-मात्रम् । गुण-मयत्व-स्वीकारेऽपि तत्-तद्-गुण-व्यञ्जकाकारस्याप्य् अपेक्ष्यत्वात्, न तु श्वेतं वर्णम् इति व्याख्येयम् । श्री-विष्णु-रूपस्य पालनार्थं गुणावतारस्य श्री-परमात्म-सन्दर्भे क्षीरोद-शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनातिप्रसिद्धेर् जनात्यय-हेतो रुद्रस्य श्वेततातिप्रसिद्ध्या तद्-वैपरीत्य-पातात् ।
तथैव हि गोभिलोक्त-सन्ध्योपासना14 । अतोऽत्र ब्रह्मणो न शोण-वर्णत्वे तात्पर्यम् । न च तत्-तद्-गुणानां तत्-तद्-वर्ण-नियमः, परम-तामसानां बकादीनां शुक्लत्व-दर्शनात्, सात्त्विक-गुणोपास्यानां श्री-बादरायण-शुकादीनां श्यामत्व-श्रवणाच् च। स्व-मायया भक्तेषु कृपया, माया दम्भे कृपायां च इति विश्व-प्रकाशात्,बिभर्षि जगति धारयसि प्रकटयसीत्य् अर्थः । रक्तं रजोमयत्वेन सिसृक्सादि-राग-बहुलम् । कृष्णं तमोमयत्वेन स्वरूप-प्रकाश-रहितम् इत्य् अर्थः ।
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.२.२४] इत्य् उक्तेः ।
ननु, कथम् अन्यार्थेन वाक्येन लोक-भ्रामकं वर्णयसि, यतः सम्प्रति जनात्ययार्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्य् अर्थोऽप्य् आयाति ? तद् एतद् आशङ्क्य परिहरन्न् आह त्वम् अस्य [भा।पु। १०.३.२१]15 इति। _निर्व्यूह्यमाना_इतस् ततश् चाल्यमानाः ।
अयं भावः—आस्तां तावद् ब्रह्म-घनत्व-शुद्ध-सत्त्व-मयत्व-बोधकं प्रमाणान्तरं, गुणानुरूप-रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःख-मात्र-हेतुत्वात् सुषुप्ति-रूपत्वाच् च तत्र तद्-अर्थावसरो भवति, तथास्य तु कालस्य त्वत्-कृत-रक्षया जगत्-सुख-हेतुत्वात् तमोमयासुर-विनाश-योग्यत्वात् तेषाम् असुराणाम् अपि हनन-व्याजेन सर्व-गुणातीत-मोक्षात्मक-प्रसाद-लाभात् तद्-अर्थावसरो न भवति, सैन्धवम् आनयेतिवत् । तथैवोक्तम्—
जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् ॥ [भा।पु। ७.१.८] इति ।
तस्मान् न तमः-कृतोऽयं वर्ण इति रजः-सत्त्वाभ्यां रक्त-शुक्लाव् एव भवत इति पूर्व-पक्षि-मतम् । ततश् च पारिशेष्य-प्रमाणेन स्वरूप-शक्ति-व्यञ्जितत्वम् एवात्रापि पर्यवस्यति इति भावः । तथैव तम् एवार्थं श्री-देवकी-देव्य् अपि सम्भ्रमेण प्राग् एव विवृतवती—रूपं यत् तत् प्राहुर्… अव्यक्तम् आद्याम् [भा।पु। १०.३.२४] इति ।
अथ प्रकृतम् अनुसरामः । तथा-गुणस्य [श्री-भगवतः] वैलक्षण्यम् आत्मारामाणाम् अप्य् आकर्षण-लिङ्ग-गम्याद्भुत-रूपत्वम् । तद् यथा श्री-सूतोक्तौ—आत्मारामाश् च मुनय [भा।पु। १.७.१०] इत्य् आदौ । हरेर् गुणाक्षिप्त-मतिर् [भा।पु। १.७.११] इत्य् आदि च । अत एवोक्तं विष्णु-धर्मोत्तरे—
गुणाः सर्वेऽपि युज्यन्ते ह्य् ऐश्वर्यात् पुरुषोत्तमे ।
दोषाः कथञ्चिन् नैवात्र युज्यन्ते परमो हि सः ॥
गुण-दोषौ माययैव केचिद् आहुर् अपण्डिताः ।
न तत्र माया मायी वा तदीयौ तौ कुतो ह्य् अतः ॥
तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् ।
अमायी हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इति ॥
अथ न विद्यतेइत्य् अस्य प्रकृत-श्लोकस्य व्याख्यातावशेषः । तद् एवं स्वरूप-शक्ति-विलास-रूपत्वेन तेषां प्राकृताद् वैलक्षण्यं साधितम् । तत्र आशङ्कते—ननु भवन्तु स्वरूप-भूतान्य् एव तानि तथापि स्वरुपस्यैव पूर्णत्वात् तत्-तत्-प्राप्तौ किं प्रयोजनम् ? तत्राह—लोकाप्यय-सम्भवाय।लोको भक्त-जनः, तस्याप्ययः संसार-ध्वंसस्, तत्-पूर्वकः सम्भवो भक्ति-सुख-प्राप्तिः, भू प्राप्तौ, तद्-अर्थम् । एतद् अप्य् उपलक्षणं नित्य-पार्षदानाम् अपि भक्ति-सुखोत्कर्षार्थम् । तद् उक्तं श्रीमद्-अर्जुनेन प्रथमे—
तथायं चावतारस् ते भुवो भार-जिहीर्षया ।
स्वानां चानन्य-भावानाम् अनुध्यानाय चासकृत् ॥ [भा।पु। १.७.२५] इति ।
अस्यार्थः—यथान्ये पुरुषादयोऽवतारास् तथायं चावतारः साक्षाद्-भगवतः श्री-कृष्णाख्यस्य तवैव प्राकट्यं, परम-भक्ताया भुवो भार-जिहीर्षया जातोऽपि । अन्येषां स्वानां भक्तानामसकृच् च मुहुर् अप्य् अनुध्यानाय निज-भजन-सौख्याय भवति ।16
ननु तर्हि भक्त-सौख्यम् एव प्रयोजनं जातम् इति पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः [पूर्वम् उद्धृते माध्व-भाष्य-धृत-नारायण-संहिता-धृत-श्लोके]इत्य् एतत् स्व-स्वरूपस्य पूर्णत्वं कथम् उपपद्येत ? तत्राह—अनन्य-भावानाम्इति । अन्यथा सर्वज्ञ-शिरोमणेर् निर्दोषस्य तस्य तन्-मात्रापेक्षकानां तेषाम् उपेक्षायाम् अकारुण्य-दोषः प्रयुज्येत इति भावः । आत्मारामेऽपि कारुण्य-गुणावकाशो गुणा विरुद्धा अपि तु समाखार्याश् च सर्वतः [कूर्म।पु।] इति स्मरणात् विचित्र-गुण-निधाने श्री-भगवत्य् एव सम्भवति । ततोऽन्यत्र तु सञ्चरित-तद्-गुणांशे तदीय एव यः प्रतिपदम् एव साश्चर्यं श्रुत्य्-आदिभिर् उच्चैर् गीयते । यश् चा-विरिञ्चिम् आ-पामर-जनम् आकर्षन्न् एव वर्तते । तद् उक्तं श्री-दशमे स्वयम् एव—भजतोऽपि न वै केचित्… इत्य्-आदि, भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये [भा।पु। १०.३२.१९-२०] इत्य्-अन्तम् ।
तस्मात् परम-समर्थस्य तस्य कृपा-लक्षणं भक्त-जन-सुख-प्रयोजनकत्वं नाम कोऽपि स्वरूपानन्द-विलास-भूत-परमाश्चर्य-स्वभाव-विशेष इति मूल-पद्येऽप्य् **अनुकालम् ऋच्छति **इत्य् अनेनैव दर्शितम् । अतः प्रयोजनान्तर-मतित्वं तु तस्मिन् नास्त्य् एव । तत्-प्रयोजनत्वं च तस्य परम-समर्थस्यानन्द-विलास एवेति दिक् । अत्र विशेष-जिज्ञासायां श्री-भगवत्-सन्दर्भो दृश्यः ॥17 (भगवत्-सन्दर्भः ३५)
विश्वनाथः : प्राकृत-जन्म-कर्मादिमत्त्वम् आह—नेति । गुण-दोषम् इति समाहार-द्वन्द्वः गुण-दोष एवेति पाठे सर्वो द्वन्द्वो विभाषयैकवद् भवतीति । इतरतेतर-योगेऽप्य् एकतवम् उकालोऽज-ह्रस्व-दीर्घ-प्लुत इतिवत् । तद् अपि लोकानाम् अप्ययः प्रलयः सम्भवः सृष्टिस् तयोर् द्वन्द्वैक्यं तद्-अर्थं स्व-मायया मायिक-तमो-रजो-गुणाभ्यां तानि रुद्र-रूपेण ब्रह्म-रूपेण च जन्म-कर्मादीनि अनुकालं प्रतिप्रलय-सृष्टि-समये ऋच्छति प्राप्नोति । अत्र लोक-स्थित्य्-अर्थं विष्णु-जन्मादीनि न निर्दिष्टानि, तेषां मायिकत्वाभावात् । अमायिक-जन्म-कर्मादीनि तु नानेन निषिद्ध्यन्ते । तानि देवक्यादि-जन्म-गोवर्धन-धारणादि-कर्म कृष्ण-रामादि-नाम-रूपाणि स्वरूप-भूतान्य् एव न निषेद्धुं शक्यन्ते श्रुत्यापि । निष्कलं निष्क्रियं शान्तम् निरवद्यं निरञ्जनम् [श्वे।उ। ६.१९], अशब्दम् अस्पर्शम् अरूपम् अव्ययम् [कठ।उ। १.३.१५] इत्य् आदौ मायिकं निषिध्य, स सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [छा।उ। ३.१४.४] इत्य् अमायिकं कर्मादि विधीयते ।
अत एव श्री-विष्णु-पुराणे—गुणांश् च दोषांश् च मुने व्यतीत [वि।पु। ६.५.८३] इत्य् उक्त्वा पुनर् आह—समस्त-कल्याण-गुणात्मको हि [वि।पु। ६.५.८४] इति । तथा—
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ [वि।पु। ६.५.७९] इति ।
पाद्मोत्तर-खण्डे च—
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः ।
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥ इति ।
हेय-संयुक्तैर् हेयत्व-युक्तैर् इत्य् अर्थः । प्राकृता गुणा हि हेया भवन्ति यत इति भावः । नाम्नश् चिन्मयत्वं श्रुतिर् आह— ॐ आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे । ॐ तत् सद् इत्य् आदि । अयम् अर्थः—हे विष्णो! ते तव नाम चित् चित्-स्वरूपम्, अत एव महः स्व-प्रकाश-रूपम् । तस्माद् अस्य नाम्नः आ ईषद् एव जानन्तो वयं न तु सम्यग् उच्चारण-माहात्म्यादि-पुरस्कारेणेत्य् अर्थः । तथापि विविक्तेन ब्रुवाणाः केवलं तद्-अभ्यास-मात्रं कुर्वाणाः सुमतिं शोभनाम् त्वद्-विषयां बुद्धिं भजामहे प्राप्नुमः । यतस् तद् एव नाम ॐ प्रणवः सत् स्वतः-सिद्धम् इति ॥८॥
—ओ)०(ओ**—**
॥ ८.३.९ ॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्त-शक्तये ।
अरूपायोरु-रूपाय नम आश्चर्य-कर्मणे ॥
श्रीधरः : ब्रह्मणे अरूपाय । अनन्त-शक्तये उरु-रूपाय । अत आश्चर्याणि कर्माणि यस्य तस्मै परेशाय नमः ॥९॥
**चैतन्य-मत-मञ्जुषा :**तस्मै परेशाय श्री-कृष्णाय नमः । ब्रह्मणे बृहते परेशत्वात् कैवल्य-नाथाय कैवल्यम् एकान्त-भक्तिस् तस्याः पतिर् नाथः प्राणेश्वरः, तस्मै । निर्वाण-सुखाद् अपि सं समीचीना विद् अनुभावो यस्य ॥९॥
**क्रम-सन्दर्भः : **अरूपाय प्राकृत-रूप-रहिताय । उरु-रूपाय अप्राकृतानन्त-रूपाय ॥९॥
**विश्वनाथः : **अरूपाय प्राकृत-रूप-रहिताय । उरु-रूपाय अप्राकृत-चिद्-घन-राम-कृष्णादि-बहुल-रूपाय ॥९॥
—ओ)०(ओ**—**
॥ ८.३.१० ॥
नम आत्म-प्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश् चेतसाम् अपि ॥
**श्रीधरः : **आत्म-प्रदीपाय प्रकाशान्तरस्याविषयाय । कुतः ? साक्षिणे प्रकाशकाय । परमात्मने जीवनि-यन्त्रे । अत एव गिरां विदूरायाप्राप्याय । चेतसां चित्त-वृत्तीनाम् । तथा च श्रुतिः—यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।18
विश्वनाथः : जीवात्म-वाङ्-मनस् तद्-वृत्तिभि अग्म्यत्वम् आह—आत्म-प्रदीपाय जीवात्म-प्रकाशकाय प्रकाशकस्य तत्त्वं प्रकाश्यो न जानातीति भावः । सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति हंस-गुह्योक्तेः । विदूराय अगम्याय, चेतसां चित्त-वृत्तीनाम् ॥१०॥
आत्म-प्रदीपाय स्वस्मै स्वयं-प्रकाशाय गिरां मनसश् चेतसां विदूराय बहिर्मुख-वाङ्-मनसश् चित्त-वृत्तीनाम् अगोचराय ॥
—ओ)०(ओ**—**
॥ ८.३.११ ॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नमः कैवल्य-नाथाय निर्वाण-सुख-संविदे ॥
**श्रीधरः : **एवम् अपि विपश्चिता निपुणेन । नैष्कर्म्येण सन्न्यासेन । सत्त्वेन शुद्धेन । सन्न्यास-योगाद् यतयः शुद्ध-सत्त्वाः इति श्रुतेः । प्रतिलभ्याय प्रत्यक्त्वेन प्राप्याय । निर्वाण-सुख-संविदे मोक्षानन्दानुभूतये ॥११॥
**क्रम-सन्दर्भः : **सत्त्वेन शुद्ध-सत्त्वात्मकेन, नैष्कर्म्येण भक्ति-योगेन हेतुना । विपश्चिता कर्त्रा, तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः [भा।पु। १.३.८] इति प्रथमोक्तेः । कैवल्यस्य शुद्ध-प्रेम्णः, नाथाय दानादानयोः प्रभवे, कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [भा।पु। २.३.१२] इति, कैवल्यैक-प्रयोजनम् [भा।पु। १२.१३.१२] इति च तच्-छब्देन तत्-प्रसिद्धेः । निर्वाण-सुखस्यापि संविद्-अनुभवो यस्मात् तस्मै, मदीयं महिमानं च [भा।पु। ८.२४.३८] इत्य्-आदि-श्री-मत्स्य-देवोक्तेः । उभयम् अपि ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्य [गीता १४.२७] इत्य्-आदि श्री-गीतोपनिषद्भ्यः ॥११॥19
विश्वनाथः- कथं तर्हि स गम्यो भवतीत्य् अत आह । सत्त्वेन सन् साधुः सतो भावः सत्त्वं वैष्णवत्वं तेन प्रतिलभ्याय । वचन-प्रतिवचनवल् लाभ-प्रतिलाभोऽयं भक्त-भगवतोर् ज्ञेयः । भक्तिर् अस्य भजनं तद् इहामुत्रोऽपाधि-नैरास्येनामुष्मिन् मनः कल्पनम् एतद् एव नैष्कर्म्यम् इति गोपाल-तापनी-श्रुतेः। सत्त्वेन यत् नैष्कर्म्यं तेन विपश्चिता प्रतिलभ्याय इत्य् अन्वयः ॥११॥
—ओ)०(ओ**—**
॥ ८.३.१२ ॥
नमः शान्ताय घोराय मूढाय गुण-धर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञान-घनाय च ॥
**श्रीधरः : **गुण-धर्मणे सत्त्वादि-धर्मानुकारिणे । ज्ञान-घनाय चेति निर्विशेषत्वेऽपि प्रधान-वैलक्षण्यम् उक्तम् ॥१२॥
**चैतन्य-मत-मञ्जुषा :**नमः शान्तायेत्य्-आदि । शं कल्याणं भगवत्-प्रेम तस्य अन्तो बन्धनं यत्र, अति बन्धने इत्य् अतः सिद्धेः । तस्मै शान्ताय घोराय क्रूराय मूढाय अभक्ताय जनाय गुण-धर्मीव भासमानः, तस्मै । घोरेषु मूढेषु गुण-धर्मिण इति विषय-विवक्षायां तादर्थ्यम् । ते ते तु तं गुण-धर्मिणं जानन्ति । साम्याय साम्यथार्थं ब्रह्म-विग्रहयोः समानार्थः । ज्ञान-घनाय घनः काठिन्यं साम्यथार्थं ज्ञान-रूपेण काठिन्यं यस्य तस्मै ॥१२॥
**क्रम-सन्दर्भः : **शान्तायेति पद-युग्म-त्रयं20 प्रतिस्वं मिथो-विरोधित्वेन निर्दिश्य कारण-कार्ययोस् तादात्म्यात् तद्-अभिन्नतया तथा चाङ्गीकृत्य तस्य मिथो-विरोधि-शक्त्य्-आश्रयत्वं दर्शितम् उक्तं च । दर्शनीय-सर्वाश्रय-योग्य-स्वरूपम् आह—ज्ञान-घनाय इति, सच्-चिद्-आनन्द-स्वरूपायेत्य् अर्थः । तत्र गुणा ज्ञानादयो ये धर्माः स्वभावास् ते विद्यन्ते यस्य तस्मै । साम्याय समाय, विशेषेष्व् अनुगतायेत्य् अर्थः ॥१२॥
विश्वनाथः : अज्ञानि-लभ्य-विश्व-रूपत्वम् आह—नम इति । शान्ताय सात्त्विक-लोक-रूपाय । तत्रापि ज्ञानि-वेद्य ब्रह्म-रूपत्वम् आह—निर्विशेषायेति ॥१२॥
—ओ)०(ओ—
॥ ८.३.१३ ॥
क्षेत्रज्ञाय नमस् तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्म-मूलाय मूल-प्रकृतये नमः ॥
**श्रीधरः : साक्षिण इति सर्वाध्यक्षत्वेऽपि निर्विकारत्वम् उक्तम् । आत्मनां क्षेत्र-ज्ञानां मूलाय । मूलस्य प्रधानस्यापि प्रकृतये उद्भव-हेतवे । तत्र हेतुः—पुरुषाय पूर्वम् एव सते । तथा च श्रुतिः—**पूर्वम् एवाहम् इहासम् इति, तत् पुरुषस्य पुरुषत्वम् इति, पूर्णाय इति वा ॥१३॥
**चैतन्य-मत-मञ्जुषा : **क्षेत्रज्ञायेत्य्-आदि । आत्मा श्रीमत्-तमाल-श्यामलं धाम, तद् एव मूलम् आदी-भूतं यस्य तस्मै । क्षेत्रज्ञाय—क्षेत्रं भक्त-शरीरं तत्र ज्ञा अवबोधो यस्य, तस्मै । मूलं श्री-कृष्णाख्यं तत्त्वं, तद् एव प्रकृतिः स्वभावो यस्य ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : योगि-वेद्यान्तर्यामि-रूपत्वम् आह—क्षेत्रज्ञेति चतुर्भिः । क्षेत्रं देह-द्वयं तत्त्वेन जानातीति क्षेत्रज्ञोऽन्तर्यामी, तस्मै । क्षेत्रज्ञं चापि मां विद्धि [गीता १३.४] इति गीतोक्तेः । आत्मनां जीवानां मूलायांशिने । प्रकृतेर् अपि मूलं मूल-प्रकृतिस् तस्मै । राज-दन्तादित्वात् पर-निपातः ॥१३॥
—ओ)०(ओ—
॥ ८.३.१४ ॥
सर्वेन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे ।
असता च्छाययोक्ताय सद्-आभासाय ते नमः ॥
**श्रीधरः : सर्वेन्द्रियाणां ये गुणा विषयास् तेषां द्रष्ट्रे । सर्वे प्रत्यया इन्द्रिय-वृत्तयो हेतवो ज्ञापका यस्य तस्मै । तद् एवाह—असताहङ्कारादि-प्रपञ्चेन । छाययाऽसद्-रूपाय उक्ताय प्रतिबिम्बेन बिम्बम् इव सूचिताय । तत्र हेतुः—सद्-रूपो विषयेष्व् आभासो यस्य तस्मै । तद् उक्तं तृतीये—**यथा जल-स्थ आभासः [भा।पु। ३.२७.१२] इत्य्-आदिना । पाठान्तरे असत्य् अस्य छाययाऽध्यासेनाक्ताय युक्ताय, तद्-अधिष्ठानायेत्य् अर्थः ॥१४॥
**क्रम-सन्दर्भः : **छायया निजाभास-रूपेणेत्य् अर्थः । पाठान्तरे असति ख-पुष्पादौ या अच्छाया स्फुर्त्य्-अभावः, तद्-युक्ताय सद्-आभासाय सति तु वस्तुनि स्फुरते ॥१४॥
विश्वनाथः : सर्वाणीन्द्रियाणि गुणा विषयाश् च तेषां द्रष्ट्रे । सर्व-प्रत्यया इन्द्रिय-वृत्तयो हेतवो ज्ञापका यस्य तस्मै । गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इत्य् उक्तेः । असता असर्व-काल-स्थायिना छायया, छायेव यस्य भुवनानि बिभर्ति दुर्गा इति ब्रह्म-संहितोक्ते च छाया-तुल्य-माया-कार्येण विश्वेन उक्ताय ज्ञापिताय कार्येण कारणानुमानाद् इति भावः । कुम्भकार-शक्त्या जनितेन घटेन यथा कुम्भकारोऽनुमीयते, तद्वद् इत्य् अर्थः । असत्य-च्छाययाक्तायेति पाठे ससति असाधौ जने अच्छायया अक्ताय स्व-चरण-छायाम् अदात्रे इत्य् अर्थः ।
यद् वा, अच्छाया ज्वाला तद्-युक्ताय । छाया सूर्य-प्रिया कान्तिः प्रतिबिम्बम् अनातप इत्य् अमरः । यद् वा, अच्छाया अकान्तिर् अस्फूर्तिर् इति यावत् तद्-युक्ताय सत्सु साधुषु आभासः स्फूर्तिर् यस्य तस्मै ॥१४॥
—ओ)०(ओ—
॥ ८.३.१५ ॥
नमो नमस् तेऽखिल-कारणाय
निष्कारणायाद्भुत-कारणाय ।
सर्वागमाम्नाय-महार्णवाय
नमोऽपवर्गाय परायणाय ॥
**श्रीधरः : अखिल-कारणाय सर्व-कारण-रूपाय । अत एव स्वयं निष्कारणाय । कारणत्वेऽपि मृदादिवद् विकारं वारयति—अद्भुत-कारणायेति । एवं-भूतत्वे प्रमाणम् आह—**सर्वे आगमाः पञ्चरात्रादय आम्नायाश् च वेदास् तेषां महार्णवाय स्रोतसाम् इव पर्यवसान-स्थानाय । अपवर्गाय मोक्ष-रूपाय । अतः परायणायोत्तमानाम् आश्रयाय ॥१५॥
**चैतन्य-मत-मञ्जुषा :**नमो नम इत्य्-आदि । अद्भुतस्य आश्चर्य-भूतस्य अलौकिकस्यैवात्यद्भुतत्वात् । तद् गायन्तः सन्त आनन्द-समुद्र-मग्ना ये कञ्चनार्थं न वाञ्छन्ति, त एव एकान्तिनो यस्य तच्-चरितम् इत्य् अन्वयः । आनन्द-समुद्र-मग्नत्वात् सुमङ्गलत्वात् परिपूर्णः ॥१५॥
**क्रम-सन्दर्भः : **अद्भुत-कारणायेति । श्रुतेस् तु शब्द-मूलत्वात् [वे।सू। २.१.२७] इति न्यायं दृढीकरोति शुक्ति-रजतवत्त्वेऽद्भुतत्वायोगात् ॥१५॥
**विश्वनाथः : अद्भुत-कारणाय उपादान-कारणत्वेऽपि अद्भुतत्वं निर्विकारत्वात् तवेति भावः । यद् उक्तं देवैः— आत्मनैवाविक्रियमाणेन सगुणम् अगुणः सृजसि[भा।पु।६.९.३४]इति स्वामि-चरणैर् अप्य् अत्रावतारितं—कारणत्वेऽपि मृदादिवद् विकारं वारयति—**अद्भुत-कारणायेति । एति भावःभावत्वे प्रमाणम् आह—सर्वे आगमाः पञ्चरात्रादयः आम्नाया वेदाश् च तेषां महार्णवाय तरङ्गाणाम् इव पर्यवसान-स्थानायेति । अपवर्ग-रूपाय परायणाय उत्तमानाम् आश्रयाय ॥१५॥
—ओ)०(ओ**—**
॥ ८.३.१६ ॥
गुणारणि-च्छन्न-चिद्-उष्मपाय
तत्-क्षोभ-विस्फूर्जित-मानसाय ।
नैष्कर्म्य-भावेन विवर्जितागम-
स्वयं-प्रकाशाय नमस् करोमि ॥
**श्रीधरः : **गुणा एवारणिस्तयाच्छन्नश् चिद्-ऊष्मपो ज्ञानाग्निस् तस्मै । तेषां गुणानां क्षोभे कार्ये विस्फूर्जितं बहिर्-वृत्तिकं मानसं यस्य । सोऽकामयत बहु स्याम् इति श्रुतेः । नैष्कर्म्यम् आत्म-तत्त्वं तस्य भावेन भावनया विवर्जिता आगमा विधि-निषेध-लक्षणा यैस् तेषु स्वयम् एव प्रकाशो यस्य तस्मै ॥१६॥
**क्रम-सन्दर्भः : **गुणारणीत्य्-आदि-द्वये तृतीयान्य-पदार्थो बहुव्रीहिः । तत्र च चिन्-मानसे जीवस्येति ज्ञेयम् । विस्फूर्जितत्वम् बहिर्-वृत्तित्वम् । नैष्कर्म्याय यो भावो भक्ति-ज्ञानात्मकः, तेन ।।१५॥
विश्वनाथः : गुण एवारणिस् तयाच्छन्नो यश् चिद् उष्मपो ज्ञानाग्निस् तस्मै । तेषां गुणानां क्षोभ-विस्फूर्जिते क्षोभोत्कर्षे मानसम् इच्छा यस्य, सोऽकामयत बहु स्याम् इति श्रुतेः । नैष्कर्म्यम् आत्म-तत्त्वं तस्य भावेन भावनया विवर्जिता आगमा विधि-निषेध-लक्षणा यैस् तेषु स्वयम् एव प्रकाशो यस्य तस्मै ॥१६॥
—ओ)०(ओ—
॥ ८.३.१७ ॥
मादृक् प्रपन्न-पशु-पाश-विमोक्षणाय
मुक्ताय भूरि-करुणाय नमोऽलयाय ।
स्वांशेन सर्व-तनु-भृन्-मनसि प्रतीत-
प्रत्यग्-दृशे भगवते बृहते नमस् ते ॥
**श्रीधरः : मादृक् मद्-विधश् चासौ प्रपन्नः पशुस् तस्य पाशोऽविद्या तस्य विशेषेण मोक्षणं येन । तत्र योग्यताम् आह—मुक्ताय । मोचने हेतुः—**भूरिः करुणा यस्य । अतस् तत्रार्थेऽलयायानलसाय । स्वांशेनान्तर्यामि-रूपेण सर्वेषां तनु-भृतां मनसि प्रतीता प्रख्याता या प्रत्यग्-दृक् तस्मै । तथा च श्रुतिः—य आत्मनि तिष्ठन्न् आत्मानम् अन्तरो यमयति इति । भगवते सर्वेषां तनु-भृतां नियमने समर्थाय । तेषं मनः-स्थितत्वेऽपि बृहतेऽपरिच्छिन्नाय ॥१७॥
**क्रम-सन्दर्भः : **स्वांशेनेति । परात्म-रूपाय भगवते महा-वैकुण्ठेश्वराय, बृहते ब्रह्मणे _॥_१७॥
विश्वनाथः : भक्त-वेद्य-भगवत्-स्वरूपम् आह—मादृग् इति यावत् स्तुतिः । पाशो ग्राह-रूपः संसार-स्वरूपश् च । मुक्ताय अर्थान् मादृग्भिर् एतावत्-कालं परित्यक्ताय असेवितायेत्य् अर्थः । तद् अपि मादृग्भ्यो न क्रुध्यते प्रत्युत भूरि-करुणाय यतोऽमलाय प्राकृतानाम् इव ईर्ष्या-मालिन्य-भावाद् इति भावः । अलयायेति पात्ःए तत्र करुणायां न विद्यते लयः स्वाप आलस्यं यस्य तस्मै । न च त्वयि दुःख-ज्ञापनापेक्षेत्य् आह—स्वांशेनेति । विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता १०.४२] इति श्री-मुखोक्तेः । प्रतीतो यः प्रत्यग्-दृक् अन्तर्यामी, तस्मै । बृहते श्री-कृष्णाय ॥१७॥
—ओ)०(ओ**—**
॥ ८.३.१८ ॥
आत्मात्म-जाप्त-गृह-वित्त-जनेषु सक्तैर्
दुष्प्रापणाय गुण-सङ्ग-विवर्जिताय ।
मुक्तात्मभिः स्व-हृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ॥
**श्रीधरः : अन्तः-स्थत्वेऽपि देहादिष्व् आसक्तैर् दुष्प्रापणायाप्तुम् अशक्याय । तत्र हेतुः—गुण-सङ्गेन विवर्जिताय । अत एव मुक्तात्मभिर् देहादिष्व् अनासक्तैश् चिन्तिताय । तैः परिभावितं रूपम् आह—**ज्ञानात्मन इत्य्-आदि ॥१८॥
**क्रम-सन्दर्भः : **ज्ञानात्मने ब्रह्मणे, ईश्वराय परमात्मने ॥१८॥
विश्वनाथः : मर्त्य-लोके क्रीडा-परत्वेऽपि प्राकृत-गुण-सङ्ग-शून्याय । मुक्तात्मभिर् मुक्त-जीवैर् आत्म-घातिभिर् इत्य् अर्थः । परिभाविताय मायिक-विग्रहः परमेश्वरोऽयम् इति दृष्ट्या तिरस्कृताय, वस्तुतस् तु ज्ञानात्मने ज्ञानं पूर्णं चिद् एव आत्मा वपुर् यस्य तस्मै ।यद् वा, तं तद्-अपराधं जानते अचिरात् तद्-उचित-फल-दानार्थम् इति भावः ॥१८॥
—ओ)०(ओ**—**
॥ ८.३.१९ ॥
यं धर्म-कामार्थ-विमुक्ति-कामा
भजन्त इष्टां गतिम् आप्नुवन्ति ।
किं चाशिषो रात्य् अपि देहम् अव्ययं
करोतु मेऽदभ्र-दयो विमोक्षणम् ॥
श्रीधरः : इष्टां गतिं कामितं धर्मादि-फलं प्राप्नुवन्त्य् एव, न तु तावद् एव, किन्तु यास् तैर् अकामिता अन्या अप्य् आशिषो राति । देहम् अप्य् अव्ययं राति । एवं योऽदभ्र-दयः, स मे विमोक्षणम् एव केवलं करोतु, नाधिकं प्रार्थये ॥१९॥
क्रम-सन्दर्भः : आशिषः सामीप्याद्याः अव्ययम् अनश्वरं देहं पार्षदादि-रूपम् ॥१९॥21
प्रीति-सन्दर्भः १२: एतां मूर्तिम् उद्दिश्यैवाह यं धर्म-कामार्थ [भा।पु। ८.३.१९] इत्य्-आदौ, रात्य् अपि देहम् अव्ययम् इति । टीका च—देहम् अप्य् अव्ययं राति इत्य् एषा ।
विश्वनाथः : स-काम-भक्त-सेव्यत्वम् आह—यं धर्मादि-कामनया भजन्तोऽपि इष्टां सेविताम्, आराध्याम् इति यावत्, गतिं प्रेम-लक्षणां, सत्यं दिशत्य् अर्थितम् अर्थितो नृणां [भा।पु। ५.१९.२७] इत्य्-आदेः । किन्त्व् आशिषः कामितान् अर्थान् अपि राति ददाति । अव्ययम् अप्राकृतं देहं च ध्रुवादिभ्य इव ददाति, अतः स अदभ्र-दयः, अनल्प-कृपा-राशिः । विमोक्षणं ग्राहात् संसाराच् च करोतु । नित्य-सिद्ध-देहं च प्रेम-भक्तिं च ददात्व् इति भावः ॥१९॥
—ओ)०(ओ**—**
॥ ८.३.२०-२१ ॥
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्यद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः ॥
तम् अक्षरं ब्रह्म परं परेशम्
अव्यक्तम् आध्यात्मिक-योग-गम्यम् ।
अतीन्द्रियं सूक्ष्मम् इवातिदूरम्
अनन्तम् आद्यं परिपूर्णम् ईडे ॥
**श्रीधरः : **एतावद् अप्य् अहं भक्ति-सुखानभिज्ञत्वेन वाञ्छामि । यस्यैकान्त-भक्ता न कञ्चिद् अर्थं वाञ्छन्ति, तं परेशं परमेश्वरम् ईडे स्तौमीत्य् उत्तरेणान्वयः । तेषां निष्कामत्वे हेतुः—ये वै भगवतः सर्व-ज्ञान-युक्तान् प्रपन्नाः सेवितवन्तः ॥२०॥ अत्यद्भुत-सुमङ्गलत्व-प्रदर्शनार्थम् अक्षरत्वादीनि विशेषणानि ॥२१॥
**चैतन्य-मत-मञ्जुषा :**तम् अक्षरम् इत्य्-आदि । तं परिपूर्णम् ईडे अक्षरं शाश्वतं ब्रह्म ब्रह्मणोऽपि परं पराणां नारायणादीनाम् अपि परम् । अव्यक्तम् अभक्तानां दुर्दर्शम् । आध्यात्मिक-योग-गम्यम् आत्मानम् अधि आत्मानं ध्यानं तेन निवृत्तो यो योगः संयोग आसक्ति-विशेषस् तेन गम्यम् । अतोऽतीन्द्रियाग्राह्यं स्व-प्रकाशम् इत्य् अर्थः । अतिसूक्ष्मं विग्रहः परिच्छिन्नोऽपि व्यापी नित्य इत्य्-आदि-विरुद्धत्वेन तद्-अज्ञानां सूक्ष्मं दुर्बोधं यतो दूरम् । यथा अतिदूरस्थं वस्तु सूक्ष्मवद् दृश्यते, अतः सूक्ष्मम् इति वा यदा तु भाग्य-वशान् निकट-स्थो भवति, तदा प्रकट एव भवतीत्य् अर्थः । अनन्तम् आद्यम् इति सुगमम् । सर्वम् एव श्री-कृष्ण-परम् एतत् ॥२१॥
**क्रम-सन्दर्भः : **एकान्तिन इति युग्मकम् । आध्यात्मिक-योग-गम्यम् इत्य् आत्मानं तम् एवाधिकृत्य योगो भक्त्याख्यस् तन्-मात्र-गम्यम् ॥२०-२१॥
विश्वनाथः : ऐकान्तिक-भक्त-स्वभावस् तु मादृशः पशुः कथं प्राप्स्यन्तीति द्योतयन् निष्काम-भक्त-सेव्यत्वम् आह—एकान्तिनो यस्य भक्ता न कञ्चनाप्य् अर्थं वाञ्छन्ति तम् ईडे इत्य् उत्तरेणान्वयः । कुतो न वाञ्छन्ति भगवत्-प्रपन्नाः भगवत्-प्रपत्ति-महा-सम्पत्त्यैव परिपूर्णा इत्य् अर्थः । तेषां सुखं सर्वतोऽप्य् अधिकम् इत्य् आह—अत्यद्भुतम् इत्य्-आदि ।
ननु तं केचिन् माया-शवलं ब्रह्मेति केचिच् च प्रभूत-पूण्य-कृज् जीव इत्य् आचक्षते । सत्यं ते नारकिन एव, स तु साक्षात् पूर्णं पर-ब्रह्मैवेत्य् आह—तम् इति । आध्यात्मिक-योग-गम्यं यद् ब्रह्म, तद् एव परेशं परमेश्वरं तम् ईडे । यद् वा, आत्मानं तम् एवाधिकृत्य यो योगो भक्त्याख्यस् तेन गम्यं, भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.२१] इति तद्-उक्तेः । सूक्ष्मं परमाणुम् इव । अतीन्द्रियं सर्वेन्द्रियागम्यम् ॥२०-२१॥
—ओ)०(ओ**—**
॥ ८.३.२२ ॥
यस्य ब्रह्मादयो देवा वेदा लोकाश् चराचराः ।
नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः ॥
**श्रीधरः : **परिपूर्णत्वं प्रदर्शयन्न् अह त्रिभिः—यस्य फल्ग्व्या च स्वल्पयैव कलयांशेन कृताः स जयताद् इति तृतीयेनान्वयः ॥२२॥
**क्रम-सन्दर्भः : **यस्येति त्रिकम् ॥२२॥
**विश्वनाथः : **परिपूर्णत्वं प्रदर्शयन्न् अह त्रिभिः—यस्येति । फल्ग्व्या चेति । तस्य कला द्विविधा फल्गुर् अफल्गुश् च । आद्या ब्रह्मेन्द्र-रुद्रादि-जीव-रूपा, द्वितीया मत्स्य-कूर्मादीश्वर-रूपा चेति । स एव सर्व इत्य् अर्थः ॥ वेदा वेदोक्ताः कर्मादयः ॥२२॥
—ओ)०(ओ**—**
॥ ८.३.२३ ॥
यथार्चिषोऽग्नेः सवितुर् गभस्तयो
निर्यान्ति संयान्त्य् असकृत् स्व-रोचिषः ।
तथा यतोऽयं गुण-सम्प्रवाहो
बुद्धिर् मनः खानि शरीर-सर्गाः ॥
**श्रीधरः : **कथं कृताः ? इत्य् अपेक्षायां दृष्टान्तौ । यथार्चिषोऽग्नेर् इति प्रवाहे दृष्टान्तः—सवितुर् गभस्तय इत्य् आनन्त्ये । निर्यान्त्य् उद्गच्छन्ति । संयान्ति लीयन्ते । गुण-संप्रवाहम् एवाह, बुद्धिर् मन इति । खानि करणानि शरीर-सर्गाः कार्य-देह-प्रवाहाश् च यतो भवन्ति सः ॥२३॥
**क्रम-सन्दर्भः : **संयान्ति भूत-सूक्ष्म-रूपे तत्र तत्रेति ज्ञेयम् ॥२३॥
**विश्वनाथः : **भगवन्-निःश्वास-भूतत्वेन वेदानाम् अफल्गुत्वात् । उक्तम् अर्थं दृष्टान्तेन साधयति—यथेति । तथा च श्रुतिः— यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति [बृ।आ।उ। २.१.२०] इति । तथा तेनैव प्रकारेण जीवानाम् उपाधयोऽपि अपरया फल्ग्वा कलया कृता इत्य् आह—यत इति । गुण-प्रवाहम् एवाह—बुद्धिर् इत्य्-आदि । समष्टि-व्यष्टि-शरीरस्य सर्गाः सर्ग-हेतवः ॥२३॥
—ओ)०(ओ**—**
॥ ८.३.२४ ॥
स वै न देवासुर-मर्त्य-तिर्यङ्
न स्त्री न षण्डो न पुमान् न जन्तुः ।
नायं गुणः कर्म न सन् न चासन्
निषेध-शेषो जयताद् अशेषः ॥
**श्रीधरः : **अत एव देवादीनां मध्ये कोऽपि न भवति । न जन्तुर् लिङ्ग-त्रय-शून्यं प्राणि-मात्रम् अपि । किन्तु सर्वस्य निषेधेऽवधित्वेनावशिष्यत इति निषेध-शेषो मायया अशेषोऽशेषात्मकश् च जयतान् मद्-विमोक्षणायाविर्भवतु ॥२४॥
**चैतन्य-मत-मञ्जुषा :**स वै इत्य्-आदि । सोऽशेषः श्री-कृष्णो जयतात् । कीदृशः ? निषेध-शेषः—इदं न इदं नेति निषेधो यः, तेन शिष्यते इति शेषः । ननु कथं शेषतयैवासौ ज्ञायते, तथा हि शब्दैर् एव प्रतीक्ष्यन्ते जाति-द्रव्य-गुण-क्रियाः इति जात्यादीनां मध्ये स किम् अपि न भवतीत्य् आह—न देवासुर-मर्त्य-तिर्यग् इति जातिं निराकरोति । अन्यच् च शब्दस् तद्वत् लिङ्ग-त्रयम् अभिधाय स एव । स तु लिङ्ग-त्रयेणैकम् अपि दर्शयति—न स्त्री न षण्डो न पुमान् न स्त्री न कृतिर् न षण्डो न वा ब्रह्म पुमान् पुरुषः पुरुषावतारः, प्रकृत्य्-आदीनाम् अपि परत्वात् ।
द्रव्यं निराकरोति—न जन्तुः, जन्तु-शब्दोऽत्र डित्थादि-परः । अन्यथा देवासुर-मर्त्य-तिर्यग् इत्य्-आदिनैव प्राणित्वं पर्यवस्यते । किम् अन्येन प्राणि वचनेन ? जन्तु-शब्देन *** उत्पन्नत्वेन जायते इति जन्तुः ।
गुणं निराकरोति—न गुणः । क्रियां निराकरोति—न कर्म न क्रिया न सत् कारणं कार्य-कारणयोर् अपि परः । अथवा, श्री-कृष्णो न देवासुरादिः, यदा देवादिषु अवतरति, तद् असौ देव एव न, अत एव न जातिर् इति सर्वत्र बोध्यम् । तथासुरान् आविशत् [भा।पु। ८.१.११] इत्य्-आदिनामृत-मथनेऽसुर-बल-वीर्य-वृद्धयेऽसुरान् आविशत, तदा नास्यासुरत्वम् । यदा मर्त्येषु रामादि-रूपेणावतरति, तदापि नास्य मर्त्यत्वम् । यदा तिर्यक्षु वराहादि-रूपेणावतरति, तदापि नासौ तिर्यक् । अतोऽसौ न जातिः । नापि लिङ्गम् अस्य नियामकं, तत्राह—न स्त्री । यदा मोहिनी-रूपोऽभूत्, तदा नास्य षण्डत्वं, यदा पुरुषावतारो भवति, तदा पुरुष वायम् ? इति न पुरुषत्वम् । श्मश्रु *** मत्त्वं नास्य, तथापि स वै इति पुं-लिङ्ग-निर्देशान् निषेध-लेशः पुरुषोत्तमो नित्य-किशोर इति । न गुणः शुक्लादि-वर्णेन यदा व्यक्तीभवति, तदासौ न गुणः सत्त्वादिभिर् विष्णु-रूपेण वा ब्रह्म यदावतरति, तदासौ न गुणः, तदापि गुणातीत एव । स्वर्गादि-फल-जनकम् अग्निष्टोमादि कर्म च तस्य न रूपम् । तदापि नासौ कर्म—कारणस्यापि कारणत्वात् । न सत् न कार्यं न चासत् कारणम् । अतो देवासुर-मर्त्यादीनां निषेध-शेषः खलु यः, स एव श्री-कृष्णो नित्य-किशोरः श्री-पुरुषोत्तमः, न विद्यते शेषो यस्य ।
यद् वा, निषेध इति जीवो न, क्षेत्रज्ञो हिरण्यगर्भो न, नारायणो न इत्य्-आदि निषेध-शेषः ॥२४॥
**क्रम-सन्दर्भः : **यस्य ब्रह्मादयो देवा [भा।पु। ८.३.२२-२३]इत्य् आदि प्राक्तन-पद्य-द्वयेन यस्मात् सर्व-कारण-कारणत्वं व्यञ्जितं, तस्माद् देवादीनां मध्ये कोऽपि न भवति । वैलक्षण्यं च सात्त्विकत्व-भौतिकत्वादि-हीनतैव, स्त्रीत्व-पुरुषत्व-हीनता च प्राकृत-तत्-तद्-धर्म-राहित्यम् । अत एव **न षण्ड **इत्य् उक्तम् । तस्मान् न कोऽपि जन्तुः । कारण-भूतः सत्त्वादिर् गुणः पुण्य-पाप-लक्षणं कर्म च नेत्य् आह—नायं गुणः कर्मेति, तयोर् अपि प्रवर्तकत्वाद् इति भावः । किं बहुना ? यद् अत्र सत् स्थूलम् असत् सूक्ष्मं, तद् एकम् अपि न भवति, स्व-प्रकाश-रूपत्वाद् इति भावः । किन्तु सर्वस्य निषेधेऽवधित्वेन शिष्यत इति निषेध-शेषः । मायया तत्-तद्-अशेषात्मकश् च जयतान् मद्-विमोक्षणायाविर्भवत्व् इति टीका च ।
यद् वा, तत्-तद्-अन्तर्यामित्वात् तत्-तच्-छरीर-प्रविष्टेऽपि तत्-तज्-जीववत् तत्-तद्-अभिमानाभावात् तन्-निषेध-शेषः । तद्-अन्तर्यामित्वात् तेनैव तत्-तद्-धर्माणां सिद्धत्वाद् अशेष-रूपश् च जयतात् । क्वचित् तत्-तत्-सादृश्येन तत्र तत्र स्वरूप-शक्त्यावतीर्णत्वाच् चेत्य् अर्थः । अत एव मद्-विमोक्षणायाविर्भवत्व् इति । तत्रैव तात्पर्यं टीकायां दर्शितम् ॥२४॥ (भगवत्-सन्दर्भ ३३)
**विश्वनाथः : **अत एव सर्व-कारणत्वात् स देवादी मध्ये न कतमोऽपीत्य् आह—स इति । जन्तुः लिङ्ग-त्रय-शून्य-प्राणि-विशेषः । किन्तु सर्वस्य निषेधे अवधित्वेन शिष्यत इति निषेध-शेषः । अशेषः स्व-शक्ति-कार्यत्वाद् अशेषश् च ॥२४॥
—ओ)०(ओ**—**
॥ ८.३.२५ ॥
जिजीविषे नाहम् इहामुया किम्
अन्तर् बहिश् चावृतयेभ-योन्या ।
इच्छामि कालेन न यस्य विप्लवस्
तस्यात्म-लोकावरणस्य मोक्षम् ॥
**श्रीधरः : **न च ग्राहाच् छरीरस्य मोक्षणेनाहं जीवितुम् इच्छामि । तत्र हेतुः, अमुया अन्तर् बहिश् चाविवेक-व्याप्तया गज-जात्या किं प्रयोजनम् । आत्म-लोकस्यात्म-प्रकाशस्य यदावरणम् अज्ञानं तस्यैव तु मोक्षम् इच्छामि । यस्य मोक्षस्य कालेन नाशो नास्ति । यद् वा, देहस्य बन्धो देह-नाशे नश्येद् एव किं तन् मोक्ष-प्रार्थनेन । आत्म-लोकावरणस्य तु कालेन विप्लवो नास्ति, ज्ञानक-निवर्त्यत्वात् । अतस् तस्यैव मोक्षम् इच्छामीत्य् अर्थः ॥२५॥
**क्रम-सन्दर्भः : **तद् एवं प्राग्-जन्मन्य् अनुशिक्षितं जप्त्वा प्रस्तुतं विज्ञापयति—जिजीविष इत्य् आदिना । आत्म-लोको भगवद्-आविर्भावः ॥२५॥
**विश्वनाथः : **नन्व् एतावत्या स्तुत्या ग्राहात् स्व-शरीर-मोक्षणम् इच्छसि, तत्राह जिजीविषे नेति, तत्र हेतुः—अन्तर् बहिश् च अविद्या आवृतया हस्ति-योन्या किं प्रयोजनम् ? तर्हि किम् इच्छसि ? इति तत्राह—यस्य कालेन विप्लवो नाशो नास्ति तस्य आत्म-लोकावरणस्य मद्-आदि-जीवानाम् अविद्यया भगवद्-विस्मारिकाया मोक्षम् । यद् वा, आत्मनस् तव लोको वैकुण्ठस् तद्-आवरणस्य तद्-द्वारक-पाटस्य मोचनं मन्-निष्ठायास् तत्-प्राप्त्य्-अयोग्यताया नाशम् इत्य् अर्थः ॥२५॥
—ओ)०(ओ**—**
॥ ८.३.२६ ॥
सोऽहं विश्व-सृजं विश्वम् अविश्वं विश्व-वेदसम् ।
विश्वात्मानम् अजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥
**श्रीधरः : **सोऽहं मुमुक्तुः । विश्वं विश्वरूपम् अविश्वं विश्व-व्यतिरिक्तं च । विश्वं वेदो धनम् उपकरणं यस्य तम् । विश्वस्यात्मानं च केवलं प्राणतोऽस्मि, न तु तं जानामि ॥२६॥
**चैतन्य-मत-मञ्जुषा :**सोऽहम् इत्य्-आदि । सोऽहं विश्व-सृजं तं प्रणतोऽस्मि । यं यथा-रुचि सर्वे सर्वं वदन्तीत्य् आशयेनाह—विश्वम् । केषांचिन् मते परं पदं श्री-कृष्णम् ॥२६॥
**क्रम-सन्दर्भः : **परं पदं परमाश्रयम् । [विश्व-वेदसं विश्व-ज्ञातारम्] ॥२६॥
**विश्वनाथः : **तर्हि भक्तिः क्रियताम् इति चेद् भक्तिम् अप्य् अहं कर्तुं पशुत्वात् विपद्-ग्रस्तत्वाच् च न जानामि, तस्मात् यत् किञ्चित् स्व-चक्षुर्-आदिभिर् इदं विश्वं जानामि, तस्य यः कर्ता भवेत्, तं केवलं मनसैव नमामीत्य् आह—सोऽहं प्रसिद्ध-पशुः विश्वं विश्व-रूपम् अविश्वं स्वरूप-शक्त्या विश्व-व्यतिरिक्तं विश्व-वेदसं विश्व-ज्ञातारं विश्वस्यात्मानम् ॥२६॥
—ओ)०(ओ**—**
॥ ८.३.२७ ॥
योग-रन्धित-कर्माणो हृदि योग-विभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्य् अहम् ॥
**श्रीधरः : **योगं विना दुर्ज्ञेयत्वाद् इत्य् आह, योगेन भगवद्-धर्मेण रन्धितानि दग्धानि कर्माणि येषां ते यं प्रपश्यन्ति ॥२७॥
चैतन्य-मत-मञ्जुषा : योग-रन्धित-कर्माण इत्य्-आदि । यं योगिनो भक्ति-योगिनः पश्यन्ति। कीदृशास् ते ? योगेन भक्ति-योगेन रन्धितानि कर्माणि यैर् हृदि योग-विभाविते भावं प्रापिते ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न च तत्-प्राप्त्य्-उपायो मयि वर्तत इत्य् आह—योगेति । योगिनो न तु मादृशाः पशवः, योगेन भगवद्-धर्मेण दग्ध-कर्म्-अणः ॥२७॥
—ओ)०(ओ**—**
॥ ८.३.२८ ॥
नमो नमस् तुभ्यम् असह्य-वेग-
शक्ति-त्रयायाखिल-धी-गुणाय ।
प्रपन्न-पालाय दुरन्त-शक्तये
कद्-इन्द्रियाणाम् अनवाप्य-वर्त्मने ॥
**श्रीधरः : **तर्हि सर्वेऽपि योगम् एव किं नास्थितास् तत्राह, नम इति द्वाभ्याम् । असह्यो वेगो रागादि-लक्षणो यस्य तथाभूतं शक्ति-त्रयं यस्य तस्मै । बहिश् चाखिल-धियां सर्वेन्द्रियाणां गुणाय शब्दादि-रूपेण प्रतीयमानाय । अतः कद्-इन्द्रियाणां कुत्सितानीन्द्रियाणि येषां, तेषाम् अनवाप्यं वर्त्म यस्य ॥२८॥
**क्रम-सन्दर्भः : **असह्येत्य् अन्तः-करणेन दुर्ज्ञेयत्वम् । अखिलानां ब्रह्मादीनां धियो येभ्यस् तादृशा गुणा यस्य तस्मा इति स्वतोऽपि दुर्ज्ञेयत्वम् । तथापि प्रपन्न-पालायेति प्रपत्ति-मात्रेण सुज्ञेयत्वम् । शक्त्य्-अन्तरेण तु सुलभत्वं निषेधयति—दुरन्त-शक्तये इत्य् अन्येषाम् अल्प-शक्तिकत्वाद् इति भावः । अत एव कदिन्द्रियाणाम्22 इति । अतो नमो नमः ॥२८॥
**विश्वनाथः : **हृदि तद्-भावनायां प्रतिबन्धकम् आह—असह्य-वेगं शक्ति-त्रयं गुण-त्रयं यस्य तस्मै । तत्-कृपया प्रतिबन्धकाभावे तु अखिलानां सर्वेषाम् अपि धियो यत्र तथा-भूत-गुणाः स्मरणयतिआदयो यस्य तस्मै । किं च, प्रपन्न-मात्रम् अपि पालयति, तस्मै । तत्र हेतुः—दुरन्त-शक्तये दुर्ज्ञेय-कृपा-शक्तये । कृपां विना तु बहिर्मुखेन्द्रियाणां दुष्प्राप-वर्त्मने ॥२८॥
—ओ)०(ओ**—**
॥ ८.३.२९ ॥
नायं वेद स्वम् आत्मानं यच्-छक्त्याहं-धिया हतम् ।
तं दुरत्यय-माहात्म्यं भगवन्तम् इतोऽस्म्य् अहम् ॥
**श्रीधरः : **यच्-छक्त्या यस्य मायया या अहं-धीस् तया हतम् आवृतम् अयं जनो न वेद । दुरत्ययं माहात्म्यं यस्य तम् इत आश्रितोऽस्मि ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अयं मदीयो जीवः यस्य शक्तिर् माया तया या अहं-धीः, तया हतं स्वं न वेद ॥२९॥
—ओ)०(ओ**—**
॥ ८.३.३० ॥
श्री-शुक उवाच——
एवं गजेन्द्रम् उपवर्णित-निर्विशेषं
ब्रह्मादयो विविध-लिङ्ग-भिदाभिमानाः ।
नैते यदोपससृपुर् निखिलात्मकत्वात्
तत्राखिलामर-मयो हरिर् आविरासीत् ॥
**श्रीधरः : **उपवर्णितं निर्विशेषं मूर्ति-भेदं विना परं तत्त्वं येन तम् । विविधा चासौ लिङ्ग-भिदा मूर्ति-भेदस् तस्याम् अभिमानो येषां ते । अत एते यदा नोपजग्मुः । तत्र तदा । अखिलामर-मयः सर्व-देव-मय-मूर्तिः ॥३०॥
चैतन्य-मत-मञ्जुषा : हरिर् आविरासीद् इति । हर्षादीनि नामानि सर्वाण्य् एव श्री-कृष्ण-पराणीत् । यदा यदा तस्यांशावतारो भवति, तदा नाम्नाम्, एकैकम् अवतरति, तस्मिन्न् अवतारे हरिर् इति नाम्नावतीर्णः, न त्व् अयम् एव हरिर् इति हारिद्रावन्दुः केनापि दत्तोऽस्ति ॥३०॥
**क्रम-सन्दर्भः : **स वै न देव [भा।पु। ८.३.२४] इति पद्यार्थम् एव विशदयंस् तद्-विवक्षितं साक्षाद् दर्शयति—एवम् इति । एवम् उपवर्णितं निर्विशेषं देवादि-रूपं विना परं तत्त्वं येन, तं गजेन्द्रम् । विविध-लिङ्ग-भिदाभिमाना विविधा चासौ लिङ्ग-भिदा देवादि-रूप-भेदश् च, तस्याभिमानो येषाम् ते एवैते ब्रह्मादयो यदा नोपजग्मुस् तत्र तदा निखिलात्मकत्वात् निखिलानां तेषां परमात्म-सुख-रूपत्वात् तद्-विलक्षणो माययाशेषात्मकत्वाद् अखिलामर-मयो हरिर् आविरासीद् इति । एवम् आविर्भावं प्रार्थयमाने श्री-गजेन्द्रे यद् रूपेणाविर्भूतं तत् खलु तादृशम् एव भवितुम् अर्हतीति साधूक्तं स्थूल-सूक्ष्म-वस्त्व्-अतिरिक्तस् तव श्री-विग्रह इति ।
यद् वा, एवम् उपवर्णितं निर्विशेषं श्री-हरेर् देवत्वादि-प्राकृत-विशेष-राहित्यं येन तम् । अखिलाखिल-सम्पादक-शक्तयस् तत्राप्य् अमरस् तत्-सम्पादक-शक्तयोऽपि प्राचूर्येण विद्यन्ते यस्मिन् सः । तत्र हेतुः—निखिलात्मकत्वाद् इति स्वार्थे कन् । कं सुख-रूपो वा ॥३०॥ (भगवत्-सन्दर्भ ३३)
**विश्वनाथः : **उपवर्णितं निर्विशेषं निष्प्राकृत-स्वरूपं येन तं, ब्रह्मादयः आधिकारिकाः शिष्ट-रक्षणादौ भगवन्-नियुक्ता अपि तद्-रक्षणे असामर्थ्याद् एव नोपससृपुः । किं तु, विविध-लिङ्ग-भिदायां हंस-वाहनत्वैर् आवतवाहनत्वादौ स्रष्टृत्व-महेन्द्रत्वादाव् एव अभिमानो येषां ते । गजेन्द्रेण वयं न त्व् ईषद् अपि स्तुताः, प्रत्युत,
यस्य ब्रह्मादयो देवा वेदा लोकाश् चराचराः ।
नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः ॥ [भा।पु। ८.३.२२] इति ।
फल्ग्व्येति पदेन तुच्छीकृता एवातो यम् एव स्तौति, स एव भगवान् रक्षतु, स तु शीघ्रं, न प्रत्यक्षीभविष्यतीति दुराराध्यस्य तस्य स्वभावं वयं जानीम एवातो ग्राह-ग्रस्तो मरिष्यत्य् एवेत्य् एवं दुरभिमानेनौदासीन्यं यदा व्यञ्जयामासुर् इति भावः । तदा तत्-क्षण एव तत्र हरिः निखिलात्मकत्वाद् धेतोर् अखिलामर-मयः इति तरु-मूल-सेचनेन पल्लवाद्या सिक्ता इव विष्णु-स्तुत्यैव सर्वे स्तुता इति ते तत्त्वम् अविद्वांस इति भावः ॥३०॥
—ओ)०(ओ**—**
॥ ८.३.३१ ॥
**तं तद्वद् आर्तम् उपलभ्य जगन्-निवासः **
स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः ।
छन्दोमयेन गरुडेन समुह्यमानश्
चक्रायुधोऽभ्यगमद् आशु यतो गजेन्द्रः ॥
**श्रीधरः : **दिविजैर् देवैः सह । छन्दो-मयेनेति शैध्र्यायोक्तम् ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**दिविजैर् ब्रह्मादिभिर् देवैः सहित एव संस्तुवद्भिर् इति स्वापराध-खण्डनार्थम् एवेति भावः । छन्दो-मयेन इच्छा-मयेन इच्छा-तुल्य-वेगेनेत्य् अर्थः । यतो यत्र ॥३१॥
—ओ)०(ओ**—**
॥ ८.३.३२ ॥
सोऽन्तः-सरस्य् उरुबलेन गृहीत आर्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्त-चक्रम् ।
उत्क्षिप्य साम्बुज-करं गिरम् आह कृच्छ्रान्
नारायणाखिल-गुरो भगवन् नमस् ते ॥
**श्रीधरः : **खे दृष्ट्वा । उपात्तम् उद्यतं चक्रं येन ॥३२॥
**क्रम-सन्दर्भः **: कृच्छ्रात् प्रेम-वैवश्यात् ॥३२॥
विश्वनाथः : आर्तस् तत्-पीडाभिभूतोऽपि खे आकाशे अतिदूरेऽपि दृष्ट्वा साम्बुजेति तत्रत्यान्य् अम्बुजानि सद्य एव शुण्डेनैवावचित्य चरणयोर् अर्पयितुम् इत्य् अर्थः ॥३२॥
—ओ)०(ओ**—**
॥ ८.३.३३ ॥
**तं वीक्ष्य पीडितम् अजः सहसावतीर्य **
स-ग्राहम् आशु सरसः कृपयोज्जहार ।
ग्राहाद् विपाटित-मुखाद् अरिणा गजेन्द्रं
संपश्यतां हरिर् अमूमुचद् उस्रियाणाम्23** ॥**
श्रीधरः : गरुडोऽपि मन्द-गतिर् इति ततः सहसावतीर्यारिणा चक्रेण विपाटितं मुखं यस्य । उस्रियाणां देवानाम् ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **गरुडोऽपि मन्द-गतिर् इति तत्-पृष्ठाद् अवतीर्य वाम-करेण शुण्डं धृत्वा सरसः सकाशात् तटे उज्जहार । ततश् च दक्षिण-करेण अरिणा चक्रेण विपाटितं मुखं यस्य तस्मात् । उच्छ्रियाणां देवानाम् सम्पश्यतां सम्यक्तया पश्यतोऽपि तान् अनादृत्य ॥३३॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमस्य तृतीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं
संहितायां वैयासिक्याम् अष्टम-स्कन्धे
गजेन्द्र-मोक्षणं नाम
तृतीयोऽध्यायः ।
॥ ८.३ ॥
-
पराच् च परमः इति पाठान्तरं। ↩︎
-
यतो वा इमानि भूतानि जायन्ते इति श्रुतेः । ↩︎
-
येन जातानि जीवन्ति इति श्रुतेः । ↩︎
-
परमोऽसौ यत इति योऽस्मात् पराच् च परम इति व्याख्यातम् । पारात् परं पुरुषम् उपैति दिव्यम् इति श्रुतिः । विभुर् इति स्वयम्भू-पद-व्याख्यानम् । स्वयम् एव विविधतया म्तस्यादि-रूपैर् भवतीति ॥ ↩︎
-
तत्रेत्य् अधिक-पाठो भगवत्-सन्दर्भे। ↩︎
-
स्वरूपानन्द इति ख,घ, भगवत्-सन्दर्भश् च। ↩︎
-
थिस् इस् थे गित प्रेस्स् रेअदिन्ग्। ग्प् अल्सो हस् प्रमाणानि नोत् प्रमाणानाम्। ↩︎
-
पाद्मे इति घ। ↩︎
-
न तु (झ) ↩︎
-
भविष्यद् यथा भगवत्-स्वरूपाभिन्नत्वं जगद्-रूपं (झ)। ↩︎
-
विष्णु-खण्डे मार्गशीर्ष-मास-माहात्म्ये १५.५२। ↩︎
-
स त्वं त्रि-लोक-स्थितये स्व-मायया बिभर्षि शुक्लं खलु वर्णम् आत्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ ↩︎
-
निकृष्टत्वात् इति क्रम-सन्दर्भः। ↩︎
-
-सन्ध्योपासनायां इति भगवत्-सन्दर्भ-पाठः। ↩︎
-
त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहेऽवतीर्णोऽसि ममाखिलेश्वरः । राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ ↩︎
-
अयं पाठः केवलं भगवत्-सन्दर्भे प्राप्यते, तथापि तस्य प्रसङ्गता अविसंवाद्येति तत्-सन्निवेशः सङ्गच्छते इति मन्ये। ↩︎
-
ननु, तर्हि भक्त-सौख्य-प्रयोजनं जातम् इति । स्वरूपस्य पूर्णत्वं कथम् उपपद्येत्? उच्यते । भक्त-सुख-प्रयोजनकत्वं नाम स्वरूपानन्द-विलास एवेति दिक् । अत्र विशेषजिज्ञासायां भगवत्-परमात्म-सन्दर्भौ दृश्यौ । ↩︎
-
पुरिदस् हस् थे फ़ोल्लोwइन्ग् इन् ब्रच्केत्स्- आत्म-प्रदीपाय, स्वस्मै स्वयं-प्रकाशाय गिरां मनसश् चेतसां विदूराय—बहिर्मुख-वाङ्-मनसश् चित्त-वृत्तीनाम् अगोचराय। ↩︎
-
कैवल्य-नाथायेति [१०.४८.८] इति पद्यं द्रष्टव्यम्। ↩︎
-
पद-त्रयं (ङ-पुस्तकं विना सर्वेषु) ↩︎
-
अदभ्र-दयः—अनल्प-कृपा-राशिः, अमन्दोदय-दया-मयः इति पुरीदासः। ↩︎
-
कुत्सिद्तानीन्द्रियाणि येषां तेषां बहिर्मुखानां विदूर-काष्ठाय (१०.६०.३५) इत्य् उक्त-रीत्या । ↩︎
-
उस्रियाणाम्—उस्रिया विजया देवा आदित्या अमराः सुराः इत्य् अभिधानात् ॥ उच्छ्रियाणाम् इति क्वचित् पाठः । तत्र उद्गता ईश्वरत्वाभिमान-द्योतका श्रीर् येषां देवानाम् इत्य् अर्थः ॥ ↩︎