॥ ८.२.१ ॥
श्री-शुक उवाच—
आसीद् गिरिवरो राजंस् त्रिकूट इति विश्रुतः ।
क्षीरोदेनावृतः श्रीमान् योजनायुतम् उच्छ्रितः ॥
श्रीधरः :
तुर्ये मन्व्-अन्तरे प्रोक्तं गजेन्द्रस्य विमोक्षणम् ।
द्वितीयादि-त्रिभिस् तत् तु विस्तरेणोपवर्ण्यते ॥
द्वितीये तु गजेन्द्रस्य गजीभिः क्रीडतो जले ।
दैवाद् ग्राह-गृहीतस्य हरि-स्मृतिर् उदीर्यते ॥
आसीद् अस्ति ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
त्रिकूट-तत्र-स्थोऽद्यानसरो-वर्णन-विश्रुतेः ।
द्वितीयेऽत्र गजेन्द्रेण ग्राहार्तेन हरिः स्मृतः ॥
आसीद् अस्ति ॥१॥
—ओ)०(ओ—
॥ ८.२.२ ॥
तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयो-निधिम् ।
दिशः खं रोचयन्न् आस्ते रौप्यायस-हिरण्मयैः ॥
**श्रीधरः : **तावता योजनायुतेन । पर्यक् परितः । त्रिकूट-समाख्या-बीजम् आह—त्रिभिः शृङ्गैर् मुख्यैः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पर्यक् परितः । तावता योजनायुतेनैव । त्रिकूट-समाख्याया बीजम् आह—त्रिभिः मुख्यैर् शृङ्गैर् दिशः ऊर्ध्व-गता एव ॥२॥
—ओ)०(ओ—
॥ ८.२.३ ॥
अन्यैश् च ककुभः सर्वा रत्न-धातु-विचित्रितैः ।
नाना-द्रुम-लता-गुल्मैर् निर्घोषैर् निर्झराम्भसाम् ॥
**श्रीधरः : **अन्यैश् च शृङ्गैर् निर्झराम्भसां निर्घोषैश् च ककुभः । सर्वा रोचयन्न् आस्त इति पूर्वेणैवान्वयः । कथं-भूतैः शृङ्गैः । रत्नैर् धातुभिश् च विचित्रितैः । नाना-विधानां द्रुम-लतानां गुल्मा येषु तैः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अन्यैः शृङ्गैः ककुभः सर्वा अष्टाव् एव पर्यक् दिशो रोचयन्न् आस्त इति पूर्वेणैवान्वयः । निर्घोषैर् दिशां रोचना तासु प्रतिध्वनि-समर्पणेनेति ज्ञेयम् ॥३॥
—ओ)०(ओ—
॥ ८.२.४ ॥
स चावनिज्यमानाङ्घ्रिः समन्तात् पय-ऊर्मिभिः ।
करोति श्यामलां भूमिं हरिन्-मरकताश्मभिः ॥
**श्रीधरः : **पयस ऊर्मिभिः समन्ताद् अवनिज्यमानाम् अङ्घ्रयो मुल-प्रान्ता यस्य । हरिद्भिः पलाश-वर्णैः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : पयस ऊर्मिभिः समन्ताद् अवनिज्यमाना अङ्घ्रयो मुल-प्रान्ता यस्य सः । हरित्सु अष्ट-दिक्षु स्थितैर् मरकताश्मभिर् मध्य-वर्तिनीं भूमिं दुर्वादल-श्यामलां करोति ॥४॥
—ओ)०(ओ—
॥ ८.२.५ ॥
सिद्ध-चारण-गन्धर्वैर् विद्याधर-महोरगैः ।
किन्नरैर् अप्सरोभिश् च क्रीडद्भिर् जुष्ट-कन्दरः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.६ ॥
यत्र सङ्गीत-सन्नादैर् नदद्-गुहम् अमर्षया ।
अभिगर्जन्ति हरयः श्लाघिनः पर-शङ्कया ॥
**श्रीधरः : **किन्नरादीनां सङ्गीत-सन्नादैर् नदन्त्यो गुहा यस्मिन् प्रदेशे तम् अभिगर्जन्ति । हरयः सिंहाः । अमर्षया असहनेन ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**किन्नरादीनां सङ्गीत-सन्नादैर् नदन्त्यो गुहा यस्मिन् तम् प्रदेशम् अभि लक्ष्यीकृत्य अमर्षया असहनेन । पर-शङ्कया गर्जन्ति । श्लाघिनः कत्थमानाः ॥६॥
—ओ)०(ओ—
॥ ८.२.७ ॥
नानारण्य-पशु-व्रात- सङ्कुल-द्रोण्य्-अलङ्कृतः ।
चित्र-द्रुम-सुरोद्यान- कलकण्ठ-विहङ्गमः ॥
**श्रीधरः : **नाना ये आरण्याः पशवस् तेषां व्रातैः सङ्कुलाभिर् द्रोणीभिर् अलङ्कृत आस्ते । किं च, चित्रा द्रुमा येषु तेषु सुरोद्यानेषु कल-कण्ठा मधुर-स्वना विहङ्गमा यस्मिन् ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : चित्रा द्रुमा येषु तेषु सुरोद्यानेषु कलकण्ठा विहङ्गमा यत्र स आस्ते ॥७॥
—ओ)०(ओ—
॥ ८.२.८ ॥
सरित्-सरोभिर् अच्छोदैः पुलिनैर् मणि-वालुकैः ।
देव-स्त्री-मज्जनामोद- सौरभाम्ब्व्-अनिलैर् युतः ॥
**श्रीधरः : **किं च, स्वच्छोदकैः सरित्-सरोभिर् युतः । मणय इव वालुका येषु, तैः पुलिनैश् च युतः । देव-स्त्रीणां मज्जनेन य आमोदस् तेन सौरभ-युक्तान्य् अम्बून्य् अनिलाश् च तैश् च युत आस्ते ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : देव-स्त्रीणां मज्जनेन य आमोदस् तेन सौरभ्य-युक्तान्य् अम्बूनि अनिलाश् च तैर् युतः ॥८॥
—ओ)०(ओ—
॥ ८.२.९ ॥
तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।
उद्यानम् ऋतुमन् नाम आक्रीडं सुर-योषिताम् ॥
**श्रीधरः : **तस्य द्रोण्यां वरुणस्योद्यानम् आस्ते ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ऋतुमान् नामोद्यानम् आस्ते ॥९॥
—ओ)०(ओ—
॥ ८.२.१० ॥
सर्वतोऽलङ्कृतं दिव्यैर् नित्य-पुष्प-फल-द्रुमैः ।
मन्दारैः पारिजातैश् च पाटलाशोक-चम्पकैः ॥
**श्रीधरः : **गिरि-वनादि सर्वं ध्येयम् इति वक्ष्यति । अतो गिरिम् उपवर्ण्य वनं वर्णयति—सर्वतोऽलङ्कृतम् इति । पुनर् गिरिं वर्णयति—इति चतुर्भिः । मन्दारादिभिर् वृत इत्य् अन्वयः ॥१०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.११-१३ ॥
चूतैः पियालैः पनसैर् आम्रैर् आम्रातकैर् अपि ।
क्रमुकैर् नारिकेलैश् च खर्जूरैर् बीजपूरकैः ॥
मधुकैः शाल-तालैश् च तमालैर् असनार्जुनैः ।
अरिष्टोडुम्बर-प्लक्षैर् वटैः किंशुक-चन्दनैः ॥
पिचुमर्दैः कोविदारैः सरलैः सुर-दारुभिः ।
द्राक्षेक्षु-रम्भा-जम्बुभिर् बदर्य्-अक्षाभयामलैः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.१४ ॥
बिल्वैः कपित्थैर् जम्बीरैर् वृतो भल्लातकादिभिः ।
तस्मिन् सरः सुविपुलं लसत्-काञ्चन-पङ्कजम् ॥
**श्रीधरः : **तस्मिन् गिरौ सर आस्ते । तद् वर्णयति—सुविपुलम् इत्य्-आदि सार्धैः पञ्चभिः । लसन्ति काञ्चन-पङ्कजानि यस्मिन् ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मन्दारादिभिर् वृत इति पुं-लिङ्ग-निर्देशेन गिरि-वर्णनेन व्याख्यायमाने तस्मिन् सर इत्य् अत्र तत्-पदेन प्रक्रान्ते गिराव् एवोच्यमाने तत्रत्य सरसि गजेन्द्रावगाहनादि-कथायां सत्याम् ऋतुमन् नाम्नो वरुणोद्यानस्य वर्णनम् अप्रस्तुतत्वाद् व्यर्थं स्यात् तस्माद् वृत इत्य् आर्ष्यत्वाद् वृतम् इत्य् उद्यान-विशेषणम् एव व्याख्येयं, अस्मिन्न् उद्याने सर आस्ते तद् वर्णयति सार्धैः पञ्चभिः । शकुन्तैः पक्षिभिः सहितम् । मत्स्यानां कच्छपानां च सञ्चारेण चलतां पद्मानां रजसा युक्तं पयो यस्मिंस् तत् । नित्यम् ऋतवः फल-पुष्पादि-सम्पादनार्थं येषु तैः ॥१४-१९॥
—ओ)०(ओ—
॥ ८.२.१५ ॥
कुमुदोत्पल-कह्लार- शतपत्र-श्रियोर्जितम् ।
मत्त-षट्-पद-निर्घुष्टं शकुन्तैश् च कल-स्वनैः ॥
**श्रीधरः : **कुमुदादीनां श्रिया ऊर्जितम् । कलः स्वनो येषां तैः शकुन्तैश् च निर्धुष्टम् ॥१५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.१६ ॥
हंस-कारण्डवाकीर्णं चक्राह्वैः सारसैर् अपि ।
जलकुक्कुट-कोयष्टि- दात्यूह-कुल-कूजितम् ॥
**श्रीधरः : **चक्राह्वैः सारसैर् अप्य् आकिर्णम् । जल-कुक्कुटादीनां कुलैः कूजितम् ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.१७ ॥
मत्स्य-कच्छप-सञ्चार- चलत्-पद्म-रजः-पयः ।
कदम्ब-वेतस-नल- नीप-वञ्जुलकैर् वृतम् ॥
**श्रीधरः : **मत्स्यानां कच्छपानां च सञ्चारेण चलतां पद्मानां रजसा युक्तं पयो यस्मिंस् तत् ॥१७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.१८ ॥
कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः ।
कुब्जकैः स्वर्ण-यूथीभिर् नाग-पुन्नाग-जातिभिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.१९ ॥
मल्लिका-शतपत्रैश् च माधवी-जालकादिभिः ।
शोभितं तीर-जैश् चान्यैर् नित्यर्तुभिर् अलं द्रुमैः ॥
**श्रीधरः : **नित्यम् ऋतवः फल-पुष्पादि-संपत्ति-हेतवो येषां तैर् अलं शोभितम् ॥१९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.२० ॥
तत्रैकदा तद्-गिरि-काननाश्रयः
करेणुभिर् वारण-यूथ-पश् चरन् ।
सकण्टकं कीचक-वेणु-वेत्रवद्
विशाल-गुल्मं प्ररुजन् वनस्पतीन् ॥
**श्रीधरः : **तत्रैवं सत्य् एकदा तद्-गिरि-काननाश्रयो वारण-यूथपः करेणुभिश् चरंस् तृषार्दितेन स्व-यूथेन वृतः सरोवरस्याभ्याशं समीपम् अगमद् इति पश्चिमेनान्वयः । किं कुर्वन् । कीचक-वेणु-वेत्र-वन्तं विशालं गुल्मं लतादि-सन्दर्भं वनस्पतींश् च प्ररुजन् प्रभञ्जन् ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तत्रैकदा वारण-यूथपः अगमद् इति पञ्चमेनान्वयः । किं कुर्वन् करेणुभिश् चरन् स्व-भक्ष्यं भुञ्जानः कीचक-वेत्रवन्तं विशालं गुल्मं प्ररुजन् प्रभञ्जन् ॥२०॥
—ओ)०(ओ—
॥ ८.२.२१ ॥
यद्-गन्ध-मात्राद् धरयो गजेन्द्रा
व्याघ्रादयो व्याल-मृगाः सखड्गाः ।
महोरगाश् चापि भयाद् द्रवन्ति
सगौर-कृष्णाः सरभाश् चमर्यः ॥
**श्रीधरः : **कथं-भुतः ? यस्य गन्ध-मात्राद् धरयः सिंहा गजेन्द्रादयश् च भयाद् द्रवन्ति पलायन्ते ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : हरयः सिंहाः ॥२१॥
—ओ)०(ओ—
॥ ८.२.२२ ॥
वृका वराहा महिषर्क्ष-शल्या
गोपुच्छ-शालावृक-मर्कटाश् च ।
अन्यत्र क्षुद्रा हरिणाः शशादयश्
चरन्त्य् अभीता यद्-अनुग्रहेण ॥
**श्रीधरः : **वृकादयः क्षुद्रा अल्पाः प्राणिनोऽन्यत्र तद्-दृष्टि-पथं त्यक्त्वा चरन्ति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यद्-अनुग्रहेण तु वृकाद्याः क्षुद्रा अपि चरन्ति । किन्त्व् अन्यत्र तद्-दृष्टि-पथं त्यक्त्वा ॥२२॥
—ओ)०(ओ—
॥ ८.२.२३-२४ ॥
स घर्म-तप्तः करिभिः करेणुभिर्
वृतो मदच्युत्-करभैर् अनुद्रुतः ।
गिरिं गरिम्णा परितः प्रकम्पयन्
निषेव्यमाणोऽलिकुलैर् मदाशनैः ॥
सरोऽनिलं पङ्कज-रेणु-रूषितं
जिघ्रन् विदूरान् मद-विह्वलेक्षणः ।
वृतः स्व-यूथेन तृषार्दितेन तत्
सरोवराभ्यासम् अथागमद् द्रुतम् ॥
**श्रीधरः : **पुनः कीदृशः ? घर्म-तप्तः । मद-च्युन् मद-स्रावी । मदम् अश्नन्तीति तथा तैः ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तस्मिन्न्न् एव सरोवरे अभ्यासो यस्य तद् यथा स्यात् तथेति तत्रावगाहनादौ निःशङ्कत्वं व्यञ्जितम् ॥२३-२४॥
—ओ)०(ओ—
॥ ८.२.२५ ॥
विगाह्य तस्मिन्न् अमृताम्बु निर्मलं
हेमारविन्दोत्पल-रेणु-रूषितम् ।
पपौ निकामं निज-पुष्करोद्धृतम्
आत्मानम् अद्भिः स्नपयन् गत-क्लमः ॥
**श्रीधरः : **निजेन पुष्करेण कराग्रेणोद्धृतम् । गत-क्लमः सन्निकामं पपौ ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : निजेन पुष्करेण कराग्रेण ॥२५॥
—ओ)०(ओ—
॥ ८.२.२६ ॥
स पुष्करेणोद्धृत-शीकराम्बुभिर्
निपाययन् संस्नपयन् यथा गृही ।
घृणी करेणुः करभांश् च दुर्मदो
नाचष्ट कृच्छ्रं कृपणोऽज-मायया ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : करेणुः स्त्रीः कलभान् सुतांश् च स्नपयन् ॥२६॥
—ओ)०(ओ—
॥ ८.२.२७ ॥
तं तत्र कश्चिन् नृप दैव-चोदितो
ग्राहो बलीयांश् चरणे रुषाग्रहीत् ।
यदृच्छयैवं व्यसनं गतो गजो
यथा-बलं सोऽतिबलो विचक्रमे ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.२८ ॥
तथातुरं यूथ-पतिं करेणवो
विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर् दीन-धियोऽपरे गजाः
पार्ष्णि-ग्रहास् तारयितुं न चाशकन् ॥
**श्रीधरः : **दीन-धियः करेण-वस्तं केवलं विचुक्रुशुः ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ग्राहेण विकृष्यमाणं तं दीन-धियः करेणवः केवलं विचुक्रुशुर् एव पार्ष्णि-ग्रहास् तद्-उद्धरणे साहाय्यवन्तः ॥२८॥
—ओ)०(ओ—
॥ ८.२.२९ ॥
नियुध्यतोर् एवम् इभेन्द्र-नक्रयोर्
विकर्षतोर् अन्तरतो बहिर् मिथः ।
समाः सहस्रं व्यगमन् मही-पते
सप्राणयोश् चित्रम् अमंसतामराः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.२.३० ॥
ततो गजेन्द्रस्य मनो-बलौजसां
कालेन दीर्घेण महान् अभूद् व्ययः ।
विकृष्यमाणस्य जलेऽवसीदतो
विपर्ययोऽभूत् सकलं जलौकसः ॥
**श्रीधरः : **मन उत्साह-शक्तिः, बलं शारीरम्, ओजः ऐन्द्रियं तेषाम् । सकलं बलादि । विपर्ययो विपरीतम् अधिकम् । जलौकसो ग्राहस्य ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**जलौकसो ग्राहस्य । विपर्ययो बलादीनां व्ययस्याभावः प्रत्युताधिक्यम् इत्य् अर्थः । सकलं सर्वं यथा स्यात् तथाभूत्, विपर्ययस्योत्पत्तिः सम्पूर्णैव न त्व् अंशेनेत्य् अर्थः ॥३०॥
—ओ)०(ओ—
॥ ८.२.३१ ॥
इत्थं गजेन्द्रः स यदाप सङ्कटं
प्राणस्य देही विवशो यदृच्छया ।
अपारयन्न् आत्म-विमोक्षणे चिरं
दध्याव् इमां बुद्धिम् अथाभ्यपद्यत ॥
**श्रीधरः : **स इत्थं यदा प्राणस्य सङ्कटम् आप । यतो देही ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दध्यौ किम् इदं मे कर्मेति यदा पराममर्श, तदा इमां बुद्धिं सहसैव प्राप ॥३१॥
—ओ)०(ओ—
॥ ८.२.३२ ॥
न माम् इमे ज्ञातय आतुरं गजाः
कुतः करिण्यः प्रभवन्ति मोचितुम् ।
**ग्राहेण पाशेन विधातुर् आवृतोऽप्य् **
अहं च तं यामि परं परायणम् ॥
**श्रीधरः : **बुद्धिम् एवाह—न माम् इति । अहं न च प्रभवामि । यतो ग्राह-रुपेण केवलं विधातुः पाशेनावृतः । तथापि तं परं परमेश्वरं परेषां ब्रह्मादीनाम् अयनम् आश्रय-भूतं शरणं यामि ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : बुद्धिम् एवाह न माम् इमे गजा अपि मोक्षितुं मोक्षयितुम् प्रभवन्ति करिण्यः कुतः ? यतो ग्राह-रूपेण विधातुः पाशेनावृतः, तद् अपि परं परमेश्वरं परायणं परमाश्रयं शरणं यामि, अहं चेति यद्यप्य् अहं पशुत्वाद् अज्ञस् तद् अपीत्य् अर्थः ॥३२॥
—ओ)०(ओ—
॥ ८.२.३३ ॥
यः कश्चनेशो बलिनोऽन्तकोरगात्
प्रचण्ड-वेगाद् अभिधावतो भृशम् ।
भीतं प्रपन्नं परिपाति यद्-भयान्
मृत्युः प्रधावत्य् अरणं तम् ईमहि ॥
**श्रीधरः : **कोऽसौ यं शरणं यासि ? तत्राह—यः कश्चनेति । अन्तक एवोरगस् तस्मात् । तं शरणम् ईमहि व्रजेम । यद्-भयाद् इत्य् अत्र श्रुतिः ।
भीषास्माद् वातः पवते भीषोदेति सूर्यः ।
भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः ॥ इति ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कोऽसौ यं शरणं यासीति ? तत्राह—य इति । यद्-भयाद् इत्य् अत्र श्रुतिः—
भीषास्माद् वातः पवते भीषोदेति सूर्यः ।
भीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः ॥ इति ॥३३॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमस्य द्वितीयोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ**—**
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ।
॥ ८.२ ॥
(८.३)