१२ आश्रम-धर्मः

॥ ७.१२.१ ॥

श्री-नारद उवाच—

ब्रह्मचारी गुरु-कुले वसन् दान्तो गुरोर् हितम् ।
आचरन् दासवन् नीचो गुरौ सुदृढ-सौहृदः ॥**

श्रीधरः :

द्वादशे वर्ण्यते धर्मो ब्रह्मचारि-वन-स्थयोः ।

चतुर्णाम् आश्रमाणां च साधारण्येन कश्चन ॥

वर्णादीनां धर्मा उक्ताः, इदानीम् आश्रम-धर्मा उच्यन्ते । तत्रास्मिन् द्वादशेऽध्याये ब्रह्मचारि-वानप्रस्थयोर् असाधारणश् चतुर्णां साधारणाश् चोच्यन्ते । त्रयोदशे यतेर् धर्माः । चतुर्दशे गृहस्थस्य । पञ्चदशे सर्व-धर्म-सार-सङ्ग्रहः । ब्रह्मचारी गुरुकुले वसन् गुर्व्-आदीन् उपासीतेत्य् उत्तरेणान्वयः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

द्वादशे वर्णिनो धर्मो वनस्थस्यापि वर्ण्यते ।

साधारणश् चाश्रमाणां देह-त्याग-विधिस् तथा ॥

ब्रह्मचारी गुर्व्-आदीन् उपासीतेत्य् उत्तरेणान्वयः । ब्रह्म गायत्रीम् ॥१॥

—ओ)०(ओ—

॥ ७.१२.२ ॥

सायं प्रातर् उपासीत गुर्व्-अग्न्य्-अर्क-सुरोत्तमान् ।
सन्ध्ये उभे च यत-वाग् जपन् ब्रह्म समाहितः ॥**

**श्रीधरः : **तान् आह—सायम् इति । ब्रह्म गायत्रीं जपन् सन्ध्या-त्रयम् उपासीत । उभे सन्ध्ये तु यत-वाक् सायम्-प्रातः सन्ध्या-काल-निमित्तं मौनं कुर्याद् इत्य् अर्थः1 ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.३ ॥

छन्दांस्य् अधीयीत गुरोर् आहूतश् चेत् सुयन्त्रितः ।
उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥**

**श्रीधरः : **उपक्रमे आदाव् अवसाने अन्ते गुरोश् चरणौ नमेत् ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.४ ॥

मेखलाजिन-वासांसि जटा-दण्ड-कमण्डलून् ।
बिभृयाद् उपवीतं च दर्भ-पाणिर् यथोदितम् ॥**

**श्रीधरः : **यथोदितम् इति । पालाशो दण्डो ब्राह्मणस्येत्य्-आदि-नियमम् अनतिक्रम्य । जटा-धारणं तु केश-प्रसाधनाभाव-मात्रम् ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.५ ॥

सायं प्रातश् चरेद् भैक्ष्यं गुरवे तन् निवेदयेत् ।
भुञ्जीत यद्य् अनुज्ञातो नो चेद् उपवसेत् क्वचित् ॥**

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **नो चेद् इति, गुरोर् अन्यत्र गमनादौ ॥५॥

—ओ)०(ओ—

॥ ७.१२.६ ॥

सुशीलो मित-भुग् दक्षः श्रद्दधानो जितेन्द्रियः ।
यावद्-अर्थं व्यवहरेत् स्त्रीषु स्त्री-निर्जितेषु च ॥**

**श्रीधरः : **यवद्-अर्थं2 यथोपयोगम् एव ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**यवद्-अर्थं गुरु-सेवार्थं गुरु-गृहे, भिक्षार्थं गृहस्थ-गृहेषु च यथोपयोगम् एव ॥६॥

—ओ)०(ओ—

॥ ७.१२.७ ॥

वर्जयेत् प्रमदा-गाथाम् अगृहस्थो बृहद्-व्रतः ।
इन्द्रियाणि प्रमाथीनि हरन्त्य् अपि यतेर् मनः ॥**

**श्रीधरः : **बृहद्-व्रतो ब्रह्मचर्य-वान् गृहस्थ-व्यतिरिक्तः सर्वोऽपि प्रमदा-गाथां वर्जयेत् । तत्र हेतुः, इन्द्रियाणि बलवन्ति संयतस्यापि मनो हरन्तीति ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अगृहस्थो गृहस्थ-भिन्नः सर्वोऽपि बृहद्-व्रतो ब्रह्मचरी ॥७॥

—ओ)०(ओ—

॥ ७.१२.८ ॥

केश-प्रसाधनोन्मर्द- स्नपनाभ्यञ्जनादिकम् ।
गुरु-स्त्रीभिर् युवतिभिः कारयेन् नात्मनो युवा ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कारयेद् इति । गुरु-पत्न्यो हि शिष्यम् अपि पुत्रम् इव वात्सल्येन पश्य्यन्यो यदि केश-प्रसाधनादिकं स्वेच्छयैव कुर्वन्ति, तद् अपि न कारयेद् इत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ७.१२.९ ॥

नन्व् अग्निः प्रमदा नाम घृत-कुम्भ-समः पुमान् ।
सुताम् अपि रहो जह्याद् अन्यदा यावद्-अर्थ-कृत् ॥**

**श्रीधरः : **न कारयेद् इत्य् अत्र हेतुः—नन्व् इति । रह एकान्ते । अन्यदा केश-प्रसाधनादि-व्यतिरिक्तावसरे अनेकान्तावसरे वा । यावद्-अर्थं तद् उक्तं कुर्यात् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्र हेतुः—नन्व् अग्निर् इति । रहो रहसि एकान्ते । अन्यदा अन्यत्र अनैकान्तेऽपि यावद्-अर्थ-कृत्, यावतावस्थानेनार्थः प्रयोजनं सिद्ध्येत् तावद् एव स्थितिं कुर्याद् इत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ७.१२.१० ॥

कल्पयित्वात्मना यावद् आभासम् इदम् ईश्वरः ।
द्वैतं तावन् न विरमेत् ततो ह्य् अस्य विपर्ययः ॥**

**मध्वः : **बहुत्वेनैव वस्तूनां यथार्थ-ज्ञानम् उच्यते ।

अद्वित-ज्ञानम् इत्य् एतद् द्वैत-ज्ञानं तद् अन्यथा ॥
यथा ज्ञानं तथा वस्तु यथा वस्तु तथा मतिः ।
नैव ज्ञानार्थयोर् भेदस् तत एकत्व-वेदनम् ॥ इति च ॥१०॥

**श्रीधरः : **ननु मिथ्यात्वाद् अतिकश्मलत्वाच् च स्वयं त्यक्त-प्रायं स्त्र्य्-आदि जह्याद् इति कोऽयम् अतिनिर्बन्धः ? तत्राह—कल्पयित्वेति । आत्मना स्वरूप-साक्षात्कारेणेदं देहेन्द्रियाद्य्-आभास-मात्रं कल्पयित्वा निश्चित्य यावद् असौ जीव ईश्वरः स्वतन्त्रो न भवेत्, तावद् द्वैतम् अयं पुमान् इयं स्त्रीत्य्-आदि-भेदो न विरमेत् । ततः किम् ? अत आह—ततो हि द्वैतात् विपर्ययो गुणाध्यासेन भोग्यता-बुद्धिः । अतो जह्याद् एवेत्य् अर्थः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु निवृत्ताभिमानस्य विजितेन्द्रियस्य ज्ञानिनो युवतयः किम् अपकर्तुं प्रभवेयुः ? तत्राह—कल्पयित्वेति । ईश्वरो ज्ञान-समर्थोऽपि इदं देह-दैहिक-विषयाभिमानादिकं बाधितानुवृत्ति-न्यायेनाभासं कल्प꣡ तत्त्व-ज्ञानेन विजितं नाम-मात्रेणैव स्थितम् अकिञ्चित्करं कृत्वापि यावद्-आत्मना मनसा सह वर्तते, तावद् द्वैतं “अहं पुमान्, इयं स्त्री, इदं मे प्रियम्” इति भेद-बुद्धिर् न विरमेत् । ततश् च विपर्ययः पूर्ववत् संसारावृत्तिः ।

यद् वा, ननु त्यक्त-सुत-भगिन्य्-आदि-बन्धु-वर्गस्य जितेन्द्रियस्य किम् अस्माद् भयम् ? तत्राह—कल्पयित्वेति । व्यवहारं यत्-प्रमाणकम् इदम् आभासम् इयं मे भगिन्य् एव इयं माता इयं सुतेत्य्-आदि-सम्बन्धाभासं कल्प्यते ईश्वरं तत्-तत्-कृत-स्नेहोत्थ-सुखेन ईशितस् तावत् तत्-प्रमाणकं द्वैतं भेदो न विरमेत् ।

नन्व् अस्य स्तोकत्वात् कल्पितत्वाच् च न काचिच् चिन्ता ? तत्राह—ततो हीति ॥१०॥

गौडीय-भाष्य : यावद् असौ जीवः आत्मना स्वरूप-साक्षात्कारेण इदं देहेन्द्रियादिकम् आभासम् आभास-मात्रं कल्प꣡ निश्चित्य ईश्वरः स्वतन्त्रः न भवेत्, तावद् द्वैतं, “अहं पुमान् इयं स्त्री” इति भेदो न विरमेत् । ततो हि द्वैत-दर्शनात् अस्य पुरुषस्य विपर्ययः गुणाध्यासेन भोग्यता-बुद्धिः भवेत्, अतः जह्याद् एवेत्य् अर्थः ॥१०॥

—ओ)०(ओ—

॥ ७.१२.११ ॥

एतत् सर्वं गृहस्थस्य समाम्नातं यतेर् अपि ।
गुरु-वृत्तिर् विकल्पेन गृहस्थस्य र्तु-गामिनः ॥**

मध्वः : गुरोर् आज्ञानुरोधेन दूरस्थो वा गृही भवेत् इति च ॥११॥

श्रीधरः : एतत् सर्वं सुशीलम् इत्य् आद्य् उक्तम् । गृहस्थस्य विशेषम् आह—गुरु-वृत्तिर् इति ॥११॥

**क्रम-सन्दर्भः : **गुरु-वृत्तिर् इति गुर्व्-अनुवृत्तिः ॥११॥

**विश्वनाथः : **एतत् सर्वं सुशील इत्य् आद्य् उक्तम् । विकल्पेन कर्तव्या न कर्तव्या वेत्य् अर्थः ॥११॥

**गौडीय-भाष्य : **एतत् सर्वं सुशीलत्वादि गृहस्थस्य यतेर् अपि समाम्नातम् अनुष्ठानत्वेन वर्णितम् । ऋतु-गामिनः ऋतौ भार्याम् उपेयात् इत्य्-आदि-शास्त्रानुसारेण ऋताव् एव भार्याम् उपगच्छतो गृहस्थस्य गुरु-वृत्तिः, गुर्वी वृत्तिः ब्रह्मचर्यम् इत्य् अर्थः । गुरोर् अनुवर्तनं विकल्पेन ज्ञेया । पत्न्याः ऋतु-काले न स्यात्, अन्यदा स्याद् इत्य् अर्थः ॥११॥

—ओ)०(ओ—

॥ ७.१२.१२ ॥

अञ्जनाभ्यञ्जनोन्मर्द- स्त्र्य्-अवलेखा-मिषं मधु ।
स्रग्-गन्ध-लेपालङ्कारांस् त्यजेयुर् ये बृहद्-व्रताः ॥**

**श्रीधरः : **अञ्जनादीनाम् आमिषान्तानां द्वन्द्वैक्यम् । अञ्जनं शरीरस्य । अभ्यञ्जनं शिरसः। स्त्रियं चावलेखां च चित्र-कर्म स्त्रीणां कुड्यादौ लेखनं वा तन् निरीक्षणं वा । अत्राभ्यङ्गादि स्वरूपतो निषिध्यते । पूर्वं तु कथञ्चिद् आपदि प्राप्तम् अपि स्त्री-कर्तृकं निषिद्धम् इति भेदः ॥१२॥

**क्रम-सन्दर्भः : **अञ्जनेत्य् अस्य टीकायां स्त्री-कर्तृकं निषिद्धम् इति विचार्यम् अभ्यञ्जनेनेति विशेषात् ॥१२॥

विश्वनाथः : अञ्जनं शरीरस्याभ्यञ्जनं शिरसः स्त्रियं च, अवलेखां चित्र-कर्म च, अत्राभ्यङ्गादिकं स्वरूपत एव निषिध्यते, पूर्वं तु कथञ्चिद् आपदि प्राप्तम् अपि स्त्री-कर्तृकं निषिद्धम् इति भेदः ॥१२॥

—ओ)०(ओ—

॥ ७.१२.१३ ॥

उषित्वैवं गुरु-कुले द्विजोऽधीत्यावबुध्य च ।
त्रयीं साङ्गोपनिषदं यावद्-अर्थं यथा-बलम् ॥**

**श्रीधरः : **अङ्गैः शिक्षादिभिर् उपनिषड्भिश् च सहितां वेद-त्रयीम् अधीत्यावबुद्ध्य च तद् अर्थं च विचार्य । यावद् अर्थं स्वाधिकारानुसारेण ॥१३॥

**क्रम-सन्दर्भः : **उषित्वेति युग्मकम् ॥१३॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.१४ ॥

दत्त्वा वरम् अनुज्ञातो गुरोः कामं यदीश्वरः ।
गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥**

**श्रीधरः : **यदीश्वरः शक्तस् तर्हि गुरोः कामम् अपेक्षितं वरं दत्त्वा यथाधिकारं गृहस्थाद्य्-आश्रमं स्वीकुर्यात् प्रव्रजेत् वातत्रैव वा वसेत् नैष्ठिकः स्याद् इत्य् अर्थः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यदीश्वरः शक्तस् तदा गुरोः कामम् अपेक्षितं वरं दत्त्वा गृहं प्रविशेत्, गृहस्थो भवेद् इत्य् अर्थः । तत्रैव वा वसेत् नैष्ठिक-ब्रह्मचारी स्यात् ॥१४॥

—ओ)०(ओ—

॥ ७.१२.१५ ॥

अग्नौ गुराव् आत्मनि च सर्व-भूतेष्व् अधोक्षजम् ।
भूतैः स्व-धामभिः पश्येद् अप्रविष्टं प्रविष्टवत् ॥**

**मध्वः :**अप्रविष्टः सर्व-गतः प्रविष्टस् त्व् अनुरूपवान् ।

एवं द्विरूपो भगवान् हरिर् एको जनार्दनः ॥ इति ॥१५॥

**श्रीधरः : **स्व-धामभिः स्वाश्रयैर् भूतैर् जीवैः सह तन् नियन्तृतया ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**स्व-धामभिः स्वाश्रयैर् जीवैः सह तन् नियन्तृतया ॥१५॥

—ओ)०(ओ—

॥ ७.१२.१६ ॥

एवं विधो ब्रह्मचारी वानप्रस्थो यतिर् गृही ।
चरन् विदित-विज्ञानः परं ब्रह्माधिगच्छति ॥**

**श्रीधरः : **चरन्न् एवम् आचरन् । विदितं विज्ञानं विज्ञेस्यं येन सः ॥१६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.१७ ॥

वानप्रस्थस्य वक्ष्यामि नियमान् मुनि-सम्मतान् ।
यान् आस्थाय मुनिर् गच्छेद् ऋषि-लोकम् उहाञ्जसा ॥**

**श्रीधरः : **ऋषि-लोकं महर्-लोकम् ॥१७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.१८ ॥

न कृष्ट-पच्यम् अश्नीयाद् अकृष्टं चाप्य् अकालतः ।
अग्नि-पक्वम् अथामं वा अर्क-पक्वम् उताहरेत् ॥**

**श्रीधरः : **अकृष्टम् अकृष्ट-पच्यम् । अकालतः पाक-कालात् पूर्वम् एव निष्पन्नम् इत्य् अर्थः । अर्क-पक्वं फलादि । आहरेद् अश्नीयात् ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अकालतः पाक-कालात् पूर्वम् एव पक्वम् इत्य् अर्थः ॥१८॥

—ओ)०(ओ—

॥ ७.१२.१९ ॥

वन्यैश् चरु-पुरोडाशान् निर्वपेत् काल-चोदितान् ।
लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥**

**श्रीधरः : **वन्यैर् नीवारादिभिश् चरु-पुरोडाशान् । काल-चोदितान् नित्यान् । पुराणं पूर्व-सञ्चितम् ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वन्यैर् नीवारादिभिर् निर्वपेत् दद्यात् । काले चोदितान् विहितान् ॥१९॥

—ओ)०(ओ—

॥ ७.१२.२० ॥

अग्न्य्-अर्थम् एव शरणम् उटजं वाद्रि-कन्दरम् ।
श्रयेत हिम-वाय्व्-अग्नि- वर्षार्कातप-षाट् स्वयम् ॥**

**श्रीधरः : **हिमादीन् सहत इति तथा ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हिमादीन् सहत इति सः ॥२०॥

—ओ)०(ओ—

॥ ७.१२.२१ ॥

केश-रोम-नख-श्मश्रु- मलानि जटिलो दधत् ।
कमण्डल्व्-अजिने दण्ड- वल्कलाग्नि-परिच्छदान् ॥**

**श्रीधरः : **केशादीन् मलं चाप्रक्षालनेन धारयन् । कमण्डल्व्-आदींश् च दधत् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मलानि दन्ताद्य्-अधावनोत्थानि ॥२१॥

—ओ)०(ओ—

॥ ७.१२.२२ ॥

चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः ।
द्वाव् एकं वा यथा बुद्धिर् न विपद्येत कृच्छ्रतः ॥**

**श्रीधरः : **कृच्छ्रतस् तपः-क्लेशाद् यथा बुद्धिर् न नश्येत्, तथा चरेत् ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.२३ ॥

यदाकल्पः स्व-क्रियायां व्याधिभिर् जरयाथवा ।
आन्वीक्षिक्यां वा विद्यायां कुर्याद् अनशनादिकम् ॥**

**श्रीधरः : **द्वादशाब्दाद्य्-अनन्तरम् अपि यदि स्व-धर्मानुष्ठाने शक्तः, तर्हि वन एव वसेत्। यदि तु ज्ञानाभ्यासे योग्यः, तर्हि सन्न्यसेद् इत्य् उत्तराध्याये वक्ष्यति । तद् उभय-रहितस्य तु यत् कृत्यं, तद् आह—यदाऽकल्पोऽसमर्थः । आन्वीक्षिक्यां विद्यायां ज्ञानाभ्यासे॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यदा द्वादशाब्दादि मध्य एव अकल्पः असमर्थः । आन्वीक्षिक्यां ज्ञानाभ्यासे ॥२३॥

—ओ)०(ओ—

॥ ७.१२.२४ ॥

आत्मन्य् अग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् ।
कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥**

मध्वः : कार्यस्याकारण-लय-ज्ञान-मात्रं विलापनम् इति च ॥२४॥

श्रीधरः, विश्वनाथः : अनशनादि करिष्यतः पूर्व-कृत्यम् आह—आत्मनीत्य्-आदि यावत्-समाप्ति । यथार्थतः यथा-योग्यम् । स्व-कारणेष्व् आकाशादिषु । सङ्घातं देहं न्यसेत् प्रविलापयेत् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१२.२५ ॥

खे खानि वायौ निश्वासांस् तेजःसूष्माणम् आत्मवान् ।
अप्स्व् असृक्-श्लेष्म-पूयानि क्षितौ शेषं यथोद्भवम् ॥**

**श्रीधरः : **तद् एव विभज्य दर्शयति—खे आकाशे स्वानि देह-गत-च्छिद्राणि । आत्मवान् धिमान्। शेषम् अस्थि-मांसादि-कठिनांशम् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **खानि देह-च्छिद्राणि । अभिनिवेशयेद् इत्य् उत्तरेणैव सर्वेषाम् अन्वयः । शेषम् अस्थि-मांसादि-कठिनांशम् ॥२५॥

—ओ)०(ओ—

॥ ७.१२.२६-२८ ॥

वाचम् अग्नौ सवक्तव्याम् इन्द्रे शिल्पं कराव् अपि ।
पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥**

मृत्यौ पायुं विसर्गं च यथा-स्थानं विनिर्दिशेत् ।
दिक्षु श्रोत्रं स-नादेन स्पर्शेनाध्यात्मनि त्वचम् ॥**

रूपाणि चक्षुषा राजन् ज्योतिष्य् अभिनिवेशयेत् ।
अप्सु प्रचेतसा जिह्वां घ्रेयैर् घ्राणं क्षितौ न्यसेत् ॥**

**श्रीधरः : **एवं स्थूल-शरीरस्य लयम् उक्त्वा लिङ्ग-शरीर-रूपस्याध्यात्मादि-त्रयस्य लयम् आह—वाचम् इत्य्-आदिना । तत्र यद्यपि यथोद्भवं लयस्य युक्तत्वाद् अध्यात्मादीनां स्व-स्व-कारणेषु राजसाहङ्कारादिषु लयो वाच्यः, तथापीह तेषां लय-भावनेयम् अद्वितीयात्म-प्रतिपत्ति-परेति, यथा-कथञ्चिल् लये भाव्ये देवतानां प्रवर्तकत्वेन प्राधान्याद् इन्द्रिय-तद्-विषययोर् देवतासु लयः कथ्यते । वक्तव्य-सहितां वाचम् अग्नौ न्यसेत् । एवं सर्वत्र । पदानि पादौ । वयसि विष्णौ ॥२६॥

सनादेन शब्देन सह । अध्यात्मनि वायौ । अध्यात्म-विद् इति पाथे वायाव् इति ज्ञातव्यम् ॥२७॥

ज्योतिष्य् आदित्ये । रस-गन्धयोस् त्व् इन्द्रियाद्य्-आकर्षकत्वेन प्राधान्य-विवक्षया देवता-सहितस्येन्द्रियस्य विषये लयम् आह—प्रचेतसा सह जिह्वां रसनम् अप्सु रस-रूपासु । घ्राण-शब्देनाश्विनोर् अप्य् उपलक्षणम् । अश्विभ्यां सह घ्राणं घ्रेयैर् गन्धैर् उपलक्षितायां क्षिताव् इत्य् अर्थः ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्थूल-शरीरस्य लयम् उक्त्वा लिङ्ग-शरीर-लयम् आह—वाचम् इति । तत्र इन्द्रियाणां तद्-विषयाणां च प्रवर्तकत्वेन देवतास्व् एवात्र लय उक्तः । वयसि विष्णौ ॥२६॥

यथा-स्थानं स्थानम् अनतिक्रम्य तत्-तत्-स्थानं स्पृष्ट्वा विनिर्दिशेत् । प्रथमम् इमां वाचम् अग्नौ विलापयामीति प्रयुञ्जीत । ततोऽभिनिवेशयेद् इत्य् अन्वयः । स ज्ञानी नादेन सहेत्य् अर्थः । अध्यात्मनि वायौ । ज्योतिषि सूर्ये । प्रकृष्टं चेतो यत्र स प्रेचेता मधुरादि-रसः, तेन सह जिह्वाम् अप्सु जलाधिष्ठातरि वरुणे । घ्रेयैर् विविध-गन्धैः सह घ्राणेन्द्रियं क्षितौ क्षीयते लीयतेऽत्रेति क्षितिः, तद्-अधिष्ठातृ-देवता तस्याम् अश्विनोर् इत्य् अर्थः ॥२७-२८॥

—ओ)०(ओ—

॥ ७.१२.२९ ॥

मनो मनोरथैश्3** चन्द्रे बुद्धिं बोध्यैः कवौ परे ।**

कर्माण्य् अध्यात्मना रुद्रे यद्-अहं ममता-क्रिया ॥

सत्त्वेन चित्तं क्षेत्र-ज्ञे गुणैर् वैकारिकं परे ॥

मध्वः : परः कविर् बृहस्पतिः ।

चित्तं हिरण्यगर्भे तु विलाप्य परमात्मनि ।
क्षेत्रज्ञान्ये लापयेच् च ततो नान्यत् स्मरेद् बुधः ॥ इति च ॥२९॥

**श्रीधरः : **परे कवौ ब्रह्मणि । अध्यात्मनाहङ्कारेण । अध्यात्मताम् इति पाठे कर्माण्य् अहङ्कारं चेत्य् अर्थः । कथं-भूते रुद्रे? यद् यस्माद् अहं ममता-पूर्विका क्रिया भवति, तस्मिन् । सत्त्वेन चेतनया । गुणैर् गुण-कार्यैः प्राग् अवशिष्टैर् देवैः सह । यद् वा, सत्त्वादिभिर् गुणैर् हेतु-भूतैः । वैकारिकं भोक्तृत्वादि-विकारवन्तं क्षेत्र-ज्ञं परे निर्विकारे ब्रह्मणि ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मनोरथैर् मननीयैर् विषयैः, बोध्यैर् बुद्धि-विषयैः । परे कवौ ब्रह्मणि । अध्यात्मना अहङ्कारेण सह कर्माणि तद्-विषयान् रुद्रे, यद् यस्माद् अहं-ममता-पूर्विका क्रिया भवति, तस्मिन् रुद्रे । सत्त्वेन चेतनया सह क्षेत्रज्ञे चित्ताधिष्ठातरि वासुदेवे । गुण-कार्यत्वाभावात् तद्-इतरैर् इत्य् अर्थः । वैकारिकं जीवं परे ब्रह्मणि ॥२९॥

—ओ)०(ओ—

॥ ७.१२.३० ॥

अप्सु क्षितिम् अपो ज्योतिष्य् अदो वायौ नभस्य् अमुम् ।
कूटस्थे तच् च महति तद् अव्यक्तेऽक्षरे च**4** तत् ॥**

**श्रीधरः : **ननु विकारवतः कथं परेऽविकारे लयः स्यात् ? विकार-हेतूनां सर्वोपाधीनां लय-द्वारेणेत्य् आह—अप्स्व् इति । अदो ज्योतिः । तच् च नभः कूट-स्थेऽहं-तत्त्वे । तच् च कूट-स्थं महति महत्-तत्त्वे । तद्-अव्यक्ते प्रधाने । तच् च अव्यक्तम् अक्षरे परमात्मनि ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु तद् अपि कथम् अद्वय-ब्रह्म-ज्ञानं स्यात्, समष्टि-तत्त्वानां पृथिव्य्-आदीनां वर्तमानत्वात् ? इति चेत्, तेषाम् अपि यथोद्भवं लयं ज्ञातवत एवेत्य् आह—अप्स्व् इति । अदो ज्योतिः । अमुं वायुम् । तच् च नभः कूट-स्थेऽहङ्कारे । तं च कूट-स्थं महति महत्-तत्त्वे । तद् अव्यक्ते प्रधाने । तद् अक्षरे परमात्मनि ॥३०॥

—ओ)०(ओ—

॥ ७.१२.३१ ॥

इत्य् अक्षरतयात्मानं चिन्-मात्रम् अवशेषितम् ।
ज्ञात्वाद्वयोऽथ विरमेद् दग्ध-योनिर् इवानलः ॥**

मध्वः : आत्मानं परमात्मानम् अद्वयस् ततोऽन्यत् स्मृति-वर्जितः । दग्ध-योनिर् यथानल इति कृत्याभाव-मात्रम् । न हरिं स्मरतः कृत्यं दग्धेन्धन-हुताशवत् ॥ इति च ॥३१॥

**श्रीधरः : **इति सर्वोपाधि-लयाद् धेतोर् अवशेषितं चिन्-मात्रम् आत्मानं क्षेत्र-ज्ञम् अक्षरतया ज्ञात्वाऽद्वयः सन् विरमेत् । दग्ध-काष्ठो यथाऽनलः ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

आश्रम-धर्मो नाम

द्वादशोऽध्यायः ।

॥ ७.१२ ॥

(७.१३)


  1. त्रिसन्ध्यम् इति उभे सन्ध्ये तु यत-वाग् भवेद् इत्य् उक्त्यैतत् फलितं भवति। [रा।ते।] ↩︎

  2. भिक्षा-ग्रहण-पर्यन्तम् इत्य् अर्थः। [रा।ते।] ↩︎

  3. मनोर्थैर् मननीयैर् विषयैः बोध्यैर् बुद्धि-विषयैः। [रा।ते।] ↩︎

  4. च-कारोऽनुक्त-समुच्चयार्थः ॥ [रा।ते।] ↩︎