१५ युधिष्ठिर-नारद-संवादः

॥ ७.१५.१ ॥

श्री-नारद उवाच—

कर्म-निष्ठा द्विजाः केचित् तपो-निष्ठा नृपापरे ।

स्वाध्यायेऽन्ये प्रवचने केचन ज्ञान-योगयोः ॥

श्रीधरः :

ततः पञ्चदशे सर्व- वर्णाश्रम-निबन्धनम् ।

सारतः सङ्ग्रहेणाथ वर्ण्यते मोक्ष-लक्षणम् ॥

सर्वेषाम् अपि मोक्ष-धर्माणां सार-सङ्ग्रहार्थम् अध्याय-प्रारम्भः । तत्र श्राद्ध-गतान् विशेषान् आह—कर्म-निष्ठा इति । स्वाध्यायादिषु परिनिष्ठिता इति शेषः ॥१॥

**क्रम-सन्दर्भः : **अथ तेषु सर्वोत्कृष्टम् आह द्वाभ्याम्—कर्म-निष्ठा इत्य् आदयः । क्रमेण गृहस्थ-वानप्रस्थ-ब्रह्मचारि-सन्न्यासिनो ज्ञेयाः । अनेन यथात्र मुमुक्षु-प्रभृतीनां ज्ञानि-पूजैव मुख्या । पुरुषान्तर-पूजा तु तद्-अभाव एव तथा प्रेम-भक्ति-कामानाम् प्रेम-भक्त-पूजापि ज्ञेया । ततः प्रेम-भक्तानाम् अपि यच् चित्तस्य परमाश्रय-रूपं च तद्-अभिव्यक्तेः सुतराम् एवार्चाया आधिक्यम् अपि । एवं तद्-आश्रय-रूपस्य विलक्षण-प्रकाशत्वाद्1 एव श्री-विष्णोः व्यापकत्वेऽपि शालग्रामादिषु निर्धारणम् । तच् च पुरुषवन् नान्तर्यामि-दृष्ट्य्-अपेक्षं, किन्तु स्वभाव-निर्देश्यम् । तन्-निवास-क्षेत्रादीनां महा-तीर्थत्वापादनादिना कीकटादीनाम् अपि कृतार्थत्व-कथनात्।तथा च स्कान्दे—2

शालग्राम-शिला यत्र तत्तीर्थं योजन-त्रयम् ।3
तत्र श्राद्धं4 जपो होमः सर्वं कोटि-गुणं भवेत् ।
शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटोऽपि मृतो याति वैकुण्ठ-भवनं नरः ॥ इति ।

तस्माद् अर्चाया आधिक्यम् एव स्थितम् ॥१॥ [भक्ति-सन्दर्भ २९४]

विश्वनाथः :

गृहस्थस्यैव धर्मान्तः सर्व-धर्म-निरूपणम्

अत्र पञ्चदशे सार-सङ्ग्रहाख्ये प्रदर्शितम् ॥

पूर्वत्र ब्राह्मणोऽकर्षः प्रतिपादितः । तेषु ब्राह्मणेष्व् अपि तारतम्यम् आह—कर्म-निष्ठा गृहस्था विप्रास् तपो-निष्ठा वानप्रस्थाः, अन्ये स्वाध्याये प्रवचने इति निष्ठिक-ब्रह्मचारिणः । केचिज् ज्ञान-योगयोर् इति सन्न्यासिनः । समासान्तर्वर्तिनापि निष्ठा-पदेनात्रानुवर्तितेन लक्षणया निष्ठावन्तो व्याख्येयाः । ततश् चैषां यथोत्तरम् एव श्रैष्ठ्यं दर्शितम् ॥१॥

—ओ)०(ओ—

॥ ७.१५.२ ॥

ज्ञान-निष्ठाय देयानि कव्यान्य् आनन्त्यम् इच्छता ।

दैवे च तद्-अभावे स्याद् इतरेभ्यो यथार्हतः ॥

**श्रीधरः : **कव्यानि पितॄन् उद्दिश्य देयानि । दैवे च हव्यान्य् अपि तस्मै देयानि । यथार्हत इति सर्वत्र ज्ञानादि-तारतम्येन ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कव्यानि पित्र्-उद्देश्यक-वस्तूनि । दैवे च हव्यान्य् अपि देवोद्देश्यक-वस्तूनि च ज्ञान-निष्ठाय देयानि । आनन्त्यं मोक्षं पितॄणां स्वस्य वेति । मोक्षार्थैना गृहस्थेन सन्न्यासिन एवाधिक्येन भोजनीया इति पञ्चाध्याया तस्या मोक्ष-प्रकरणवत्त्वात् । अत एव शुद्ध-भक्तानां कर्मानधिकारात्, गृहस्था अपि ते अत्र कर्म-ज्ञान-प्रकरणे न पठिताः । तैस् तु सुप्रतिष्ठैर् व्यवहार-रक्षा भरताम्बरीषादिभिर् इव स्व-प्रतिनिधि-द्वारा कर्म-करणे न भक्ति-मार्गानन्दावाद्-आद्य्-अनुत्थानार्थम् एव क्रियते इत्य् उक्तम् पञ्चमे, एकादशे च प्रतिपादयिष्यते । तस्मान् मोक्षार्थैनां यथा ज्ञानि-पूजैव मुख्या पुरुषान्तर-पूजा तु तद्-अभाव एव, तथा प्रेम-भक्त्य्-अर्थिनाम् ऐकान्तिक-भक्त-पूजैव मुख्येति ज्ञापितम् अत्रापि—स वै पुण्यतमो देशः [भा।पु। ७.१४.२७] इति पद्य-व्याख्यायां,

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.५] इत्य्-आदिना ।

ज्ञानिभ्योऽपि तद्-उत्कर्ष-चरणारविन्दात्—

न मे भक्तश् चतुर्वेदी मद्-भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स हि पूज्यो यथा ह्य् अहम् ॥इति ।

ब्राह्मणेतरस्यापि तस्य सम्प्रदानत्व-चरणारविन्दाच् च । यथा च ज्ञानिनाम् अर्चायां पूजा हि, दृष्ट्वा तेषां मिथो नृणाम् [भा।पु।७.१४.३९] इत्य् अनेन कनिष्ठाधिकारिणां व्याख्याता । न तथा भक्तानां व्याख्येया । तेषां हि मुख्याधिकारिणाम् अपि अर्चायां पूजादिकं मुख्यम् एव भक्त्य्-अङ्गम् । यद् उक्तम् एकादशे—

मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् ।
परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥ [भा।पु। ११.११.३४]
ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः [भा।पु। ११.११.३८] इति ।
वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः ।
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ [भा।पु। ११.२७.३२] इति ।

प्रतिमा स्वल्प-बुद्धीनाम् इत्य्-आदिकं तु ज्ञानि-परम् अल्प-बुद्धीनाम् अपीति वा व्याख्येयम् । नृषिंह-पुराणे ब्रह्माम्बरीषादीनाम् अपि तत्-पूजा-चरणारविन्दात् तस्याः महिमाधिक्यम् । विष्णु-धर्मे च ताम् अधिकृत्य अम्बरीषं प्रति श्री-विष्णु-वाक्यम्—

तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥
गच्छंस् तिष्ठन् स्वपन् भुञ्जंस् ताम् एवाग्रे च पृष्ठतः ।
उपर्य्-अधस् तथा पार्श्वे चिन्तयंस् ताम् अथात्मनः ॥ इत्य्-आदि ।

स्कान्दे च— शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् [ह।भ।वि। ५.३८०] इति । पाद्मे च—

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटेऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥ [ह।भ।वि। ५.३८१]5 इति ॥१॥

—ओ)०(ओ—

॥ ७.१५.३ ॥

द्वौ दैवे पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा ।

भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान् न विस्तरम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विस्तरं भोक्तृ-बाहुल्यम् ॥३॥

—ओ)०(ओ—

॥ ७.१५.४ ॥

देश-कालोचित-श्रद्धा- द्रव्य-पात्रार्हणानि च ।

सम्यग् भवन्ति नैतानि विस्तरात् स्व-जनार्पणात् ॥

**श्रीधरः : **ननु विस्तरः कुतः प्राप्तो येन निषिध्यते तत्राह—स्व-जनानाम् अर्पणात्। जामाता चेन् निमन्त्र्यते तत्-पित्रादयः कथं वर्ज्या इत्य् एवं प्राप्ताद् विस्तराद् इत्य् अर्थः ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्व-जनार्पणात्। स्व-जनेभ्योऽन्न-दानात् जामाता चेन् निमन्त्र्यते तत्-पित्रादयः कथम् उपक्षणीया इत्य् एवं प्राप्ताद् विस्तरात् ॥३॥

—ओ)०(ओ—

॥ ७.१५.५ ॥

देशे काले च सम्प्राप्ते मुन्य्-अन्नं हरि-दैवतः ।

श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् ॥

**श्रीधरः : **मुन्य्-अन्नम् आरण्यं व्रीह्य्-आदि । हरि-दैवतं हरये निवेदितं सत् ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मुन्य्-अन्नम् आरण्यं व्रीह्य्-आदि, न्यायार्जितं वा । हरि-दैवतं प्रथमं हरये निवेदितम् । ततस् तद् एव पितृभ्यो दत्तम् । ततः पात्रे न्यस्तम् ॥५॥

—ओ)०(ओ—

॥ ७.१५.६ ॥

देवर्षि-पितृ-भूतेभ्य आत्मने स्व-जनाय च ।

अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् ॥

**श्रीधरः : **पुरुषात्मकम् ईश्वर-स्वरूपम् ॥६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.७ ॥

न दद्याद् आमिषं श्राद्धे न चाद्याद् धर्म-तत्त्ववित् ।

मुन्य्-अन्नैः स्यात् परा प्रीतिर् यथा न पशु-हिंसया ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.८ ॥

नैतादृशः परो धर्मो नृणां सद्-धर्मम् इच्छताः ।

न्यासो दण्डस्य भूतेषु मनो-वाक्-कायजस्य यः ॥

**श्रीधरः : **दण्डस्य न्यासो हिंसायास् त्यागो य एतादृशोऽन्यो धर्मो नास्ति ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दण्डनस्य हिंसनस्य न्यासस् त्यागः ॥८॥

—ओ)०(ओ—

॥ ७.१५.९ ॥

एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञ-वित्तमाः ।

आत्म-संयमनेऽनीहा जुह्वति ज्ञान-दीपिते ॥

**श्रीधरः : **अत एवोत्तमाधिकारिणो बाह्यानि कर्माणि त्यजन्तीत्य् आह—एक इति । अनीहा निष्कर्माः । ज्ञान-दीपिते आत्म-स्फूर्तिमत्य्-आत्म-संयमने जुह्वति । मनो नियम्य तद्-अन्तरायतया त्यजन्तीत्य् अर्थः । तद् उक्तं सर्वज्ञ-सूक्तैः—

प्रत्यक्-स्फूर्तिर् असत्-स्फूर्तिस् तनु-निष्ठाविघातकम् ।
सल्लक्ष्य सन्त्यजेत् कर्म त्यजन् विघ्न-हतोऽन्यथा ॥ इति ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अत एवोत्तमाधिकारिणो बाह्यानि कर्माणि त्यजन्तीत्य् आह—एक इति । अनीहा निष्कामाः । आत्मनो मनसो यत् संयमनं निग्रहः । ज्ञानेन दीपितं तत्र कर्म-मयान् यज्ञान् कर्माणि जुह्वति मनो-नियमनस्यान्तरायतया त्यजन्तीत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ७.१५.१० ॥

द्रव्य-यज्ञैर् यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति ।

एष माकरुणो हन्याद् अतज्-ज्ञो ह्य् असु-तृप् ध्रुवम् ॥

**श्रीधरः : **मा माम् एष ध्रुवं हन्याद् इति । कुतः ? अकरुणः । तत् कुतः ? असु-तृप् प्राण-तर्पकः । तत् किम् ? अतज्-ज्ञः आत्म-तत्त्वानभिज्ञः । तथा च श्रुतिः—

न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासु-तृप उक्थ-शासश् चरन्ति ॥ [ऋ।वे। १०.८२.१७]इति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एष अकरुणः मा मां हन्यात् हनिष्यति । अतज्-ज्ञ आत्म-तत्त्वानभिज्ञः । तथा च श्रुतिः—

न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासु-तृप उक्थ-शासश् चरन्ति ॥ [ऋ।वे। १०.८२.१७]इति ॥१०॥

—ओ)०(ओ—

॥ ७.१५.११ ॥

तस्माद् दैवोपपन्नेन मुन्य्-अन्नेनापि धर्मवित् ।

सन्तुष्टोऽहर् अहः कुर्यान् नित्य-नैमित्तिकीः क्रियाः ॥

**श्रीधरः : **प्रस्तुतम् अनुवर्तयति—तस्माद् इति ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सर्वत्र सन्तुष्टः भूतान्य् अहिंसन्न् इत्य् अर्थः ॥११॥

—ओ)०(ओ—

॥ ७.१५.१२ ॥

विधर्मः पर-धर्मश् च आभास उपमा छलः ।

अधर्म-शाखाः पञ्चेमा धर्म-ज्ञोऽधर्मवत् त्यजेत् ॥

**श्रीधरः : **अधर्मवत् साक्षान् निषिद्धवत् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अधर्मवन् निषिद्धम् इव ॥१२॥

—ओ)०(ओ—

॥ ७.१५.१३ ॥

धर्म-बाधो विधर्मः स्यात् पर-धर्मोऽन्य-चोदितः ।

उपधर्मस् तु पाखण्डो दम्भो वा शब्द-भिच् छलः ॥

**श्रीधरः : **क्रमम् अनादृत्य पञ्चापि व्याचष्टे । धर्म-बाधो धर्म-बुद्ध्यापि यस्मिन् क्रियमाणे स्व-धर्म-बाधः । अन्यस्य चोदितोऽन्यस्य पर-धर्मः । उपमेति व्याचष्टे—उपधर्मस् त्व् इति । शब्दस्य भित् भेदोऽन्यथा-व्याख्यानं यस्मिन् । यथा दशावरान् भोजयेद् इत्य् उक्ते दशभ्योऽवरान् इति । शब्द-भृद् इति पाठे धर्म-शब्द-मात्रं बिभर्तीति तथा । यथा गां दद्याद् इत्य् उक्ते मरिष्यन्त्या गोर् दानम् ॥१३॥

**क्रम-सन्दर्भः : **धर्म-बाध इति सार्धकम् । पाखण्डो वेद-बाह्यः । दम्भः स-कपटः ॥१३॥

**विश्वनाथः : **क्रमम् अनादृत्य पञ्चापि व्याचष्टे । धर्म-बाधो धर्म-बुद्ध्यापि यस्मिन् क्रियमाणे स्व-धर्म-बाधः, स विधर्मः । अन्यस्य चोदितो विहितो यः, सोऽन्यस्य पर-धर्मः । यः पाषण्डो जटा-भस्मादि-धारण-मयः दम्भः स्वस्य धार्मिकत्व-ज्ञापना-मयो वा, स उपधर्मः । उपमा धर्मस्योपमा, न तु धर्म इत्य् अर्थः । शब्दस्य भित् भेदः प्रकारान्तरेन व्याख्यानं यत्र दशावरान् विप्रान् भोजयेद् इत्य् अत्र बहुव्रीहिं त्यक्त्वा दशभ्योऽवरान् नवाष्टौ वा न त्व् एकादशेति तत्पुरुष-व्याख्यानेन यः शब्द-भित् स छलः । शब्द-भृद् इति पाठे धर्म-शब्द-मात्रं बिभर्तीति तत् । यथा गां दद्याद् इत्य् उक्ते मरिष्यन्त्या गोर् दानम् ॥१३॥

—ओ)०(ओ—

॥ ७.१५.१४ ॥

यस् त्व् इच्छया कृतः पुम्भिर् आभासो ह्य् आश्रमात् पृथक् ।

स्व-भाव-विहितो धर्मः कस्य नेष्टः प्रशान्तये ॥

**श्रीधरः : **स्व-धर्मानुष्ठानानन्तरं धर्म-भूयस् त्वार्थम् अपि पर-धर्मो नानुष्ठेयोऽनुपयोगाद् इत्य् आह—स्व-भाव-विहित इति ॥१४॥

**क्रम-सन्दर्भः : **स्वभाव इत्य् अर्धकम् ॥१४॥

विश्वनाथः : इच्छया कृतः कल्पित-देवता-पूजादि-मयो यः स आभासः । तस्मात् स्वस्य भावेन, न तु केवलं जन्मनैव ब्राह्मणादि-जातित्वं विहितम् ॥१४॥

—ओ)०(ओ—

॥ ७.१५.१५ ॥

धर्मार्थम् अपि नेहेत यात्रार्थं वाधनो धनः ।

अनीहानीहमानस्य महाहेर् इव वृत्तिदा ॥

**श्रीधरः : **किं च, अधनो धर्मार्थं धनं नेहेत नापेक्षेत, धनार्थं न व्याप्रियेतेति वा । दैवोपपन्नेनैव स्व-धर्म-सिद्धेर् उक्तत्वात् । यात्रार्थम् अपि नेहेतेत्य् एतत् प्रपञ्चयति—अनीहेति सार्धैः षड्भिः ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अधनो निर्धनः यात्रार्थम् देह-निर्वाहनार्थं नेहेत, न वाञ्छेत् धनं प्रति न चेष्टेतेति वा । अनीहमानस्य अवाञ्छतः अनीहा निष्कामत्वं निर्व्यापारत्वं वा । महाहेर् अजागरस्य ॥१५॥

—ओ)०(ओ—

॥ ७.१५.१६ ॥

सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखः ।

कुतस् तत् काम-लोभेन धावतोऽर्थेहया दिशः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.१७ ॥

सदा सन्तुष्ट-मनसः सर्वाः शिवमया दिशः ।

शर्करा-कण्टकादिभ्यो यथोपानत्-पदः शिवम् ॥

**श्रीधरः, विश्वनाथः : **उपानहौ पादयोर् यस्य स उपानत्-पात्, तस्य ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.१८ ॥

सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा ।

औपस्थ्य-जैह्व्य-कार्पण्याद् गृहपालायते जनः ॥

**श्रीधरः : **गृह-पालः श्वा, तद्वद् आचरति ॥१८॥

**क्रम-सन्दर्भः : **सन्तुष्ट इति । केन वा न वर्तेत ? अपि तु वारिणापि वर्तेतेत्य् अर्थः ॥१८॥

**विश्वनाथः :**केन वा न वर्तेत ? अपि तु वारिणापि वर्तेतेत्य् अर्थः । उपस्थस्य कर्म औपस्थ्यं, तत्र कार्पण्यात् गृह-पालः श्वा ॥१८॥

—ओ)०(ओ—

॥ ७.१५.१९ ॥

असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः ।

स्रवन्तीन्द्रिय-लौल्येन ज्ञानं चैवावकीर्यते ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अवकीर्यते अधः-क्षिप्तं भवति ॥१९॥

—ओ)०(ओ—

॥ ७.१५.२० ॥

कामस्यान्तं हि क्षुत्-तृड्भ्यां क्रोधस्यैतत् फलोदयात् ।

जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥

**श्रीधरः : **क्षुधा तृषा च जनः कामस्यान्तं याति, अन्नोदकातिरिक्त-कामान्तराभावात्। क्रोधस्य वाऽन्तं याति । एतस्य क्रोधस्य यत् फलं हिंसा, तस्योदयान् निष्पत्तेः । दिशो जित्वाऽपि भुवो भुक्त्वाऽपि लोभस्य नैवान्तं यातीत्य् अर्थः ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **असन्तोषो हि लोभ-मूलको भवति, लोभस्य तु दुर्जयत्वात् । असन्तोषो दुर्वार इत्य् आह—कामस्येति द्वाभ्याम् । क्षुत्-तृड्भ्याम् इति भोज्यस्यालाभे क्षुत्-तृषोर् अतिदीप्तत्वे धातु-दाह-प्रवृत्तेर् इति भावः । एतस्य क्रोधस्य यत् फलं हिंसा, तस्योदयान् निष्पत्तेः । दिशो जित्वाऽपि भुवो भुक्त्वाऽपि लोभस्य वासनात्मकस्यान्तं न प्राप्नोति । भक्ष्य-विषयक-लोभस्य तूदर-पूर्त्यैव शान्तिर् इति दुरुपशमत्वाभावान् नासौ प्र्ठङ् निर्दिष्टः ॥२०॥

—ओ)०(ओ—

॥ ७.१५.२१ ॥

पण्डिता बहवो राजन् बहु-ज्ञाः संशय-च्छिदः ।

सदसस् पतयोऽप्य् एके असन्तोषात् पतन्त्य् अधः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : लोभ-प्राबल्ये गुणानां वैयर्थ्यम् आह—पण्डिता इति ॥२१॥

—ओ)०(ओ—

॥ ७.१५.२२ ॥

असङ्कल्पाज् जयेत् कामं क्रोधं काम-विवर्जनात् ।

अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥

**श्रीधरः : **इदानीं कामादि-जयोपायान् आह—असङ्कल्पाद् इति चतुर्भिः । जयेद् इति यथापेक्षम् अन्वेति । अर्थेऽनर्थ-दर्शनेन । तत्त्वावमर्शनाद् अद्वैतानुसन्धानेन॥२२॥

**क्रम-सन्दर्भः : **असङ्कल्पाद् इति युग्मकम् । तत्त्वावमर्शेन परमेश्वराधीनता-विचारेण कृपयेति सादर्धकम् ॥२२॥

विश्वनाथः : तर्हि कथम् एतान् जयेद् इत्य् अपेक्षायाम् आह—असङ्कल्पात् स्त्री-स्मरणादिना कामोत्पत्ताव् अपि नैव स्त्री मग्ना सम्भोक्तव्येति सङ्कल्प-सदृशान् निश्चयात् कामं जयेत् । सादृश्ये नञ् । यथाद्य न भोक्तव्यम् इति निश्चये सत्य् उपवासादौ क्षुत्-पिपासा-जयः । काम-विवर्जनात् । काम इच्छा विषयः कोऽपि न हिंसनीय इति । हिंसेच्छा-वर्जनात् क्रोधं जयेत् । अर्थे लोभ्ये वस्तुनि आयत्याम् अनर्थ-दर्शनाभ्यासाल् लोभम् । तत्त्वावमर्शनात् प्रारब्ध-फलस्यावश्य-भोगत्वेन कः कस्य दुःख-हेतुर् इत्य् आदि तत्त्व-विचारात् ॥२२॥

—ओ)०(ओ—

॥ ७.१५.२३ ॥

आन्वीक्षिक्या शोक-मोहौ दम्भं महद्-उपासया ।

योगान्तरायान् मौनेन हिंसां कामाद्य्-अनीहया ॥

**श्रीधरः : **आन्वीक्षिक्या आत्मानात्म-विवेकेन ? महतां सात्त्विकानां सेवया । योगस्यान्तरायान् लोक-वार्तादीन् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आन्वीक्षिक्या आत्मानात्म-विचारेण ॥२३॥

—ओ)०(ओ—

॥ ७.१५.२४ ॥

कृपया भूतजं दुःखं दैवं जह्यात् समाधिना ।

आत्मजं योग-वीर्येण निद्रां सत्त्व-निषेवया ॥

**श्रीधरः : **येभ्यो भूतेभ्यो भयं जायेत तेष्व् एव कृपया हिताचरणेन । दैवं देवोपसर्ग-निमित्तं वृथा मनः-पीडादि । तद् उक्तं याज्ञवल्क्येन—विमना विफलारम्भः संसीदत्य् अनिमित्ततः इति । आत्म-जं देह-जम् । योग-वीर्येण प्राणायामादि-बलेन । सत्त्व-निषेवया सात्त्विकाहारादिना ॥२४॥

**क्रम-सन्दर्भः : **कृपयेति सार्धकम् ॥

**विश्वनाथः : **येभ्यो भूतेभ्यो दुःखं जायेत तेष्व् एव कृपया हिताचरणेनेत्य् अर्थः । दैवं देवोपसर्ग-निमित्तं वृथा मनः-पीडादि । तद् उक्तं याज्ञवल्क्येन—विमना विफलारम्भः संन्सीदत्य् अनिमित्ततः इति । समाधिना भगवति चित्तैकाग्र्येण । आत्मजं देहोत्थं दुःखम् योग-वीर्येण प्राणायामादि-बलेन सत्त्व-निषेवया सात्त्विकाहारादिना प्राणि-मात्र-परिचर्यया वा ॥२४॥

—ओ)०(ओ—

॥ ७.१५.२५ ॥

रजस् तमश् च सत्त्वेन सत्त्वं चोपशमेन च ।

एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **उपशमेन निवृत्त्य्-आत्मकेन सत्त्वेन । एतद् इत्य् अर्धकम् । श्रुतिश् च—

यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३]इति ।

अतो ब्रह्म-वैवर्ते—

गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्येत जीवैर् अहमिका-परैः ॥ इति ।

पाद्मे देवद्युति-स्तुतौ—

भक्तिर् यथा हरौ मेऽस्ति तद् वरिष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥ इति ॥२५॥

विश्वनाथः : रजस्-तमसी सत्त्वेन सत्त्वाधिक्येन । सत्त्वं च उपशमेन तत्-कार्येणौदासीन्येन । अञ्जसा शीघ्रम् आयासाभावेन सर्वं जयेत् । सर्व-रोगोपशमनं मुख्यम् एकम् एव महौषधम् इवेत्य् अर्थः । तत्र कामादि-जयो ज्ञानिनां गुरु -भक्तेर् अनुसंहितं फलं शुद्ध-भक्तानां त्व् आनुषङ्गिकम् इति विशेषो द्रष्टव्यः ॥२५॥

—ओ)०(ओ—

॥ ७.१५.२६ ॥

यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ ।

मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥

**श्रीधरः : **ननु कथं गुरौ भक्त्या सर्वस्य जयः स्यात्, तस्यापि मनुष्यत्वेन तद्-अवस्थत्वात् ? तत्राह—यस्येति । मर्त्यासद्-धीर् मनुष्य इति दुर्बुद्धिः । तस्य शास्त्र-श्रवणं कुञ्जर-स्नानवद् व्यर्थम् ॥२६॥

क्रम-सन्दर्भः : मर्त्यासद्-धीर् इति । अत एवोक्तं प्राचीनैः—

अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर्
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थेऽम्बु-बुद्धिः ।
शुद्धे तन्-नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥ [प। ११४] इति ॥२६ ॥

भक्ति-सन्दर्भ २१२: ततः सुतराम् एव परमार्थिभिस् तादृशे गुरौ [भगवद्-दृष्टिः कर्तव्या] इत्य् आह—यस्येति द्वाभ्याम् ॥२६॥

विश्वनाथः : किं च, सत्यां भूयस्याम् अपि भक्तौ गुरौ मनुष्य-बुद्धित्वे सर्वम् एव व्यर्थं भवतीत्य् आह—यस्येति । साक्षाद्-भगवतीति भगवद्-अंश-बुद्धिर् अपि गुरौ न कार्येति भावः । यद् वा, उपास्ये भगवत्य् एव साक्षाद् विद्यमाने मर्त्यासद्-धीः मर्त्य इति दुर्बुद्धिस् तस्य श्रुतं भगवन्-मन्त्रादिकं श्रवण-मननादिकं च व्यर्थम् इत्य् अर्थः ॥२६॥

—ओ)०(ओ—

॥ ७.१५.२७ ॥

एष वै भगवान् साक्षात् प्रधान-पुरुषेश्वरः ।

योगेश्वरैर् विमृग्याङ्घ्रिर् लोको यं मन्यते नरम् ॥

**श्रीधरः : **ननु गुरोर् अपि पुत्रादयस् तं नरम् एव मन्यन्ते ? अत आह—एष गुरुः साक्षाद् भगवान् एव भवेत् । लोकस्यनरोऽसाव् इति बुद्धिर् भ्रान्तिर् इत्य् अर्थः । यद् वा, न हि तत् पुत्रादेर् मनुष्य-बुद्ध्या प्रतीयमानोऽपि गुरुर् भगवान् न भवेत् । यथा एष श्री-कृष्ण इत्य् अर्थः ॥२७॥

क्रम-सन्दर्भः : न चेदं लोकेष्व् आश्चर्यम्—साक्षाद् भगवति तथा मननाद् इत्य् आह—एष इति ॥२७॥

भक्ति-सन्दर्भ २१२: एष श्री-कृष्ण-लक्षणोऽपि । ततः प्राकृत-दृष्टिर् न भगवत्-तत्त्व-ग्रहणे प्रमाणम् इति भावः ॥२७॥

**विश्वनाथः : **ननु गुरोः पितृ-पुत्रादयः प्रतिवेशिनः च तं नरम् एव मन्यन्ते ? कथम् एक एवायं शिष्यस् तं परमेश्वरं मन्यताम् ? अत आह—एष इति । भगवान् यदु-नन्दनो रघु-नन्दनो वा, वै निश्चितम् एव, प्रधान-पुरुषयोर् ईश्वरः । यं लोकस् तद्-अवतार-कालोत्पन्नो जनो नरं मन्यते, तेन किं स नरो भवति ? अपि तु परमेश्वर एवेत्य् एवं गुरुर् अपीति भावः ॥२७॥

—ओ)०(ओ—

॥ ७.१५.२८ ॥

षड्-वर्ग-संयमैकान्ताः सर्वा नियम-चोदनाः ।

तद्-अन्ता यदि नो योगान् आवहेयुः श्रमावहाः ॥

**श्रीधरः : **एवं सर्वैर् उपायैः कामादि-वेगं जित्वा नियतेन्द्रियो भूत्वा ध्यान-परो भवेत् । अन्यथा तं प्रति सर्व-शास्त्र-वैफल्यं स्याद् इत्य् आह—षड्-वर्गेति । सर्वापि नियम-चोदना इष्टापूर्तादि-विधयः षड्-इन्द्रिय-वर्गस्य यः संयमस् तस्मिन्न् एवैकस्मिन्न् अन्तो यासाम् । तद् एक-परा इत्य् अर्थः । न च तावतापि चरितार्था इत्य् आह—तद् अन्ताः सत्योऽपि यदि योगान् धारणा-ध्यान-समाधीन् नो आवहेयुर् न साधयेयुस् तर्हि केवलं श्रमावहा एवेत्य् अर्थः॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किं च, यः कामादि-जयो गुरु-भक्त्या साध्यते, स एव सर्व-शास्त्रोक्त-नाना-साधनानाम् अपि वास्तवं फलम् इत्य् आह—षड्-वर्गेति । सर्वा अपि नियम-चोदना इष्टापूर्तादि विषयः षड्-इन्द्रिय-वर्गस्य यः संयमस् तस्मिन्न् एवैकस्मिन्न् अन्तो यासां तद्-एक-परा इत्य् अर्थः ।

ननु च यथा गुरु-भक्त्या कामादयो जीयन्ते भगवान् अपि प्राप्यते । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा [भा।पु। १०.८०.३४] इति, ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् [भा।पु। १०.८०.३३] इति च भगवद्-उक्तेः । तथा नियम-चोदनाभिः षड्-वर्ग-संयमः साध्यते, भगवान् लभ्यते न वा ? तत्राह—तद्-अन्तास् तद्-एक-परत्वाद् एव योगान् भगवद्-ध्यानादीन् न आवहेषु न साधयेयुः कुतो भगवन्तं प्रापयेयुः ? इत्य् अर्थः । यदि च नावहेयुः, तर्हि श्रमावहा एवात्र कः सन्देहः ? इति भावः ॥२८॥

—ओ)०(ओ—

॥ ७.१५.२९ ॥

यथा वार्तादयो ह्य् अर्था योगस्यार्थं न बिभ्रति ।

अनर्थाय भवेयुः स्म पूर्तम् इष्टं तथासतः ॥

**श्रीधरः : **एतद् एव दृष्टान्तेनाह—यथा वार्तादयः कृष्यादयोऽर्थास् तत् फलानि च योगस्यार्थं मोक्षं न साधयन्ति प्रत्युतानर्थाय संसारायैव । असतो बहिर्-मुखस्येष्टापूर्ताद्य् अपि तथा ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एव दृष्टान्तेनाह—यथा वार्तादयः कृष्यादयोऽर्था भोग्यान् अर्थान् साधयन्तोऽपि योगस्यार्थं मोक्षं न साधयन्ति । यदि च मोक्षं न साधयन्ति, तदा तेऽनर्थाय प्रयोजनाभावायैव भवेयुः, तथैव असतो भगवद्-अभक्तस्य इष्टापूर्तादिर् विफलायैव ॥२९॥

—ओ)०(ओ—

॥ ७.१५.३० ॥

यश् चित्त-विजये यत्तः स्यान् निःसङ्गोऽपरिग्रहः ।

एको विविक्त-शरणो भिक्षुर् भैक्ष्य-मिताशनः ॥

**श्रीधरः : **एवं योगं युञ्जतोऽपि यस्य कुटुम्बादि-सङ्गेन चित्तं विक्षिप्येत तस्य कृत्यम् आह—यश् चित्तस्य विजये यत्त उद्युक्तः स भिक्षुः स्यात् सन्न्यसेत् । तथा च स्मृतिः—

द्वन्द्वाहतस्य गार्हस्थ्यं ध्यान-भङ्गादि-कारणम् ।
लक्षयित्वा गृही स्पष्टं सन्न्यसेद् अविचारयन् ॥ इति ।

भिक्षया प्राप्तं मितम् अशनं यस्य सः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तदेवं गृहस्थस्यापि कामादि-जयो मोक्ष-प्रकारश् चोक्तः । यस्य तु कुटुम्बादि-सङ्ग-दोषेण कामादि-जयो यतमानस्यापि न स्यात्, स तु निःसङ्गो भिक्षुर् एव स्याद् इत्य् आह—य इति । यत्तो यत्नवान् स भिक्षुः स्यात् । तथा च स्मृतिः—

द्वन्द्वाहतस्य गार्हस्थ्यं ध्यान-भङ्गादि-कारणम् ।
लक्षयित्वा गृही स्पष्टं सन्न्यसेद् अविचारयन् ॥ इति ।

भिक्षया प्राप्तं मितम् अशनं यस्य सः ॥३०॥

—ओ)०(ओ—

॥ ७.१५.३१ ॥

देशे शुचौ समे राजन् संस्थाप्यासनम् आत्मनः ।

स्थिरं सुखं समं तस्मिन्न् आसीतर्ज्व्-अङ्ग ॐ इति ॥

**श्रीधरः : **ऋजु समम् अङ्गं यस्य सः । सुखं यथा भवत्य् एवम् आसीत । ॐ इत्य् उच्चारयन्न् इति शेषः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ऋजु समम् अङ्गं यस्य सः । ॐ इति समुच्चारयन्न् इति शेषः ॥३१॥

—ओ)०(ओ—

॥ ७.१५.३२ ॥

प्राणापानौ सन्निरुन्ध्यात् पूर-कुम्भक-रेचकैः ।

यावन् मनस् त्यजेत् कामान् स्व-नासाग्र-निरीक्षणः ॥

यतो यतो निःसरति मनः काम-हतं भ्रमत् ।

ततस् तत उपाहृत्य हृदि रुन्ध्याच् छनैर् बुधः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.३४ ॥

एवम् अभ्यस्यतश् चित्तं कालेनाल्पीयसा यतेः ।

अनिशं तस्य निर्वाणं यात्य् अनिन्धन-वह्निवत् ॥

श्रीधरः : एवम् अनिशम् अभ्यस्यतस् तस्य यतेश् चित्तं निर्वाणं शान्तिं याति ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निर्वाणं शान्तिं याति ॥३४॥

—ओ)०(ओ—

॥ ७.१५.३५ ॥

कामादिभिर् अनाविद्धं प्रशान्ताखिल-वृत्ति यत् ।

चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥

**श्रीधरः : **न च पुनर् विक्षिप्येतेत्य् आह—कामादिभिर् अक्षुभितं यच् चित्तं, तन् नोत्तिष्ठेत् । यतः, प्रशान्ता अखिला वृत्तयो यस्य । कुतः ? ब्रह्म-सुखेन स्पृष्टम् ॥३५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.३६ ॥

यः प्रव्रज्य गृहात् पूर्वं त्रि-वर्गावपनात् पुनः ।

यदि सेवेत तान् भिक्षुः स वै वान्ताश्य् अपत्रपः ॥

श्रीधरः : यस् तु प्रव्रज्यां कृत्वापि भोगम् अपि भोगम् अभिलिप्सुः स्यात्, तं निन्दति—य इति। त्रयाणां धर्मादीनां वर्ग समन्ताद् उप्यते यस्मिन्, तस्माद् गृहात् तान् धर्मादीन् । वान्ताशी छर्दित-भोजी निर्लज्जश् च ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- त्रिवर्ग आ उप्यते यस्मिन्, तस्मात् गृहात् पूर्वं प्रव्रज्य पुनः पश्चात् तान् एव गृहस्थ-धर्मान् सेवतेवान्ताशी छर्दित-भोजी निर्लज्जः ॥३६॥

—ओ)०(ओ—

॥ ७.१५.३७ ॥

यैः स्व-देहः स्मृतोऽनात्मा मर्त्यो विट्-कृमि-भस्मवत् ।

त एनम् आत्मसात् कृत्वा श्लाघयन्ति ह्य् असत्तमाः ॥

**श्रीधरः : **न चेदम् अघटितं दृष्टत्वाद् इत्य् आह—यैः पूर्वं स्व-देहोऽनात्मादि-रूपः स्मृतश् चिन्तितस् त एव पुनर् एनम् आत्मेति मत्वा श्लघयन्ति स्तावयन्ति हि ॥३७॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : अनात्मा देह आत्मा न भवतीति चिन्तितः । विट्-कृमि-भस्मवद् इत्य् अन्ते विट्-कृमि-भस्म-रूपो भविष्यतीत्य् अहोऽधुनापि विट्-कृमि-भस्म-तुल्य इत्य् अर्थः । अत एव एनं देहम् आत्मसात् कृत्वा आत्मानम् एव मत्वेत्य् अर्थः ॥३७॥

—ओ)०(ओ—

॥ ७.१५.३८-३९ ॥

गृहस्थस्य क्रिया-त्यागो व्रत-त्यागो बटोर् अपि ।

तपस्विनो ग्राम-सेवा भिक्षोर् इन्द्रिय-लोलता ॥

आश्रमापसदा ह्य् एते खल्व् आश्रम-विडम्बनाः ।

देव-माया-विमूढांस् तान् उपेक्षेतानुकम्पया ॥

**श्रीधरः : **यतिम् उपलक्षणी-कृत्यान्यान् अपि स्व-धर्म-त्यागिनो निन्दति, गृह-स्थस्येति द्वाभ्याम् ।

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : लोलता लौल्यम् । अनुकम्पया सह उपेक्षेत अनुकम्पया तद्-अन्तिकम् उपेत्य तत्त्वोपदेशादिकं कुर्यात् । तस्य तेषु वैयर्थाद् इति भावः ॥३८-३९॥

—ओ)०(ओ—

॥ ७.१५.४० ॥

आत्मानं चेद् विजानीयात् परं ज्ञान-धुताशयः ।

किम् इच्छन् कस्य वा हेतोर् देहं पुष्णाति लम्पटः ॥

**श्रीधरः : **नन्व् आत्म-तत्त्व-ज्ञस्य भिक्षोर् इन्द्रिय-लौल्येऽपि को दोषस् तत्राह—आत्मानं परं ब्रह्म चेज् जानीयात् । ज्ञानेन धुता निरस्ता आशया वासना यस्य, तस्य ज्ञानिनो लौल्यम् एव न संभवतीत्य् अर्थः । तथा च श्रुतिः—

आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः ।
किम् इच्छन् कस्य कामाय शरीरम् अनुसञ्ज्वरेत् ॥ [बृ।आ।उ। ४.४.१२] इति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तेष्व् अपि मध्ये भिक्षुं विशेषतो निन्दति—आत्मानम् इति । अत्र विजानीयाद् इति विधि-लिङ्, तेन चाय अर्थ आक्षेप-लब्धो भवति । ज्ञान-धुताशयः सन् आत्मानं विजानीयाद् इति । विधेर् विषयीभूतः स्याच् चेत् तदा किम् इच्छन्न् इत्य्-आदि । देहं पुष्णातीति जिह्वेन्द्रिय-लौल्यं, लम्पट इत्य् उपस्थ-लौल्यं च व्यञ्जितम् । परं देहात् पृथग्-भूतम् ॥४०॥

—ओ)०(ओ—

॥ ७.१५.४१ ॥

आहुः शरीरं रथम् इन्द्रियाणि

हयान् अभीषून् मन इन्द्रियेशः ।

वर्त्मानि मात्रा धिषणां च सूतं

सत्त्वं बृहद् बन्धुरम् ईश-सृष्टम् ॥

**श्रीधरः : **अज्ञस्य तु लौल्येन नरक-पातापत्तेर् अप्रमत्तेन सदा तत्त्व-ज्ञाने यतितव्यम् इतीमम् अर्थं, आत्मानं रथिनं विद्धि शरीरं रथम् एव च [क।उ। १.३.३] इत्य्-आदि-श्रुत्य्-उक्त-रथ-रूपक-द्वारेणाह—आहुर् इति षड्भिः । इन्द्रियेशं मनोऽभीषून् रश्मीन् आहुः । मात्राः शब्दादीन् वर्त्मानि गन्तव्य-देशान् आहुः । सत्त्वं चित्तं बृहद् देह-व्यापि बन्धुरं बन्धनम् । चित्तं विना ह्य् अनिबद्धम् इव शरीरं भवति । ईश-सृष्टम् इति, बन्धन-कर्ता त्व् ईश एवेत्य् अर्थः ॥४१॥

**क्रम-सन्दर्भः :**आहुर् इति युग्मकम् । अधर्मोऽत्र धर्म-परित्याग-रूपः सन्न्यासः । तद् एवं सर्वस्यां रथ-सामभ्यां सत्याम् अपि धनुर्-आदिकं विना वैयर्थ्यम् एवेत्य् आह—धनुर् हीति ॥४१॥

**विश्वनाथः : **यद् एव देहेन्द्रियादिकं प्रमत्तस्यानर्थ-हेतुस् तद् एवाप्रमत्तस्य योगिनस् त्व् इष्ट-साधनम् इतीमम् अर्थं, आत्मानं रथिनं विद्धि शरीरं रथम् एव च [क।उ। १.३.३] इत्य्-आदि-श्रुत्य्-उक्त-रथ-रूपक-द्वारेणाह—आहुर् इति षड्भिः । इन्द्रियेशं मनोऽभीषून् रश्मीन् आहुः । मात्राः शब्दादीन् वर्त्मानि गन्तव्य-देशान् आहुः । सत्त्वं चित्तं बृहद् देह-व्यापि बन्धुरं बन्धनम् आहुः । चित्तं विना शरीरम् अनिबद्धम् भवतीति भावः । ईश-सृष्टम् इति बन्धन-कर्ता त्व् ईश इति भावः । ईश-सृष्टम् इति रथादीनां सर्वेषाम् एव विशेषणम् ॥४१॥

—ओ)०(ओ—

॥ ७.१५.४२ ॥

अक्षं दश-प्राणम् अधर्म-धर्मौ

चक्रेऽभिमानं रथिनं च जीवः ।

धनुर् हि तस्य प्रणवं पठन्ति

शरं तु जीवं परम् एव लक्ष्यम् ॥

**श्रीधरः : **प्राणादयः पञ्च, नागः कूर्मश् च कृकलो देवदत्तो धनञ्जयः [गोरक्ष-शतक २४] इत्य् एवं दश-विधं प्राणम् अक्षम् । अभिमानं साहङ्कारं जीवं रथिनम् । शुद्धं जीवं शरम् । परं ब्रह्म लक्ष्यम् । यथा धनुषा शरो लक्ष्ये निपात्यते तथा प्रणवेन जीवो ब्रह्मणि निपात्यत इत्य् अर्थः ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दश-विधं प्राणम् अक्षं, अभिमानम् अभिमान-मयं जीवं रथिनं पठन्ति । प्रणवं गुरु-प्रसाद-रूप-महा-मूल्य-प्राप्तं धनुः । शुद्धं जीवं शरम् । परं ब्रह्म लक्ष्यं यथा दनुषा शरो लक्ष्ये निपात्यते, तथा प्रणवेन जीवो ब्रह्मणि निपात्यते इत्य् अर्थः ।6

ननु तर्हि रथादि-रूपक-साहचर्यात् पर-ब्रह्मणोऽपि लक्ष्यत्वेन शत्रु-रूपकत्वम् आयातम् । शत्रुर् एव रथम् आरुह्य शरेण भिद्यते युज्यते च, तस्य जीव-शत्रुत्वं स्व-माया-शक्त्या जीव-बन्धकत्वात् ? सत्यम्,

निभृत-मरुन्-मनो-ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् [भा।पु। १०.८७.२३]

इत्य् अरि-साहचर्येण मुनीनां मुक्तिर् इव साधर्म्यं व्यनक्ति, उभयेषाम् अपि परमेश्वरे शर-निक्षेपकत्वात् । परमेश्वरस् तु स्वीय-वीर-रस-सुखोपकारं ज्ञानान्तर्वर्ति-गुणीभूत-स्व-भक्ति-कलां चालक्ष्य उभयेभ्य एव तेभ्यो मोक्षं ददातीति केचित् । अन्ये तु परमात्मनो लक्ष्यत्वेऽपि द्रौपद्य्-आदि-स्वयंवर-स्थ-राधा-चक्रवर्ति-मीनायमानत्वम् एव न त्व् अन्यथा । यथा चार्जुनाद्यास् तं स्व-बाहु-बलेनैव शरेण भित्त्वा द्रौपद्य्-आदिकां प्रापुस् तथैव ज्ञानिनोऽपि भक्ति-बलेनैव मुक्तिम् इत्य् आचक्षते ॥४१॥

—ओ)०(ओ—

॥ ७.१५.४३-४४ ॥

रागो द्वेषश् च लोभश् च शोक-मोहौ भयं मदः ।

मानोऽवमानोऽसूया च माया हिंसा च मत्सरः ॥

रजः प्रमादः क्षुन्-निद्रा शत्रवस् त्व् एवम् आदयः ।

रजस्-तमः-प्रकृतयः सत्त्व-प्रकृतयः क्वचित् ॥

**श्रीधरः : **रागादयो जेतव्याः शत्रवः ॥४३॥ तत्र रजोऽभिनिवेशः । क्वचिद् आरुढ-समाधेः सत्त्व-प्रकृतयोऽपि परोपकारादि-प्रवृत्तयः शत्रवः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यथा च स्वयंवर-कन्या-प्राप्ति-प्रतिबन्धक-दुष्ट-राजन्या बलिष्ठेन हन्यन्ते, तथैव भगवद्-भक्ति-बलेन यतिना ज्ञानासिम् आदाय राग-द्वेषादयो रजस्-तमः-प्रकृतयः, क्वचित् परोपकारादयः सत्त्व-प्रकृतयः ॥४३-४४॥

—ओ)०(ओ—

॥ ७.१५.४५ ॥

यावन् नृ-काय-रथम् आत्म-वशोपकल्पं

धत्ते गरिष्ठ-चरणार्चनया निशातम् ।

ज्ञानासिम् अच्युत-बलो दधद् अस्त-शत्रुः

स्वानन्द-तुष्ट उपशान्त इदं विजह्यात् ॥

**श्रीधरः : **नृ-काय-रूपं रथम् आत्म-वश उपकल्प इन्द्रियादि-परिकरो यस्मिंस् तथाभूतं यावद् धत्ते तावद् एव गरिष्ठानां गुरूणां चरण-सेवया निशितं ज्ञान-खड्गं बिभ्रद् अच्युताश्रयः सन् निरस्त-शत्रुर् उपशान्तः स्वानन्देन तुष्टो भूत्वेदं रथादिकम् उपेक्षेतेत्य् अर्थः ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नृ-काय-रूपं रथम् आत्म-वशे उपकल्प इन्द्रियादि-परिकरो यस्मिंस् तथाभूतं यावद् धत्ते तावद् एव गरिष्ठानां गुरूणां चरण-सेवया निशितं ज्ञान-खड्गं बिभ्रद् अच्युत-भक्ति-बलः सन्न् एव निरस्त-शत्रुर् भूत्वा स्वराज्यस्य स्वानन्दस्य प्राप्त्या तुष्टो भवन्न् इदं रथादिकम् त्यजेद् उपयोगाभावाद् एवेत्य् अर्थः ।

अत्र यथा साध्यस्य शत्रु-जयस्य स्वराज्य-लाभस्य च सिद्धौ रथाधिकात् धनुः-शरादिकाच् च पुरुषो वियुज्यते, तथा बलात् शारीरान् न वियुज्यते । एवम् एव ज्ञानी प्राधानिकाद् उपाधेर् मुक्ति-साधनाज् ज्ञानाच् च वियुज्य ज्ञानान्तर्-भूतया केवलया भक्ति-कलया सहित एव परमात्मनि सायुज्यं लभते, न तु ततो वियुज्यते । तस्याः स्वरूप-शक्ति-वृत्तित्वेन परमात्मैक्यात्, ज्ञानाज्ञानयोस् तु माया-शक्ति-वृत्त्त्वात् तद्-द्वयोपेक्षा समुचितैव । अत एव धनुर् हि तस्य प्रणवं पठन्ति, शरस् तु जीवं परम् एव लक्ष्यम् इत्य् अत्रापि यथा रथादिभ्यो धनुषश् च वियुज्यापि शरः पुरुष-बलेन वेग-रूपताम् आपन्नेन सहैव तत्-प्रभावाद् एव लक्ष्ये प्रविशति, तथैव शुद्ध-जीवः देहेन्द्रियादिकम् अशुद्ध-जीवं चाज्ञान-स्वरूपां विद्यां च त्यक्त्वा अशुद्ध-जीव-वर्तिन्या भक्ति-कलयैव केवलया सहितस् तत्-प्रभावाद् एव परमात्मानं ज्ञात्वा तत्र सायुज्यं लभते । यद् उक्तं भगवता—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५४-५५]

इत्य् अस्य पद्य-द्वयस्यायम् अर्थः—भक्ति-मिश्र-ज्ञान-परिपाकेनोपाद्य्-अपगमे ब्रह्म-भूतः अनावृत-चैतन्यत्वेन ब्रह्म-रूप इत्य् अर्थः । गुणमालिन्योपगमात् प्रसन्नश् चासाव् आत्मा चेति सः । ततश् च पूर्व-दशायाम् इव नष्टं न शोचति, न चाप्राप्तं काङ्क्षति देहाद्य्-अभिमाभावाद् इति भावः । भूतेषु भद्राभद्रेषु समः बाह्यानुसन्धाभावाद् इति भावः । ततश् चनिरिन्दनाग्नाव् इव ज्ञाने शान्तेऽप्य् अनश्वरां ज्ञानान्तर्-भूतां मद्-भक्तिं लभते । तस्या मत्-स्वरूप-शक्ति-वृत्तित्वेन माया-शक्ति-भिन्नत्वात् अविद्या-विद्ययोर् अपगमेऽप्य् अनपगमात् । अत एव परां निष्काम-कर्म-ज्ञानाद्य्-उर्वरितत्वेन केवलां लभत इति पूर्वं ज्ञान-वैराग्यादिषु मोक्ष-सिद्ध्य्-अर्थं कलया वर्तमानाया अपी सर्व-भूतेष्व् अन्तर्यामिन इव तस्याः स्पष्टोपलब्धिर् नासीद् इति भावः । अत एव कुरुते इत्य् अनुक्त्वा लभत इति प्रयोगः । माष-मुद्गादिषु मिलितां कालेन तेषु नष्टेष्व् अप्य् अनष्टां काञ्चन-मणिकाम् इव तेभ्यः पृथक्तया केवलात् लभत इतिवत् । सम्पूर्णायाः प्रेम-भक्तेस् तु तदानीं लाभ-सम्भावना नैवास्ति, नापि तस्याः फलं सायुज्यम् इत्य् अतः परां प्रेम-लक्षणम् इति न व्याख्येयम् ।

ननु तया लब्धया भक्त्या तस्य किं स्याद् इत्य् अतोऽर्थान्तरोपन्यासेनाह—भक्त्येति । अहं यावान् यश् चास्मि तं मां तत्-पदार्थं ज्ञानी वा नाना-विधो भक्तो वा भक्त्यैव तत्त्वतोऽभिजानाति, भक्त्याहम् एकया ग्राह्यः [भा।पु। ११.१४.११] इति मद्-उक्तेः ।

यस्माद् एवं, तस्मात् ततस् तया भक्त्यैव तद्-अनन्तरं विद्योपरमाद् उत्तर-काल एव मां ज्ञात्वा मां विशते मत्-सायुज्य-सुखम् अनुभवति । मम मायातीतत्वाद् अविद्यायाश् च मायात्वाद् विद्ययाप्य् अहम् अप्य् अगम्यैति भावः ।

यत् तु,

साङ्ख्य-योगौ च वैराग्यं तपो भक्तिश् च केशवे ।
पञ्च-पर्वैव विद्येयं यथा विद्वान् हरिं विशेत् ॥ [ना।पं।]

इति विद्या-वृत्तित्वेन भक्तिः श्रूयते, मत्-सायुज्य-सुखम् अनु तत् खलु ह्लादिनी-शक्ति-वृत्तेर् भक्तेर् एव कला काचिद् विद्या-साफल्यार्थं विद्यायां प्रविष्टा, यथा कर्म-साफल्यार्थं कर्म-योगेऽपि प्रविशति। तया विना कर्म-ज्ञान-योगादीनां श्रम-मात्रत्वोक्तेः । अतो निर्गुणा भक्तिः सत्त्व-गुणमय्या विद्याया वृत्तिर् वस्तुतो न भवति।

किं च,—सत्त्वात् सञ्जायते ज्ञानम् [गीता १४.१७] इति स्मृतेः, सत्त्वं ज्ञानं विद्यैव यथा, तथा भक्त्य्-उत्थं ज्ञानं भक्तिर् एवेति ज्ञानम् अपि द्विविधं द्रष्टव्यम् ॥४५॥

—ओ)०(ओ—

॥ ७.१५.४६ ॥

नो चेत् प्रमत्तम् असद्-इन्द्रिय-वाजि-सूता

नीत्वोत्पथं विषय-दस्युषु निक्षिपन्ति ।

ते दस्यवः सहय-सूतम् अमुं तमोऽन्धे

संसार-कूप उरु-मृत्यु-भये क्षिपन्ति ॥

**श्रीधरः : **अच्युताश्रयाभावे बाधकम् आह—नो चेद् इति । असन्तो बहिर्-मुखा ये इन्द्रिय-वाजेनः सूतश् च ते उत्पथं प्रवृत्ति-मार्गं नीत्वा विषयाख्येषु दस्युषु निक्षिपन्ति । हयैः सूतेन च सह वर्तमानम् । तमोऽन्धे तमसा व्याप्ते । उरु मृत्यु-भयं यस्मिन् ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अच्युत-बलत्वाभावे साध्यं न सिद्ध्येत् । प्रत्युताधःपातश् चेत्य् आह—नो चेद् इति । यदि रथिनो बलं न स्यात्, पक्षे जीवस्य यदि भक्तिर् न स्याद् इत्य् अर्थः । प्रमत्तं जीवं बलाभावेऽपि लक्ष्य-वेधार्थं यथारोहणम् एव प्रमादः । ते दस्यवः राग-द्वेषाद्याः ॥४६॥

—ओ)०(ओ—

॥ ७.१५.४७ ॥

प्रवृत्तं च निवृत्तं च द्वि-विधं कर्म वैदिकम् ।

आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम् ॥

**श्रीधरः : **ननु वेद-विहितेष्टापूर्तादि-कारिणः पुंसः कथम् एवम् अनर्थ-प्राप्तिः स्याद् इत्य् आशङ्क्य वेदोक्त-कर्मणां द्वै-विध्यं दर्शयन् फल-भेदम् आह—प्रवृत्तं चेति दशभिः ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु विषय-भोगोऽपि शास्त्रेण विहितो न तु केवलं निषिद्ध एव । सत्यम् अधिकारि-भेदात् फल-भेदाच् च तत्र व्यवस्था द्रष्टव्येत्य् आह—प्रवृत्तं चेति दशभिः । आवर्तते गृहस्थः । अमृतम् अश्नुते यतिः ॥४७॥

—ओ)०(ओ—

॥ ७.१५.४८ ॥

हिंस्रं द्रव्य-मयं काम्यम् अग्नि-होत्राद्य्-अशान्तिदम् ।

दर्शश् च पूर्णमासश् च चातुर्मास्यं पशुः सुतः ॥

**श्रीधरः : **हिंस्रं श्येनादि-कर्म । अशान्ति-दम् अत्य्-आसक्ति-युक्तम् । आदि-शब्दार्थ-विवरणं दर्शश् चेति । पशुः पशु-यागः । सुतः सोम-यागः ॥४८॥

**क्रम-सन्दर्भः : **हिंस्रम् इति युग्मकम् । सुरालयादि-लक्षणं पूर्तं च प्रवृत्ताख्यम् इत्य् अर्थः ॥

**विश्वनाथः : **हिंस्रं श्येनादि-कर्म । अशान्तिदम् अत्यासक्ति-प्रदम् । आदि-शब्दार्थं विवृणोति—दर्शश् चेति पशुः पशु-यागः । सुतः सोम-यागः ॥४८॥

—ओ)०(ओ—

॥ ७.१५.४९ ॥

एतद् इष्टं प्रवृत्ताख्यं हुतं प्रहुतम् एव च ।

पूर्तं सुरालयाराम-कूपाजीव्यादि-लक्षणम् ॥

**श्रीधरः : **हुतं वैश्व-देवम् । प्रहुतं बलि-हरणम् । एतत् सर्वम् इष्टम् उच्यते, एतद् एव यदि काम्यम् अशान्ति-दं च तर्हि प्रवृत्ताख्यम् अपीत्य् अर्थः । आजीव्यं प्रपादि ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हुतं वैश्वदेवम् । प्रहुतं बलि-हरणम् । एतत् सर्वम् इष्टम् उच्यते । आजीव्यं प्रपादि ॥४९॥

—ओ)०(ओ—

॥ ७.१५.५०-५१ ॥

द्रव्य-सूक्ष्म-विपाकश् च धूमो रात्रिर् अपक्षयः ।

अयनं दक्षिणं सोमो दर्श ओषधि-वीरुधः ॥

अन्नं रेत इति क्ष्मेश पितृ-यानं पुनर्-भवः ।

एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥

**श्रीधरः : **प्रवृत्तेन कर्मणा आरोहावरोहाभ्याम् आवृत्ति-प्रकारम् आह—द्रव्यस्य चरु-पुरोडाशादेः सूक्ष्मो विपाकः । परिणामो देहान्तरारम्भको येन सम्परिष्वक्तो गच्छति य एव श्रुतौ अप्-शब्देनोक्तः । इति तु पञ्चम्याम् आहुतावापः पुरुष-वचसो भवन्ति [छा।उ। ५.३.३]इति । पाठान्तरे द्रव्य-शब्देन तेजो-मात्राशब्दोक्तानीन्द्रियाणि । उष्म-विपाक-शब्देन हृदयाग्र-प्रद्योतः । तथा च श्रुतिः—स इमास् तेजो-मात्राः समभ्याददानो हृदयम् एवान्वक्रामत् [बृ।आ।उ। ४.४.१] इति । तथा—तस्य हैतस्य हृदयाग्रं प्रद्योतते तेनैष आत्मा निष्क्रामति [बृ।आ।उ। ४.४.२]इति । धूमादि-शब्दस् तत्-तद्-अभिमानिन्यो देवताः तत्रापक्षयः कृष्ण-पक्षः । सोमः सोम-लोकः ।

तत्र भुक्त-भोगस्यावरोहण-प्रकारम् आह—दर्श इत्य् आदि । विपरीत-लक्षणया विशिष्ट-भोग-क्षय-शोकाग्निना देहलयेनादर्शनम् उच्यते । एतद् उक्तं भवति—भूत-सूक्ष्म-युक्तो धूमाद्य् आतिवाहिक-देवताभिः सोम-लोकं प्रापितस् तद्-भोगावसाने विलीन-देहो वृष्टि-द्वारेणौषधि-वीरुधादि-साम्यापत्ति-क्रमेण जायते।एवं पुनर्-भव-हेतुः पितृ-यानं प्रवृत्त-कर्म-मार्ग इति । क्ष्मेश हे भू-पते । पुनर्-भवम् एवाह—एकैकश्येन प्रत्येकं क्रमेण भूत्वा तत् तत् सान्निध्यं प्राप्येह भूमौ जायते ॥५०-५१॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **प्रवृत्तेन कर्मणा आरोहावरोहाभ्याम् आवृत्ति-प्रकारम् आह—द्रव्येति । सोम-पर्यन्तम् आरोहणे सोपानानि दर्शयति । प्रथमं द्रव्यस्य चरु-पुरोडाशादेः सूक्ष्मो विपाकः । परिणामो देहान्तरारम्भको, येन सम्परिष्वक्तो गच्छति, य एव श्रुतौ अप्-शब्देनोक्तः । तं प्रथमं प्राप्नोति, तथा हि—इह तुपञ्चम्याम् आहुतावापः पुरुष-वचसो भवन्ति [छा।उ। ५.३.३]इति । द्रव्यम् उष्म-विपाकश् चेति पाठे द्रव्य-शब्देन तेजो-मात्रा-शब्दोक्तानि इन्द्रियाणि उष्म-विपाक-शब्देन हृदयाग्र-प्रद्योतः । तदा च सत्-कर्म-साधकानीन्द्रियाणि प्रथमं प्राप्नोति, ततो धूमम् इत्य् एवं क्रमः । तथा च श्रुतिः—स इमास् तेजो-मात्राः समभ्याददानो हृदयम् एवान्वक्रामत् [बृ।आ।उ। ४.४.१]इति । तथा च—तस्य हैतस्य हृदयाग्रं प्रद्योतते तेनैष आत्मा निष्क्रामति [बृ।आ।उ। ४.४.२]इति । धूमादि-शब्दैस् तत्-तद्-अभिमानिन्यो देवता उच्यन्ते । ततो धूमाभिमानिनीं देवतां प्राप्नोति, ततो रात्र्य्-अभिमानिनीम् इत्य् एवम् । अपक्षयः कृष्ण-पक्षः । सोमश् चन्द्र-लोकः । धूमाद्य्-अतिवाहिक-देवताभिः सोमं लोकं प्राप्तिओ भोगान् भुङ्क्ते इत्य् अर्थः ।

तत्र भुक्त-भोगस्य तसावरोह-प्रकारम् आह—दर्श इति । चन्द्र-क्षयवत्यो अमावस्यया भोग-देह-क्षयो लक्षितः । ततो वृष्ट्य्-आदि-द्वारेणौषधि-वीरुधादिः, ततोऽयं तद् एव भुक्तं रेतः । हे क्ष्मेश ! उक्तम् अवरोह-प्रकारं व्याचष्टे—एकैकश्येनेति । क्रमेणौषध्य्-आदिकं भूत्वेत्य् अर्थः ॥५०-५१॥

—ओ)०(ओ—

॥ ७.१५.५२ ॥

निषेकादि-श्मशानान्तैः संस्कारैः संस्कृतो द्विजः ।

इन्द्रियेषु क्रिया-यज्ञान् ज्ञान-दीपेषु जुह्वति ॥

**मध्वः :**यज्ञाभिमानिनो देवान् स्मरन्तीन्द्रिय-मानिनाम् ।

वशगांस् तान् मनोमानि सुरेन्द्रस्य वशे स्थितान् ।
वेदात्मिकायाः पार्वत्यास् तां रुद्रस्य वशे स्थितान् ।
वर्ण-त्रयात्मकं रुद्रं शेषे तु प्रणवात्मके ।
बिन्दु-रूप सरस्वत्यां तं तां तस्यां पुनर् न्यसेत् ।
मूल-स्थानाद् अरूपायां तां वायौ तं जनार्दने ।
प्रकृताव् अथवा प्राणं ताम् एव पुरुषोत्तमे ॥ इति ब्रह्म-तर्के ॥५२॥

**श्रीधरः : **तत्राधिकारिणम् आह—निषेकादीति । अन्यस् त्व् इष्टादि-कार्य् अप्य् एवं जन्म न लभत इत्य् अर्थः । निवृत्त-कर्म-निष्ठस्योपासनादि-विशेषम् उपदिशन्न् अर्चिरादि-मार्गेण ब्रह्म-लोक-प्राप्तिम् आह—इन्द्रियेष्व् अत्यादिना । यद् वा, द्रव्य-यज्ञेषु हिंसाया दुर्निवारत्वाद् अति-मुख्यम् निवृत्तं कर्मैव दर्शयन्न् आह—ज्ञानेन दीप्यन्त इति तथा तेषु । इन्द्रिय-व्यापाराणाम् इष्टापूर्तादीनाम् इन्द्रिय-तावन्-मात्रतां भावयन्तीत्य् अर्थः । एवम् उत्तरत्रापि ॥५२॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **तत्र मुख्यं कर्माधिकारिणम् आह—निषेकादीति । प्रवृत्त-कर्म-निष्ठम् उक्त्वा निवृत्त-कर्म-निष्ठस्यार्चिर्-आदि-मार्गेण ब्रह्म-लोक-प्राप्तिम् आह—इन्द्रियेषु ज्ञानेन दीप्यन्त इति तेषु क्रिया-यज्ञान् जुह्वति । इन्द्रिय-व्यापार-मयत्वाद् इन्द्रिय-तावन्-मात्रतां भावयन्तीत्य् अर्थः । एवम् उत्तरत्रापि ॥५२॥

—ओ)०(ओ—

॥ ७.१५.५३ ॥

इन्द्रियाणि मनस्य् ऊर्मौ वाचि वैकारिकं मनः ।

वाचं वर्ण-समाम्नाये तम् ओंकारे स्वरे न्यसेत् ।

ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्य् अमुम् ॥

**श्रीधरः : **ऊर्मौ दर्शनादि-सङ्कल्प-रूपे मनसि । वैकारिकं विकार-युक्तं मनो वाचि । विध्यादि-लक्षणया वाचा हि मनः कर्तृत्वादि-विकारं भजति । वर्णानां समाम्नाये समुदाये । तद् विशेषत्वाद् वाचः । स्वरे अ-कारादि-स्वर-त्रयात्मके । ओ-कारं बिन्दौ तं च नादे । प्राणे सूत्रात्मनि । महति ब्रह्मणि ॥५३॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : ऊर्मौ दर्शनादि-सङ्कल्प-रूपे मनसि । वैकारिकं विकार-युक्तं मनो वाचि । विध्य्-आदि-लक्षणया वाचा हि मनः कर्तृत्वादि-विकारं भजति । वर्णानां समाम्नाये समुदाये । तद्-विषत्वाद् वाचः । स्वरे अ-कारादि-स्वर-त्रयात्मके । ओ-कारं बिन्दौ । तं च नादे । प्राणे सूत्रत्मनि । महति ब्रह्मणि ॥५३॥

—ओ)०(ओ—

॥ ७.१५.५४ ॥

अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्व-राट् ।

विश्वोऽथ तैजसः प्राज्ञस् तुर्य आत्मा समन्वयात् ॥

**मध्वः : **स्वराड् इन्द्रः ।

विश्वाद्या अनिरुद्धाद्यास् ते द्विधा सम्प्रकीर्तिताः ।
विष्णु-रूपास् तद् अन्ये च तान् सर्वान् याति मोक्षणः ॥
तद् अन्ये च दिवस्पुत्राः सर्वे च द्यु-समीपगाः ।
ते दिवं प्रापयन्त्य् एनं स वायुं स हरिं पृथक् ॥
विश्वादि-रूपं तुर्यं च वासुदेवश् च नापरः ॥इति च ।

अधिको भूत्वा सुखादिभिः । भक्तिमान् मार्गविन् नैव नीचां गतिम् अवाप्नुयात् ॥ इति च ॥५४॥

**श्रीधरः : **अग्निर् इति । तत्-तद्-अभिमानिन्यो देवतास् ताः । प्राप्नोतीति पूर्व-वत् । दिवाहः । प्राह्णस् तस्यैवान्तः । राका शुक्ल-पक्षस्यान्तः । यद् वा, प्राह्णो राका इति च पुराण-मतम् । उत्तरं त्व् अयनम् । स्वराट् ब्रह्मा । एवं ब्रह्म-लोकं गतस्य भोगावसानो मोक्ष-प्रकारम् आह—विश्व इति । विश्वः स्थूलोपाधिः स स्थूलं सूक्ष्मे विलाप्य सूक्ष्मोपाधिस् तैजसो भवति । सूक्ष्मं कारणे विलाप्य कारणोपाधिः प्राज्ञो भवति । कारणं च सर्व-साक्षित्वेनान्वयात् साक्षि-स्वरूपे विलाप्य तुर्यो भवति । तेषां च व्यभिचारिणां साक्ष्याणां लये शुद्ध आत्मा भवति । मुच्यत इत्य् अर्थः ॥५४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अग्निर् इति तत्-तद्-अभिमानिन्यो देवतास् ताः । प्राप्नोतीति पूर्ववत् । दिवाहःप्राह्णस् तस्यैवान्तः । शुक्लः शुक्ल-पक्षस्यान्तः । राका तस्यैवान्तः । उत्तरम् उत्तरायणम् । स्वराट् ब्रह्मा । एवं ब्रह्म-लोकं गतस्य तस्य भोगावसाने मोक्ष-प्रकारम् आह—विश्वः स्थूलोपाधिः सा स्थूलं सूक्ष्मे प्रविलाप्य कारणोपाधिः प्राज्ञो भवति । कारणं च सर्व-साक्षित्वेनान्वयात् साक्षि-स्वरूपे प्रविलाप्य तुर्य आत्मा भवति । तेषां च व्यभिचारिणां साक्ष्याणां प्रलये शुद्ध आत्मा भवति, मुच्यत इत्य् अर्थः ॥५४॥

—ओ)०(ओ—

॥ ७.१५.५५ ॥

देव-यानम् इदं प्राहुर् भूत्वा भूत्वानुपूर्वशः ।

आत्म-याज्य् उपशान्तात्मा ह्य् आत्म-स्थो न निवर्तते ॥

**श्रीधरः : **यथेतरो भूत्वा निवर्तते तथा न निवर्तत इत्य् अर्थः ॥५५॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : अर्चिर्-आदि-मार्ग-स्थो भूत्वा अनुपूर्वशः आनुपूर्व्य-क्रमेण ॥५५॥

—ओ)०(ओ—

॥ ७.१५.५६ ॥

य एते पितृ-देवानाम् अयने वेद-निर्मिते ।

शास्त्रेण चक्षुषा वेद जन-स्थोऽपि न मुह्यति ॥

श्रीधरः : वेदेन निर्मिते, ते धूमम् अभिसम्भवन्ति [बृ।आ।उ। ६.२.१६]इत्य् आदिना । ते अर्चिषम् अभिसम्भवन्ति [छा।उ। ५.१०.१]इत्य्-आदिना च, निश्चयेन विविच्य ज्ञापिते इत्य् अर्थः। **जन-स्थोऽपि **देहस्थोऽपि न मुह्यति ॥५६॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : वेदेन निर्मिते तेजसा ते धूमम् अभिसम्भवन्ति [बृ।आ।उ। ६.२.१६]इत्य्-आदिना । ते अर्चिषम् अभिसम्भवन्ति [छा।उ। ५.१०.१]इत्य्-आदिना च । जनस्थोऽपि देह-स्थोऽपि ॥५६॥

—ओ)०(ओ—

॥ ७.१५.५७ ॥

आदाव् अन्ते जनानां सद् बहिर् अन्तः परावरम् ।

ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस् त्व् अयं स्वयम् ॥

**मध्वः : **ग्लापकत्वात् तमः ॥५७॥

**श्रीधरः : **तत्र हेतुम् आह—आदाव् इति । जनानां देहानाम् आदौ कारणत्वेनान्ते चावधित्वेन यत् सत् तथा बहिर् भोग्यम् अन्तर् भोक्तृ परम् अवरं चोच्च-नीचम् । तमोऽप्रकाशः । ज्योतिः प्रकाशः । तत् तु सर्वम् अयं ज्ञानी स्वयम् एव न तस्माद् व्यतिरिक्तं वस्तु किञ्चिद् अस्ति येन मुह्येद् इत्य् अर्थः ॥५७॥

**क्रम-सन्दर्भः :**मोहाभाव-कारणं सर्वस्य परमात्मानन्यत्वं विवृणोति—आदाव् इति । यत् परमात्म-लक्षणं वस्तु, तत् सत् वर्तमानं, तदेव स्वयं बहिर् भोग्यम् । ज्योतिः प्रकाशश् च स्फुरति, नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः ॥५७॥

**परमात्म-सन्दर्भः ६२- **जगतस् तद्-अनन्यत्वे युक्तिं विवृणोति पञ्चभिः—आदाव् अन्ते इति । जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् परमात्म-लक्षणं सर्व-कारणं वस्तु सद् वर्तमानं, तद् एव स्वयं बहिर् भोग्यं अन्तर् भोक्तृ परावरं चोच्च-नीचं तमोऽप्रकाशः ज्योतिः प्रकाशश् च स्फुरति नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः ॥५७॥7

विश्वनाथः : अत्र सर्वं ब्रह्मेति भावेनैव मोहाभावेनैव हेतुर् इत्य् आह—आदाव् इति । जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् सत् स्वयं ब्रह्म तद् एव बहिर् भोग्यम् मायिकं वस्तु अन्तर् भोक्तृ जीव-वृन्दं परावरम् उत्कृष्ट-निकृष्टात्मकम् । ज्ञानम् इन्द्रियं ज्ञेयम् । शब्दादि-वचो घट-पटादि वाच्यम् । जात्य्-आदि-तमो-जीवस्याविद्या ज्योतिर् विद्या तस्मात् व्यतिरिक्तं वस्तु किम् अपि नास्ति येन मुह्येद् इति भावः ॥५७॥

—ओ)०(ओ—

॥ ७.१५.५८ ॥

आबाधितोऽपि ह्य् आभासो यथा वस्तुतया स्मृतः ।

दुर्घटत्वाद् ऐन्द्रियकं तद्वद् अर्थ-विकल्पितम् ॥

मध्वः : दुर्घटत्वाद् अर्थत्वेन परमेश्वरेणैव कल्पितम् ॥५८॥

**श्रीधरः : **ननु तर्हि कथं पृथग्-अर्थस् तस्यापि प्रतीयते ? तत्राह—आबाधितस् तर्क-विरोधेन सर्वतो बाधितोऽप्य् आभासः प्रतिबिम्बादिर् वस्तुतया यथा स्मृतस् तद्वद् ऐन्द्रियकं सर्वम् अर्थत्वेन विकल्पितं, न तु परमार्थतः, दुर्घटत्वात् ॥५८॥

क्रम-सन्दर्भः : ननु, कथं तर्हि तस्माद् अत्यन्त-पृथग् इवार्थ-जातं प्रतीयते? तत्राह—आबाधितः । आबाधितस् तर्क-विरोधेन आ सर्वतो बाधितः,8 स्वातन्त्र्य-सत्तायाः सकाशान् निरस्तोऽपि यथा आभासः सूर्यादि-प्रति-रश्मिर् बालादिभिः पृथक् प्रकाशमानता-दर्शनाद् वस्तुतया स्वतन्त्र-पदार्थतया स्मृतः कल्पितः, तद्वद् ऐन्द्रियकं सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं, तत् तु न तत्त्व-दृष्ट्या, स्वातन्त्र्य-निरूपणस्य दुर्घटत्वाद् इत्य् अर्थः ॥५८॥ परमात्म-सन्दर्भः (६३)

**विश्वनाथः : **ननु भोक्तृ-भोग्यादि-वस्तूनां सर्व-जनैर् पृथक्तया अर्थस् तस्यापि प्रतीयते ? तत्राह—आबाधितस् तर्क-विरोधेन सर्वतो बाधितोऽप्य् आभासः प्रतिबिम्बादिर् वस्तुतयायथा स्मृतः, तद्वद् ऐन्द्रियकं सर्वम् अर्थत्वेन विकल्पितं, न तु परमार्थतः, दुर्घटत्वात् ॥५८॥

—ओ)०(ओ—

॥ ७.१५.५९ ॥

क्षित्य्-आदीनाम् इहार्थानां छाया न कतमापि हि ।

न सङ्घातो विकारोऽपि न पृथङ् नान्वितो मृषा ॥

मध्वः : छाया-रीतिः प्रकारश् च भावश् चेत्य् अभिधीयते इति शब्द-निर्णये । क्षित्य्-आदीनां पदार्थानां कतमोऽपि प्रकारो न घटते, परमेश्वर-कल्पितत्वात् कार्यम् इत्य् एव वक्तुं युक्तम् । नहि सज्ञात-मात्रा पृथिवी न च विकार-मात्रं नहि कालुष्यादि-विकार-मात्रेण पृथिवी भवति । न चादेभ्यः पृथक् स्थितिः । न च वस्तु-द्वयवत् । सहावस्थान-मात्रम् ॥५९॥

**श्रीधरः : **तद् एवाह—क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्य्-आलम्बन-रूपं देहादि-सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि न भवति । तावत् तेषां सङ्घातो वृक्षाणाम् इव वनम् । एक-देशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकार आरब्धोऽवयवी । अपि-शब्दान् न परिणामोऽपि । कुतः ? स किं स्वावयवेभ्यः परिणतेभ्यो वा पृथक् तद्-अन्वितो वा । न तावद् अत्यन्तं पृथक्, तथाऽप्रतीतेः । न चान्वितः । स किं प्रत्यवयवं सर्वोऽप्य् अन्वेत्य् अंशेन वा । आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात् । द्वितीये तस्याप्य् अंशाङ्गीकारे सत्य् अनवस्था स्याद् अतो मृषा एवेत्य् अर्थः ॥५९॥

**क्रम-सन्दर्भः :**तद् एवाह द्वाभ्याम् । क्षित्य्-आदीनाम् इत्य्-आदिना । मृषैवेत्य् अर्थः इत्य् अन्तेन तैः ॥५९॥ 9

तत्र कुत इत्य् अन्ते स किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वेत्य् ऊह्यम् । अतो मृषेवेत्य् अत्र अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषैवेत्य् अर्थ इति ज्ञेयम् ॥५९॥]

**परमात्म-सन्दर्भः (६४): **तद् एवाह—क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्य्-आलम्बन-रूपं देहादि-सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि भवति । तावत् तेषां सङ्घातो वृक्षाणाम् इव वनं, एक-देशाकर्षणे सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च विकार आरब्धोऽवयवी । अपि-शब्दात् परिणामोऽपि ।

कुतः ? स किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वा ? तावद् अत्यन्तं पृथक् तथा अप्रतीतेः । अन्वितः

स किं प्रत्यवयवं सर्वोऽप्य् अन्वेति, अंशेन वा ? आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात्, द्वितीये तस्याप्य् अंशाङ्गीकारे सत्य् अनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर् मृषा एवेति ॥५९॥ (परमात्म-सन्दर्भ ६४)

**विश्वनाथः : **एतद् एवाह—क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्या आलम्बनं देहादिकं सङ्घातारम्भ-परिणामानां मध्ये कतमापि न भवति । न तावत् पञ्च-भूतानां सङ्घातो वृक्षाणाम् इव वनम् । एक-देशाकर्षणेन सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम् आकृष्यते । न च पञ्च-भूतानां विकारः, पञ्च-भूतैर् आरब्धोऽवयवीत्य् अर्थः । कुतः ? इति चेत् तत्राह—न पृथक् नान्वित इति । अवयवेभ्योऽवयवी न तावद् अत्यन्तं पृथक् । तथाऽप्रतीतेः । न च तेष्व् अन्वितः । स किं प्रत्यवयवम् अवयवी सर्वत्र एवान्वेत्य् अंशेन वा । आद्ये पाणौ पाण्य्-अङ्गुल्य्-आदौ वा देह-बुद्धौ वा तन्-नाशस्य देहो नष्ट इति प्रतीतिर् आपद्येत । द्वितीये अंशस्याप्य् अंशाङ्गीकारेऽनवस्था स्यात् । अपि-कारात् पञ्च-भूतानां परिणामोऽपि यतो न पञ्च-भूतेभ्यः स पृथक् । नापि तेष्व् अन्वित इत्य् अतो मृषैव मिथ्यैवेति विवर्त-वाद एवोपादेय इत्य् अर्थः ॥५९॥

—ओ)०(ओ—

॥ ७.१५.६० ॥

धातवोऽवयवित्वाच् च तन्-मात्रावयवैर् विना ।

न स्युर् ह्य् असत्य् अवयविन्य् असन्न् अवयवोऽन्ततः ॥

**मध्वः : **एवम् अवयवायविनोर् अपि ॥६०॥

**श्रीधरः : **एवं देहादेर् मिथ्यात्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि मिथ्यात्वम् आह—धारयन्तीति धातवो महा-भूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः । अवयवित्वात् तेषाम् अपि । तर्ह्य् अवयवः सत्य इति चेत् तत्राह उक्त-प्रकारेणावयविन्य् असत्यवयवोऽप्य् अन्ततोऽसन्न् इव स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना तत्-सद्-भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चम-स्कन्धे—एवं निरुक्तं क्षिति-शब्द-वृत्तम् [भा।पु। ५.१२.९] इत्य्-आदि ॥६०॥

**क्रम-सन्दर्भः : **एवं देहादेर् मिथ्यात्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि मिथ्यात्वम् आह—धारयन्तीति धातवो महा-भूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः । अवयवित्वात् तेषाम् अपि । तर्ह्य् अवयवः सत्य इति चेत् तत्राह उक्त-प्रकारेणावयविन्य् असत्यवयवोऽप्य् अन्ततोऽसन्न् इव स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना तत्-सद्-भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चम-स्कन्धे—एवं निरुक्तं क्षिति-शब्द-वृत्तम् [भा।पु। ५.१२.९] इत्य्-आदि ॥६०॥

**परमात्म-सन्दर्भ ६५ :**एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि तथैवानिरूप्यत्वम् आह—धातव इति ।

धारयन्तीति धातवो महा-भूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विनान स्युः, अवयवित्वात् । तेषाम् अपि तर्ह्य् अवयव एव स्वतन्त्र इति चेत् ? तत्राह उक्त-प्रकारेण अवयविनि निरूपयितुम् असतिअवयवोऽप्य् अन्ततो निरूपयितुम् असन्न् इव स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना परमाणु-लक्षणावयव-सद्-भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चमे—एवं निरुक्तं क्षिति-शब्द-वृत्तम् [भा।पु। ५.१२.९] इत्य्-आदि ।

तस्माद् ऐक्य-बुद्ध्य्-आलम्बन-रूपं यत् प्रतीयते, तत् सर्वत्र परमात्म-लक्षणं सर्व-कारणं वस्त्व् एवेति साधूक्तम् आदाव् अन्ते जनानां सत् [भा।पु। ७.१५.५७] इत्य्-आदिना ।

एवम् एव तृतीयेऽप्य् उक्तम्—

इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।
प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥
काल-संज्ञा ततो देवीं विभ्रच् छक्तिम् उरुक्रमः ।
त्रयोविंशतित्-तत्त्वानां गणं युगपद् आविशत् ॥
सोऽनुप्रविष्टो भगवांश् चेष्टा-रूपेण तं गणम् ।
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ [भा।पु। ३.६.१-३] इति ।

अत एव यस्य पृथिवी शरीरम् [बृ।आ।उ। ३.७.३] इत्य्-आदि-श्रुतौ सर्वस्य परमात्म-शरीरत्वेन प्रसिद्धिः, परमात्मनस् तु शरीरत्वेन । तद् एवम् अवयव-रूपेण प्रधान-परिणामः सर्वत्रावयवी तु परमात्म-वस्त्व् एवेति10 सिद्धम् । ततोऽप्य् अमिथ्यात्वम् एव जगत उपपद्येत ॥६०॥

**विश्वनाथः : **एवं देहादेर् मिथ्यात्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम् अपि मिथ्यात्वम् आह—धातव इति । धारयन्तीति धातवो महा-भूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न स्युः । अवयवित्वात् तेषाम् अपि तर्ह्य् अवयवः सत्य इति चेत् तत्राह—उक्त-प्रकारेणावयविन्य् असति अवयवोऽप्य् अन्ततोऽसन्न् एव स्यात् अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना तत् सद्-भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तम् पञ्चमे—एवं निरुक्तं क्षिति-शब्द-वृत्तम् [भा।पु। ५.१२.९] इत्य्-आदि ॥६०॥

—ओ)०(ओ—

॥ ७.१५.६१ ॥

स्यात् सादृश्य-भ्रमस् तावद् विकल्पे सति वस्तुनः ।

जाग्रत्-स्वापौ यथा स्वप्ने तथा विधि-निषेधता ॥

मध्वः : न च सादृश्य-मात्रम्, वस्तु-भेदे हि तद् युज्यते । तस्मात् स्वप्न एव जाग्रत्-स्वप्नौ यथा विशेषतो दृश्यते, तथा पृथिव्यावादि-विशेषो दुर्घटोऽपीश्वर-कल्पनयिवासौ दृश्यते ॥६१॥

श्रीधरः : नन्व् अवयविनोऽभावे आगमापायिषु बाल्यादिषु सोऽयं देवदत्त इति प्रत्यभिज्ञानं न स्यात् । तद् उक्तं भट्टैः, आविर्भाव-तिरोभाव-धर्मकेष्व् अनपायि यत् । तद् धर्मी इति तत्राह—स्याद् इति । वस्तुतः परमात्मनो विकल्पे भेदेऽसति । यद् वा, वस्तुनोऽविद्यया विकल्पे सति पूर्व-पूर्वारोप-सादृश्यात् स एवेति भ्रमः स्यात् । स च तावद् एव यावद् अविद्या-निवृत्तिः । ननु सर्व-मिथ्यात्वे शास्त्रस्य विधि-निषेधकता कथम् ? तत्राह—स्वप्न-मध्ये जाग्रत्-स्वाप-व्यवस्था यथेति ॥६१॥

**क्रम-सन्दर्भः, परमात्म-सन्दर्भ ६६- **ननु यदि परमात्म-वस्त्व् एव11 सर्वत्रावयवी देहः स्यात्, ततश् च तत्रैव ब्राह्मणत्वादि-संज्ञा-प्राप्तेर् गुण-दोष-हेतू विधि-निषेधाव् अपि स्यातां, तौ च न सम्भवतः । तस्माद् अन्य एवावयवी युज्यते इत्य् आशङ्क्याह—स्याद् इति ।

वस्तुनः परमात्मनो12विकल्पे संशये सति इति, तस्य तादृशत्वेन निर्णयो यावन् न स्यात् इत्य् अर्थः,तावद् एव तस्मात् सर्वैक्य-बुद्धि-निदानात् पृथग् देहैक्य-बुद्धिः सादृश्य-भ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति परस्परम् आसज्यैकत्र स्थितत्वेनावयवत्व-साधारण्येन चैक्य-सादृश्यात् प्रत्यवयवम् एकतया प्रतीतेः, सोऽयं देह इति भ्रम एव भवतीत्य् अर्थः, प्रतिवृक्षं तद् इदं वनम् इतिवत् । यथोक्तं स्वयं भगवता—

सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।
सोऽयं पुमान् इति नॄणां मृषा धीर् गीर् मृषायुषाम् ॥ [भा।पु। ११.२२.४५] इति ।

ततश् च तत्रैव ब्राह्मणत्वाद्य्-अभिमाने सति स्वप्न-विषयकौ जाग्रत्-स्वप्नाव् इव तद्-विषयकौ विधि-निषेधौ स्याताम् इत्य् आह—जाग्रद् इति । तथा तेन प्रकारेण विधेर् विधिता निषेधस्य निषेधता इत्य् अर्थः । एवं,

पर-स्वभाव-कर्मणि न प्रशंसेन् न गर्हयेत् ।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [भा।पु। ११.२८.१]

इत्य्-आदिर् एकादशाष्टविंशतितमाध्यायेऽपि ज्ञेयः । तत्र च, किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् [भा।पु। ११.२८.४] इत्य्-आदिकं स्यात् सादृश्य-भ्रमस् तावद् इत्य्-आद्य्-अनुसारेणैव व्याख्येयम् । अवस्तु यद् द्वैतं तस्येत्य् अर्थः । तस्मात् स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनोऽनन्यद् एव सर्वम् इति प्रकरणार्थः ॥६१॥

विश्वनाथः : ननु तद् अपि क्षित्य्-आदीनां सत्यत्वेन प्रतीतिः कुतो नयतीत्य् अत आह—स्याद् इति विकल्पे क्षित्य्-आदाव् असति मिथ्या-भूतेऽपि वस्तुनः सत्य-भूतस्य भगवन्-नित्य-धाम-क्षित्य्-आदीनां सादृश्येन भ्रमः । सत्यस्य जलस्य मरीचिकायाम् इवेत्य् अर्थः । यथैव सत्य एव तेजसि सत्यस्यैव जलस्य भ्रान्ति-मूलके आरोपे सति मरीचिका जलं भवेत् तथैव सत्य एव ब्रह्मणि सत्यस्यैव भगवद्-धाम-स्थ-क्षित्य्-आदेर् अज्ञान-मूलके आरोपे सति यद् इदं भवेद् इत्य् अर्थः । न च भगवद्-धाम्न्य् अपि विवर्तः प्रवर्तत इति तद् अप्य् असत्यम् इति वाच्यं, भू-गोल-चक्रे सप्त-पूर्यो भवन्ति । तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरीति[गो।ता।उ। २.२५] इति ।[गो।ता।उ।ई-श्रुत्या गोपाल-पुर्या ब्रह्म-स्वरूप-भूतत्व-प्रतिपादनात् । तासाम् इति निर्धारणे षष्ठ्या साक्षाद् इति ब्रह्मेति पदयोश् च वैयर्थ्याद् अन्य-वस्तूनाम् इव ब्रह्मणि गोपाल-पुर्यारोपितत्वम् इति व्याख्यातुम् अशक्यत्वात् ।

किं च, अर्वाचीना अद्वैत-वादिनस् तु माया-शक्त्य्-अतिरिक्ताम् अन्तरङ्गाह्लादिन्य्-आदि-शक्तिं तद्-विलासान् भगवन्-नित्य-धाम-क्षित्य्-आदींश् चामन्यमाना अन्ध-परस्परयैव विवर्ते मिथ्या-भूतस्यैव सादृश्य-भ्रमम् आचक्षाणा विगीयन्त एव ।

नन्व् एवं जगतो मिथ्यात्वे सर्वज्ञेनापि वेदेन विधि-निषेधौ कथम् उच्यते, न हि मरीचिका-जलस्य गुण-दोषौ विज्ञेनोपदिश्येते ? इत्य् अत आह—जाग्रत्-स्वप्नाव् इति । स्वप्न-मध्ये यथा जाग्रत्-स्वप्न-व्यवस्था तथैव मिथ्या-भूते जगति ताव् अपि मिथ्या-भूताव् एवेत्य् अर्थः । अविद्वद्-अधिकारित्वाद् इति—त्रैगुण्य-विषया वेदा निस्त्रै-गुण्यो भवार्जुन [गीता २.४५] इति ॥६१॥

—ओ)०(ओ—

॥ ७.१५.६२ ॥

भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः ।

वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥

**श्रीधरः : **इदानीम् उक्तम् एवाद्वैतं भावना-त्रयोपदेशेन दृढीकरोति—भावाद्वैतम् इति चतुर्भिः । वर्तयन्न् आलोचयन् । स्वानुभूत्या आत्म-तत्त्वानुभवेन । त्रीन् जाग्रद्-आदीन् । त्रय आवसथास् त्रयः स्वप्नाः [ऐ।उ। १.१२] इति श्रुतेः । यद् वा, वस्तु-भेद-बुद्धिर् एकः स्वप्नः । ततस् तत्-तद्-अधिकार-भेदेन कर्म-भेद-बुद्धिर् द्वितीयः । ततो मत्-कर्म-साधितम् एतत् फलं ममैव भोग्यम् इति तृतीयः । तान् धुनुते निवर्तयति ॥६२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इदानीम् उक्तम् एवाद्वैतं भावना-त्रयोपदेशेन दृढीकरोति—भावाद्वैतम् इति चतुर्भिः । वर्तयन्न् आलोचयन् स्वानुभूत्या आत्म-तत्त्वानुभवेन वस्तु-भेद-बुद्धिर् एकः स्वप्नः । ततस् तत्-तद्-अधिकार-भेदेन कर्म-भेद-बुद्धिर् द्वितीयः । मत्-कर्म-साधितम् एतत् फलं ममैव भोग्यम् इति तृतीयः । तान् धुनुते निवर्तयति ॥६२॥

—ओ)०(ओ—

॥ ७.१५.६३ ॥

कार्य-कारण-वस्त्व्-ऐक्य- दर्शनं पट-तन्तुवत् ।

अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तद् उच्यते ॥

**श्रीधरः : **कार्य-कारणयोर् वस्त्व्-ऐक्यस्य मर्शनम् आलोचनं तन्तुर् एव न पट इति ॥६३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कार्य-कारणयोर् वस्त्व्-ऐक्य-दर्शनम् आलोचनं तन्तुर् एव न पट इत्य् एवं जगत्-प्रकृत्योः कार्य-कारणयोर् ऐक्यम् ॥६३॥

—ओ)०(ओ—

॥ ७.१५.६४ ॥

यद् ब्रह्मणि परे साक्षात् सर्व-कर्म-समर्पणः ।

मनो-वाक्-तनुभिः पार्थ क्रियाद्वैतं तद् उच्यते ॥

**श्रीधरः : **मनो-वाक्-तनुभिः कृतानां कर्मणां समर्पणं, तैः समर्पणम् इति वा । उद्देश्य-फल-भेदो हि क्रिया-भेदे हेतुः, ईश्वरार्पणे च तद्-अभावात् क्रियाणाम् अद्वैतम् ॥६४॥

क्रम-सन्दर्भः :_असिद्ध-ज्ञानत्वात् तथापि स्व-धर्मम् एव कुर्याद् इत्य् आह—यद् इति ॥६४॥ _

**विश्वनाथः :**मनो-वाक्-तनुभिः कृतानां कर्मणां समर्पणं ब्रह्मणि अर्पणम् इति । उद्देश्य-फल-भेदो हि क्रिया-भेदे हेतुः, ईश्वरार्पणे च तद्-अभावात् क्रियाणाम् अद्वैतम् ॥६४॥

—ओ)०(ओ—

॥ ७.१५.६५ ॥

आत्म-जाया-सुतादीनाम् अन्येषां सर्व-देहिनाः ।

यत् स्वार्थ-कामयोर् ऐक्यं द्रव्याद्वैतं तद् उच्यते ॥

**श्रीधरः : **आत्मनः स्वस्य जायादीनां च स्वार्थश् च कामश् च तयोः देहादीनां पञ्च-भूतात्मकत्वेन भोक्तुश् च परमात्मत्वेनाभेदालोचनेनार्थ-कामयोर् यद् ऐक्य-दर्शनम् इत्य् अर्थः ॥६५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मनः स्वस्य जायादीनां च अन्येषां च स्व-सम्बन्ध-रहितानां स्वीयोऽर्थ-साधनं कामश् च तत् प्राप्यं यत् भोग्यं तयोः साधन-साध्ययोर् ऐक्याद् ऐक्य-भावनेति याव् एवार्थ-कामौ स्वस्य ताव् एव सर्वेषाम् एव देहादीनां पञ्च-भूतात्मकत्वेन ऐक्यात् सर्वेषाम् एव जीवात्मनां भोक्तृत्वेनैक्याद् भेदाभावाद् इति भावः ॥६५॥

—ओ)०(ओ—

॥ ७.१५.६६ ॥

यद् यस्य वानिषिद्धं स्याद् येन यत्र यतो नृप ।

स तेनेहेत कार्याणि नरो नान्यैर् अनापदि ॥

**श्रीधरः : **उक्तान् आश्रम-धर्मान् सङ्क्षिप्याह—यद् इति । यद् द्रव्यम् । येनोपायेन । यतः सकाशात् ॥६६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उक्तान् आश्रम-धर्मान् सङ्क्षिप्याह—यद् द्रव्यम् । येनोपायेन । यतः सकाशात् ॥६६॥

—ओ)०(ओ—

॥ ७.१५.६७ ॥

एतैर् अन्यैश् च वेदोक्तैर् वर्तमानः स्व-कर्मभिः ।

गृहेऽप्य् अस्य गतिं यायाद् राजंस् तद्-भक्ति-भाङ् नरः ॥

**श्रीधरः : **प्रस्तुतम् उपसंहरति—एतैर् इति । अस्य श्री-कृष्णस्य गतिम् । तद् भक्ति-भाक् तस्य भक्तः ॥६७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रस्तुतम् उपसंहरति—एतैर् इति । अस्य श्री-कृष्णस्य गतिं गृहे गृहस्थोऽपि यदि तद्-भक्ति-भाक् स्याद् इत्य् अर्थः ॥६७॥

—ओ)०(ओ—

॥ ७.१५.६८ ॥

यथा हि यूयं नृप-देव दुस्त्यजाद्

आपद्-गणाद् उत्तरतात्मनः प्रभोः ।

यत्-पाद-पङ्केरुह-सेवया भवान्

अहारषीन् निर्जित-दिग्-गजः क्रतून् ॥

**श्रीधरः : **एतत् सर्व-साधारणम् उक्तम्, भक्तस्य तु भक्तिर् एव सर्व-पुरुषार्थ-हेतुर् इति पाण्डवान् एव लक्षी-कृत्याह—यथा हीति । हे नृप-देव ! नृपैर् देवैश् च सहायैर् दुस्त्यजाद् इति वा । आत्मनः श्री-कृष्णाद् एव प्रभोर् हेतोः । अड-भाव आर्षः । उत्कर्षेणात्रतेत्य् अर्थः । यथा यथावत् तम् एव भजतेति शेषः । यद् वा, यथा आपद्-गणाद् उत्तीर्णस् त्वम् । यथा च क्रतूनहार्षीत् तथा श्री-कृष्णाद् एव तारकात् संसाराद् अप्य् उत्तरतेत्य् अर्थः ॥६८॥

क्रम-सन्दर्भः :_यथा, येन भक्ति-मात्र-प्रकारेणात्मनः स्वस्य यः प्रभुः श्री-कृष्णस् तस्माद् एव हेतोर् यूयम् आपद्-गणाद् उत्तरतोत्तरिष्यथ । तद् एव प्रत्यापयति—यद् इति ॥६८॥ _

**विश्वनाथः : **एषा च पञ्चाध्यायी सर्व-साधारण्येनैवोक्ता ऐकान्तिक-भक्तानां तु सिद्धानां साधकानां च भगवान् एव गतिः । तत्र च सिद्धान् स्वयम् अपरोक्षीभूत एव भगवान् स्व-प्रेम-तरङ्गे नर्तयितुम् सपद्-विपद्-आवर्त-गमितांस् तान् यथावद् एव कारयति, तथैव ते कुर्वन्ति तद्-अभिप्रेताचरणम् एव तेषां भजनम् इति तत्र पाण्डवान् एव प्रमाणिकुर्वन्न् आह—यथा हीति । नृपैर् देवैश् च सहायैर् दुस्त्यजाद् आपदां गणात् स्व-प्रभोर् ध्यानादि-लक्षणया चरण-सेवयैवोत्तरत उत्तरथेएत्य् अर्थः । यत् यथा च भवांस् तयैव क्रतून् अहार्षीत्, तथैवान्ये उग्रसेनादयोऽपि तं सेवन्ते इति शेषः । तेन मादृशो गृह-मूढ-धीर् इत्य् उक्त्वा स्वेषां गृहस्थ-कर्मिष्व् अन्तर्-भावो न भाव्य इति भावः ॥६८॥

—ओ)०(ओ—

॥ ७.१५.६९ ॥

अहं पुराभवं कश्चिद् गन्धर्व उपबर्हणः ।

नाम्नातीते महा-कल्पे गन्धर्वाणां सुसम्मतः ॥

मध्वः : अतीत-महा-कल्पे अतीत-ब्रह्म-कल्पे ब्रह्म-कालः परश् चेति महा-कल्पश् च कीर्तितः इति च ॥६९॥

**श्रीधरः : **श्री-कृष्ण-सेवा महताम् अवज्ञया भ्रश्यति तत् कृपया च सिध्यतीति दर्शयन् पूर्व-वृत्तातम् आह—अहम् इति सार्धैः पञ्चभिः । नाम्ना उपबर्हणः ॥६९॥

**क्रम-सन्दर्भः :तत्र स्वम् अपि दृष्टान्तयति—अहम् इत्य् आदिना । तत्राहम् इति युग्मकम् ॥६९॥ **

विश्वनाथः : यादृच्छिक-साधु-सङ्ग-लब्ध-भक्तीन् साधकांस् तु, धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः [भा।पु। ११.११.३२] इत्य्-आदि श्री-भागवत-शास्त्र-रूपेण स एव भगवान् यथादिशति, तथैव ते कुर्वन्ति । स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः [भा।पु। ११.१८.२८] इति भगवतोक्तं विधि-वाक्यम् एव प्रमाणीकुर्वन्तो वर्णाश्रमाचारादिकं नापेक्षन्ते । तत्र पूर्व-जन्म स्वम् एव प्रमाणीकुर्वन्न् आह—अहम् इति सार्धैः पञ्चभिः ॥६९॥

—ओ)०(ओ—

॥ ७.१५.७० ॥

रूप-पेशल-माधुर्य- सौगन्ध्य-प्रिय-दर्शनः ।

स्त्रीणां प्रियतमो नित्यं मत्तः स्व-पुर-लम्पटः ॥

**श्रीधरः : **पेशलं सौकुमार्यं रूपादिभिः प्रियं दर्शनं यस्य ॥७०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पेशलं चातुर्यम् ॥७०॥

—ओ)०(ओ—

॥ ७.१५.७१ ॥

एकदा देव-सत्रे तु गन्धर्वाप्सरसां गणाः ।

उपहूता विश्व-सृग्भिर् हरि-गाथोपगायने ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.७२ ॥

अहं च गायंस् तद्-विद्वान् स्त्रीभिः परिवृतो गतः ।

ज्ञात्वा विश्व-सृजस् तन् मे हेलनं शेपुर् ओजसा ।

याहि त्वं शूद्रताम् आशु नष्ट-श्रीः कृत-हेलनः ॥

**श्रीधरः, विश्वनाथः : **तद्-आह्वानं विद्वान् । उन्मत्तः सन् गायन्न् एव गतः ॥७२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.७३ ॥

तावद् दास्याम् अहं जज्ञे तत्रापि ब्रह्म-वादिनाः ।

शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्म-पुत्रताम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत्रापि शूद्र-जन्मन्य् अपि । यद् वा, तादृशाभिशापे सति । अत्र तादृशेतिहास-कथनं भक्तेः प्राग्-भाव-ज्ञापनार्थम् । अनुषङ्गेन पुनः पुनः सङ्गेन अनुकूलेन सङ्गेन वा ॥७३॥

—ओ)०(ओ—

॥ ७.१५.७४ ॥

धर्मस् ते गृह-मेधीयो वर्णितः पाप-नाशनः ।

गृहस्थो येन पदवीम् अञ्जसा न्यासिनाम् इयात् ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः :येनैव भक्ति-मात्र-प्रकारेण नारदत्वम् अपि लब्धवान् अहम् इति प्रकरणार्थः ॥**७४॥

—ओ)०(ओ—

॥ ७.१५.७५ ॥

यूयं नृ-लोके बत भूरि-भागा

लोकं पुनाना मुनयोऽभियन्ति ।

येषां गृहान् आवसतीति साक्षाद्

गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥

अत्र यथा श्लोकं पुनः भागवते ७.१०.४८-५० साङ्ख्य-पद्य-जातं द्रष्टव्यम् । पुनर्-उक्तिः खल्व् इत्य् आदराद् इति ज्ञेयम् ॥

**श्रीधरः : **त्वं तु कृतार्थ एवेति हर्षेण पुनः पूर्व-श्लोकान् एव पठति—यूयम् इति । शेषं स्पष्टम् ॥७५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यूयं तु प्रह्लादादि-सर्व-भक्तेभ्यो यथा-श्रेष्ठास् तथा विप्रादि-वर्णेभ्यो ब्रह्मचर्याद्य्-आश्रमेभ्यश् च परम-श्रेष्ठा इति व्यञ्जयन् पूर्वोक्ताम् एव श्लोक-त्रयीं पुनर् आह—यूयम् इति ॥७५॥

—ओ)०(ओ—

॥ ७.१५.७६ ॥

स वा अयं ब्रह्म महद्-विमृग्य-

कैवल्य-निर्वाण-सुखानुभूतिः ।

प्रियः सुहृद् वः खलु मातुलेय

आत्मार्हणीयो विधि-कृद् गुरुश् च ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.७७ ॥

न यस्य साक्षाद् भव-पद्मजादिभी

रूपं धिया वस्तुतयोपवर्णितम् ।

मौनेन भक्त्योपशमेन पूजितः

प्रसीदताम् एष स सात्वतां पतिः ॥

**श्रीधरः- **अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्याः इति विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिः । न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद्-दर्शनार्थं मुनयस् तद्-गृहान् अभियन्ति । न च तस्य ब्रह्म मातुलेयादि-रूपेआ वर्तते । न च स्वयम् एव प्रसन्नम् । अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागाः इति भावः ॥७७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१५.७८ ॥

श्री-शुक उवाच

इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः ।

पूजयाम् आस सुप्रीतः कृष्णं च प्रेम-विह्वलः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कृष्णं च-कारान् नारदं च । त्वम् एवं-भूतो मम भ्रातेति प्रेम्णा विह्वलः ॥७८॥

—ओ)०(ओ—

॥ ७.१५.७९ ॥

कृष्ण-पार्थाव् उपामन्त्र्य पूजितः प्रययौ मुनिः ।

श्रुत्वा कृष्णं परं ब्रह्म पार्थः परम-विस्मितः ॥

**श्रीधरः : **कृष्ण-पार्थाव् इति । पूर्वं तावद् बृहत्त्व-ज्ञानेन विस्मृत आसीद् एव, अधुना तु परम-बृहत्त्व-ज्ञानेन परम-विस्मित आसीद् इत्य् अर्थः ॥७९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कृष्ण-पार्थौ कृष्णार्जुनौ कृष्ण-युधिष्ठिरौ वा प्रयाण-समये पुनर् अपि **पूजितः ॥७९॥ **

—ओ)०(ओ—

॥ ७.१५.८० ॥

इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः ।

देवासुर-मनुष्याद्या लोका यत्र चराचराः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

पञ्चदशः सप्तमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

युधिष्ठिर-नारद-संवादः

पञ्चदशोऽध्यायः ।

॥ ७.१५ ॥


  1. विलक्षण-प्रकाश-स्थानत्वाद् इति भक्ति-सन्दर्भे। ↩︎

  2. तन्-निवास- ॥। तथा च स्कान्दे इति क्रम-सन्दर्भे नास्ति। ↩︎

  3. श्लोकस्यैष चरणः क्रम-सन्दर्भे नास्ति। ↩︎

  4. दानं इति क्वचित्। ↩︎

  5. थेसे वेर्सेस् अरे अल्सो फ़ोउन्द् इन् भक्ति-सन्दर्भ २९४। ↩︎

  6. प्रणवो धनुः शारो ह्य् आत्मा ब्रह्म तल् लक्ष्यम् उच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्-मयो भवेत् ॥ [मु।उ। २.२.४] ↩︎

  7. पाठान्तरः—मोहाभाव-कारणं सर्वस्य परमात्मानन्यत्वं विवृणोति—आदाव् इति । यत् परमात्म-लक्षणं वस्तु तत् सत् वर्तमानं, तद् एव स्वयं बहिर् भोग्यम् । ज्योतिः प्रकाशश् च स्फुरति, नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः ॥५७॥ ↩︎

  8. थिस् सेन्तेन्चे फ़्रोम् परमात्म-सन्दर्भ। ↩︎

  9. थिस् इस् थे पुरिदस् रेअदिन्ग्। इ अम् नोत् सुरे wहेरे थे ओथेर् पर्त् चमे फ़्रोम्। हवे तो लोओक् अरोउन्द्। ↩︎

  10. परमात्म-चैतन्यम् एवेति (ख, ङ, ज) ↩︎

  11. परमात्म-चैतन्यम् एव (ख, ङ, ज) ↩︎

  12. परमात्म-चैतन्यस्य (ख, ङ, ज) ↩︎