१४ सदाचार-निर्णये

॥ ७.१४.१ ॥

युधिष्ठिर उवाच—

गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।
यायाद् देव-ऋषे ब्रूहि मादृशो गृह-मूढ-धीः ॥**

श्रीधरः :

चतुर्दशे गृहस्थस्य परमे धर्म ईर्यते ।

देश-कालादि-भेदेन पुनः श्रेयो-विशेष-कृत् ॥

गृह-स्थम् उल्लङ्घ्य मोक्षं प्रत्य् अन्तरङ्गत्वेन प्रथमं वन-स्थ-यति-धर्मेष्व् अभिहितेषु, तर्हि गृह-स्थस्य मोक्षो न स्याद् इति शङ्कित-चित्तः पृच्छति—गृहस्थ इति ॥१॥

**क्रम-सन्दर्भः : **गृहस्थ इति युग्मकम् ।

विश्वनाथः :

निवृत्तं तिर्षु निर्वर्ण्य प्रवृत्तस् तु गृहाश्रमे ।

देश-कालादि-भेदेन धर्म उक्तश् चतुर्दशे ॥

तद् एवं व्रतचारि-वानप्रस्थ-यतिषु तिर्ष्व् अधिकारिषु निवृत्त-धर्मम् उक्त्वा प्रवृत्त-धर्मम् एकस्मिन् गृहस्थ एवाधिकारिणि वक्तुं प्रवर्तमानं मुनिं प्रत्यलं प्रवृत्त-धर्मेण जन्म-मृत्यु-प्रवाहानुकूलेन वक्तव्येन, यदि च प्रवृत्त-धर्मेणापि निवृत्ति-धर्म-फलं मोक्षः सिद्ध्येत्, तर्हि तं ब्रूहीत्य् आशयेनाह—गृहस्थ इति ॥१॥

**—**ओ)०(ओ—

॥ ७.१४.२-३ ॥

श्री-नारद उवाच—

गृहेष्व् अवस्थितो राजन् क्रियाः कुर्वन् यथोचिताः ।
वासुदेवार्पणं साक्षाद् उपासीत महा-मुनीन् ॥**

शृण्वन् भगवतोऽभीक्ष्णम् अवतार-कथामृतम् ।
श्रद्दधानो यथा-कालम् उपशान्त-जनावृतः ॥**

**श्रीधरः : **तस्य मोक्ष-धर्मान् आह—गृहेष्व् इत्य्-आदि यावद् अध्याय-समाप्ति । साक्षाद् वासुदेवार्पणं यथा भवत्य् एवं कुर्वन्न् उपासीत् ॥२॥

**क्रम-सन्दर्भः : **साक्षाद् इति । तत्-प्रीत्य्-अर्थम् एव, न तु फल-साद्वर्ण्यार्थम् इत्य् अर्थः ॥२॥

**विश्वनाथः : **वासुदेवार्पणं यथा स्यात् तथा कुर्वन् महा-मुनीन् उपासीत । यथा-कालं काले काले अपराह्णादौ । उपशान्त-जनावृतः सन् कृतष्टमृतम् अभीक्ष्णं शृण्वन्, न तु कथा-चरणारविन्द-काले वार्तान्तरं शृण्वन्न् इत्य् अर्थः ॥२॥

**—**ओ)०(ओ—

॥ ७.१४.४ ॥

सत्-सङ्गाच् छनकैः सङ्गम् आत्म-जायात्मजादिषु ।
विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवद् उत्थितः ॥**

**श्रीधरः : **स्वयम् एव मुच्यमानेषु वियुज्यमणेषु । यथा स्वप्नाद् उत्थितः पुमान् स्वप्न-दृष्टेषु पुत्रादिषु सङ्गं विमुञ्चति तद्वत् ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्वयम् एव मुच्यमानेषु वियुज्यमणेषु । यथा उत्थितः प्रबुद्धः पुमान् स्वप्न-दृष्टेषु सङ्गं विमुञ्चति तद्वत् ॥४॥

**—**ओ)०(ओ—

॥ ७.१४.५ ॥

यावद्-अर्थम् उपासीनो देहे गेहे च पण्डितः ।
विरक्तो रक्तवत् तत्र नृ-लोके नरतां न्यसेत् ॥**

**श्रीधरः : **नन्व् एवं-भूतस्य दुर्जनैर् अभिभूयमानस्य कुतो गृहोचिताः क्रियाः स्युस् तत्राह—यावद् अर्थम् इति । अन्तस् त्व् अनासक्तो बहिस् त्व् आसक्त इव नृ-लोके जन-मध्ये नरतां मनुष्यतां न्यसेत् । पुरुष-कारम् आविष्कुर्याद् इत्य् अर्थः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उपासीनो भोग्यादि-वस्तुनीति शेषः । देहे गेहे च विषये पण्डित इति तत्र तत्र औदासीन्येन वर्तमान इत्य् अर्थः । रक्तवत् अन्तर् विरक्तो बहिस् त्व् आसक्तवत् । तत्र गृह-मध्य-वर्तिनि । नरतां पुरुषत्वं न्यसेत्, पुरुषाकारम् आविष्कुर्याद् । हेतु ॥५॥

**—**ओ)०(ओ—

॥ ७.१४.६ ॥

ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे ।
यद् वदन्ति यद् इच्छन्ति चानुमोदेत निर्ममः ॥**

**श्रीधरः : **आग्रहं तु क्वापि न कुर्याद् इत्य् आह—ज्ञातय इति ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निर्ममोऽनासक्त एव नौमोदेत ॥६॥

**—**ओ)०(ओ—

॥ ७.१४.७ ॥

दिव्यं भौमं चान्तरीक्षं वित्तम् अच्युत-निर्मितम् ।
तत् सर्वम् उपयुञ्जान एतत् कुर्यात् स्वतो बुधः ॥**

**श्रीधरः : **नन्व् एवं सर्वानुमोदने वित्त-क्षय-प्रसङ्गात् कुतो जीवनं कुतो वा कर्म-करणं तत्राह—दिव्यं वृष्ट्य्-आदिभिर् जातं धान्यादि । भौमं निधानादि । आन्तरिक्षम् अकस्माद् एव प्राप्तम् । एवं स्वत एवाच्युत-निर्मित-दैव-लब्धं यत् । एतत् पूर्वोक्तं कर्मादि ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दिव्यं वृष्ट्य्-आदिभिर् जातं धान्यादि । भौमम् आकराद्य्-उत्थम् । आन्तरीक्षम् अकस्मात् प्राप्तम् । तत्-तद्-रूपत्वेन सर्वम् अच्युतेनैव विनिर्मितम् अतो वित्तार्थं नैव चिन्तां कुर्याद् इत्य् अर्थः । एतत् पूर्वोक्तं नित्य-नैमित्तिकादि । स्वतः स्वं वित्तं तेनेत्य् अर्थः ॥७॥

**—**ओ)०(ओ—

॥ ७.१४.८ ॥

यावत् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डम् अर्हति ॥**

**श्रीधरः : **दैवाद् भूरि-लभे जातेऽपि तत्राभिमानो न कार्य इत्य् आह—यावद् इति । भ्रियेत पूर्येत ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दैवाद् भूरि-लाभे जातेऽपि न तत्राभिमानो नापि यथेष्टोपभोगः कार्य इत्य् आह—यावत् यावता भ्रियेत पूर्येत ॥८॥

**—**ओ)०(ओ—

॥ ७.१४.९ ॥

मृगोष्ट्र-खर-मर्काखु-सरीसृप्-खग-मक्षिकाः ।
आत्मनः पुत्रवत् पश्येत् तैर् एषाम् अन्तरं कियत् ॥**

**श्रीधरः : **अत एव यं कम् अपि स्व-गृहं क्षेत्रं वा प्रविश्य भुञ्जानं न निवारयेद् इत्य् आह—मृगेति । मर्को मर्कटः । सरीसृप् सर्पः । मक्षिकाश् च । तैः पुत्रैर् एषां मृगादीनां कियद् अन्तरम् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुत्रवद् इति । यथा पुत्रेभ्यो भोज्यं विभजेत्, तथैव यथोचितम् एभ्योऽपि विभजेद् इत्य् अर्थः ॥९॥

**—**ओ)०(ओ—

॥ ७.१४.१० ॥

त्रि-वर्गं नातिकृच्छ्रेण भजेत गृह-मेध्य् अपि ।
यथा-देशं यथा-कालं यावद्-दैवोपपादितम् ॥**

**श्रीधरः : **अतिकृच्छ्रेणापाद्य न भजेत्, किन्तु यावद् दैव-प्रापितं तावद् एव भजेत् ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अतिकृच्छ्रेण सम्यक् सम्पाद्य न भजेत्, स्वल्पायासेनैव दैव-प्रापितं यावत्, तावद् एव, न तु भूरि-सम्भारम् अपेक्षेतेत्य् अर्थः । अपि-काराद् ब्रह्मचर्यादिस् तु गुरु-कृत्यादिषु किम् उतेति भावः ॥१०॥

**—**ओ)०(ओ—

॥ ७.१४.११ ॥

आश्वाघान्तेऽवसायिभ्यः कामान् संविभजेद् यथा ।
अप्य् एकाम् आत्मनो दारां नृणां स्वत्व-ग्रहो यतः ॥**

**श्रीधरः : **श्वानश् च अघाश् च पतिताः अन्ते-वसायिनश् चाण्डालादयस् तान् अभिव्याप्य यथार्हं कामान् संविभजेत् स्व-भोज्याद् विभज्य दद्यात् । यद्य् अप्य् एकैवात्मनो दारा भार्या तस्याम् अतिथि-शुश्रूषणे नियुक्तायां स्वस्य शुश्रूषा हीयेत । यस्यां च नृणां स्वत्व् अग्रहो ममैवेयम् इत्य् आग्रहस् ताम् एकाम् अपि संविभजेत् । अतिथि-शुश्रूषणे नियुञ्जीतेत्य् अर्थः, न त्व् अन्यथा मन्तव्यम् । यथार्हं विभजेद् इत्य् उक्तत्वात् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्वानश् च अघाः पतिताश् च अन्तेवसायिनश् च चण्डालादयः तान् अप्य् अभिव्याप्य यथार्हं कामान् स्व-भोग्यान् । दाराम् इति स्त्रीत्वैकत्वे आर्षे । यद्यप्य् एकैवात्मनः सैव भार्या तस्याम् अतिथि-शुश्रूषणे नियुक्तायां स्वस्य शुश्रूषा हीयते, तद् अपि ताम् अपि विभजेत्, अतिथ्यादि-शुश्रूषणे नियुञ्जीतैव । न त्व् अन्यथा मन्तव्यं यथार्हं संविभजेद् इत्य् उक्तत्वातिति श्री-स्वामि-चरणाः । अन्ये त्व् अन्यथापी व्याचक्षते । यत् यस्याम् ॥११॥

**—**ओ)०(ओ—

॥ ७.१४.१२ ॥

जह्याद् यद्-अर्थे स्वान् प्राणान् हन्याद् वा पितरं गुरुम् ।
तस्यां स्वत्वं स्त्रियां जह्याद् यस् तेन ह्य् अजितो जितः ॥**

**श्रीधरः : **एवं चेत् तेनेश्वरो वशी-कृतः स्याद् इत्य् आह—जह्याद् इति । यद् अर्थे यन् निमित्तम् । अन्यैर् अजितोऽपीश्वरस् तेन जित एव ।

**क्रम-सन्दर्भः : **एवं चेत् तेनेश्वरो वशीकृतः स्याद् इत्य् आह—जह्याद् इति । यद्-अर्थे यन्-निमित्तम् । अन्यैर् अजितोऽपीश्वरस् तेन जित एव ॥१२॥

विश्वनाथः : स्व-भार्यायाम् अभिमान-त्यागोऽतिदुष्कर इत्य् आह—जह्याद् इति ॥१२॥

**—**ओ)०(ओ—

॥ ७.१४.१३ ॥

कृमि-विड्-भस्म-निष्ठान्तं क्वेदं तुच्छं कलेवरम् ।
क्व तदीय-रतिर् भार्या क्वायम् आत्मा नभश्-छदिः ॥**

मध्वः : नभच्छदिः नभो व्याप्य स्थितः परमात्मा ॥१३॥

**श्रीधरः : **ननु कथम् एवं तस्यां स्वत्व् आभिमानो हातुं शक्यस् तत्त्व-विचारेणेत्य् आह—कृमि-विड्-भस्मसु निष्ठा पर्यवसानम् अन्ते यस्य । तदीया देहार्था रतिर् यस्यां सा स्व-महिम्ना नभोऽपि च्छादयतीति तथा ॥१३॥

**क्रम-सन्दर्भः : **आत्मा परमात्मा ॥१३॥

विश्वनाथः : तस्याम् अभिमान-त्यागे विवेकं दर्शयति—कृमि-विड्-भस्मसु निष्ठा प्रयवसानम् अन्ते यस्य तदीया रतिर् यस्यां सा क्व ? आत्मा परमेश्वरः स्व-महिम्ना नभोऽपि छादयति स क्व ? इति यदि तस्याम् अभिमान-त्यागेनैव स प्राप्यते तर्हि कियद् एतत् इति भावः ॥१३॥

**—**ओ)०(ओ—

॥ ७.१४.१४ ॥

सिद्धैर् यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिम् आत्मनः ।
शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महताम् इयात् ॥**

**श्रीधरः : **किं च, सिद्धैर् दैव-लब्धैर् यज्ञावशिष्टार्थैः पञ्च-यज्ञ-शेषैर् अन्नादिभिः । महतां निवृत्तानाम् ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यावता उदर-भरणं स्यात् तावत्य् एव वस्तुनि अभिमाणं कुर्याद् इति यत् पूर्वोक्तं तत्रापि व्यवस्थाम् आह—सिद्धैर् दिव्य-भौमान्तरीक्षैर् यज्ञावशिष्टार्थैः पञ्च-यज्ञ-शेषैर् अन्नादिभिः ॥१४॥

**—**ओ)०(ओ—

॥ ७.१४.१५ ॥

देवान् ऋषीन् नृ-भूतानि पितॄन् आत्मानम् अन्वहम् ।
स्व-वृत्त्यागत-वित्तेन यजेत पुरुषं पृथक् ॥**

**श्रीधरः : **एतद् विवृण्वन्न् आह—देवादीन् पञ्च-यज्ञ-देवताः आत्मानं च । एवं पृथक् पुरुषम् अन्तर्यामिणम् एव यजेत ॥१५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

**—**ओ)०(ओ—

॥ ७.१४.१६ ॥

यर्ह्य् आत्मनोऽधिकाराद्याः सर्वाः स्युर् यज्ञ-सम्पदः ।
वैतानिकेन विधिना अग्नि-होत्रादिना यजेत् ॥**

न कतमेनापि व्याख्यातम्।

**—**ओ)०(ओ—

॥ ७.१४.१७ ॥

न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् ।
इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥**

**श्रीधरः : **न पुनर् अतिनिर्बन्धो यज्ञार्थं कार्य इत्य् आह—न हीति । विप्र-मुखे हुतैर् अन्नादिभिर् यथा इज्येत पूज्येत न तथाग्नि-मुखतो हविषा इज्येत ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **न पुनर् अतिनिर्बन्धो यज्ञार्थम् एव इत्य् आह—न हीति । यथा विप्र-मुखे हुतैर् अन्नादिभिर् इज्येत, तथा नाग्नि-मुखे इज्येतेत्य् अर्थः ॥१७॥

**—**ओ)०(ओ—

॥ ७.१४.१८ ॥

तस्माद् ब्राह्मण-देवेषु मर्त्यादिषु यथार्हतः ।
तैस् तैः कामैर् यजस्वैनं क्षेत्र-ज्ञं ब्राह्मणान् अनु ॥**

**श्रीधरः : **ब्राह्मणेषु च देवेषु पञ्च-यज्ञ-देवतासु च मर्त्यादिष्व् अन्येष्व् अपि नरेषु पश्वादिषु च । क्षेत्र-ज्ञम् अन्तर्यामिणम् । ब्राह्मणान् अनु मर्त्यादि-यजने ब्राह्मण-यजनानन्तरम् अन्येषु यजस्व । पाठान्तरे ब्राह्मणा आननं यस्य तम् ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ब्राह्मणा एव देवास् तेषु भोज्य-दानैः क्षेत्रज्ञं परमेश्वरं यजस्व । ब्राह्मणान् अनु ब्राह्मण-पूजानन्तरं मर्त्यादिषु च । ब्राह्मणाननम् इति पाठः स्पष्टः ॥१८॥

**—**ओ)०(ओ—

॥ ७.१४.१९ ॥

कुर्याद् अपर-पक्षीयं मासि प्रौष्ठ-पदे द्विजः ।
श्राद्धं पित्रोर् यथा-वित्तं तद्-बन्धूनां च वित्तवान् ॥**

**श्रीधरः, विश्वनाथः : **प्रौष्ठ-पदे भाद्र-पदे ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**—**ओ)०(ओ—

॥ ७.१४.२०-२३ ॥

अयने विषुवे कुर्याद् व्यतीपाते दिन-क्षये ।
चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥**

तृतीयायां शुक्ल-पक्षे नवम्याम् अथ कार्तिके ।
चतसृष्व् अप्य् अष्टकासु हेमन्ते शिशिरे तथा ॥**

माघे च सित-सप्तम्यां मघा-राका-समागमे ।
राकया चानुमत्या च मासर्क्षाणि युतान्य् अपि ॥**

द्वादश्याम् अनुराधा स्याच् छ्रवणस् तिस्र उत्तराः ।
तिसृष्व् एकादशी वासु जन्मर्क्ष-श्रोण-योग-युक् ॥**

**मध्वः :**सप्तम्य्-आदि-त्रयं चैव तथा चैत्र-त्रयोदशी ।

चतस्रस् त्व् अष्टकाः प्रोक्ताः सर्व-पक्षाद् विशेषतः ॥ इति च व्यास-स्मृतौ ।
हेमन्ते शिशिरे चैव नित्य-शास्त्रं [गो।ता।उरस-शास्त्रम् ॥ इति च ॥२१॥

**श्रीधरः :**शुक्ल-पक्षे । अक्षय्य-तृतीयायाम् इत्य् अर्थः । हेमन्ते शिशिरे च मार्ग-शीर्षादि-मास-चतुष्टयेऽपि याश् चतस्रोऽष्टकास् तासु ।

सम्पूर्ण-चन्द्रा पौर्णमासी राका । न्यून-चन्द्रा सैवानुमतिः । तथा मासर्क्षाणि तत् तन् मास-नाम-प्रवृत्ति-निमित्तानि नक्षत्राणि युतानि यदा स्युस् तदा । तद् उक्तं त्रि-काण्ड्याम्—

पूष्य-युक्ता पौर्णमासी पौषी मासे तु यत्र सा ।
नाम्ना स पौषो माघाद्य्-आश्वैवम् एकादशापरे ॥इति ।

अनुराधा श्रवण उत्तरा-फाल्गुनी उत्तरा-षाढा उत्तरा-भाद्र-पदा वा द्वादश्यां यदा स्यात् । आसूत्तरास्व् एकादशी वा यदा स्यात् तदा च । जन्मर्क्ष-श्रोण-योग-युक् जन्म-नक्षत्रस्य श्रवणस्य वा योगेन युक्तं दिनं यदा तदा । योग-ग्रहणं संबन्ध-बाहुल्यार्थम् ॥२१-२४॥

**क्रम-सन्दर्भः : **अयने इति चतुष्कम् । तिसृष्व् एकादशी चापिति, तत्रोपवासा ग्राह्याः वैष्णवानाम् तत्र श्राद्ध-निषेधात् । तथा हि ब्रह्म-यामले—श्राद्धं चैकादशी-दिने इति दीक्षा-सङ्कल्प-निषेधः । ब्रह्म-वैवर्ते—

ये कुर्वन्ति महीपाल श्राद्धं चैकादशी-दिने ।
त्रयस् ते नरकं यान्ति दाता भोक्ता च प्रेरकः ॥ इति ।

पाद्मोत्तर-खण्डे—

एकादश्याऽस्तु प्राप्तायां माता-पित्रोर् मृतेऽहनि ।
तद् दिनं तु परित्यज्य द्वादश्यां श्राद्धम् आचरेत् ।

पुष्कर-खण्डे—

एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् ।
तद् दिनं तु परित्यज्य द्वादश्यां श्राद्धम् आचरेत् ॥इति ॥२०-२३॥

विश्वनाथः : अयने विषुवे च कुर्याद् इति श्राद्धम् इति पूर्वस्यानुषङ्गः । एवम् अग्रेऽपि शुक्ल-पक्षे अक्षय-तृतीयायाम् इत्य् अर्थः । हेमन्ते शिशिरेषु च याश् चतस्रोऽष्टका

**—**ओ)०(ओ—

॥ ७.१४.२४ ॥

त एते श्रेयसः काला नॄणां श्रेयो-विवर्धनाः ।
कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तद्-आयुषः ॥**

**श्रीधरः : **न केवलं श्राद्धस्यैवैते कालाः किन्तु धर्म-मात्रस्येत्य् आह—त एत इति द्वाभ्याम् । तद् एवायुषः अमोघं साफल्यम् इत्य् अर्थः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्रेयसो धर्म-मात्रस्यैव न केवलं श्राद्ध-मात्रस्येत्य् अर्थः । तदैव आयुषः अमोघम् अमोघत्वम् ॥२४॥

**—**ओ)०(ओ—

॥ ७.१४.२५ ॥

एषु स्नानं जपो होमो व्रतं देव-द्विजार्चनम् ।
पितृ-देव-नृ-भूतेभ्यो यद् दत्तं तद् ध्य् अनश्वरम् ॥**

न कतमेनापि व्याख्यातम्।

**—**ओ)०(ओ—

॥ ७.१४.२६ ॥

संस्कार-कालो जायाया अपत्यस्यात्मनस् तथा ।
प्रेत-संस्था मृताहश् च कर्मण्य् अभ्युदये नृप ॥**

**श्रीधरः : **संस्कार-काल इति । जायायाः पुंसवनादि । अपत्यस्य जात-कर्मादि । आत्मनो यज्ञ-दीक्षादि । प्रेतस्य संस्था दहनादि । मृताहश् च सांवत्सरिकं यदा । अन्यस्मिन्न् अप्य् अभ्युदयार्थे । कर्मणि श्रेयः कुर्याद् इत्य् अनुषङ्गः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**संस्कार-काल इति । जायायाः पुंसवनादि । अपत्यस्य जात-कर्मादि । आत्मनो यज्ञ-दीक्षादि । प्रेत-संस्था प्रेतस्य दहनादि । मृताहः पित्रादेः सांवत्सरिकं श्राद्धम् । एतेषु अन्यस्मिन्न् अभ्युदये च श्रेयः कुर्याद् इत्य् अनुषङ्गः ॥२६॥

**—**ओ)०(ओ—

॥ ७.१४.२७-२८ ॥

अथ देशान् प्रवक्ष्यामि धर्मादि-श्रेय-आवहान् ।
स वै पुण्यतमो देशः सत्-पात्रं यत्र लभ्यते ॥**

बिम्बं भगवतो यत्र सर्वम् एतच् चराचरम् ।
यत्र ह ब्राह्मण-कुलं तपो-विद्या-दयान्वितम् ॥**

**श्रीधरः : **यत्र यस्मिन्न् एतच् चराचरम् अस्ति तस्य भगवतो बिम्बं रूपं सत्-पात्रं यत्र लभ्यते स वै पुण्य-तमो देशः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सन् साधुश् चासौ पात्रं चेति सत्-पात्रं वैष्णवः । तच् च कीदृशम् ? यत्र चराचरम् एतज् जगत् तस्य भगवतो बिम्बं बिम्ब-तुल्यम् इत्य् अर्थः ॥२७-२८॥

**—**ओ)०(ओ—

॥ ७.१४.२९ ॥

यत्र यत्र हरेर् अर्चा स देशः श्रेयसां पदम् ।
यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रतिमा हि प्रतिबिम्ब-रूपेति । तस्याः सकाशाद् भक्तस्योत्कर्षः । अत एव मद्-भक्त-पूजाभ्यधिकः [भा।पु। ११.१९.२१] इति,

अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भा।पु। ११.२.४७]

इति च वक्ष्यते । अर्चा प्रतिमा शालग्रामादि-रूपा । अर्चा स्थिर-प्रतिमा श्री-जगन्नाथादिस् तद्-आश्रिता उत्कलादयः ॥२९॥

**—**ओ)०(ओ—

॥ ७.१४.३०-३२ ॥

पुष्करादीनि क्षेत्राण्य् अर्हाश्रितान्य् उत ।
कुरुक्षेत्रं गय-शिरः प्रयागः पुलहाश्रमः ॥**

नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुश-स्थली ।
वाराणसी मधु-पुरी पम्पा बिन्दु-सरस् तथा ॥**

नारायणाश्रमो नन्दा सीता-रामाश्रमादयः ।
सर्वे कुलाचला राजन् महेन्द्र-मलयादयः ॥**

**श्रीधरः : **अर्हैर् उत्तमैर् आश्रितानि ॥३०॥ सीताया रामस्य चाश्रम आदिर्येषाम् । द्वयोः पृथग् ग्रहणं वियोग-कालाभिप्रायेण ॥३२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

**—**ओ)०(ओ—

॥ ७.१४.३३ ॥

एते पुण्यतमा देशा हरेर् अर्चाश्रिताश् च ये ।

एतान् देशान् निषेवेत श्रेयस्-कामो ह्य् अभीक्ष्णशः ।
धर्मो ह्य् अत्रेहितः पुंसां सहस्राधि-फलोदयः ॥**

**श्रीधरः : **अर्चाश्रिताश् च स्थिर-प्रतिम् आश्रिताः । पूर्वं तु शालग्राम-शिलाद्य्-अर्चन-देश उक्त इत्य् अपौनर् उक्त्यम् । अत्र एषु देशेषु इहितः कृतः । सहस्र-गुणम् अधिकस्य फलस्योदयो यस्मात् स तथा ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : देशान्तरात् सहस्र-गुणाधिकस्य फलस्य उदयो यस्मात् सः ॥३३॥

**—**ओ)०(ओ—

॥ ७.१४.३४ ॥

पात्रं त्व् अत्र निरुक्तं वै कविभिः पात्र-वित्तमैः ।
हरिर् एवैक उर्वीश यन्-मयं वै चराचरम् ॥**

**श्रीधरः : **अथ पात्रम् आह—हरिर् एव पात्रं निरुक्तं निर्णीतम् ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २८६- **अथ सप्तमे, पात्रम् [भा।पु। ७.१४.३४] इत्य् आदौ श्री-नारदोक्तौ अधिष्ठान-विचारे श्रीमद्-अर्चातोऽपि यः पूरुष-मात्रातिशयस् तत्रापि ज्ञानिनः, स च कैवल्य-कामो भक्त्य्-आश्रयः । तस्मिन् प्रकरणे ज्ञान-निष्ठाय देयानि [भा।पु। ७.२५.१] इत्य् उपसंहारे ज्ञानिन एव दान-पात्रत्वेन पर्मोत्कर्षोक्तेः । अन्यत्र तु न मे भक्तश् चतुर्वेदी, नायं सुखापो भगवान् इत्य् आदौ, मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.४] इत्य् आदौ च भक्तस्यैव ततोऽप्य् उत्कर्षः, किम् उत तद्-उपास्यायाः श्रीमद्-अर्चायाः । अत एव ताम् उद्दिश्योक्तं—नानुव्रजति यो मोहात् [भा।पु। ६.१४.४] इत्य् आदि । तथापि पात्रम् इत्य् आदीनाम् अर्थोऽपि क्रमेण दर्श्यते—पात्रम् त्व् इति द्वाभ्याम् । तत्र राजसूये ॥३४-३५॥

**विश्वनाथः : **अत्र धर्मार्थं कस्मै देयम् इति चेत् साक्षा धरये वैष्णवेभ्यो ब्राह्मणेभ्यः सर्व-प्राणिभ्यश् चेति वक्तुं प्रथमं दानस्य पात्रम् निर्वक्ति—पात्रम् इति ॥३४॥

**—**ओ)०(ओ—

॥ ७.१४.३५ ॥

देवर्ष्य्-अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन् यद् अग्र-पूजायां मतः पात्रतयाच्युतः ॥**

**श्रीधरः : **तद् एवाह—देवेषु च ऋषिषु चार्हत्सु च तपो-योगादि-सिद्धेषु ब्रह्मात्म-जादिषु सनकादिष्व् अपि सत्सु तत्र त्वदीये राजसूये यद् यस्माद् अच्युत एव पात्रतया सम्मतः ॥३५॥

**क्रम-सन्दर्भः : **देवर्षीति । तत्र राजसूये ॥३५॥

विश्वनाथः : हरेः पात्रत्वे निर्विवादत्वं तव राजसूय-यज्ञ एव सिद्धम् इत्य् आह—देवेषु ऋषिषु अर्हत्सु तओप्-यज्ञादि-सिद्धेषु ब्रह्मादिषु तद्-आत्मजादिषु सनकादिषु च । अग्र-पूजायां पात्रतया अच्युत एव मतः ॥३५॥

**—**ओ)०(ओ—

॥ ७.१४.३६ ॥

जीव-राशिभिर् आकीर्ण अण्ड-कोशाङ्घ्रिपो महान् ।
तन्-मूलत्वाद् अच्युतेज्या सर्व-जीवात्म-तर्पणम् ॥**

**श्रीधरः : **सम्मतत्वे हेतुम् आह—जीव-राशिभिर् व्याप्तो ब्रह्माण्ड-कोश एव योऽङ्घ्र-पः सर्व-जीवानाम् आत्मनश् च तर्पणम् ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २८७-**सर्वेषाम् जीवानाम् आत्मनश् च तर्पण-रूपा सैव भवतीत्य् अर्थः ॥३६॥

**विश्वनाथः : **सम्मतत्वे हेतुम् आह—जीवेति । योऽण्ड-कोशस् तस्य मूलत्वात् ॥३६॥

**—**ओ)०(ओ—

॥ ७.१४.३७ ॥

पुराण्य् अनेन सृष्टानि नृ-तिर्यग्-ऋषि-देवताः ।
शेते जीवेन रूपेण पुरेषु पुरुषो ह्य् असौ ॥**

मध्वः : जीवेन रूपेण सह ॥३७॥

**श्रीधरः : **एतद् एव पुरुष-नाम-निरुक्त्या द्रढयति, पुराणीति । नृ-तिर्यग्-आदि-रूपाणि पुराणि शरीराणि तेष्व् अन्तर्यामि-रूपेण प्रत्यग् अंशेन च यतः शेतेऽतः पुरुष इति प्रसिद्धः ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २८८-**जीवेन जीवयित्वा जीवान्तर्यामि-रूपेणेत्य् अर्थः ॥३७॥

**विश्वनाथः : **अतस् तस्यावतार-समये साक्षात् तस्माद् एव अन्यदा तु तद्-भक्ताय, सत्-पात्रं यत्र लभ्यते [भा।पु। ७.१४.२७], बिम्बं भगवत [भा।पु। ७.१४.२८]इति पूर्वोक्तेः । तद्-अनन्तरं तु प्राणि-मात्रेभ्य इत्य् आह—पुराण्य् अनेनेति ॥३७॥

**—**ओ)०(ओ—

॥ ७.१४.३८ ॥

तेष्व् एव भगवान् राजंस् तारतम्येन वर्तते ।
तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते ॥**

**मध्वः-**ब्रह्मादि-स्थावरास् तेषु न विशेषो हरेः क्वचित् ।

व्यक्त्-मात्र-विशेषेण तारतम्यं वदन्ति च ॥ इति ॥३८॥

**श्रीधरः : **तारतम्येन तिर्यग् आदिभ्यः पुरुषे यस्माद् आधिक्येन वर्तते तस्मात् पुरुषः पात्रम् । तत्रापि यावान् आत्मा ज्ञानांशो यथा यथा ईयते तप आदि-योगेन यत्र यत्र प्रतीयते तथा तथासौ पात्रम् इत्य् अर्थः । तत्रा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इत्य्-आदि ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २८९- **तस्मात् तारतम्य-वर्तनात् ।पुरुषः प्रायो मनुष्यः पात्रम्। तत्र ज्ञानादिकं विशिष्टम् इति भगवद्-वर्तनस्यातिशयात् । तत्रापि आत्मा यावान् यथा ज्ञानादि-परिमाणादिकः, तथासौ पात्रम् इत्य् अर्थः ॥३८॥

**विश्वनाथः : **तारतम्येन तिर्यग्-आदिभ्यः पुरुषे यस्माद् आधिक्येन वर्तते, तस्मात् पुरुषः पात्रम् । तथापि यथा यथा ज्ञान-वैराग्यादिभिर् यावान् आत्मा जीव उत्कृष्टो भवेत्, यः स पात्रम् । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इत्य्-आदि ॥३८॥

**—**ओ)०(ओ—

॥ ७.१४.३९ ॥

दृष्ट्वा तेषां मिथो नृणाम् अवज्ञानात्मतां नृप ।
त्रेतादिषु हरेर् अर्चा क्रियायै कविभिः कृता ॥**

**श्रीधरः : **तर्हि प्रतिमादौ हरेः किम् इति पूजां कुर्वन्ति तत्राह—दृष्ट्वेति द्वाभ्याम् । मिथोऽवज्ञानम् असन् मानस् तस्मिन्न् आत्मा बुद्धिर् येषां तेषां भावं दृष्ट्वा । क्रियायै पूजाद्य्-अर्थम् ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २९०- **एवं स्थितेऽपि कालेनोपासक-दोषोत्पत्तौ सत्यां भेद-दृष्ट्या विशिष्टम् अधिष्ठानान्तरं प्रकाशितम् इत्य् आह—दृष्ट्वेति । मिथोऽवज्ञानम् असम्मानंस् तस्मिन्न् आत्मा बुद्धिर् येषां भावं दृष्ट्वा क्रियायै पूजाद्य्-अर्थम् अर्चा कृता तत्-परिचर्या-मार्ग-दर्शनाय सा प्रकाशितेत्य् अर्थः । एतेन तादृश-दोष-युक्तेष्व् अपि कार्य-साधकत्वात् श्रीमद्-अर्चाया आधिक्यम् एव व्यञ्जितम् । प्रतिमा स्वल्प-बुद्धीनाम् इत्य् अत्र च अल्प-बुद्धीनाम् अपीत्य् अर्थः । नृसिंह-पुरानादौ ब्रह्माम्बरीषादीनाम् अपि तत्-पूजा-श्रवणात् ॥३९॥

**विश्वनाथः : **सर्व-प्राणि-सम्माननासमर्थानाम् अवज्ञा-स्पर्धादिमतां तु भगवत्-प्रतिमैव पात्रम् इत्य् आह—दृष्ट्वेति । मिथः परस्परम् अवज्ञान एवात्मा बुद्धिर् येषां तेषां भावस् तम् ॥३९॥

**—**ओ)०(ओ—

॥ ७.१४.४० ॥

ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
उपासत उपास्तापि नार्थदा पुरुष-द्विषाम् ॥**

**श्रीधरः : **हरिम् उपासते । उपासिताप्य् अर्चा पुरुष-द्वेषिणाम् अर्थ-दा न भवति । पुरुषेषु द्वेषं हित्वाऽर्चता सती सापि मन्दाधिकारिणां पुरुषार्थ-प्रदा भवत्य् एवेत्य् अर्थः ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २९१- **तत एवं प्रभावात् । केचिद् इत्य् अधिष्ठान-वैशिष्ट्येन पूर्वतोऽप्य् उत्तम-साधन-तत्-परा इत्य् अर्थः । नन्व् अवज्ञावद् द्वेषेऽपि सिद्धिः स्यात् ? इत्य् आशङ्क्यातिप्रसङ्ग-वारणेच्छया प्रस्तुत-पुरुष-रूपाधिष्ठानादर-रक्षेच्छया च तं वारयति—उपास्तापिइति ॥४०॥

**विश्वनाथः : **उपास्ता उपासिताप्य् पुरुष-द्विषाम् नार्थदेति अवज्ञादिभ्योऽपि द्वेषेऽपराधाधिक्यं सूचयति ॥४०॥

**—**ओ)०(ओ—

॥ ७.१४.४१ ॥

पुरुषेष्व् अपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।
तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस् तनुम् ॥**

**मध्वः : **शिलावत् प्रतिमाः सन्तो विप्राद्याश् च हरेः स्मृताः इति च ॥४१॥

**श्रीधरः : **पुरुषेष्व् एव जात्या तप आदिभिश् च पुनर् विशेषान्तरम् आह—पुरुषेष्व् अपीति । यो धत्ते तं सुपात्रं विदुः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २९२- **अथ पुरुषेषु पूर्वोक्त-विशेषं जात्य्-आदिना विवृणोति—पुरुषेष्व् अपीति । यो धत्ते तं सुपात्रं विदुः ॥४१॥

विश्वनाथः : पुरुषस्येव जात्या तप-आदिभ्यश् च श्रैष्ठ्यम् आह—पुरुषेष्व् अपीति । वेदं ब्रह्म-शब्द-वाच्यं धत्ते ज्ञानेन स ब्राह्मण इति तद् अधीते तद् वेदेत्य् अनेन ब्राह्मण-पद-व्युत्पत्तिर् दर्शिता ॥४१॥

**—**ओ)०(ओ—

॥ ७.१४.४२ ॥

नन्व् अस्य ब्राह्मणा राजन् कृष्णस्य जगद्-आत्मनः ।
पुनन्तः पाद-रजसा त्रि-लोकीं दैवतं महत् ॥**

**श्रीधरः : **एतद् एव कैमुत्य-न्यायेन द्रढयति—नन्व् अस्येति ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भक्ति-सन्दर्भः २९३- **पूर्वोक्तं ब्राह्मण-रूपं पात्रम् एव स्तौति—नन्व् अस्येत्य्-आदिना । जगद्-आत्मनो जगति लोक-सङ्ग्रह-धर्माधि-प्रवर्तनेन तन्-नियन्तुर् इत्य् अर्थः । दैवतं पूज्यत्वेन दर्शितम् ॥४२॥

विश्वनाथः : कृष्णस्य महत् दैवतम् इति तेनाप्य् आद्रियते ब्रह्मण्यत्वात्, न च तद्-दैवतत्वात् ब्राह्मणः, तस्मात् सकाशाद् अपि वस्तुत एव पूज्या इति सिद्धान्त एवेति वाच्यं, राजसूये बहुष्व् अपि ब्राह्मणेषु विद्यमानेषु कृष्णस्यैवाग्र-पूजनात् ॥४२॥

**—**ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

चतुर्दशः सप्तमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

सदाचार-निर्णये चतुर्दशोऽध्यायः ।

॥ ७.१४ ॥

(७.१५)