॥ ८.१.१ ॥
श्री-राजोवाच—
स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच् छ्रुतः ।
यत्र विश्व-सृजां सर्गो मनून् अन्यान् वदस्व नः ॥
**श्रीधरः : **श्री-गणेशाय नमः । नमः श्री-परम-हंसास्वादित-चरण-कमल-चिन्-मकरन्दाय भक्त-जन-मानस-निवासाय श्री-रामचन्द्राय ।
अथाष्टमे चतुर्-विंशत्य्-अध्यायैर् मनु-वर्णनम् ।
तत् सुतैर् ऋषि-देवेन्द्रैर् मुर्तिभिश् च हरेः सह ॥
प्रति-मन्व्-अन्तरं चैव मन्व्-आद्याः षट् पृथक् पृथक् ।
प्रवर्तयन्ति सद्-धर्मान् पालयन्त्य् आचरन्ति च ॥
अतो मन्व्-अन्तरस्योक्तं सद्-धर्म इति लक्षणम् ।
येन वै क्रियमाणेन नरो न निरयं व्रजेत् ॥
तत्र तु प्रथमे स्वायं- भुवः स्वारोचिषस् तथा ।
उत्तमस् तामसश् चेति चतुर्-मनु-निरूपणम् ॥
स्वायंभुवेऽन्तरेऽनन्त- दुरन्त-गुण-वर्णनात् ।
मुदितः परिपप्रच्छ सर्व-मन्व्-अन्तर-स्थितिम् ॥
स्वायंभुवस्येति त्रिभिः, यत्र विश्व-सृजां मरीच्य्-आदीनां मनु-कन्यासु पुत्र-पौत्रादि-सर्गः ॥१॥
**क्रम-सन्दर्भः : ** श्री श्री राधाकृष्णाभ्यां नमः ।
अष्टमे क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।
क्रियते यन्-निदेशेन स मेऽनन्य-गतिर् गतिः ॥
श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक ।
गोपाल रघुनाथाप्त व्रज-जीवक पाहि माम् ॥1
अथाष्टम-स्कन्धस्य क्रम-सन्दर्भः ।
स्वामि-पदैर् न व्यक्तं यद् व्यक्तं चास्फुटं क्वचित् ।2
तत्र तत्रैव विज्ञेयः सन्दर्भः क्रम-सञ्ज्ञकः ॥
वैष्णवापरितोषः स्याद् यत्र यत्र ततस् ततः ।
लेख्यं वैष्णव-सिद्धान्तं दाक्षिण्येनैव किञ्चन ॥
विश्वनाथः : श्री-गोवर्धन-धारिणे नमः ।
प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।
लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥
गोप-रामाजन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।
तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥
मन्वन्तरस्य सद्-धर्म इति लक्षणम् ईरितम् ।
तस्य प्रवर्तकाः किन्तु मन्वाद्याः षट् पृथक् पृथक् ॥
प्रतिमन्वन्तरं तस्माच् चतुर्विंशति-सङ्ख्यकैः ।
अध्यायैर् अष्टम-स्कन्धे ते वर्ण्यन्ते यथोचितम् ॥
अध्यायेनोक्तम् एकेन मन्वन्तर-चतुष्टयम् ।
तोर्ब्जोर् गजेन्द्रोपाख्यानम् अथोक्तः पञ्चमो मनुः ॥
षष्ठश् चात्राम्बुधेर् मन्थश् चामृताख्यानम् अष्टभिः ।
एकेन सप्तमादीनां मनूनाम् अनुकीर्तनम् ॥
एकेन तेषां कर्माणि नवभिर् वामनेहितम् ।
मत्स्यावतार एकेनेत्य् एवं स्कन्धोऽष्टमो मतः ॥
अथात्र प्रथमे स्वायम्भुव-स्तोत्रं प्रकीर्त्यते ।
मन्वन्तरीय-मन्व्-आदि-षट्कानां च चतुष्टयम् ॥
तद् एवं चतुर्थादि-स्कन्धेषु स्वायम्भुव-मनु-वंश-कथा-प्रासङ्गिक-मरीच्य्-आदि-वंश्य-प्रह्लादाद्य्-उपाख्यानाम् ऋत-पान-प्रमुदितो राजा सर्व-मन्व्-आदि-कथां जिज्ञासमानः पृच्छति स्वायम्भुवस्येति ॥१॥
—ओ)०(ओ—
॥ ८.१.२ ॥
मन्वन्तरे हरेर् जन्म कर्माणि च महीयसः ।
गृणन्ति कवयो ब्रह्मंस् तानि नो वद शृण्वताम् ॥
**श्रीधरः : **महीयसो हरेः । अत्र क्वचिद् बहु पाथान्तरम् अस्ति तद् उपेक्षितम् अस्माभिः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : महीयसो हरेः ॥२॥
—ओ)०(ओ—
॥ ८.१.३ ॥
यद् यस्मिन्न् अन्तरे ब्रह्मन् भगवान् विश्व-भावनः ।
कृतवान् कुरुते कर्ता ह्य् अतीतेऽनागतेऽद्य वा ॥
**श्रीधरः : **यस्मिन्न् अतीते यत् कृतवान्, यस्मिन्न् अनागते यत् कर्ता क्रिष्यति, अद्य वा वर्तमाने यत् कुरुते तद्वद् एत्य् अन्वयः ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यद् इति तद्वद् एत्य् अध्याहृतेनान्वयः । अन्तरे मन्वन्तरे अद्य वर्तमाने ॥३॥
—ओ)०(ओ—
॥ ८.१.४ ॥
श्री-ऋषिर् उवाच—
मनवोऽस्मिन् व्यतीताः षट् कल्पे स्वायम्भुवादयः ।
आद्यस् ते कथितो यत्र देवादीनां च सम्भवः ॥
**श्रीधरः : **अस्मिन् कल्पे षण्-मनवो व्यतीताः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तेषु मध्ये आद्यः स्वायम्भुवः ॥४॥
—ओ)०(ओ—
॥ ८.१.५ ॥
आकूत्यां देवहूत्यां च दुहित्रोस् तस्य वै मनोः ।
धर्म-ज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥
**श्रीधरः : **तस्य मनोर् दुहित्राः कपिल-यज्ञ-मूर्तिभ्यां पुत्रतां गतः प्राप्तः ॥५॥
**क्रम-सन्दर्भः : **आकूत्याम् इति । कयोः ? तत्राह—दुहित्रोर् इति ॥५॥
विश्वनाथः : दुहित्रोः कयोर् इत्य् अपेक्षायाम् आह—आकूत्यां देवहूत्यां च ॥५॥
—ओ)०(ओ—
॥ ८.१.६-७ ॥
कृतं पुरा भगवतः कपिलस्यानुवर्णितम् ।
आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह ॥
विरक्तः काम-भोगेषु शतरूपा-पतिः प्रभुः ।
विसृज्य राज्यं तपसे सभार्यो वनम् आविशत् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.८ ॥
सुनन्दायां वर्ष-शतं पदैकेन भुवं स्पृशन् ।
तप्यमानस् तपो घोरम् इदम् अन्वाह भारत ॥
**श्रीधरः : **घोरं दुश्चरं तपस् तप्यमानः समाधाव् अनुभूतम् इदं वक्ष्यमाणं निद्रितोच्छ्वसित-वद् विस्मित इवोपदिशन्न् इवानुवदन्न् इव चाष्टभिः श्लोकैर् अन्वाह ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अन्वाह जजाप ॥८॥
—ओ)०(ओ—
॥ ८.१.९ ॥
श्री-मनुर् उवाच—
येन चेतयते विश्वं विश्वं चेतयते न यम् ।
यो जागर्ति शयानेऽस्मिन् नायं तं वेद वेद सः ॥
**श्रीधरः : **येन चिद्-आत्मना विश्वं चेतयते चेतनी-भवति । विश्वं तु यं न चेतयते न चेतनी-करोति । स्वत एव चिद्-रूपत्वात् । तत्र हेतुः—अस्मिन् शयाने स्वपति यो जागर्ति साक्षितया वर्तते । अहो चित्रं नायं जनस् तं वेद । स तु इमं वेद ॥९॥
चैतन्य-मत-मञ्जुषा : येन चेतयते इत्य्-आदि । विश्वं चेतयते चेतनीभवति, विश्वं तु यं न चेतयते, न स्मृति-विषयीकरोति । चिती स्मृत्याम् । चेतनं चेतस् तं करोतीति णिच् । अस्मिन् लोकेऽविद्यया शयाने लुप्त-ज्ञाने यो जागर्ति, सर्वम् एव पश्यति, नित्यावबोधत्वात्, अयं लोकस् तं न वेद । स तु सर्वं वेदेत्य् अर्थः । अतः सृष्टेः प्राग् अन्ते च स एव श्री-कृष्णः ॥९॥
क्रम-सन्दर्भः3** : इदं येनेत्य्-आदिकं तद् ईहमानम् इत्य्-आद्य्-अन्तम् अन्वाह—**यो जागर्ति प्रपद्यत इति पर्यवसान-क्रियायां स्व-तात्पर्यात् । येनेति य इत्य् अर्थः । सुपाम् । सुपो भवन्तीति छान्दस-वार्तिकात् । नायम् इति जाग्रद्-दशायां तज्-ज्ञान-च्छाययैव विश्वस्य ज्ञानात् सुषुप्त-दशायां तस्या अपि तिरोधानात् तस्य तु स्वतः सिद्ध-सर्व-व्यापक-ज्ञानत्वाद् अयुक्तम् एवैतद् इति भावः ॥९॥
विश्वनाथः : येन स इत्य् अर्थः । चेतयते विश्वं चेतनीकरोति विश्वं कर्तुं यं न चेतयते, अस्मिन् विश्वस्मिन् शयाने सुप्ति-सुषुप्ति-प्रलय-गतेऽपि सति यो जागर्ति यस्मिंश् च योग-निद्रां गते तु नेदं विच्वं जागर्तीति प्रक्रमाक्षेप-लब्धं तस्माद् अयं विश्व-वर्ती जनस् तं न वेद । स च हरिर् इमं वेद ॥९॥
—ओ)०(ओ—
॥ ८.१.१० ॥
आत्मावास्यम् इदं विश्वं यत् किञ्चिज् जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम् ॥
**श्रीधरः : **तस्येश्वरत्वं दर्शयन् लोकस्य हितम् उपदिशति—आत्मना ईश्वरेणावास्यं सत्ता-चैतन्याभ्यां संव्याप्यं विश्वं सर्वं जगत्यां लोके यत् किञ्चिज् जगद्-भूत-जातम् । अतस् तेनैवेश्वरेण यत् किञ्चित् त्यक्तं दत्तं धनं तेनैव भुञ्जीथाः भोगान् भूङ्क्ष्व । यद् वा, तेन हेतुना त्यक्तेनेश्वरार्पणेन भुञ्जीथा न स्वार्थम् । कस्य स्वित् कस्यचिद् अपि धनं मा गृधो माभिकाङ्क्षीः । यद् वा, कस्य-स्विद् इति कस्यान्यस्य धनम् अस्ति, यतो धन-काङ्क्षा क्रियेतेत्य् अर्थः । तथा च श्रुतिः, ईशावास्यम्[ईश। १] इति यथा-श्लोकम् एव ॥१०॥
चैतन्य-मत-मञ्जुषा : आत्मावास्यम् इदम् इत्य्-आदि । जगत्यां यत् किञ्चिद् अदृश्यं तत् सर्वं जगत् नश्वरं, गच्छतीति जगत् । अत इदं विश्वम् आत्मावास्यम् आत्मना अवास्यम् अवासनीयम् अवक्षेप्यम् इत्य् अर्थः । अव-पूर्वात् असु क्षेपणे इत्य् अतः सिद्देः । अत्रासक्तिर् न कार्येति भावः । तेन हेतुना त्यक्तेन त्यागेन एव भुञ्जीथाः, त्याग एव भोगः क्रियते, तेन भोगेन सदा तृप्तेन भवितव्यम्, तस्मात् कस्यचित् धनं मा गृधः, पञ्चम्य्-अर्थे षष्ठी, कस्माद् अपि धनं माकाङ्क्षणीयम् इत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**तस्येश्वरत्वं दर्शयन् स्व-पुत्र-पौत्रादिकम् उद्दिश्य—आत्मेति । जगत्यां त्रिभुवने यत् किञ्चिज् जगत्-स्थानं स्वीय-देहेन्द्रियादिकम् अपि तत् सर्वम् आत्मनो भगवत एव आवास्यम् आवास-विषयी-भूतं कर्मणि ण्यत् । सम्यग् वासार्हम् इति । तेनैव स्व-क्रीडास्पदत्वेन सृष्टत्वाद् इति भावः । अतस् तत्र तत्र स्थाने भगवन्-मन्दिरं तद्-अर्च्यं च संस्थाप्य तद्-अनुज्ञां सम्प्रार्थ्यैव स्व-वास-गृहं, ततो निकृष्टम् एव सेवक-बुद्ध्या निर्मीयतां, न तु तत्र स्वस्यैव सत्त्वम् आरोप्य तन्-मन्दिरम् अनिर्मायैवेत्य्-आदिको ध्वनिः । एवं बहु-धन-सद्-भावेऽपि तेन परमेश्वरेण मत्-त्यक्तं कर्म-कारेभ्या वेतनम् इव मद्-दत्तं वा माभिकाङ्क्षीः । तत्-सेवायां तद्-भक्त-सेवायां च बहु-धनं पर्याप्तीकृत्य तच्-छेषेणैव पात्र-मित्र-कलत्रादीनां स्वस्य चोदर-भरणं कुर्व् इति भावः ।
ननु ते पुत्र-कलत्रादयो नात्र व्यवस्थायां संमन्येरंस् तत्र सतर्जनम् आह—स्वित् प्रश्ने । अरे कस्य धनं स्व-गृहे स्थितम् अपि धनं परमेश्वरं विना कस्य ? न कस्यापीत्य् अर्थः ।
यावद् भ्रियेत जठरं तावत् सत्त्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डम् अर्हति ॥ [भा।पु। ७.१४.८] इति नारदोक्तेः ।
यद् वा, कस्यैच्द् अन्यस्यापि मा गृधः । तथा च श्रुतिः—ईशावास्यमिदं सर्वं[ईश। १] इति यथा-श्लोकम् एव ॥१०॥
—ओ)०(ओ—
॥ ८.१.११ ॥
यं पश्यति न पश्यन्तं चक्षुर् यस्य न रिष्यति ।
तं भूत-निलयं देवं सुपर्णम् उपधावत ॥
**श्रीधरः : **ननु यदि सर्वं व्याप्नोति, तर्हि चक्षुर्-आदिभिः किं न प्रतीयते ? तत्राह—यं पश्यन्तं जनश् चक्षुर् वा न पश्यति, चक्षुर्-आद्य्-अविषयत्वात् । न हि प्रमातारं प्रमाणं विषयी-करोतीति भावः । तथा च श्रुतिः—चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् इत्य्-आदि ।
ननु तर्हि घटनाशे देव-दत्तस्य तद् विषयं चाक्षुषं ज्ञानम् इवेश्वरस्यापि स्वरूप-भूतम् । तद्-विषयं ज्ञानं नश्येत्, तत्राह—यस्य तु पश्यतश् चक्षुर् ज्ञानं न रिष्यति न नश्यति । तत्-तद्-आकारेणोत्पन्नाया वृत्तेर् एव नाशो न स्वतः-सिद्ध-ज्ञानस्य । न हि सवितृ-प्रकाशः प्रकाश्य-नाशे नश्यतीति भावः । भूतानि निलयो यस्य तं सर्वान्तर्यामिणं, तथापि सुपर्णं शोभन-पतनम् असङ्गम् उपधावत भजध्वम् ॥११॥
चैतन्य-मत-मञ्जुषा : यं पश्यति न पश्यन्तम् इत्य्-आदि । एवं भगवन्तं पश्यन्तं द्रष्टारं चक्षुर् न पश्यति, चक्षुषोर् अविषयत्वात्, तच् चक्षुस् तु विश्वम् एव विषयीकरोति, ज्ञानात्मकत्वात् तद्-इन्द्रियाणाम् । चक्षुर् इत्य् उपलक्षणम्, सर्वाण्य् एव तस्याखण्ड-बोध-रूपाणि इन्द्रियाणि । चक्षुर् इत्य् आदीनि तस्य प्रतीत्य्-अभिप्रायेणोच्यन्ते, केवलानन्द-मयत्वात् तेषां चक्षुर्-आदित्येनानुकरणम् इत्य् अर्थः । अत आह—यस्य चक्षुर् न रिष्यति, नित्यत्वात् तद्-अङ्गानाम् । चक्षुर् इति काकाक्षि-गोलक-न्यायेनोभयत्र योज्यम् । रिष् हिंसायां भुवादिर् दिवादित्वम् आर्षम् । धातूनाम् अनेकार्थत्वाद् इह नशार्थः । तं देवम् उपधावत । सुष्ठु पा शोभनं रक्षणम् इत्य् अर्थः । पा रक्षणे पानम्, पा सम्पद्-आदि सैव ऋणम् ऋण-प्रदानं यस्य सः, तथा पाति यथा तं कोऽपि सेवितुं न शक्नोति, उत्तमर्ण एव सः, तस्य करुणा-रूपम् ऋणं न कैर् अपि शोधयितुम् शक्यत इति भावः ।
यद् वा, शोभना पा रक्षणं यस्यां सा सुपा द्रौपदी तस्या ऋ;नं यत्र तं सुपर्णंन् श्री-कृष्णम् । तथा चोक्तं,
ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति ।
यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥ इति ।
यद् वा, सुपर्णम् उप इति च्छेदः । उप समीपे स्थितम् इत्य् अर्थः । यद् वा, शोभनानि पर्णानि पद्म-पलाश-विलासानि कर-चरणानि यस्य । भूत-निलयं प्राणिनाम् आश्रयम् ॥११॥
**क्रम-सन्दर्भः : **चक्षुः स्वरूप-भूता ज्ञान-शक्तिः—स्वाभाविकी ज्ञान-बल-क्रिया च[श्वे।उ। ६.८] इति श्रुतेः । शेषं सुगमम् ॥११॥
**विश्वनाथः : **ननु जगद् इदं तस्यैवावास्यं तर्हि कथं स क्वापि न दृश्यते ? तत्राह—यम् इति । ननु तर्हि घट-नाशे देवदत्तस्य तद्-विषयं चाक्षुषं ज्ञानम् इव दृश्यस्य जगतो नाशे परमेश्वरस्यापि तद्-विषयं ज्ञानं नश्येत् ? तत्राह—चक्षुः स्वरूप-भूता ज्ञान-शक्तिर् न नश्यति—स्वाभाविकी ज्ञान-बल-क्रिया च इति श्रुतेः । न हि सवितृ-प्रकाशः प्रकाश्यस्य नाशे नश्यतीति भावः । भूत-निलयं सर्वान्तर्यामिनं देवं दीव्यन्तम् असङ्गं सुपर्णं जीवात्म-सखम्—द्वा सुपर्णा सयुजा इति श्रुतेः । उपधावत सेवध्वम् ॥११॥
—ओ)०(ओ—
॥ ८.१.१२ ॥
न यस्याद्य्-अन्तौ मध्यं च स्वः परो नान्तरं बहिः ।
विश्वस्यामूनि यद् यस्माद् विश्वं च तद् ऋतं महत् ॥
**श्रीधरः : **तस्य स्वरूपस्य नित्यत्वम् एवोपपादयन्न् आह, न यस्येति । अमून्य् आद्य्-अन्तादीनि विश्वस्य यस्माद् भवन्ति विश्वं च यत् यद् रूपम् । अत एवाव्यभिचारित्वात् तद् ऋतं सत्यम् । महत् परिपूर्णं ब्रह्म ॥१२॥
**चैतन्य-मत-मञ्जुषा :**न यस्येत्य्-आदि । यस्य आद्य्-अन्तौ न स्तः, अजत्वाद् अनादित्वं, शाश्वतत्वाद् अनन्तत्वम् । आद्य्-अन्त-सापेक्षं हि मध्यम्, तयोर् अभावान् न च मध्यं यस्य । यद् वा, आदिर् बाल्यं, अन्तो वार्धक्यं, मध्यं यौवनं तेषाम् अभावान् नित्य-किशोरम् इत्य् अर्थः । उक्तं च—सन्तं वयसि कैशोरे [भा।पु। ३.२८.१७] इति । यस्य न स्वः, न परः, भजने सति सर्व एव स्व इत्य् अर्थः । नान्तरं बहिश् च नतर् बहिर् एक-रूपम् अप्रतारकम् इत्य् अर्थः । यद् यस्माद् अमूनि आद्य्-अन्तादीनि विश्वस्य यस्माद् यतो विश्वं तद् ईश्वराख्यं किम् अपि वस्तु ऋतं सत्यं महत् परिपूर्णं श्री-कृष्णम् इत्य् अभिप्रायः ॥१२॥
**क्रम-सन्दर्भः : **तद् एवं तज्-ज्ञान-शक्तेर् नित्यत्वम् उक्त्वा तत्-स्थापनाय स्वरूपस्य नित्यत्वम् आह—न यस्येति ॥१२॥
विश्वनाथः : सर्व-व्यापकत्वम् आह—न यस्येति । अमूनि आद्य्-अन्तादीनि विश्वस्य यस्माद् भवन्ति, विश्वं च यत् यद्-रूपम् । अत एवाव्यभिचारित्वात् तत् ऋतं सत्यं महत् परिपूर्णं ब्रह्मेति तत्-स्वरूप-नित्यत्वम् उक्तम् ॥१२॥
—ओ)०(ओ—
॥ ८.१.१३ ॥
**स विश्व-कायः पुरु-हूत-ईशः **
सत्यः स्वयं-ज्योतिर् अजः पुराणः ।
**धत्तेऽस्य जन्माद्य्-अजयात्म-शक्त्या **
तां विद्ययोदस्य निरीह आस्ते ॥
**श्रीधरः : **ननु विश्वं चेत् तद् रूपं तर्हि तस्य कुतो जन्माद्य्-अभावः स्व-प्रकाशत्वं वा, कथं वा जगज् जन्मादि-कर्तृत्वेन विकारिणः सत्यत्वं पूर्णत्वं च तत्राह, स ईशोऽजः सत्यश् च स्व-प्रकाशश् च पुराणश् च निर्विकारः । विश्वं कायो यस्य । पूरूणि हूतानि नामानि यस्य तथाविधोऽपि यतोऽस्य विश्वस्य जन्मादि स्व-शक्त्या मायया धत्ते । तां च नित्य-सिद्धया विद्ययोदस्य हित्वा निष्क्रिय एवास्ते ॥१३॥
**चैतन्य-मत-मञ्जुषा :**स विश्व-काय इत्य्-आदि । कै शब्दे, कायः शब्दः, विश्वम् इति कायः शब्दो नाम यस्य । विश्वं विष्णुः इति सहस्र-नाम्नः । प्रथमं नाम विश् प्रवेशने, विशति सर्व-भूत-हृदयम् इति परमाभिरामत्वात्, सर्व-हृदयङ्गमो हि विश्वं, विशादेर् वः इत्य् औणादिको वः । न केवलं विश्वम् इति नाम तस्य, पुरुहूतः पुरूणि श्री-कृष्ण-किशोर गोविन्दादीनि हूतानि नामानि यस्य । ईशोऽचिन्त्य-परमैश्वर्यः । समो नित्य-ह्रास-वृद्ध-रहित इति भावः । स्वयं-ज्योतिः स्व-प्रकाशः । अजोऽनादिः, अत एव पुराणः, अजया निज-शक्त्या विश्वस्य जन्मादि धत्ते, विद्यया शक्त्या ताम् अजाम् उदस्य क्षिप्त्वा निरीहस् तत्-कृत-विश्व-जननाद् ईहा-रहित आस्ते, सदा तिष्ठतीति भावः, स एव श्री-कृष्णः ॥१३॥
**क्रम-सन्दर्भः : **तद् एवोपपादयति—स इति । विश्वस्य सर्वस्य व्यापकः कायो यस्य, विश्वे अनन्ताः काया वा यस्य सः । अत एव पुरु बहुधा हूतो वेदैर् गीतः । तत्र हेतुः—ईशोऽचिन्त्य-शक्तिः, यतः सत्यः सर्व-सत्ता-हेतु-स्वरूपः, यतः स्वयं-ज्योतिः स्व-प्रकाशः, अतश् चाजः पुरापि नवत्वाद् विकारान्तर-शून्यश् च । तद् एवं परम-पूर्णोऽप्य् अस्य प्रपञ्चस्यापि अजया मायाख्ययात्माधीन-शक्त्या जन्मादि विधत्ते करोति । तां च मायां विद्यया उदस्य, तस्यां स-कार्यायाम् अनासज्यैवास्ते । अत एव निरीह एवास्त इत्य् अर्थः । तद् एतद् अचिन्त्य-स्वभाव-मय-लीला-मात्रम् एवेति भावः ॥१३॥
विश्वनाथः : सर्वात्मत्वम् आह—स इति । पुरूणि हूतानि नामानि यस्य सः । यत्र विद्याविद्ये न विदामो विद्याविद्याभ्याम् भिन्नो विद्या-मयो हि यः स कथं विषयी-भवतीति ।[गो।ता।उ।ई-श्रुतेर् विद्या-शब्देन स्वरूप-भूता चिच्-छक्तिर् अभिधीयते, तयैव सुभगया पट्ट-महिष्य् एव अजां दुर्भागां निरस्येत्य् अर्थः । तद् उक्तम्—मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनि [भा।पु। १.७.२३] इति ॥१३॥
—ओ)०(ओ—
॥ ८.१.१४ ॥
अथाग्रे ऋषयः कर्माणीहन्तेऽकर्म-हेतवे ।
ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते ॥
**श्रीधरः : **यस्माद् एवम् ईश्वरः कर्म कृत्वा सन्त्यज्य नैष्कर्म्येणास्ते, अथास्माद् धेतोः ऋषयोऽप्य् अग्रे आदौ कर्माणि कुर्वन्ति । किम्-अर्थम् ? अकर्म-हेतवे मोक्षार्थम् । पाथान्तरे कर्म-नाशाय । हि यस्मात् ॥१४॥
**क्रम-सन्दर्भः : **सैषा च लीला-शिक्षया भक्त-सुख-पर्यवसानैवेत्य् आह—अथेति । यस्माद् एवम् असौ कर्म कृत्वाप्य् अनासज्य नैष्कर्म्येणास्ते, अथास्माद् धेतो ऋषयोऽप्य् अग्रे प्रथमावस्थत्वे कर्माणि कुर्वन्ति, तेष्व् अनासक्ता अपि भवन्तीत्य् अर्थः । किम्-अर्थम् ? अकर्म-हेतवे तद्वन् निरीहत्वे प्राप्त्यै । तर्हि कथं पूर्वम् एव निरीहा न स्युः ? तत्राह—हि यस्माद् ईहमान एव पुरुषः प्रायोऽनासक्ते सत्य् अनीहां प्रपद्यते, क्रमात् प्राप्नोति, न तु हठाद् अनीहमान एवेत्य् अर्थः । तद् उक्तम्—
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥ [गीता ६.३]
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ [गीता ३.६] इति ॥१४॥
विश्वनाथः : एवं तस्य योग-पद्येनैवेहमानत्वम् अनीहत्वं धर्तुम् अशक्नुवन्तो मुनयः काल-भेदेनापि तत् स्वस्मिन् सम्पादयितुम्, यतस् तु इत्य् आह—अथ अत एव अकर्म-हेतवे नैष्कर्म्यार्थम् । हन्तवे इति पाठे कर्म-हननाथम् ॥१४॥
—ओ)०(ओ—
॥ ८.१.१५ ॥
ईहते भगवान् ईशो न हि तत्र विसज्जते ।
आत्म-लाभेन पूर्णार्थो नावसीदन्ति येऽनु तम् ॥
**श्रीधरः : **नन्व् ईहमानः कर्मभिर् अवगुण्ठितः कोश-कार इव वध्येतैव तत्राह—ईहत इति । अतस् तम् अनुवर्तमाना ये ते नावसीदन्ति न विषज्जन्ते ॥१५॥
**क्रम-सन्दर्भः : **विद्ययोदस्य निरीह आस्त इति यद् उक्तं, तद् एव ऋषयोऽनुसंसरन्ति । तद् एव विशदयति—ईहत इति । स्वरूप-सुख-स्फूर्ति-रूप-विद्यया पूर्णत्वेन भगवतः कार्यान्तरे क्रियमाणेऽप्य् अनासक्तिः, ऋषीणाम् अपि तद्-अनुगत्येत्य् अर्थः ॥१५॥
विश्वनाथः : नन्व् ईहमानः कर्मभिर् अवगुण्ठितः कोष-कार-वद्-वध्यतैवेत्य् अत आह—ईहत इति । अतस् तम् अनुवर्तमाना ये ते नावसीदन्तीति । तद्-भक्तिर् उपदिष्टा ॥१५॥
—ओ)०(ओ—
॥ ८.१.१६ ॥
तम् ईहमानं निरहङ्कृतं बुधं
निराशिषं पूर्णम् अनन्य-चोदितम् ।
नॄन् शिक्षयन्तं निज-वर्त्म-संस्थितं
प्रभुं प्रपद्येऽखिल-धर्म-भावनम् ॥
**श्रीधरः : **तद् एवं लोकानुग्रहाय विश्व-सृष्ट्य्-आदि यः करोति श्री-राम-कृष्णाद्य्-अवतारैश् च वेदोक्तम् अप्य् आचरति, तं शरणं व्रजामीत्य् आह—तम् इति । निजं वर्त्म नरावतारानुरूपो मार्गः, तत्र सम्यक् स्थितम् । अत ईहमानं कर्माचरन्तम् । तथापि जीव-वैलक्षण्यम् आह—निरहङ्कृतं निराशिषम् अनन्य-चोदितम् इति च । निरहङ्कारत्वे हेतुः—बुधम् । निराशीष्ट्वे हेतुः—पूर्णम् । अनन्य-नियुक्तत्वे हेतुः—प्रभुम् । तथापि कर्मानुष्ठाने हेतुः—नॄन् स्वाचारेण शिक्षयन्तम् । तत् किम् अर्थम् ? तत्राह—अखिलान् धर्मान् भावयति प्रवर्तयतीति तथा तम् ॥१६॥
**क्रम-सन्दर्भः : **एतानि निजोक्तान्य् अनूद्य फलितम् आह—तम् ईहमानम् इति । अत्र स विश्वकाय [भा।पु। ८.१.१३] इत्य्-आदि त्रयस्यानुवादः स्पष्ट एव । किं च, “बुधम्” इति येन चेतयत [भा।पु। ८.१.९] इत्य् अस्य, यं न पश्यति [भा।पु। ८.१.११] इत्य् अस्य च । “प्रभुम्” इति आत्मावास्यम् [भा।पु। ८.१.१०] इत्य् अस्य । “पूर्णम्” इति न यस्य [भा।पु। ८.१.१२] इत्य् अस्य च ज्ञेयः।
अर्थश् चायं—तं प्रपद्ये । तत्र हेतवः—ईहमानम् । जगत्-सृष्ट्य्-आदिकं कुर्वन्तम् अपि निरहङ्कृतं, तद्-आसक्ति-शून्यं, यतो बुधं स्वानन्दाऽनुभव-शीलम् । यतः पूर्णं निराशिषं च । तर्हि किम्-अर्थं करोति ? तत्राह—नॄन् इति ।
ननु, नर-शिक्षणम् अपि बहिर्-आवेश एव ? तत्राह—निजा भक्तास् तेषां वर्त्मनि सम्यक् स्थितम्, तद्-अनुकूल्यायैव सर्वं कुर्वन्तम् इत्य् अर्थः । अत एव सर्व-धर्म-मूलस्य तेषां धर्मस्य भावनेनाऽखिल-धर्म-भावनम् अपीति । तम् एव प्रपद्ये ॥१६॥
विश्वनाथः : ननु त्वम् एवम् अस्मान् उपदिशसि स्वयं तावत् साम्प्रतं किं करोषीति ? तत्राह—तम् इति । अहं तु प्रभुं नाम-विशेषानुक्तेर् नाम्नापी प्रभुं, येन चेतयते विश्वम्[भा।पु। ८.१.९] इति प्रक्रमोक्तेश् चैतन्यं प्रभुं भगवन्तं तं प्रपद्ये । कीदृशम् ? तं प्रसिद्धं परमेश्वरम् आत्मानम् एव ईहमानं कामयमानं यथान्ये भक्तास् तम् ईहन्ते, तथासाव् अपि समीहते आत्मारामत्वाद् इति भावः । निरहङ्कृतं सर्वेश्वर इत्य् अहङ्कार-शून्यम् । अनन्य-चोदितं स्वेनविआदिष्टं यन् निज-वर्त्म स्व-प्राप्ति-साधनं संस्थितं चिर-काल-व्यवधानात् विलुप्तं, तन् नॄन् शिक्षयन्तं स्वाचरणादिनेति शेषः । अखिलम् अन्यूनं धर्मं भक्ति-योगं भावयत्य् आविर्भावयति प्रवर्तयति वा तम् ॥१६॥
—ओ)०(ओ—
॥ ८.१.१७ ॥
श्री-शुक उवाच—
इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् ।
दृष्ट्वासुरा यातुधाना जग्धुम् अभ्यद्रवन् क्षुधा ॥
**श्रीधरः : **समाहितम् अपि सन्तं मन्त्रोपनिषदं व्याहरन्तं दृष्ट्वा सुप्तोच्छ्वसितवद् विवशम् इव मन्वाना असुरा यातुधानाश् च क्षुधा-निमित्तेन जग्धुम् अत्तुम् अभ्यद्रवन्न् अभिदुद्रुवुः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**समाहितम् समाधि-स्थम् अपि सन्तं मन्त्रोपनिषदं व्याहरन्तं दृष्ट्वा सुप्तोच्छ्वसितवद् विवशम् इव मन्वाना क्षुधा जग्धुम् अत्तुम् अभ्यद्रवन् ॥१७॥
—ओ)०(ओ—
॥ ८.१.१८ ॥
तांस् तथावसितान् वीक्ष्य यज्ञः सर्व-गतो हरिः ।
यामैः परिवृतो देवैर् हत्वाशासत् त्रि-विष्टपम् ॥
**श्रीधरः : **यामैः स्व-पुत्रैः । त्रि-विष्टपं स्वर्गम् अपालयत् । स्वयम् एवेन्द्रो बभूवेत्य् अर्थः । तत्र प्रति-मन्व्-अन्तरं मन्व्-आदयः षड् अन्येऽन्ये भवन्ति । तथा हि सूतो द्वादशे वक्ष्यति—
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वरः ।
ऋषयोऽंशावतारश् च हरेः षड्-विधम् उच्यते ॥ [भा।पु।१२.७.१५]इति ।
तत्राद्ये स्वायंभुवो मनुः । प्रियव्रतोत्तानपादौ मनु-पुत्रौ । यामादयो देवाः । मरीचि-प्रमुखाः सप्त-ऋषयः । यज्ञो हरेर् अवतारः । इन्द्रश् च स एवेति । तन् मन्वन्तरं पञ्च-विधम् एव तच् चतुर्थ-स्कन्धोपक्रमे निरूपितम् ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यामैर् याम-संज्ञकैः ॥१८॥
—ओ)०(ओ—
॥ ८.१.१९ ॥
स्वारोचिषो द्वितीयस् तु मनुर् अग्नेः सुतोऽभवत् ।
द्युमत्-सुषेण-रोचिष्मत् प्रमुखास् तस्य चात्मजाः ॥
**श्रीधरः : **द्वितीयादिषु त्रिषु मन्वन्तरेषु मन्व्-आदि-षट्कम् आह—स्वारोचिषो द्वितीयस् त्व् अति यावद् गजेन्द्र-मोक्ष-प्रश्नम् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मन्वन्तरं हि मन्व्-आदि षट्क-युक्तं भवति । यद् उक्तं—
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वरः ।
ऋषयोऽंशावतारश् च हरेः षड्-विधम् उच्यते ॥ [भा।पु।१२.७.१५]इति ।
तत्राद्ये स्वायंभुव-मन्वन्तरे स्वायम्भुवो मनुः । प्रियव्रतोत्तानपादौ मनु-पुत्रौ । यामादयो देवाः । मरीचि-प्रमुखाः सप्त-ऋषयः । यज्ञो हरेर् अवतारः । यज्ञ एवेन्द्रश् चेति षट्कं चतुर्थ-स्कन्धोपक्रमे निरूपितम् । द्वितीयादिषु त्रिषु मन्व्-आदि-षट्कान्य् आह—स्वारोचिष इति द्वादशभिः ॥१८॥
—ओ)०(ओ—
॥ ८.१.२०-२१ ॥
तत्रेन्द्रो रोचनस् त्व् आसीद् देवाश् च तुषितादयः ।
ऊर्ज-स्तम्भादयः सप्त ऋषयो ब्रह्म-वादिनः ॥
ऋषेस् तु वेदशिरसस् तुषिता नाम पत्न्य् अभूत् ।
तस्यां जज्ञे ततो देवो विभुर् इत्य् अभिविश्रुतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२२ ॥
अष्टाशीति-सहस्राणि मुनयो ये धृत-व्रताः ।
अन्वशिक्षन् व्रतं तस्य कौमार-ब्रह्मचारिणः ॥
**श्रीधरः : **विभोर् असाधारणं चरितम् आह, अष्टाशीति-सहस्राणीति ।
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२३ ॥
तृतीय उत्तमो नाम प्रियव्रत-सुतो मनुः ।
पवनः सृञ्जयो यज्ञ- होत्राद्यास् तत्-सुता नृप ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२४ ॥
वसिष्ठ-तनयाः सप्त ऋषयः प्रमदादयः ।
सत्या वेदश्रुता भद्रा देवा इन्द्रस् तु सत्यजित् ॥
श्रीधरः, विश्वनाथः :न व्याख्यातम्।
**क्रम-सन्दर्भः : **वसिष्ठेति दन्त्य-मध्योऽयं, वसिष्ठ ऋषिः प्रजापति-गृहीतया त्वया इति श्रुतेः ॥२४॥
—ओ)०(ओ—
॥ ८.१.२५ ॥
धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२६ ॥
सोऽनृत-व्रत-दुःशीलान् असतो यक्ष-राक्षसान् ।
भूत-द्रुहो भूत-गणांश् चावधीत् सत्यजित्-सखः ॥
**श्रीधरः : **सत्यजित इन्द्रस्य सखा सन् ॥२६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२७ ॥
चतुर्थ उत्तम-भ्राता मनुर् नाम्ना च तामसः ।
पृथुः ख्यातिर् नरः केतुर् इत्य् आद्या दश तत्-सुताः ॥
**श्रीधरः : **उत्तमस् तृतीयो मनुस् तस्य भ्राता तामसश् चतुर्थो मनुः ॥२७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२८ ॥
सत्यका हरयो वीरा देवास् त्रिशिख ईश्वरः ।
ज्योतिर्धामादयः सप्त ऋषयस् तामसेऽन्तरे ॥
**श्रीधरः : **त्रिशिख ईश्वर इन्द्रः ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.२९ ॥
देवा वैधृतयो नाम विधृतेस् तनया नृप ।
नष्टाः कालेन यैर् वेदा विधृताः स्वेन तेजसा ॥
**श्रीधरः : **अन्यान् अपि विशिष्ट-पराक्रमान् देवान् आह—देवा वैधृतय इति ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : देवा वैधृतय इत्य् अत्र मन्वन्तरे द्विविधा देवा अभवन्न् इति दर्शितम् ॥२९॥
—ओ)०(ओ—
॥ ८.१.३० ॥
तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥
**श्रीधरः : **हरिर् इत्य् आहृतो व्याहृतः । ग्रहात् ग्राहात् ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आहृतो व्याहृतः ॥३०॥
—ओ)०(ओ—
॥ ८.१.३१ ॥
श्री-राजोवाच—
बादरायण एतत् ते श्रोतुम् इच्छामहे वयम् ।
हरिर् यथा गज-पतिं ग्राह-ग्रस्तम् अमूमुचत् ॥
**श्रीधरः : **अमूमुचत् मोचयाम् आस ॥३१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ८.१.३२ ॥
तत्-कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् ।
यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥
**श्रीधरः : **श्रवणेच्छायां हेतुः—तत्-कथासु तासु कथासु । सा कथैव वा सु-महत्-पुण्यम् । पुण्यस्य विशेषणं धन्यम् इत्य्-आदि ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्-कथा सा कथा ॥३२॥
—ओ)०(ओ—
॥ ८.१.३३ ॥
श्री-सूत उवाच—
परीक्षितैवं स तु बादरायणिः
प्रायोपविष्टेन कथासु चोदितः ।
उवाच विप्राः प्रतिनन्द्य पार्थिवं
मुदा मुनीनां सदसि स्म शृण्वताम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
अष्टमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्याम् अष्टम-स्कन्धे
मन्वन्तरानुवर्णनं
प्रथमोऽध्यायः ।
॥ ८.१ ॥
(८.२)