११ सद्-आचार-निर्णयः

॥ ७.११.१ ॥1

श्री-शुक उवाच—

श्रुत्वेहितं साधु सभा-सभाजितं

महत्तमाग्रण्य उरुक्रमात्मनः ।

युधिष्ठिरो दैत्य-पतेर् मुदान्वितः

पप्रच्छ भूयस् तनयं स्वयम्भुवः ॥

श्रीधरः :

तद् एवं दशभिर् ज्ञान-भक्ति-योगाव् उदीरितौ ।

अथ पञ्चभिर् अध्यायैः कर्म-योगोऽनुवर्ण्यते ॥

एकादशे नृणां धर्माः साधारण्येन वर्णिताः ।

विशेषेण च वर्णानां मुख्यामुख्याश् च योषिताम् ॥

दैत्य-पतेः प्रह्रादस्य । साधूनां सभासु सभाजितं सत्-कृतम् ईहितं चरितं श्रुत्वा पुनर् नारदं पप्रच्छ । कथं-भूतस्येहितम् ? महत्तमानाम् अग्रण्यो मुख्यस्य । तत्र हेतुः—उरुक्रमे आत्मा मनो यस्य ॥१॥

**क्रम-सन्दर्भः : **हत-सन्देहत्वान् मुदा युतः । अत एव राज्यानुकूल-स्वैर-धर्म-कथाम् अकरोद् इत्य् आह—पप्रच्छेति ॥१॥

**विश्वनाथः : **

वासना भगवद्-भक्त-सङ्गात् साध्वी निरूपिता ।

दशभिः पञ्चभिश् चार्थः सत्-कर्म-प्रभवोच्यते ॥

नृणां साधारणान् धर्मान् विप्रादीनां विशेषतः ।

स्त्रीणां सङ्कर-जातीनां चोवाचैकादशे मुनिः ॥

तद् एवं निर्गुण-भक्ति-वासनायाः कारणत्वे महत्-कृपां दशभिर् अध्यायैर् उक्त्वा स-गुण-भक्ति-वासनायाः कारणं निष्काम-कर्म-योगं पञ्चभिर् अध्यायैर् वक्तुम् आरभते—श्रुत्वेति । साधूनां सभासु सभाजितं सत्-कृतम् । महत्तमानाम् अग्रण्यो मुख्यस्य प्रह्लादस्य ॥१॥

—ओ)०(ओ—

॥ ७.११.२ ॥

श्री-युधिष्ठिर उवाच—

भगवन् श्रोतुम् इच्छामि नृणां धर्मं सनातनम् ।
वर्णाश्रमाचार-युतं यत् पुमान् विन्दते परम् ॥**

**श्रीधरः : **श्रवणेच्छायां हेतुः—यद् यतो धर्माद् अनुष्ठितात् परं ज्ञानं भक्तिं च विन्दते ॥२॥

**क्रम-सन्दर्भः :**ताम् अपि लोक-हितायैव परमार्थम् आश्रित्यैव श्री-नारदेन समम् एव वाकरोद् इत्य् आह—यत् पुमान् इति ॥२॥

विश्वनाथः : सनातनं फल-प्राप्ताव् अपि स्थास्नुं भक्ति-योगम् इत्य् अर्थः । वर्णाश्रमाचार-युतम् इति वर्णाश्रमाचार-धर्मं च श्रोतुम् इच्छामीत्य् अर्थः ॥२॥

—ओ)०(ओ—

॥ ७.११.३ ॥

भवान् प्रजापतेः साक्षाद् आत्मजः परमेष्ठिनः ।
सुतानां सम्मतो ब्रह्मंस् तपो-योग-समाधिभिः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.४ ॥

नारायण-परा विप्रा धर्मं गुह्यं परं विदुः ।
करुणाः साधवः शान्तास् त्वद्-विधा न तथापरे ॥**

**श्रीधरः : **ननु स्मृति-कारैर् धर्म उक्त एव तत्राह—नारायण-परा इति ॥४॥

**क्रम-सन्दर्भः :**ननु, मन्व्-आदयो नारायण-परा एव तत्राह—गुह्यम् इति । गुह्यत्वात् तेऽपि न प्रकाशयन्तीत्य् अर्थः ॥४॥

विश्वनाथः : नन्व् अन्ये मुनयः स्मार्ताः पृच्छ्यन्ताम् इत्य् अत आह—नारायणेति ॥४॥।

—ओ)०(ओ—

॥ ७.११.५ ॥

श्री-नारद उवाच—

नत्वा भगवतेऽजाय लोकानां धर्म-सेतवे ।
वक्ष्ये सनातनं धर्मं नारायण-मुखाच् छ्रुतम् ॥**

**श्रीधरः : **अजाय श्री-नारायणाय । तस्यैव मुखाच् छ्रुतम् ॥५॥

**क्रम-सन्दर्भः :**धर्म-सेतव इति । धर्मोऽत्र ज्ञान-भक्ति-जनको धर्म-विशेषो ज्ञेयः ॥५॥

विश्वनाथः : अजाय श्री-कृष्णाय ॥५॥

—ओ)०(ओ—

॥ ७.११.६ ॥

योऽवतीर्यात्मनोऽंशेन दाक्षायण्यां तु धर्मतः ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ॥**

**श्रीधरः : **तन्-मुखाद् आत्मनः श्रवणं संभावयन् विशिनष्टि—य इति ॥६॥

**क्रम-सन्दर्भः :**आत्मवताम् अनुकम्पयातोऽव्यक्त-गतिश् चरतीति पञ्चम-स्कन्धात् आत्मनोशेन नरेण ॥६॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.७ ॥

धर्म-मूलं हि भगवान् सर्व-वेदमयो हरिः ।
स्मृतं च तद्-विदां राजन् येन चात्मा प्रसीदति ॥**

**श्रीधरः : **प्रथमं तावद् धर्मे प्रमाणम् आह—धर्मेति । धर्मस्य मूलं प्रमाणम् । स्मृतं च स्मृतिः तद्-विदां वेद-विदाम् । येन चात्मा मनः प्रसीदति तुष्यति च । तथा च याज्ञवल्क्यः—

श्रुतिः स्मृतिः सद्-आचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक् सङ्कल्पजः कामो धर्म-मूलम् इदं स्मृतम् ॥ इति ।

मनुश् च—

वेदोऽखिलो धर्म-मूलं स्मृति-शीले च तद्-विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ [म। २.६] इति ॥७॥

**क्रम-सन्दर्भः :**तस्य प्रमाणं, आभ्यां तद्-बहिर्-मुख-धर्मस्य अपार्थत्वं भगवद्-धर्मस्यैवावश्यकत्वं चोक्तम् । अत एव वेदोऽखिलो धर्म-मूलम्[म। २.६] इत्य्-आदि-मनु-स्मृति-वाक्याद् अप्य् अत्र विशिष्टतयोपदिष्टम् । तच् च युक्तं, धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सताम्[भा।पु। १.१.२] इत्य्-आद्य्-उक्तत्वात् । येनैव धर्मेण मनः प्रसीदतीत्य् अनेन ययात्मा सुप्रसीदति[भा।पु। १.२.८] इतिवत् सुशब्द-विशिष्टतया अनुक्तत्वात् तच्-छ्रवण-लक्षण-साक्षाद्-भक्तेर् एव प्रशस्तत्वं च बोधितं येन चात्मेत्य् आत्म-तोषोऽपि प्रमाणम् इत्य् अर्थः ॥७॥

विश्वनाथः : धर्मस्य मूलं कारणं प्रमाणं च हि निश्चितं भगवान् एव यतः सर्व-वेदेति । तद्-भक्त्या विना धर्मा नैव सिद्ध्यन्तीति भावः । स्मृतं स्मृतिः तद्-विदां सर्व-वेद-मय-भगवद्-विदाम् । तेन प्राथमिक-विष्णु-पूजा-विरहित-श्राद्धादि-सप्तमी-विद्ध-रोहिण्य्-अष्टमी-व्रतादि-विधायिकाः स्मृतयो व्यावृत्ताः, येन च आत्मा मनः प्रसीदतीति—

स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥ [भा।पु। १.२.६]

इतिवत् सुशब्दाप्रयोगात् यथा केवलया भक्त्या न तथा धर्मादि-मिश्रया भक्ति-मिश्र-कर्मणा वा मनः प्रसीदतीति ज्ञापितं, भक्ति-रहितो धर्मस् त्व् अग्राह्य एव, तेन

श्रुतिः स्मृतिः सद्-आचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक् सङ्कल्पजः कामो धर्म-मूलम् इदं स्मृतम् ॥ इति याज्ञवल्क्योक्तेः ।

मनुश् च—

वेदोऽखिलो धर्म-मूलं स्मृति-शीले च तद्-विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ [म। २.६] इति मनूक्तेर् अपि

सकाशात् धर्म-मूलं हि भगवान् इति नारदोक्तिर् एव श्रेयसी । यद् उक्तं नारसिंहे—

सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः ।
प्रवृत्ताख्ये मरीच्य्-आद्या मुक्त्यैकं नारदं मुनिम् ॥इति ।

नारदस्यैव तेभ्य उभयेभ्यः श्रैष्ठ्यं सर्व-धर्म-सार-विज्ञत्वं च ध्वनितम् ॥७॥

—ओ)०(ओ—

॥ ७.११.८ ॥

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥**

**श्रीधरः : **तत्र तावन् नर-मात्र-साधारण-धर्मम् आह—सत्यम् इति पञ्चभिः । तप एकादश्य्-उपवासादि । ईक्षा युक्तायुक्त-विवेकः । शमो मनसः संयमः । दमो बाह्येन्द्रियाणाम् । त्यागो दानम् । स्वाध्यायो यथोचित-जपः ॥८॥

**क्रम-सन्दर्भः :**सत्यम् इत्य्-आदि सार्ध-पञ्चकम् ॥८॥

विश्वनाथः : तत्र तावन् नर-मात्र-साधारणं सनातनं भक्ति-योगं धर्मम् आह—सत्यम् इति पञ्चभिः । तत्र सत्याद्या एकविंशतिर् भक्त्य्-उपकरणीभूताः । शास्त्राद्या नव तु साक्षाद् भक्तिर् एवेति ज्ञेयम् । तप एकादश्य्-उपवासादि । शमो मनसो निग्रहः । दमो बाह्येन्द्रियाणाम् । स्वाध्यायो यथोचित-जपः ॥८॥

—ओ)०(ओ—

॥ ७.११.९ ॥

सन्तोषः समदृक्-सेवा ग्राम्येहोपरमः शनैः ।
नृणां विपर्ययेहेक्षा मौनम् आत्म-विमर्शनम् ॥**

**श्रीधरः : **सन्तोषो दैव-लब्धेनालं-बुद्धिः । सम-दृशां महतां सेवा । ग्राम्येहोपरमः प्रवृत्त-कर्मभ्यो निवृत्तिः । विपर्ययेहेक्षा निष्फल-क्रियाणाम् ईक्षणम् । मौनं वृथालाप-निवृत्तिः । आत्म-विमर्शनं देहादि-व्यतिरिक्तात्मानुसन्धणम् ॥९॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **सम-दृशां महतां सेवा । विपर्ययेहा निष्फल-क्रियास् तासाम् पर्यालोचनम् । मौनं वृथा-वाक्य-निवृत्तिः । आत्म-विमर्शनम् आत्मनो देह-भिन्नत्व-भावना ॥९॥

—ओ)०(ओ—

॥ ७.११.१० ॥

अन्नाद्यादेः संविभागो भूतेभ्यश् च यथार्हतः ।
तेष्व् आत्म-देवता-बुद्धिः सुतरां नृषु पाण्डव ॥**

**श्रीधरः : **आत्मेति देवतेति च बुद्धिः ॥१०॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : अन्नाद्य्-आदेः अन्न-मोदनम् आद्यं मोदकादि तत्-तद्-आदेर् वस्त्र-स्रक्-चन्दनादेर् यथोचितं विभज्यैव ग्रहणम् आत्मवत् देवतावच् च बुद्धिर् भावना ॥१०॥

—ओ)०(ओ—

॥ ७.११.११ ॥

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम् ॥**

**मध्वः :**अनाद्य्-अनन्त-कालेषु मुक्तौ संसार एव च ।

मयि स्थितश् चोदयति ह्य् एको विष्णुः सदैव तु ॥
इति सम्प्रीतिकं ज्ञानं विद्याद् आत्म-समर्पणम् ।
जन्म-कर्मावदातानां क्रियाश् चाश्रम-चोदिताः ॥ इति तन्त्र-मालायाम् ॥११॥

**श्रीधरः : **अस्य श्री-कृष्णस्य श्रवणादयो नव । इज्यऽर्चनम् ॥११॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.१२ ॥

नृणाम् अयं परो धर्मः सर्वेषां समुदाहृतः ।
त्रिंशल्-लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥**

**श्रीधरः : **एवं त्रिंशल्-लक्षण-वान् ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.१३ ॥

संस्कारा यत्राविच्छिन्नाः स द्विजोऽजो जगाद यम् ।

इज्याध्ययन-दानानि विहितानि द्विजन्मनाम् ।
जन्म-कर्मावदातानां क्रियाश् चाश्रम-चोदिताः ॥**

**श्रीधरः : **इदानीं वर्ण-धर्मान् वक्तुं द्विजानां लक्षणम् आह—संस्कारा मन्त्रवन्तो गर्भाधानादयो यस्मिन्न् अविच्छिन्नाः स द्विजः । तर्हि शूद्रस्यापि संस्काराविच्छेदे सति द्विजत्वं स्यात् तत्राह—अजो ब्रह्मा यम् एवं-भूत-संस्कार-युक्तं जगाद स द्विजः । शूद्रं तु न मन्त्र-वत् संस्कार-युक्तं जगाद न चोपनयन-वन् तम् अतो नासौ द्विजः । तथा च स्मृतिः,

विवाह-मात्र-संस्कारं शूद्रोऽपि लभतां सदा ।
न केनचित् समसृजच् छन्दसा तं प्रजा-पतिः ॥ इति ।

श्रुतिश् च—गायत्र्या ब्राह्मणम् असृजत् । त्रि-ष्टुभा राजन्यम् । जगत्या वैश्यम् । न केनचिच् छूद्रम् इति ।

अतो विवाह-व्यतिरिक्त-संस्कारस्यानावश्यकत्वाद् उपनयनस्य तु सर्वथा निषेधान् न तस्य द्विजत्वम् इत्य् अर्थः । पाठान्तरे वैदिकादय इति गर्भाधानादय इत्य् अर्थः । त्रैवर्णिकानाम् आवश्यकान् धर्मान् आह—इज्येति । जन्मना विशुद्धेन कुलेन कर्मणा चाचारेणावदातानां शुद्धानाम् । दुष्कुलानां दुराचाराणां च नैतानि विहितानीत्य् अर्थः । ब्रह्मचर्य्-आद्य्-आश्रम-विहिताः क्रियाश् च । शूद्रस्य तु वर्ण-धर्मा एव, आश्रम-भेद-कृत-विशेषाभावात् ॥१३॥

**क्रम-सन्दर्भः :**संस्कारा इत्य् अर्धकम् । ननु, शूद्रस्यापि तेषु संस्कारेषु कृतेषु द्विजत्वं स्यात् ? तत्राह—अजो यं सृष्ट्वा द्विजे जगाद द्विजत्वेन निदिदेश तज्-जातिक एव संस्कारेषु लब्धेषु द्विजः स्याद् इत्य् अर्थः ॥१३॥

विश्वनाथः : इदानीं वर्ण-धर्मान् वक्तुं द्विजानां लक्षणम् आह—संस्कारा मन्त्रवन्तो गर्भाधानादयो यस्मिन् स द्विजः । विच्छिन्न-संस्कारो द्विज-बन्धुर् इत्य् अर्थः । अजो ब्रह्मा यं जगादेति ब्रह्म-सृष्ट्यारम्भत एव प्रवृत्तायां द्विज-जातौ विशुद्ध-मातापितृकम् जन्मैव मुख्य-लक्षणम् इत्य् अर्थः ॥१३॥

—ओ)०(ओ—

॥ ७.११.१४ ॥

विप्रस्याध्ययनादीनि षड्-अन्यस्याप्रतिग्रहः ।
राज्ञो वृत्तिः प्रजा-गोप्तुर् अविप्राद् वा करादिभिः ॥**

**श्रीधरः : **ब्राह्मणादीनां चतुर्णाम् अपि वृत्ति-रूपान् धर्मान् आह—विप्रस्येति सार्धैः सप्तभिः । विप्रस्य षट् कर्माणि विहितानीत्य् अनुषङ्गः । तत्र त्व् अध्यापनं याजनं प्रतिग्रहश् च जीविका । यथाह मनुः—

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ [मनु १०.७]इति ।

अन्यस्य क्षत्रियस्य अप्रतिग्रह इति प्रतिग्रहातिरिक्तं याजनम् अध्यापनं चापद्य् अनुजानाति । वक्ष्यति चानन्तरम् एव, ऋते राजन्यम् इति । श्रूयते चाश्व-पतिकैकय-प्रभृतीनां क्षत्रियाणाम् उपदेष्टृत्वादि । प्रजा-पालनेऽधिकृतस्य क्षत्रियस्य वृत्त्य्-अन्तरम् आह—राज्ञ इति । आदि-शब्देन दण्ड-शुल्कादि ॥१४॥

**क्रम-सन्दर्भः :**अविप्राद् वेति वा-शब्दात् क्वचिद् विप्राद् अपीत्य् अर्थः । वपनं द्रविणादानम् इत्य् आदेः ॥१४॥

विश्वनाथः : ब्राह्मणादीनां चतुर्णां वृत्ति-रूपान् धर्मान् आह—विप्रस्येति सार्धैः सप्तभिः । षट् विहितानीत्य् अनुषङ्गः । तत्र तु अध्यापनं याजनं प्रतिग्रहश् च जीविका । तथा च मनुः—

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ [मनु १०.७]इति ।

अन्यस्य क्षत्रियस्य अप्रतिग्रह इति याजनाध्यापने आपद्-वृत्ती । प्रतिग्रहस् तस्यापद्य् अपि निषिद्धः । प्रजागोप्तुर् इति पाल्यमानाभिः प्रजाभिर् दत्तं प्रणत्य्-उपायनम् एव वृत्तिर् इत्य् अर्थः । विप्र-भिन्नात् लोकात् कर-दण्ड-शुक्लादिभिर् वा ॥१४॥

—ओ)०(ओ—

॥ ७.११.१५ ॥

वैश्यस् तु वार्ता-वृत्तिः स्यान् नित्यं ब्रह्म-कुलानुगः ।
शूद्रस्य द्विज-शुश्रूषा वृत्तिश् च स्वामिनो भवेत् ॥**

**श्रीधरः : **वार्ता कृषि-वाणिज्यादि-लक्षणा वृत्तिर् यस्य । शूद्रस्य द्विजानां शुश्रूषा विहिता । स्वामिनो द्विजस्य तु शुश्रूषा वृत्तिश् च भवेत् ॥१५॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **वार्ता कृषि-वाणिज्यादयो वृत्तिर् यस्य सः । द्विज-शुश्रूषा धर्मः । स्वामिनो द्विजस्य शुश्रूषा सेवा-वृत्तिश् च ॥१५॥

—ओ)०(ओ—

॥ ७.११.१६ ॥

वार्ता विचित्रा शालीन- यायावर-शिलोञ्छनम् ।
विप्र-वृत्तिश् चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥**

**श्रीधरः : **विप्रस्य मुख्यानुकल्प-भेदेव वृत्त्य्-अन्तराण्य् आह—वार्तेति । वार्ता विचित्रा कृष्य्-आदि-रूपा । शालीनं धार्ष्ट्यं विनैव प्राप्तम् अयाचितम् । यायावरं प्रत्य् अहं धान्य-याच्ञा । शिलं शालि-क्षेत्रादौ स्वामि-त्यक्त-कणिशोपादानम् । उञ्छनम् आपणादि-पतित-कणोपादानम् । शिलोञ्छन-द्वयम् एकी-कृत्य चतुर्धेत्य् उक्तम् । श्रेयसी उत्तमा ॥१६॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **विप्रस्य वृत्त्य्-अन्तराण्य् आह—वार्ता विचित्रा विविधा तत्र शालीनमयाचितम् । यायावरं प्रत्यहं धान्य-मात्र-याच्ञा । शिलं शालि-क्षेत्रादौ स्वामि-त्यक्त-कणिशोपादानम् । उञ्छनम् आपणादि-पतित-कणोपादानम् ॥१६॥

—ओ)०(ओ—

॥ ७.११.१७ ॥

जघन्यो नोत्तमां वृत्तिम् अनापदि भजेन् नरः ।
ऋते राजन्यम् आपत्सु सर्वेषाम् अपि सर्वशः ॥**

**श्रीधरः : **वृत्तिष्व् एव व्यवस्थां दर्शयन्न् आपद्-वृत्तीर् आह—जघन्यो नीचः । उत्तमाम् अध्यापनादि-रूपाम् । ऋते राजन्यम् । क्षत्रियस् तु प्रतिग्रहाद् अन्यां भजेत् ॥१७॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : आपद्-वृत्तीर् आह—जघन्यो नीचः उत्तमाम् अध्यापनादि-रूपम् । ऋते राजन्यं क्षत्रियस् तु प्रतिग्रहाद् अन्यां भजेत् ॥१७॥

—ओ)०(ओ—

॥ ७.११.१८-२० ॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।
सत्यानृताभ्याम् अपि वा न श्व-वृत्त्या कदाचन ॥**

ऋतम् उञ्छशिलं प्रोक्तम् अमृतं यद् अयाचितम् ।
मृतं तु नित्य-याच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥**

सत्यानृतं च वाणिज्यं श्व-वृत्तिर् नीच-सेवनम् ।

वर्जयेत् तां सदा विप्रो राजन्यश् च जुगुप्सिताम् ।
सर्व-वेदमयो विप्रः सर्व-देवमयो नृपः ॥**

**श्रीधरः : **चतुर्-विधां पूर्वोक्तां विप्र-वृत्तिम् इतरेषाम् अपि दर्शयन्न् आह—ऋताम् ऋताभ्याम् इति ॥१८॥ श्लोकं व्याचष्टे—ऋतम् इति ॥१९॥ तयोस् तद्-वर्जने हेतुम् आह—सर्व-वेद-मय इति ॥२०॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : विप्र-वृत्तीर् वैश्य-वृत्तीश् च काश्चित् सर्वेषाम् अप्य् आपद्य् अनुजानीते । ऋतामृताभ्याम् इति श्लोकम् इमं व्याचष्टे ऋतम् इति सार्धेन । तयोस् तद्-वर्जने हेतुम् आह—सर्वेति । तेन वैश्य-शूद्रयोर् नीच-सेवयाप्य् आपदि न तावान् दोष इति भावः ॥१८-२०॥

—ओ)०(ओ—

॥ ७.११.२१ ॥

शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् ॥

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्म-लक्षणम् ।

**श्रीधरः : **वर्णणाम् अभिव्यञ्जक-रूपान् धर्मान् आह—शम इति चतुर्भिः । अच्युतात्मत्वं श्री-विष्णु-परत्वम् ॥२१॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**विश्वनाथः : **वर्णणाम् अभिव्यञ्जकानि लक्षणान्य् आह—शम इति चतुर्भिः । अच्युतात्मत्वं विष्णु-मनस्कत्वम् ॥२१॥

—ओ)०(ओ—

॥ ७.११.२२ ॥

शौर्यं वीर्यं धृतिस् तेजस् त्यागश् चात्मजयः क्षमा ।
ब्रह्मण्यता प्रसादश् च सत्यं च क्षत्र-लक्षणम् ॥**

**श्रीधरः : **शौर्यं युद्धोत्साहः । वीर्यं प्रभावः । तेजः प्रागल्भ्यम् । त्यागो दानम् । आत्मनो मनसो जयः ॥२२॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.२३ ॥

देव-गुर्व्-अच्युते भक्तिस् त्रि-वर्ग-परिपोषणम् ।
आस्तिक्यम् उद्यमो नित्यं नैपुण्यं वैश्य-लक्षणम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.२४ ॥

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्य् अमायया ।
अमन्त्र-यज्ञो ह्य् अस्तेयं सत्यं गो-विप्र-रक्षणम् ॥**

**श्रीधरः : **अमन्त्र-यज्ञो नमस्-कारेणैव पञ्च-यज्ञानुष्ठानम् । तथा च याज्ञवल्क्यः—नमस्-कारेण मन्त्रेण पञ्च-यज्ञान् न हापयेत् इति ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.२५ ॥

स्त्रीणां च पति-देवानां तच्-छुश्रूषानुकूलता ।
तद्-बन्धुष्व् अनुवृत्तिश् च नित्यं तद्-व्रत-धारणम् ॥**

**श्रीधरः : **स्त्री-धर्मान् आह—स्त्रीणाम् इति पञ्चभिः । पतिर् एव देवो यासाम् । तस्य पत्युर् एव शुश्रूषा पाद-संवाहनादिभिः । तद्-अनुकूलता च हिताचरणम् । तस्य यद् व्रतं नियमस् तस्य धारणम् आचरणम् । एतच् चतुष्टयं पति-व्रतानं लक्षणं धर्मश् च ॥२५॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः : साध्वीनां लक्षणानि धर्मांश् चाह—स्त्रीणाम् इति पञ्चभिः । पतिर् एव देवः पूज्यो यासाम् ॥२५॥

—ओ)०(ओ—

॥ ७.११.२६-२७ ॥

सम्मार्जनोपलेपाभ्यां गृह-मण्डन-वर्तनैः ।
स्वयं च मण्डिता नित्यं परिमृष्ट-परिच्छदा ॥**

कामैर् उच्चावचैः साध्वी प्रश्रयेण दमेन च ।
वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥**

**श्रीधरः : **किं च, सम्मार्जनोपलेपाभ्याम् इत्य्-आदेः पतिं भजेद् इत्य् उत्तरेणान्वयः । परिमृष्टा उद्वर्तनादिना निर्मली-कृताः परिच्छदा गृहोपकरणानि यया ॥२६॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.२८ ॥

सन्तुष्टालोलुपा दक्षा धर्म-ज्ञा प्रिय-सत्य-वाक् ।
अप्रमत्ता शुचिः स्निग्धा पतिं त्व् अपतितं भजेत् ॥**

**श्रीधरः : **किं च सन्तुष्टा यथालाभेन । तावन् मात्र-भोगेऽप्य् अलोलुपा । दक्षा अनलसा । प्रिया सत्या च वाग्यस्याः । सर्वत्राप्य् अप्रमत्तावहिता । अपतितं महा-पातक-शून्यम् । यथाह याज्ञवल्क्यः—आशुद्धेः सम्प्रतीक्ष्यो हि महा-पातक-दूषितः इति ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.११.२९ ॥

या पतिं हरि-भावेन भजेत् श्रीर् इव तत्-परा ।
हर्य्-आत्मना हरेर् लोके पत्या श्रीर् इव मोदते ॥**

**मध्वः :**हरिर् अस्मिन् स्थित इति स्त्रीणां भर्तरि भावना ।

शिष्याणां च गुरौ नित्यं शूद्राणां ब्राह्मणादिषु ।
भृत्यानां स्वामिनि तथा हरि-भाव उदीरितः ॥ इति च ॥२९॥

**श्रीधरः : **तत्-परा सती भजेत् । श्रीर् हरिम् इव । हर्य्-आत्मना पत्या सह ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**हर्य्-आत्मना पत्या सह ॥२९॥

—ओ)०(ओ—

॥ ७.११.३० ॥

वृत्तिः सङ्कर-जातीनां तत्-तत्-कुल-कृता भवेत् ।
अचौराणाम् अपापानाम् अन्त्यजान्तेवसायिनाम् ॥**

**श्रीधरः : **प्रतिलोमजानुलोमजानां वृत्तिम् आह—वृत्तिर् इति । तत्-तत्-कुल-कृता कुल-परम्परा-प्राप्ता परम्परा-प्राप्तम् अपि चौर्यं हिंसादिकं च प्रतिषेधति—अचौराणाम् अपापानां चेति । तत्-प्रदर्शनार्थं कांश्चित् प्रतिलोमज-विशेषान् आह—अन्त्यजेति ।

रजकश् चर्म-कारश् च नटो बुरुड एव च ।
कैवर्त-मेद-भिल्लाश् च सप्तैते अन्त्यजाः स्मृताः ॥ इति ।

अन्तेवसायिनस् तु चाण्डाल-पुल्कस-मातङ्गादयः । तेषां परम्परा-प्राप्तैव वस्त्र-निर्णेजनादि-वृत्तिर् इत्य् अर्थः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अनुलोमज-प्रतिलोमजानां वृत्तिम् आह—वृत्तिर् इति । कुल-कृता कुल-परम्परा-प्राप्ता यथा नापित-रजकादीनां मुण्डन-वस्त्र-निर्णेजनादिका । अपापानाम् इति कुल-परम्परा-प्राप्त-मदिरा-पान-विधवा-विवाहादि-पापवतां पापाभाव उक्तः । चौर्यं तु तेषाम् अपि प्रतिसिद्धम् इत्य् आह—अचौराणाम् इति । अचौरत्वे सत्य् एव वृत्तिः कुल-कृता विहिता पापाभावश् चोक्त इति भावः । तत्-प्रदर्शनार्थं कांश्चित् प्रतिलोमज-विशेषान् आह—अन्त्यजेति।

रजकश् चर्म-कारश् च नटो बुरुड एव च ।
कैवर्त-मेद-भिल्लाश् च सप्तैते अन्त्यजाः स्मृताः ॥ इति ।

अन्तेवसायिनस् तु चण्डालादयः ॥३०॥

—ओ)०(ओ—

॥ ७.११.३१ ॥

प्रायः स्व-भाव-विहितो नृणां धर्मो युगे युगे ।
वेद-दृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्म-कृत् ॥**

**श्रीधरः : **श्रेष्ठाद् अपि पर-धर्मान् नीचोऽपि स्व-धर्म एव श्रेयान् इत्य् आह—प्राय इति । स्वभावेन सत्त्वादि-प्रकृत्या विहितो धर्मः शर्म-कृत् सुख-हेतुः स्मृतः । कैः ? वेद एव दृक् चक्षुर् येषां तैः । भगवता चोक्तम्—श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् [गीता ३.३५] इति ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**श्रेष्ठाद् अपि पर-धर्मान् नीचोऽपि स्व-धर्म एव श्रेयान् इत्य् आह—प्राय इति । वेद-दृभिर् वेदज्ञैः शर्मकृत् सुख-हेतुः स्मृतः । भगवता चोक्तम्—श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् [गीता ३.३५] इति । प्रायो ग्रहणात् दुर्जातीनां दुराचार-त्यागस् तु नाशर्मकृत् ॥३१॥

—ओ)०(ओ—

॥ ७.११.३२ ॥

वृत्त्या स्व-भाव-कृतया वर्तमानः स्व-कर्म-कृत् ।
हित्वा स्व-भाव-जं कर्म शनैर् निर्गुणताम् इयात् ॥**

**श्रीधरः : **ननु स्वाभाविकस्य कर्मणो बन्ध-हेतुत्वात् कथं सुख-हेतुत्वं तत्राह—वृत्त्येति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- शनैर् बहु-जन्मान्तर एव । यद् उक्तं—स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति इत्य् आदि ॥३२॥

—ओ)०(ओ—

॥ ७.११.३३-३४॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यताम् इयात् ।
न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥**

एवं कामाशयं चित्तं कामानाम् अतिसेवया ।
विरज्येत यथा राजन्न् अग्निवत् काम-बिन्दुभिः ॥**

**श्रीधरः : **ननु काम्यानि कर्माणि कुर्वतस् तत्-फल-भोग-परस्य कथं नैर्गुण्यं स्यात् । तद् उक्तं प्रह्रादेन—औपस्थ्य-जैह्वं बहु-मन्यमानः कथं विरज्येत दुरन्त-मोहः [भा।पु। ७.६.१३] इत्य्-आदि । तत्राधिकारि-भेदेन व्यवस्थां सदृष्टान्ताम् आह—उप्यमानम् इति द्वाभ्याम् । पुनः सूत्यै सस्य-प्रसवाय ।

कामा आशेरते वासनारूपेण यस्मिंस् तत् । अयं भावः—उत्कट-वासनाविष्टस्य सहसैव काम-त्यागासंभवाद् वेदोक्त-नियमेन बहुशः कामान् भुञ्जान् अस्यैव नित्य-नैमित्तिकैर् विशुद्ध-चेतसस् तद् दोष-दर्शनेन ययाति-सौभरि-प्रमुखानाम् इव शनैर् विरागो भवति, यथा स-वीर्यं क्षेत्रं शनैर् निर्वीर्यं भवति, यथा च प्रज्वलितोऽग्निर् न घृत-बिन्दुभिः शाम्यति, महता तु घृत-पूरेण शाम्यत्य् एव तद्वत् । प्रह्राद-कृत-स्तुतौ कौमार एव निवृत्त्य्-उपदेशो मन्द-वासनानाम् अधिकारेण । तद् उक्तं तत्रैव—बाला न दूषित-धियो द्वन्द्वारामेरितेहितैः इति । अतः सर्वम् अनवद्यम् ॥३३-३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- अत्युत्कट-वासना-विशिष्टानां तु वेदोक्त-नियमेन काम-त्यागासम्भवात् बहुशः कामान् निषिद्धेतरान् ययाति-सौभरि-प्रमुखानाम् इव भुञ्जानाम् अकुटिल-चित्तानां विरागः स्याद् इति स-दृष्टान्तम् आह उप्यमानम् इति द्वाभ्याम् । निर्वीर्यताम् एवाह—क्वचित् सूत्यै शस्य-प्रसवाय न कल्पते । क्वचित् उप्तम् एव बीजं नश्यति ज्वलति कामा आ सम्यग् एव शेरते वासना-रूपेण यत्र तत् । नाग्निवद् इति यथा प्रज्वलितोऽग्निर् न घृत-बिन्दुभिः शाम्यति, किन्तु महता घृत-पूरेण शाम्यत्य् एव तद्वत् ॥३३-३४॥

—ओ)०(ओ—

॥ ७.११.३५ ॥

यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥**

**श्रीधरः : **शमादिभिर् एव ब्राह्मणादि-व्यवहारो मुख्यो न जाति-मात्राद् इत्य् आह—यस्येति । यद् यदि अन्यत्र वर्णान्तरेऽपि दृश्येन तद् वर्णान्तरं तेनैव लक्षण-निमित्तेनैव वर्णेन विनिर्दिशेत् । न तज् जाति-निमित्तेनेत्य् अर्थः ॥३५॥

क्रम-सन्दर्भः :न व्याख्यातम्।

विश्वनाथः- किं च, यस्य पुंसो वर्णाभिव्यञ्जकं मल्-लक्षणं वर्णं ब्राह्मणादि-जातिम् अभिव्यञ्जयति यत् तच् च सामान्यतो विहितम् एव शम-दमादिकं, न तु विशेषतो विहितं सन्धोपास्तादिकं यद्य् अन्यत्र जात्य्-अन्तरेऽपि दृश्यते तज्-जात्य्-अन्तरम् अपि तेनैव ब्राह्मणादि-शब्देनैव विनिर्दिशेद् इति ब्राह्मणादि-तुल्यादरं लक्षयति । न च पर-धर्मो भयावहः [गीता३.३५]इति वाच्यम् । शम-दमादीनां पर-धर्मत्वाभावाद् इति भावः ॥३५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

एकादशः सप्तमस्य सङ्गतः सङ्गतः सताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

सद्-आचार-निर्णयो नाम

एकादशोऽध्यायः ।

॥ ७.११ ॥

(७.१२)


  1. सोमे एदितिओन्स् हवे थे फ़ोल्लोwइन्ग् वेर्से अत् थे बेगिन्निन्ग्- एवं विधानि अस्य हरेः स्व-मायया विडम्बमानस्य नृ-लोकम् आत्मनः । वीर्याणि गीतानि ऋषिभिः जगद्-गुरोर् लोकं पुनानानि अपरं वदामि किम् ॥ ↩︎