१३ यति-धर्मः

॥ ७.१३.१ ॥

श्री-नारद उवाच—

कल्पस् त्व् एवं परिव्रज्य देह-मात्रावशेषितः ।

ग्रामैक-रात्र-विधिना निरपेक्षश् चरेन् महीम् ॥

श्रीधरः :

त्रयोदशे यतेर् धर्मः साधकस्योच्यते महान् ।

अवधूतेतिहासेन सिद्धावस्था च वर्ण्यते ॥*॥

एवं ध्यात्वाऽकल्पोऽनशनादिकं कुर्यात् । आन्वीक्षिक्यां कल्पस् त्व् एवं ध्यात्वा परिव्रज्य इति संबन्धः । कियद् अत्र त्याज्यम् ? देह-व्यतिरिक्तं सर्वम् इत्य् आह—देह-मात्र- इति । तस्य धर्मान् आह—ग्रामैक-रात्र- इति नवभिः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

त्रयोदशे यतेर् धर्मस् तस्य चाजगरी परा ।

दशावधूत-प्रह्लाद-संवादेनैव वर्ण्यते ॥*॥

एवं ध्यात्वाऽकल्पश् चेद् अनशनादिकं कुर्यात् । आन्वीक्षिक्यां कल्पस् त्व् एवं ध्यात्वा परिव्रज्य चरेद् इति संबन्धः । तस्य धर्मान् आह—ग्रामैक-रात्र- इति नवभिः ॥१॥

—ओ)०(ओ—

॥ ७.१३.२ ॥

बिभृयाद् यद्य् असौ वासः कौपीनाच्छादनं परम् ।

त्यक्तं न लिङ्गाद् दण्डादेर् अन्यत् किञ्चिद् अनापदि ॥

श्रीधरः : कौपीनं गुह्यम् आच्छाद्यते । यावता तावन्-मात्रम् । परं केवलम् अन्यद् इति वा । त्यक्तं प्रेष्योच्चारणात् पूर्वम् एव ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : त्यक्तं व्यवहारिक-जन-सङ्गं न बिभृयात्लिङ्ग-दण्डादिकाद् अन्यद् वस्त्व् अपि न । अनापदीति आपदि तु देह-रक्षार्थं त्यक्तम् अपि धारयेत् ॥२॥

—ओ)०(ओ—

**॥ ७.१३.३ ॥ \

एक एव चरेद् भिक्षुर् आत्मारामोऽनपाश्रयः ।

सर्व-भूत-सुहृच् छान्तो नारायण-परायणः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१३.४ ॥

पश्येद् आत्मन्य् अदो विश्वं परे सद्-असतोऽव्यये ।

आत्मानं च परं ब्रह्म सर्वत्र सद्-असन्-मये ॥

मध्वः : आत्मनि परमात्मनि ॥४॥

श्रीधरः, विश्वनाथः : सद्-असतः परे कार्य-कारण-व्यतिरिक्ते ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१३.५ ॥

सुप्ति-प्रबोधयोः सन्धाव् आत्मनो गतिम् आत्म-दृक् ।

पश्यन् बन्धं च मोक्षं च माया-मात्रं न वस्तुतः ॥

**श्रीधरः : **नन्व् आत्मानं परं ब्रह्मेति कथं सामानाधिकरण्य-निर्देशः ? न हि बद्ध-मुक्तयोर् ऐक्यं सम्भवति । तत्राह—सुप्तेति । **सुषुप्तौ **हि तमसावृतम् आत्म-तत्त्वं जाग्रत्-स्वप्नयोस् तु विक्षिप्तं प्रकाशते । सन्धौ तु न तमो नापि विक्षेपः । अतस् तदा आत्म-दृग् आत्मानं लक्ष्यी-कृत्य स्थितः सन्न् आत्मनो गतिं तत्त्वं पश्यन् । अत एव बन्धं मोक्षं च माया-मात्रं पश्यन् आत्मानं परं ब्रह्म सर्वत्र पश्येद् [७.१३.४] इत्य् अन्वयः । तद् उक्तं योग-ग्रन्थे—

निद्रादौ जागरस्यान्ते यो भाव उपजायते ।
तं भावं भावयन् नित्यं मुच्यते नेतरो यतिः ॥ इति ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सुप्ते सुषुप्ते हि तमसावृतम् आत्म-तत्त्वं जाग्रत्-स्वप्नयोस् तु विक्षिप्तं प्रकाशते **सन्धौ **तु न तमो नापि विक्षेपः । अतस् तदा आत्म-दृक् आत्मानं लक्ष्यीकृत्य स्थितः सन्न् आत्मनो गतिं तत्त्वं पश्यन्, अत एव बन्धं मोक्षं च माया-मात्रं पश्यन् आत्मानं परं ब्रह्म सर्वत्र पश्येद् [७.१३.४] इत्य् अन्वयः । तद् उक्तम् योग-ग्रन्थ—

निद्रादौ जागरस्यान्ते यो भाव उपजायते ।
तं भावं भावयन् नित्यं मुच्यते नेतरो यतिः ॥ इति ॥५॥

—ओ)०(ओ—

॥ ७.१३.६ ॥

नाभिनन्देद् ध्रुवं मृत्युम् अध्रुवं वास्य जीवितम् ।

कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥

श्रीधरः : अस्य देहस्य । प्रभवोऽप्ययश् च यस्मात् तं कालम् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- अस्य देहस्य ॥६॥

—ओ)०(ओ—

॥ ७.१३.७ ॥

नासच्-छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् ।

वाद-वादांस् त्यजेत् तर्कान् पक्षं कञ्च न संश्रयेत् ॥

मध्वः- अप्रयोजन-पक्षं न संश्रयेत्

नाप्रयोजन-पक्षी स्यान् न वृथा शिष्य-बन्ध-कृत् ।
न चोदासीनः शास्त्राणि न विरुद्धानि चाभ्यसेत् ॥
न व्याख्ययोपजीवेत न निषिद्धान् समाचरेत् ।
एवम्भूतो यतिर् याति तद् एक-शरणो हरिम् ॥ इति समाचारे ॥७-८॥

**श्रीधरः : असच्-छास्त्रेष्व् **अनात्म-परेषु । जीविकां नक्षत्र-विद्यादि-वृत्तिम् । वाद-वादान् जल्प-वितण्डादि-निष्ठान् । कञ्च कम् अपि पक्षं निर्बन्धेन संश्रयेत् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- कञ्च कम् अपि पक्षं न संश्रयेत् ॥७॥

—ओ)०(ओ—

॥ ७.१३.८ ॥

न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।

न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥

श्रीधरः : शिष्यान् नानुबध्नीत प्रलोभनादिना बलान् नापादयेत् । आरम्भान् मठादि-व्यापारान् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- नानुबध्नीयात् प्रलोभनादिना बलान् न कुर्याद् इत्य् अर्थः । आरम्भान् मठादि-व्यापारान् ॥८॥

—ओ)०(ओ—

॥ ७.१३.९ ॥

न यतेर् आश्रमः प्रायो धर्म-हेतुर् महात्मनः ।

शान्तस्य सम-चित्तस्य बिभृयाद् उत वा त्यजेत् ॥

**श्रीधरः : **परमहंसस्य विशेषम् आह—न यतेर् आश्रमो धर्मार्थः । कथं भूतस्य यतेः ? **महात्मनः **। तस्य लक्षणम्—शान्तस्य इत्य्-आदि । प्राय इत्य् अस्यायं भावः— ज्ञानोत्पत्ति-पर्यन्तं बहूदकादि-लिङ्गम् आश्रित्य, सत्त्व-शुद्ध्य्-अर्थं यमान् नियमांश् चाचरन्न् एव ज्ञानोत्पत्तौ यतेत । उत्पन्ने तु ज्ञाने न नियमैः कृत्यम् अस्ति । यमाश् च स्वत एव स्युः । अतस् तदा लिङ्गादिभिः प्रयोजनाभावाल् लोक-सङ्ग्रहार्थं [बिभृयाद्] धारयेद् वा त्यजेद् वेति ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सन्न्यासिनां मध्ये परमहंसस्य विशेषम् आह—यतेर् इति । यतेर् आश्रमो न धर्म-प्रयोजनकः । तस्य लक्षणं शान्तस्येत्य्-आदि । प्राय इत्य् अनेन कथञ्चित् कश्चिद् अपरिपक्व-ज्ञानं तु सत्त्व-शुद्ध्य्-अर्थं यम-नियम-धर्मांश् चाचरेद् अपि ज्ञान-परिपाके तु न नियमैः कृत्यम् अस्ति, यमाश् च स्वत एव स्युः । अतस् तदा लिङ्गादिभिः प्रयोजनाभावाल् लोक-सङ्ग्रहार्थं धारयेत् त्यजेद् वा इति ॥९॥

—ओ)०(ओ—

॥ ७.१३.१० ॥

अव्यक्त-लिङ्गो व्यक्तार्थो मनीष्य् उन्मत्त-बालवत् ।

कविर् मूकवद् आत्मानं स दृष्ट्या दर्शयेन् नृणाम् ॥

**श्रीधरः : **तस्यैव ज्ञान-दार्ढ्याभावे योग-भ्रंश-परिहारार्थम् आह । बहिर् व्यक्तं लिङ्गं यस्य व्यक्तोऽर्थः प्रयोजनम् आत्मानुसन्धानं यस्य स मनीष्य् अप्य् उन्मत्तवद् बालवच् च कविर् अपि मूकवद् आत्मानं नृणां दृष्ट्या दर्शयेत् । ते यथोन्मत्तादि-रूपं मन्येरंस् तथा वर्तेत । स्व-दृष्ट्येति पाठे बाह्यानुसन्धानाभवेनेत्य् अर्थः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स च योग-भ्रंश-परिहारार्थम् एवं-भूतो भवेद् इत्य् आह— बहिर् व्यक्तं लिङ्गं यस्य सः, व्यक्तोऽर्थः प्रयोजनम् आत्मानुसन्धानं यस्य सः ॥१०॥

—ओ)०(ओ—

॥ ७.१३.११ ॥

अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।

प्रह्रादस्य च संवादं मुनेर् आजगरस्य च ॥

**श्रीधरः : **परमहंस-धर्मम् एवेतिहासेन स्फुटयति—अत्रापीति यावद् अध्याय-समाप्ति। अजगर-व्रतस्य मुनेश् च ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आजगरस्य अजागर-वृत्तेः ॥११॥

—ओ)०(ओ—

॥ ७.१३.१२ ॥

तं शयानं धरोपस्थे कावेर्यां सह्य-सानुनि ।

रजस्-वलैस् तनू-देशैर् निगूढामल-तेजसम् ॥

ददर्श लोकान् विचरन् लोक-तत्त्व-विवित्सया ।

वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्-प्रियः ॥

**श्रीधरः : **धरोपस्थे भू-पृष्ठे । सह्याद्रेस् तटे । रजोभिर् धूसरैस् तनू-देशैर् देहावयवैर् निगूढम् अमलं तेजो यस्य तम् ॥१२॥

**क्रम-सन्दर्भः : **तं शयानम् इति युग्मकम् । “तनू” इत्य् अत्र त्व् “अङ्ग” इति पाठो बहुत्र ॥१२॥

विश्वनाथः : सह्य-नाम्नः पर्वतस्य सानौ । तनु-देशैः तन्व्-अवयवैः ॥१२॥

—ओ)०(ओ—

॥ ७.१३.१४-१५ ॥

कर्मणाकृतिभिर् वाचा लिङ्गैर् वर्णाश्रमादिभिः ।

न विदन्ति जना यं वै सोऽसाव् इति न वेति च ॥

तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् ।

विवित्सुर् इदम् अप्राक्षीन् महा-भागवतोऽसुरः ॥

**श्रीधरः : **कर्मादिभिर् जना यं न विदुस् तं पादयोः शिरसा स्पृशन् नत्वा अप्राक्षीद् इत्य् उत्तरेणान्वयः ॥१४॥

**क्रम-सन्दर्भः : **कर्मणेति युग्मकम् ॥१४॥

विश्वनाथः : जनास् तज्-जन्म-भूमि-निवासिनोऽपि, विवित्सुः विविदिषुः । महा-भागवत इति महा-भागवतत्वाद् एव स्व-चित्त-कर्षण-लिङ्गेनैव तं महानुभावं निश्चित्यैवेति भावः ॥१४-१५॥

—ओ)०(ओ—

॥ ७.१३.१६-१७ ॥

बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा ।

वित्तं चैवोद्यमवतां भोगो वित्तवताम् इह ॥

भोगिनां खलु देहोऽयं पीवा भवति नान्यथा ॥

**श्रीधरः : **उद्यम-सहित इव भोगवान् इव पीवानं स्थूलं देहं धारयसि । तत्र हेतुं वदेति तृतीयेनान्वयः । उद्यमं विनैव मम भोगोऽस्तीति चेत् तत्राह—वित्तं चेति ॥१६॥

**क्रम-सन्दर्भः : **बिभर्षीत्य् अर्धकम् ॥१६॥

विश्वनाथः : पीवानं स्थूलम् । न च स्वभावेनैव मत्-कायः पीवेति वाच्यम् इत्य् आह—उद्यमवतां वित्तं, वित्तवतां भोगः, भोगवताम् एव देहः पीवेति पीवत्वस्यादि-कारणम् उद्यम एव, न तु स्वभाव इत्य् अर्थः ॥१६-१७॥

—ओ)०(ओ—

॥ ७.१३.१८ ॥

**न ते शयानस्य निरुद्यमस्य **

ब्रह्मन् नु हार्थो यत एव भोगः ।

**अभोगिनोऽयं तव विप्र देहः **

पीवा यतस् तद् वद नः क्षमं चेत् ॥

**श्रीधरः : **नु इति निश्चये । ह इति प्रसिद्धौ । तवार्थो नास्तीति प्रसिद्धम् एवेत्य् अर्थः । यतोऽर्थाद् एव । यतो हेतोः पीवा । क्षमं योग्यं चेत् ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु पीनो देवदत्तो दिवा न भुङ्क्ते इतिवन् ममोद्यमादिकम् अनुमीयताम् इति चेत् तत्राह—नेति । नु इति निश्चये । ह स्पष्टम् । हे विप्रेति ब्रह्म-तेजसैव विप्रत्वस्यावगमात् ॥१८॥

—ओ)०(ओ—

॥ ७.१३.१९ ॥

कविः कल्पो निपुण-दृक् चित्र-प्रिय-कथः समः ।

लोकस्य कुर्वतः कर्म शेषे तद्-वीक्षितापि वा ॥

**श्रीधरः : **किं च, वित्तार्जनाद्य्-असमर्थोऽप्य् अयं जनस् तद् अर्थम् उद्यमं करोति, त्वं तु समर्थोऽपि किम् इति न करोषि ? इत्य् आह—कविर् विद्वान् । कल्पो दक्षः । निपुण-दृक् चतुरः । चित्ताः प्रिया लोक-रञ्जनाः कथा यस्य । तथापि लोकस्य कर्म कुर्वतः सतः शेषेतद् वीक्षितापि तत् सर्वं पश्यन्न् अपि । पाठान्तरे न द्वेक्षि तत् कर्म न द्वेक्षि नैषि वा न च स्तौषीत्य् अर्थः ॥१९॥

क्रम-सन्दर्भः : तद्-वीक्षितापि इत्य् अत्र “त्वं न द्वेक्षे नौषि वा” इति पाठः, “न द्वेष्टि” इति गौड-पाठः ॥१९॥

विश्वनाथः : किम् एवं ते विचारेण इति चेत् त्वद्-देहे सामुद्रक-सल्लक्षण-दृष्ट्या कवित्व-कल्पत्वादिकम् अनुमाय त्वया स्वं कृतार्थीकर्तुं कम् अप्य् आलोपामृतम् इच्छामीत्य् आह—कविर् इति । कर्म कुर्वतः कर्मोद्यमवन्तं लोकम् अनादृत्य तम् अपश्यन्न् एव शेष शयनं करोषि तस्य वीक्षिता कौतुकेन तं पश्यन्न् एव वा ॥१९॥

—ओ)०(ओ—

॥ ७.१३.२० ॥

श्री-नारद उवाच—

स इत्थं दैत्य-पतिना परिपृष्टो महा-मुनिः ।

स्मयमानस् तम् अभ्याह तद्-वाग्-अमृत-यन्त्रितः ॥

**श्रीधरः : **तस्य वाग् एवामृतं तेन तन्त्रितो वशी-कृतः सन् प्राह ॥२०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१३.२१ ॥

श्री-ब्राह्मण उवाच—

वेदेदम् असुर-श्रेष्ठ भवान् नन्व् आर्य-सम्मतः ।

ईहोपरमयोर् नॄणां पदान्य् अध्यात्म-चक्षुषा ॥

श्रीधरः : अध्यात्म-चक्षुषा अन्तर्-दृष्ट्या भवान् वेद एव । आर्याणां ज्ञानिनां सम्मतो ननु भवान्इदम् इति यद् उक्तं, तद् एवाह—नॄणाम् ईहोपरमयोः प्रवृत्ति-निवृत्त्योः पदानि स्थानानि फलानीत्य् अर्थः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अध्यात्म-चक्षुषा अन्तर्-दृष्ट्या इदं भवान् वेद एव । किम् ईहोपरमयोः सकामत्व-निष्कामत्वयोः पदानि स्थानानि फलानीत्य् अर्थः । भोगार्थम् उद्यमैर् देहं पुष्टिकुर्वतां लोकानां दुःखं यद्य् अहं नाज्ञास्यं, तदा उद्यमम् अहम् अप्य् अकरिष्यम् इति भावः ॥२१॥

—ओ)०(ओ—

॥ ७.१३.२२ ॥

यस्य नारायणो देवो भगवान् हृद्-गतः सदा ।

भक्त्या केवलयाज्ञानं धुनोति ध्वान्तम् अर्कवत् ॥

**श्रीधरः : **वेदेत्य् अत्र हेतुः—यस्येति । हृदि प्रविष्टः सन्न् अज्ञानं धुनोति । अर्को यथा बहिर् ध्वान्तम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वेदेत्य् अत्र हेतुः—यस्येति । केवलया ज्ञान-कर्माद्य्-अमिश्रया ॥२२॥

—ओ)०(ओ—

॥ ७.१३.२३ ॥

तथापि ब्रूमहे प्रश्नांस् तव राजन् यथा-श्रुतम् ।

सम्भाषणीयो हि भवान् आत्मनः शुद्धिम् इच्छता ॥

श्रीधरः : यथा-श्रुतम् इत्य् औद्धत्य-परिहारायोक्तम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अतो मया त्वं सम्माननीय एवेत्य् अतः सर्वत्र मौनवतापि त्वयि मौनम् अनादृत्यैवोच्यते इत्य् आह—तथापीति । यद्यपि भवान् वेदैव, अथापीति यथा-श्रुतं, न तु स्व-कपोल-कल्पितम् ॥२३॥

—ओ)०(ओ—

॥ ७.१३.२४ ॥

तृष्णया भव-वाहिन्या योग्यैः कामैर् अपूर्यया ।

कर्माणि कार्यमाणोऽहं नाना-योनिषु योजितः ॥

**श्रीधरः : **लोकः कर्मसु प्रवर्तते त्वं तु निवृत्तः सन् किं शेषे इति यद् उक्तं तत्राह—तृष्णयेति चतुर्भिः । भव-प्रवाह-कारिण्या यथोचित्तैर् अपि विषयैः पूरयितुम् अशक्यया तृष्णया कर्मसु प्रवर्त्यमणोऽहं पूर्वं नाना-योनिषु प्रवेशितः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद् अहं निरुद्यमोऽस्मि तत्र कारणं शृण्व् इत्य् आह—तृष्णयेति त्रिभिः । भव-सम्बन्धिन्या वाहिन्या नद्येति यथा नद्या अन्त्ये दुष्प्रापः तृष्णयापि । किं च, नदी इन्द्रेण वृष्यमाणैर् अम्बुभिः पूर्यते, इयं तु ब्रह्मणापि वृष्यमाणैः कामैर् न पूर्यत इत्य् आह—योग्यैर् इति । यथा च नद्या वाहितोऽर्थस् तृण-काष्ठ-पाषाण-कण्टकादिषु योज्यते, तथैवाहम् अपि नाना-योनिषु, यथा च नद्या ग्राह-कच्छपावर्तादिभिर् भीष꣡ तत्-परित्राणाय नाना-साधनानि कार्यन्ते, तथैवाहम् अपि कर्माणि ॥२४॥

—ओ)०(ओ—

॥ ७.१३.२५ ॥

यदृच्छया लोकम् इमं प्रापितः कर्मभिर् भ्रमन् ।

स्वर्गापवर्गयोर् द्वारं तिरश्चां पुनर् अस्य च ॥

**श्रीधरः : **तयैव तृष्णयेमं लोकं मनुष्य-देहं यदृच्छया प्रापितः । कथं-भूतं लोकम् ? धर्मेण स्वर्गस्य द्वारं साधनम् । अधर्मेण तिरश्चां श्व-सूकरादि-योनेर् द्वारम् । मिश्राभ्यां ताभ्यां पुनर् अप्य् अस्य मनुष्यत्वस्य द्वारम् । सर्वतो निवृत्त्य्-अपवर्गस्य द्वारम् इत्य् अर्थः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यथा च नद्या कदाचित् चतुष्पथ-सैकत-देशम् अपि प्राप्यते तथैवाहम् अपि साम्प्रतम् इमं लोकं नृ-शरीरम् । कीदृशम् ? पुण्येन स्वर्गस्य द्वारं साधनम् । ज्ञान-भक्तिभ्याम् अपवर्गस्य, पापेन तिरश्चां सूकरादि-योनेर् अपि पुण्य-पापाभ्याम् च-कारात् तद्-भोगान्ते च पुनर् अप्य् अस्य नृ-जन्मनोऽपि द्वारम् ॥२५॥

—ओ)०(ओ—

॥ ७.१३.२६ ॥

तत्रापि दम्-पतीनां च सुखायान्यापनुत्तये ।

कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम् ॥

**श्रीधरः : **अत्रापि मनुष्यत्वेऽपि । अन्यापनुत्तये दुःख-निवृत्त्यै विपर्ययं दृष्ट्वा निवृत्तोऽस्मि ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अत्रापि मनुष्यत्वेऽपि । अन्यापनुत्तये दुःख-निवृत्त्यै विपर्यय्ं दुःखम् एव दृष्ट्वा निवृत्तोऽस्मि कर्म-मात्रेभ्य इत्य् अर्थः ॥२६॥

—ओ)०(ओ—

॥ ७.१३.२७ ॥

सुखम् अस्यात्मनो रूपं सर्वेहोपरतिस् तनुः ।

मनः-संस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥

**श्रीधरः : **ननु प्रवृत्त्या कदाचित् सुखं स्यान् निवृत्त्या तु किं स्यात् ? इति चेत् तत्राह—सुखम् अस्य जीवस्य स्वरूपम् एव । तर्हि किं न प्रकाशते ? तत्राह—सर्वेति । तनोतीति तनुः। सर्व-क्रिया-निवृत्तौ स्वत एव प्रकाशत इत्य् अर्थः । भोगांश् च मनः-संस्पर्शजान् मनो-रथ-मात्रजान् अशाश्वतान् दृष्ट्वा स्वप्स्यामि । निरुद्यमोऽस्मीत्य् अर्थः । तर्हि कदाचित् कथं भुङ्क्षे ? तत्राह—संविशन् । प्रारब्ध-भोगान् भुञ्जान् इत्य् अर्थः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**कर्मणा कदाचित् सुखं स्याद् अपि सर्व-कर्म-निवृत्त्या किं स्यात् ? इति चेत् तत्राह—सुखम् अस्य जीवस्य मम स्वरूपम् एव । तर्हि किं न प्रकाशते ? तत्राह—सर्वेति । सर्वा ईहाः कर्माणि तद्-धेतु-तृष्णा च । तासाम् उपरतिर् एव तनुः, तनुं विना यथा सुखं नोपलभ्यते, तथा ताम् अपि विनेत्य् अर्थः । भोगांस् तु प्राकृतान् मनः-स्पर्शजान् मनोरथ-मात्रजान् क्षण-भङ्गुरान् दृष्ट्वा तत्रारुचिर् एव संविशन् । स्वाभावानश्वरात्म-सुखम् उपभुञ्जानः स्वप्स्यामि स्वपिमि वैतृष्ट्यादि-दिव्य-कुसुम-शय्यायाम् इति स्वस्य पीनत्वे सुख-भोग एव हेतुर् उक्तः—निर्वृतिः पुष्ट्करणानाम् इति वैद्यकोक्तेः ।

यद् वा, स्वप्स्यामि सम्प्रत्य् अपि तृष्णाभासस्यानिवृत्त्या यद्यपि सम्यग्-आत्म-सुखानुपलम्भस् तथापि पञ्चभिर् दिनैस् तस्यापि निवृत्त्या सम्यक् संविशन् शयिष्य इत्य् अर्थः । सं वेशः स्वाप-स्त्री-रत-बन्धयोः इति मेदिन्य्-उक्तेर् अत्र सामान्यत एवोपभोग-वाची संवेश-शब्दो ज्ञेयः ॥२७॥

—ओ)०(ओ—

॥ ७.१३.२८ ॥

इत्य् एतद् आत्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् ।

विचित्राम् असति द्वैते घोराम् आप्नोति संसृतिम् ॥

**श्रीधरः : **एवं चेत् कोऽपि संसारं न प्राप्नुयात् तत्राह—इत्य् एतद् आत्मनः सुखात्मकं रूपं स्वार्थं स्वस्मिन्न् एव सन्तं पुरुषार्थं विस्मृत्य । असत्य् अपि द्वैते ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं चेत् सर्वेऽप्य् एवं किम् इति सुखिनो न स्युः ? तत्राह—इत्य् एतद् इति । स्वार्थं स्वीयं सुख-रूपम् अर्थं विस्मृत्य द्वैते दुःख-रूपे असति देहादौ वस्तुत आत्मनोऽविद्यमानेऽपि । यद् वा, असति असार्वकालिके ॥२८॥

—ओ)०(ओ—

**॥ ७.१३.२९ ॥ \

जलं तद्-उद्भवैश् छन्नं हित्वाज्ञो जल-काम्यया ।

मृगतृष्णाम् उपाधावेत् तथान्यत्रार्थ-दृक् स्वतः ॥

**श्रीधरः : **एतद् एव दृष्टान्तेन स्पष्टयति—जलम् इति । तद्-उद्भवैस् तृण-शैवालादिभिः जल-काम्यया जलेच्छया । स्वत आत्म-स्वरूपाद् अन्यत्र पुरुषार्थं पश्यन् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतद् एव दृष्टान्तेन स्पष्टयति—जलम् इति । तद्-उद्भवैर् जल एवोद्भूतैर् न तु जलाद् उद्भूतैस् तृण-शैवालादिभिश् छिन्नम् इवात्म-सुखं तत्रोद्भूतैर् मायिक-तृष्णादिभिश् छिन्नं हित्वा स्वतोऽन्यत्र पुरुषार्थं पश्यन् ॥२९॥

—ओ)०(ओ—

॥ ७.१३.३० ॥

देहादिभिर् दैव-तन्त्रैर् आत्मनः सुखम् ईहतः ।

दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥

**श्रीधरः : **एवं स्वस्य निरुद्यमत्वे कारणम् उक्त्वा विपर्ययं दृष्ट्वेति यद् उक्तं, तद् विवृणोति—देहादिभिर् इति पञ्चभिः । ईहत इच्छतः । अनीशस्य निर्दैवस्य । पुनः पुनः प्रारब्धाः क्रिया मोघा विफला एव भवन्ति ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विपर्ययं दृष्ट्वेति यद् उक्तं, तद् विवृणोति—देहादिभिर् इति पञ्चभिः । सुखं दुःखात्ययं च ईहत ईहमानस्य क्रिया मोघा निष्फलम् ॥३०॥

—ओ)०(ओ—

॥ ७.१३.३१ ॥

आध्यात्मिकादिभिर् दुःखैर् अविमुक्तस्य कर्हिचित् ।

मर्त्यस्य कृच्छ्रोपनतैर् अर्थैः कामैः क्रियेत किम् ॥

**श्रीधरः : **क्रियाणां सफलत्वेऽपि फलस्यानुपयोगम् आह—आध्यात्मिकादिभिर् इति । मर्त्यस्य मरिष्यतः । कृच्छ्रेण दुःखेनोपनतैः प्राप्तैः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यदि कदाचित् सफलाः स्युस् तद् अपि फल-भोगासामर्थ्यम् आह—आध्यात्मिकादिभिर् इति । दुःख-सहितः सुख-भोगोऽपि नेत्य् आह—मर्त्यस्य अकस्माद् एव सम्भावित-मृत्योः ॥३१॥

—ओ)०(ओ—

॥ ७.१३.३२ ॥

पश्यामि धनिनां क्लेशं लुब्धानाम् अजितात्मनाम् ।

भयाद् अलब्ध-निद्राणां सर्वतोऽभिविशङ्किनाम् ॥

**श्रीधरः : **कृच्छ्रं विनैव प्राप्तेऽप्य् अर्थे दुःखं तद् अवस्थम् इत्य् आह—पश्यामीति ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद् एवम् अर्थैर् न दुःख-निवृत्तिः, प्रत्युत दुःखाधिक्यम् एवेत्य् आह—पश्यामीति ॥३२॥

—ओ)०(ओ—

॥ ७.१३.३३ ॥

राजतश् चौरतः शत्रोः स्व-जनात् पशु-पक्षितः ।

अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद् भयम् ॥

**श्रीधरः : **भयं प्रपञ्चयति—राजत इति । स्वस्मान् मत्त एव कथञ्चित् त्याग-भोग-विस्मरणादिना नाशः स्याद् इति प्राणवताम् अर्थवतां च भयं नित्यम् ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्वस्माद् इति स्वत एव कथञ्चित् दान-भोग-विस्मरणादिना नाशः स्याद् इति प्राणेषु अर्थेषु चासक्तिमतां भयं, प्राणोऽत्र शारीर-बलं सम्भोगादि-प्रयोजकं ज्ञेयम् । जीवन-मात्रस् तु विहितम् एव, जीवस्य तत्त्व-जिज्ञासा [भा।पु। १.२.१०] इत्य्-आदौ ॥३३॥

—ओ)०(ओ—

॥ ७.१३.३४ ॥

शोक-मोह-भय-क्रोध- राग-क्लैब्य-श्रमादयः ।

यन्-मूलाः स्युर् नृणां जह्यात् स्पृहां प्राणार्थयोर् बुधः ॥

**श्रीधरः : **अतोऽनर्थ-हेतुत्वात् प्राणेऽर्थे च स्पृहा न कार्येत्य् आह—शोकेति ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्राणार्थयोः स्पृहां जह्याद् इति शारीर-बलाधिक्यार्थं धनाधिक्यार्थं च न यतेत, स्वल्पेनापि बलेन स्वल्पेनापि धनेन पारमार्थिक-कृत्य-सिद्धेर् इति भावः ॥३४॥

—ओ)०(ओ—

॥ ७.१३.३५ ॥

मधुकार-महा-सर्पौ लोकेऽस्मिन् नो गुरूत्तमौ ।

वैराग्यं परितोषं च प्राप्ता यच्-छिक्षया वयम् ॥

**श्रीधरः : **नन्व् एवम् अनर्थान् अनुभवन्तोऽपि न केचिद् विरज्यन्ते, न च यथा-लाभेन तुष्यन्ति, त्वं तु कथं वैराग्यादिकं प्राप्तोऽसि ? तत्राह—मधु-कारेति । मधु-मक्षिकाजगरौ । ययोः शिक्षया वृत्त-पर्यालोचनया ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु कस्माद् गुरोर् एतत् त्वया शिक्षितम् ? तत्राह—मधुकारेति ॥३५॥

—ओ)०(ओ—

॥ ७.१३.३६ ॥

विरागः सर्व-कामेभ्यः शिक्षितो मे मधु-व्रतात् ।

कृच्छ्राप्तं मधुवद् वित्तं हत्वाप्य् अन्यो हरेत् पतिम् ॥

**श्रीधरः : **मधु-काराच् छिक्षितम् आह—विराग इति । वित्त-पतिं हत्वाऽन्यो वित्तं हरेद् इत्य् एवम् ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मधु-मक्षिकातः शिक्षितम् आह—वित्त-पतिं हत्वाप्य् अन्यो वित्तं हरेद् इति मे वित्ते विरागः ॥३६॥

—ओ)०(ओ—

॥ ७.१३.३७ ॥

अनीहः परितुष्टात्मा यदृच्छोपनताद् अहम् ।

नो चेच् छये बह्व्-अहानि महाहिर् इव सत्त्ववान् ॥

**श्रीधरः : **अजगराच् छिक्षितम् आह—अनीह इति । सत्त्ववान् धैर्यवान् ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अजगराच् छिक्षितम् आह—अनीह इति । शये स्वपिमि सत्त्ववान् धैर्यवान् ॥३७॥

—ओ)०(ओ—

॥ ७.१३.३८-३९ ॥

क्वचिद् अल्पं क्वचिद् भूरि भुञ्जेऽन्नं स्वाद्व् अस्वादु वा ।

क्वचिद् भूरि गुणोपेतं गुण-हीनम् उत क्वचित् ॥

श्रद्धयोपहृतं क्वापि कदाचिन् मान-वर्जितम् ।

भुञ्जे भुक्त्वाथ कस्मिंश्चिद् दिवा नक्तं यदृच्छया ॥

**श्रीधरः : **पीनत्वे हेतुं वदन् यदृच्छया प्राप्तात् परितोषं प्रपञ्चयति, क्वचिद् अल्पम् इति षड्भिः ॥३८॥

**क्रम-सन्दर्भः : **क्वचिद् इति—सार्धकम् । स्वाद्व् अस्वादु वेत्य् अत्र साध्व् असाधु वेति क्वचित् पाठः ॥३८॥ भुञ्जे इत्य् अर्धकम् ॥३९॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१३.४० ॥

क्षौमं दुकूलम् अजिनं चीरं वल्कलम् एव वा ।

वसेऽन्यद् अपि सम्प्राप्तं दिष्ट-भुक् तुष्ट-धीर् अहम् ॥

**श्रीधरः : **चीरं जीर्ण-वस्त्र-खण्डम् । वसे परिदधे । दिष्ट-भूक् प्रारब्ध-कर्म-फल-भोगी ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वसे परिदधे ॥४०॥

—ओ)०(ओ—

॥ ७.१३.४१ ॥

क्वचिच् छये धरोपस्थे तृण-पर्णाश्म-भस्मसु ।

क्वचित् प्रासाद-पर्यङ्के कशिपौ वा परेच्छया ॥

**श्रीधरः : **प्रासाद-मध्ये पर्यङ्के । तत्रापि कशिपौ तूलिकायाम् ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : धरोपस्थे धरा-क्रोडे । उपस्थः शेफसि तथा क्रोडे मदन-मन्दिरे इति मेदिनी ॥४१॥

—ओ)०(ओ—

॥ ७.१३.४२ ॥

क्वचित् स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्य् अलङ्कृतः ।

रथेभाश्वैश् चरे क्वापि दिग्-वासा ग्रहवद् विभो ॥

**श्रीधरः : **चरे विचरामि । क्वचिद् ग्रहवद् दिग्-अम्बरो विचरामि ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : श्रेयो भक्ति-योगं, तस्य भगवतः सकाशात् दुर्लभत्वम् आशङ्क्याह—उतेति । ऐकात्म्यं मोक्षं महात्मनि परमात्मनि ॥४२॥

—ओ)०(ओ—

॥ ७.१३.४३ ॥

नाहं निन्दे न च स्तौमि स्व-भाव-विषमं जनम् ।

एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥

मध्वः : चित्ते मनो-वृत्त्य्-अभिमानिने । अर्थ-विभ्रमे अर्थेषु भ्रममाणे ।

चित्ताख्याग्नेर् अधीनं हि जगद् एतद् विचिन्तयेत् ।
मनो-नामेन्द्र-वशगम् अग्निं च प्रविचिन्तयेत् ॥ इत्य्-आदि च ॥४३॥

**श्रीधरः : **न च मानापमान-कर्तृषु मम वैषम्यम् इत्य् आह—नाहम् इति । नाहं निन्दामि न च स्तौमि । महात्मनि विष्णौ ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एवं-भूतत्वेन योगिनः स्थिताव् उपायम् आह—विकल्पम् इति द्वाभ्याम् । विविधं कल्पत इति विकल्पो व्यवहारन्तं चित्तौ मनो-वृत्तौ, तत एव तस्य प्रवृत्तेः । तां मनसि अर्थानां विविधं भ्रमणं यातायातं यतस् तस्मिन् । वैकारिके अहङ्कारे तं महति तं च महान्तं मायायां, अत्र तं महतीति पद-द्वयम् अध्याहार्यम् ॥४३॥

—ओ)०(ओ—

॥ ७.१३.४४ ॥

विकल्पं जुहुयाच् चित्तौ तां मनस्य् अर्थ-विभ्रमे ।

मनो वैकारिके हुत्वा तं मायायां जुहोत्य् अनु ॥

**श्रीधरः : **एवं-भूतत्वेन स्थिताव् उपायम् आह—विकल्पम् इति द्वाभ्याम् । चित्तौ भेद-ग्राहक-मनो-वृत्तौ । अर्थ-रूपो विभ्रमो यस्मिन् मनसि तन् मनो वैकारिकेऽहङ्कारे । तम् अहङ्कार-मन्व्-अनन्तरं महत्-तत्त्व-द्वारेणेत्य् अर्थः ॥४४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१३.४५ ॥

आत्मानुभूतौ तां मायां जुहुयात् सत्य-दृङ् मुनिः ।

ततो निरीहो विरमेत् स्वानुभूत्य्-आत्मनि स्थितः ॥

**मध्वः : **अशास्त्रीयत्वान् मुखतः शास्त्र्य्-अपेतम् इदं विदुः ।

शास्त्र-निर्णय-गम्यत्वाच् छस्त्रीयम् अभिधीयते ॥ इति च ॥४५॥

**श्रीधरः : **सत्यम् एव पश्यतीति तथा ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : लोक-शास्त्राभ्याम् व्यपेतं रहितम् इति मन्द-दृष्ट्या, न तु तत्त्व-दृष्ट्या । किं च, हीति यतो भवान् भगवत्-प्रियो महा-भागवतस् तवानेन प्रयोजनाभाव इति भावः ॥४५॥

—ओ)०(ओ—

॥ ७.१३.४६ ॥

स्वात्म-वृत्तं मयेत्थं ते सुगुप्तम् अपि वर्णितम् ।

व्यपेतं लोक-शास्त्राभ्यां भवान् हि भगवत्-परः ॥

**मध्वः :**अशास्त्रीयत्वान् मुखतः शास्त्र्य्-अपेतम् इदं विदुः ।

शास्त्र-निर्णय-गम्यत्वाच् छास्त्रीयम् अभिधीयते ॥ इति च ॥४६॥

**श्रीधरः : **मन्द-दृष्ट्या लोक-शास्त्राभ्यां व्यपेतं न तु तत्त्व-दृष्ट्या । यतो भवान् भगवत्-परः ॥४६॥

**क्रम-सन्दर्भः : **भगवत्-पर इति क्वचित् पाठः ॥४६॥

विश्वनाथः : लोक-शास्त्राभ्याम् व्यपेतं रहितम् इति मन्द-दृष्ट्या, न तु तत्त्व-दृष्ट्या । किं च, हीति यतो भवान् भगवत्-प्रियो महा-भागवतस् तवानेन प्रयोजनाभाव इति भावः ॥४६॥

—ओ)०(ओ—

॥ ७.१३.४७ ॥

श्री-नारद उवाच—

धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः ।

पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥

न कतमेनापि व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

त्रयोदशः सप्तमस्य सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

यति-धर्मो नाम

त्रयोदशोऽध्यायः ।

॥ ७.१३ ॥

(७.१४)