॥ ७.१०.१ ॥
श्री-नारद उवाच—
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
श्रीधरः :
दशमे त्व् अनुगृह्यामुं भक्तम् अन्तर्हिते हरौ ।
प्रसङ्गाद् धरिणा रुद्रे कृतोऽनुग्रह ईर्यते ॥
तत् सर्वं वर-जातम् ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
प्रह्लादाय वरं दत्त्वा दशमेऽन्तर्हिते हरौ ।
तस्यैवानुग्रहाद् ईशः पुरस् तिस्रो ददाह सः ॥
तत् सर्वं वर-जातम् । स्मयमान इति “मां बालकम् अज्ञं प्रलोभयन् प्रभुर् अयं मद्-बुद्धिं परीक्षते” इति विचारोत्थं स्थितम् ॥१॥
—ओ)०(ओ—
॥ ७.१०.२ ॥
श्री-प्रह्राद उवाच—
मा मां प्रलोभयोत्पत्त्यासक्तं कामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥
श्रीधरः : उत्पत्त्या स्व-भावेनैव आसक्तं माम् । तेषां कामानां सङ्गाद् भीतः ॥२॥
क्रम-सन्दर्भः : मुमुक्षुस् तान् कामान् त्यक्तुम् इच्छुः ॥२॥
विश्वनाथः : उत्पत्त्या स्वभावेनैव वरैर् वर-दानैस् तेषां कामानां सङ्गाद् भीतः । अत एव मुमुक्षुस् तान् मोक्तुम् इच्छुः ॥२॥
—ओ)०(ओ—
**॥ ७.१०.३ ॥ **
भृत्य-लक्षण-जिज्ञासुर् भक्तं कामेष्व् अचोदयत् ।
भवान् संसार-बीजेषु हृदय-ग्रन्थिषु प्रभो ॥
श्रीधरः : ननु किम् अहं भक्तं प्रलोभयामि ? नहि, किन्तु वरं वृणीष्वेति वदतस् तवाभिप्रायोऽन्य एवेत्य् आह—भृत्य-लक्षणेति । हृदयस्य ग्रन्थिवद् बन्धकेषु ॥३॥
**क्रम-सन्दर्भः : **भृत्येति सार्धकम् । भृत्यस्य लक्षणं साधरण-धर्मं जिज्ञासुर् लोकेषु ज्ञापयितुम् इच्छुर् इत्य् अर्थः ॥३॥
विश्वनाथः : ननु किम् अहं भक्तं प्रलोभयामि ? नहि नहि ! स्वभक्तस्य सर्वोत्कृष्टां निष्ठां लोके ख्यापयसीत्य् आह—भृत्येति । मया दीयमानान् वरान् कथं न गृह्णासि ? इत्य् उक्ते मद्-भृत्य एव मद्-भृत्यस्य लक्षणं कथयिष्यतीत्य् अभिप्रायस् तवावगम्यत इति भावः । प्रभुर् इति सर्वज्ञस्य तव जिज्ञासा नोपपद्यते इत्य् अतः सर्वान् ज्ञापयितुम् एवेति भावः । अखिल-गुरो [परवर्ति-चरणे] सर्व-हितोपदेष्टुस् तव ब्रह्म-रुद्रादीनाम् इवेति भावः ॥३॥
—ओ)०(ओ—
**॥ ७.१०.४ ॥ **
नान्यथा तेऽखिल-गुरो घटेत करुणात्मनः ।
यस् त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥
श्रीधरः :अन्यथा अनर्थ-साधने प्रवर्तनं न घटेत इत्य् अर्थः । कथम् एवं भृत्य-लक्षण-ज्ञानं स्यात् ? तत्राह—य इति । ते त्वत्तः ॥४॥
**क्रम-सन्दर्भः : **यस् त्व् इत्य् अर्धकम् ॥४॥
विश्वनाथः : तद् ब्रूहि भृत्य-लक्षणम् इति चेत् स्वामि-भृत्ययोर् उभयोर् अपि लक्षणं ब्रवीमीत्य् आह—य इति । ते त्वत्तः । वणिग् इति तुभ्यं किञ्चित् पत्र-पुष्प-नैवेद्यादिकं दत्त्वा हस्त्य्-अश्व-रथादिमतीं सम्पत्तिं ब्रह्मेन्द्रादि-पदं वा जिघृक्षतीति भावः ॥४॥
—ओ)०(ओ—
**॥ ७.१०.५ ॥ **
आशासानो न वै भृत्यः स्वामिन्य् आशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥
**श्रीधरः : **ननु कामनयापि सेव्य-सेवकयोः स्वामि-भृत्य-भावः प्रसिद्धः ? सत्यम् । सोपाधिकोऽसौ, न तु तात्त्विक इत्य् आह—स्वामिन्य् आत्मन आशिषोऽपेक्षमानो नैव भृत्यः । भृत्य-हेतुकम् आत्मनः स्वाम्यम् इच्छन् यो भृत्याय ददाति, स च नैव स्वामी ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : उक्तम् एवार्थं पुष्यति—आशासान इति । भृत्य-हेतुकम् आत्मनः स्वाम्यम् ऐश्वर्यम् इच्छन् यो भृत्याय ददाति, स च नैव स्वामि ॥५॥
—ओ)०(ओ—
**॥ ७.१०.६ ॥ **
अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः ।
नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥
**श्रीधरः : **आवयोस् तु तात्त्विकोऽसाव् इत्य् आह—अहं त्व् इति । अनपाश्रयो निरभिसन्धिः । अन्यथा कामाद्य्-अभिसन्धिना अर्थः प्रयोजनं नास्ति ॥६॥
**क्रम-सन्दर्भः : **व्यतिरेके दृष्टान्तः—राज-सेवकयोर् इति ॥६॥
विश्वनाथः : आवयोस् तु स्वामि-भृत्य-भावस् तात्त्विक इत्य् आह—अहं त्व् इति । अनपाश्रयः सेवकाधीनम् अपकृष्टम् ऐश्वर्यं नाश्रयसे इत्य् अर्थः । अन्यथा स्व-कामिताभिसन्धिना तेनाभिसन्धिकः स्वामि-भृत्य-भावो लोके प्रसिद्धोऽपि सोपाधित्वाद् विगीत एवेति द्योतितम्॥६॥
—ओ)०(ओ—
**॥ ७.१०.७ ॥ **
यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ ।
कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् ॥
**श्रीधरः : **ननु तथापि परमोदारस्य मम सन्तोषार्थं किम् अपि वृणीष्व ? इति चेत्, अत आह—यदीति । कामाङ्कुराणाम् असंरोहम् अनुत्पत्तिम् । भवतः सकाशात् ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु तथापि मम परमोदारस्य सुखार्थं किम् अपि वृण्व् इति चेद् अत आह—असंरोहं मम हृदि कामा नोत्पद्यन्ताम् इत्य् अर्थः ॥७॥
—ओ)०(ओ—
**॥ ७.१०.८ ॥ **
इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर् मतिः ।
ह्रीः श्रीस् तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥
**श्रीधरः : **ननु कामोत्पत्तौ सत्यां को दोषस् तत्राह—इन्द्रियादीनि यस्य जन्मना नश्यन्ति । आत्मा देहः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यस्य कामस्य इन्द्रियादीनां तन्-माधुर्याग्रहणम् एव कुपथ-गामिता सैव नाशः ॥८॥
—ओ)०(ओ—
**॥ ७.१०.९ ॥ **
विमुञ्चति यदा कामान् मानवो मनसि स्थितान् ।
तर्ह्य् एव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥
**श्रीधरः : **कामाभावे गुणम् आह—विमुञ्चतीति । भगवत्त्वाय त्वत्-समानैश्वर्याय । तथा च श्रुतिः—
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [क।उ। २.३.१४] इति ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु यदि कामं न कामयसे, तर्हि वद मे तव दास्य-योगम् इति ब्रुवन् कथं मद्-दास्यं कामयसे ? तत्राह—विमुञ्चतीति । मनसि स्थितान् स्थायि-भावतया वर्तमानान् कामान् अप्राकृतांस् त्वद्-दास्य-सख्यादीन् अपि यदा विशेषेण मुञ्चति भगवत्त्वाय सायुज्याय, तच् च सायुज्यं मे नाभीष्टाम् ।
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये]
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरनयोर् उपगायतां नः ॥ [भा।पु। ७.६.२५]
इति मद्-उक्तेर् एवातो भवद्-दास्य-रूपम् अप्राकृतं कामम् अहं वृणे एव । भगवत्त्वाय भगवत्-समानैश्वर्यायैति श्री-स्वामि-चरणाः ॥९॥
—ओ)०(ओ—
**॥ ७.१०.१० ॥ **
ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुत-सिंहाय ब्रह्मणे परमात्मने ॥
**श्रीधरः : **निर्दोषान् कामान् दातुम् इच्छन्तं प्रत्याख्यास्यन् नमस्यति—नम इति ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु मत्-सायुज्यम् आत्माराम-मुनिभिर् अप्य् आदरणीयं किम् उतासुर-बालकोऽपि भूत्वा तत्र कटाक्षयसीति भगवद्-वाचा पराजितंमन्यः प्रणमति—ॐ नम इति ॥१०॥
—ओ)०(ओ—
॥ ७.१०.११ ॥
श्री-भगवान् उवाच—
नैकान्तिनो मे मयि जात्व् इहाशिष
आशासतेऽमुत्र च ये भवद्-विधाः ।
तथापि मन्वन्तरम् एतद् अत्र
दैत्येश्वराणाम् अनुभुङ्क्ष्व भोगान् ॥
**श्रीधरः : **सत्यम् एकान्त-भक्तस् त्वं, तथापि मद्-आज्ञा करणीयेत्य् आह—नेति । मे एकान्तिनः कदाचिद् अपि इहामुत्र च मय्य् आशिषो न वाञ्छन्त्य् एव, तथाप्य् एतन् मन्वन्तर-मात्रं भोगान् भुङ्क्ष्व ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न केवलं तवैवायं स्वभावः, अपि तु सर्वेषाम् एव मद्-भक्तानाम् इत्य् आह—नेति । एतन् मन्वन्तर-मात्रं, न त्व् अधिकं ददामि, मा क्रुध्येति भावः ॥११॥
—ओ)०(ओ—
**॥ ७.१०.१२ ॥ **
कथा मदीया जुषमाणः प्रियास् त्वम्
आवेश्य माम् आत्मनि सन्तम् एकम् ।
सर्वेषु भूतेष्व् अधियज्ञम् ईशं
यजस्व योगेन च कर्म हिन्वन् ॥
**श्रीधरः : **ननु तर्हि बन्धः स्यात् ? इत्य् अत आह—कथा इति द्वाभ्याम् । सर्वेषु भूतेषु सन्तम् एकम् ईशं यज्ञाधिष्ठातारं माम् आत्मन्य् आवेश्य यजस्व । तर्ह्य् अनेनैवापि कर्मणा बन्धः स्यात् ? नेत्य् आह—योगेन मय्य् अर्पणेन कर्म हिन्वंस् त्यजन् यजस्व ॥१२॥
**क्रम-सन्दर्भः : **यांस् तु दृष्ट-श्रुतांस् त्वम् अधुना स्मरसि, तेषां क वार्ता ? इति तच्-छ्रवण-गतानाम् अपि कीर्त्य्-अर्थम् अभिप्रेतम् ॥१२॥
कथा मदीया जुषमाणः प्रियास् त्वम्
आवेश्य माम् आत्मनि सन्तम् एकम् ।
सर्वेषु भूतेष्व् अधियज्ञम् ईशं
यजस्व योगेन च कर्म हिन्वन् ॥
विश्वनाथः : ननु मां विषयान्ध-कूपे केनापराधेन क्षिपसि ? इत्य् अत आह—कथा इति । अधियज्ञं सर्व-यज्ञाधीश्वरं मां स्व-योगेन स्वीय-भक्ति-योगेनैव यज भजेत्य् अकृता अपि अश्वमेधादयो यज्ञाः कृता एव भविष्यन्तीत्य् अधियज्ञ-पदेन द्योत्यते । कर्म वैदिकं लौकिकं च हिन्वन्, मद्-भक्त्य्-अधिकारिणः कर्म-करणानौचित्यात् ॥१२॥
—ओ)०(ओ—
**॥ ७.१०.१३ ॥ **
भोगेन पुण्यं कुशलेन पापं
कलेवरं काल-जवेन हित्वा ।
कीर्तिं विशुद्धां सुर-लोक-गीतां
विताय माम् एष्यसि मुक्त-बन्धः ॥
**श्रीधरः : **किं च, भोगेन सुखानुभवेन प्रारब्धं पुण्यं हित्वा मुक्त-बन्धः सन् लोकानुग्रहार्थं कीर्तिं च विस्तार्य मां प्राप्स्यसि । कुशलेन पुण्याचरणेन पापं हित्वेति बिभीषा-मात्रम् । अन्यथा तस्य राज्येऽप्रवृत्तेः । न तु प्राचीनं पापम् अस्ति । तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्[वे।सू। ४.१.१३] इति न्यायात् । तत् सुकृत-दुष्कृते विधुनुतः [कौ।उ। ४] इति श्रुतेश् च ।
न चेदं प्रारब्ध-पापाभिप्रायम्, तस्य भोगेनैव क्षयात्, कुशलेन हित्वेति वचनानुपपत्तेः । न चासाव् अविद्वान् इति वाच्यम्, भगवतैव कृतार्थत्वस्यानन्तरं वक्ष्यमाणत्वात् । अत एव योगेन कर्म हिन्वन्न् इतीदम् अपि लोक-सङ्ग्रहार्थे कर्मणि प्रवर्तितस्यानुद्वेग-मात्रायेति सर्वम् अनवद्यम् ॥१३॥
**क्रम-सन्दर्भः : **भोगेन पुण्यं प्रारब्धं कुशलेन मद्-भजनेन तत्-प्रतियोगितया पापं च प्रारब्धम् एव—श्वादोऽपि सद्यः सवनाय कल्पते [भा।पु। ३.३३.६] इति न्यायात्, भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भा।पु। ११.१४.२०] इति न्यायाच् च ॥१३॥
विश्वनाथः : भोग-हेतुकात् कर्म-बन्धात् तु नैव शङ्किष्ठास् तव पूर्व-जन्मन्य् एव सर्वं कर्म नष्टम् एवेत्य् आह—भोगेन सुखानुभवेन प्रारब्धं पुण्यं कुशलेन सुकृताचरणेन पापं कलेवरं पूर्व-देहं च हित्वा एषि मां सम्प्रति प्राप्नोषि । असि मुख-बन्ध इति अस्मिन् जन्मनि तु मुख-बन्धो जीवन्-मुक्त एव वर्तसे इत्य् अर्थः । एवं प्रह्लादस्यांशेन साधन-सिद्धत्वं नित्य-सिद्धत्वं च नारदादिवज् ज्ञेयम् ॥१३॥
—ओ)०(ओ—
**॥ ७.१०.१४ ॥ **
य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः ।
त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥
**श्रीधरः : **किं च, य इति । त्वां च मां चेदं मच्-चरित्रं च स्मरन्न् एतत् स्तोत्रं यः कीर्तयेत्, सोऽपि कर्म-बन्धाद् विमुच्यते, कुतस् तव बन्ध-शङ्का ? इत्य् अर्थः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तव कर्म-बन्धाभावे कैमुत्यं शृण्व् इत्य् आह—य इति । मह्यं मां प्रसादयितुम् ॥१४॥
—ओ)०(ओ—
॥ ७.१०.१५ ॥
श्री-प्रह्राद उवाच—
वरं वरय एतत् ते वरदेशान् महेश्वर ।
यद् अनिन्दत् पिता मे त्वाम् अविद्वांस् तेज ऐश्वरम् ॥
**श्रीधरः : **ईश्वराज्ञया प्राप्त-कर्माधिकारः सन् पितुर् निष्कृतिं प्रार्थयते त्रिभिः । वरं वरणीयम् एतद् अपरं वृणे । ते त्वत्तः ॥१५॥
**क्रम-सन्दर्भः : **वरं वरय इत्य् अर्धकम् । अनेन श्री-प्रह्लादस्य स्व-पित्रोर् जय-विजयत्वादि ज्ञानं नासीद् इति गम्यते यद् इति सार्ध-युग्मकम् ॥१५॥
विश्वनाथः : किं च पूर्वं संसारिणां नॄणां मोक्षाय श्रीमच्-चरणेषु प्रार्थितं, सम्प्रति यद्य् एतादृशं सौभाग्यं मह्यम् अदास् तर्ह्य् एकस्य महापराधिनोऽपि निस्ताराय प्रार्थये इत्य् आह—वरम् इति त्रिभिः । वरये वृणे ॥१५॥
—ओ)०(ओ—
**॥ ७.१०.१६ ॥ **
विद्धामर्षाशयः साक्षात् सर्व-लोक-गुरुं प्रभुम् ।
भ्रातृ-हेति मृषा-दृष्टिस् त्वद्-भक्ते मयि चाघवान् ॥
**श्रीधरः : **विद्धोऽमर्षेण क्रोधेनाशयो यस्य ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विद्धोऽमर्षेण यस्य सः ॥१६॥
—ओ)०(ओ—
**॥ ७.१०.१७ ॥ **
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तराद् अघात् ।
पूतस् तेऽपाङ्ग-संदृष्टस् तदा कृपण-वत्सल ॥
**श्रीधरः : **तेऽपाङ्गेन सन्दृष्टोऽतः पूत एव, तथापि भो कृपण-वत्सल, कार्पण्येन प्रार्थय इत्य् अर्थः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यद्यप्य् अपाङ्गेन दृष्टः पूत एव, तद् अपि श्री-मुखात् प्रसाद-वाचं श्रोतुं कार्पण्यात् प्रार्थय इति भावः ॥१७॥
—ओ)०(ओ—
॥ ७.१०.१८ ॥
श्री-भगवान् उवाच—
त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः ॥
मध्वः : जन्मान्तर-पितृभिस् त्रिसप्ततिः ॥१८॥
**श्रीधरः : **यद्य् अपि कश्यपो मरीचिर् ब्रह्मा चेति तत् पितुस् त्रय एव पूर्व-जास् तत्रापि त्रिः-सप्तभिः सहेति प्राक् कल्प-गत-पित्रभिप्रायेणोक्तम् । यद् यस्मात् ॥१८॥
**क्रम-सन्दर्भः : **त्रिःसप्तभिर् इति । यदि सप्त-त्रय-सङ्ख्यास् तव पितरः सम्भवन्ति तदा तैर् अपि सह पूतः स्याद् इत्य् अर्थः । प्राक्-कल्प-गतत्वे यद् इति हेतु-वाक्यं न सङ्गच्छते । श्री-प्रह्लादस्यात्र् जन्मना सह सर्वपि तॄणाम् असम्बन्धात् स्वत एव सम्बन्धाच् च हिरण्यकशिपोश् च पूर्व-जन्माभावात् ॥१८॥
विश्वनाथः : त्रिः-सप्तभिर् इत्य् अस्मिन् जन्मन्य् अयं तव पिता पूत इति किं वक्तव्यं तव त्रि-सप्त-जन्मसु ये त्रिसप्त-सङ्ख्याः पितरोऽभूवन् तेऽपि पूता इत्य् अर्थः । पितॄन् पुनासीत्य् एतद् अपि कियत् यतस् त्वं कुल-पावनः पितृ-मात्रादि-कुलम् अपि ते पूतम् ॥१८॥
—ओ)०(ओ—
**॥ ७.१०.१९ ॥ **
यत्र यत्र च मद्-भक्ताः प्रशान्ताः सम-दर्शिनः ।
साधवः समुदाचारास् ते पूयन्तेऽपि कीकटाः ॥
**श्रीधरः : **सम्यग् उत्तम आचारो येषां ते कीकटा अपि देशास् तत् तुल्य-वंशश् च पूयन्ते शुद्धा भवन्ति ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मद्-भक्तः स्व-सङ्गिनं देशम् अपि पुनाति किम् उत पित्रादीन् इत्य् आह—यत्रेति । पूयन्ति पूयन्ते पूता भवन्तीत्य् अर्थः ॥१९॥
—ओ)०(ओ—
**॥ ७.१०.२० ॥ **
सर्वात्मना न हिंसन्ति भूत-ग्रामेषु किञ्चन ।
उच्चावचेषु दैत्येन्द्र मद्-भाव-विगत-स्पृहाः ॥
**श्रीधरः : **ननु त्वद्-भक्तानाम् अयं महिमेति न चित्रम्, अहं तु तादृशो न भवामीति चेत् तत्राह—सर्वात्मनेति द्वाभ्याम् । मद्-भावेन मद्-भक्त्या विगता स्पृहा येषाम् ॥२०॥
**क्रम-सन्दर्भः : **सर्वात्मनेति युग्मकम् ॥२०॥
विश्वनाथः : ननु त्वद्-भक्तानाम् अयं महिमा न चित्रम्, अहं तु तादृशो न भवामीति चेत् तत्राह—सर्वेति ॥२०॥
—ओ)०(ओ—
**॥ ७.१०.२१ ॥ **
भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक् ॥
**श्रीधरः : **त्वाम् अनुगता ये केचित् पुरुषास् तेऽप्य् एवं लक्षणाः सन्तो मद्-भक्ता भवन्त्य् अतो भवान् मे भक्तानां सर्वेषां प्रतिरूप-धृग् उपमानास्पदम् । श्रेष्ठः खल्व् इत्य् अर्थः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ये पुरुषास् त्वाम् अनुव्रता भवन्ति तेऽपि मद्-भक्ता भवन्ति कीदृशाः ? मम भावेन प्रेम्णैव विगत-विषय-स्पृहाः सर्वात्मना अहिंसकाश् च भवन्ति, अतस् तव महिमा केन निरुच्यताम् इति भावः । यतो भवान् मे भक्तानां प्रतिरूप-धृक् उपमानास्पदं तेषु श्रेष्ठत्वाद् इति भावः
—ओ)०(ओ—
**॥ ७.१०.२२ ॥ **
कुरु त्वं प्रेत-कृत्यानि पितुः पूतस्य सर्वशः ।
मद्-अङ्ग-स्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥
**मध्वः :**मधु-कैटभौ भक्त्य्-अभावा दूरौ भगवतो मृतौ ।
तम एव क्रमाद् आप्तौ भक्त्या चेद् यो हरिं ययौ ॥२२॥
**श्रीधरः : **मद्-अङ्ग-स्पर्शनेन सर्वशः पूतस्य ते पितुः पाप-शङ्कैव नास्ति । केवलं पुत्र-कृत्यानि प्रेत-कार्याणि कुरु ॥२२॥
**क्रम-सन्दर्भः : **कुर्व् इति । अस्य भवता सुप्रजस्त्वं भगवत्-प्रार्थनया भवद्-अपराध-खण्डनम् उत्तम-लोक-प्रापणं च करिष्यतीत्य् अर्थः ॥२२॥
विश्वनाथः : मद्-अङ्ग-स्पर्शनेनैव सर्वशः पूतस्य ते पितुः पाप-शङ्कैव नास्ति, तद् अपि प्रेत-कार्याणि प्रेतस्येव कृत्यानि कुरु केवलं व्यवहार-रक्षार्थम् इत्य् अर्थः ॥२२॥
—ओ)०(ओ—
**॥ ७.१०.२३ ॥ **
पित्र्यं च स्थानम् आतिष्ठ यथोक्तं ब्रह्मवादिभिः ।
मय्य् आवेश्य मनस् तात कुरु कर्माणि मत्-परः ॥
**श्रीधरः : **ब्रह्म-वादिभिर् वेद-वादिभिः । उक्तम् अनतिक्रम्य मत्-परः सन् कर्माणि कुरु ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यद्यपि मद्-भक्तस्य तव नास्ति कर्माधिकारस् तद् अपि मद्-अज्ञयैव व्यवहार-रक्षार्थं कर्माणि कुरु—मत्-पर इति । कर्मसु श्रद्धा-शून्य इत्य् अतः कर्मणां करणम् अप्य् अकरण एव पर्यवस्यतीति मा शुच इति भावः ॥२३॥
—ओ)०(ओ—
॥ ७.१०.२४-२५ ॥
श्री-नारद उवाच—
प्रह्रादोऽपि तथा चक्रे पितुर् यत् साम्परायिकम् ।
यथाह भगवान् राजन्न् अभिषिक्तो द्विजातिभिः ॥
प्रसाद-सुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर् वृतः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ७.१०.२६ ॥
श्री-ब्रह्मोवाच—
देव-देवाखिलाध्यक्ष भूत-भावन पूर्वज ।
दिष्ट्या ते निहतः पापो लोक-सन्तापनोऽसुरः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : भूत-भावनाः ब्रह्म-मरीचादयः पूर्वजाः प्रथम-जाता यस्मात् ॥२६॥
—ओ)०(ओ—
**॥ ७.१०.२७ ॥ **
योऽसौ लब्ध-वरो मत्तो न वध्यो मम सृष्टिभिः ।
तपो-योग-बलोन्नद्धः समस्त-निगमान् अहन् ॥
**श्रीधरः : **मम सृष्टिभिर् मया सृष्टैर् भूतैः । समस्तान् निगमान् धर्मान् इत्य् अर्थः । अहन् हतवान् । स त्वया हतः एतद् दिष्ट्या भद्रम् ॥२७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.२८ ॥ **
दिष्ट्या तत्-तनयः साधुर् महा-भागवतोऽर्भकः ।
त्वया विमोचितो मृत्योर् दिष्ट्या त्वां समितोऽधुना ॥
**श्रीधरः : **समितः सम्यक् प्राप्तः ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.२९ ॥ **
एतद् वपुस् ते भगवन् ध्यायतः परमात्मनः ।
सर्वतो गोप्तृ सन्त्रासान् मृत्योर् अपि जिघांसतः ॥
**श्रीधरः : **सर्वतः सन्त्रासात् । गोत्रासात् । गोप्तृ रक्षकम् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मृत्योः सकाशाद् अपि गोप्तृ ॥२९॥
—ओ)०(ओ—
॥ ७.१०.३० ॥
श्री-भगवान् उवाच—
मैवं विभोऽसुराणां ते प्रदेयः पद्म-सम्भव ।
वरः क्रूर-निसर्गाणाम् अहीनाम् अमृतं यथा ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एवं वरो वरः, अतिबृहत्तमो वरः ॥३०॥
—ओ)०(ओ—
॥ ७.१०.३१-३३ ॥
श्री-नारद उवाच—
इत्य् उक्त्वा भगवान् राजंस् ततश् चान्तर्दधे हरिः ।
अदृश्यः सर्व-भूतानां पूजितः परमेष्ठिना ॥
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः ॥
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।
दैत्यानां दानवानां च प्रह्रादम् अकरोत् पतिम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.३४ ॥ **
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।
स्व-धामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥
**श्रीधरः : **एवं वरस् त्वया न प्रदेयः । क्रूरो निसर्गः स्वभावो येषाम् । अमृतं क्षीरम् ॥३४॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.३५ ॥ **
एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।
हृदि स्थितेन हरिणा वैर-भावेन तौ हतौ ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.३६ ॥ **
पुनश् च विप्र-शापेन राक्षसौ तौ बभूवतुः ।
कुम्भकर्ण-दश-ग्रीवौ हतौ तौ राम-विक्रमैः ॥
**श्रीधरः : **शिशुपाल-दन्तवक्त्रयोर् द्विषतोः श्री-कृष्ण-सायुज्यं कथम् ? इति यत् पृष्टं, तद् एव तयोः पूर्व-जन्म-कथनादिभिर् उपपादितम् उपसंहरति, एवम् इति सप्तभिः । देतिः पुत्रत्वं प्रापितौ । विप्र-शापेनेत्य् उत्तरस्यानुषङ्गः ॥३६॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.३७ ॥ **
शयानौ युधि निर्भिन्न- हृदयौ राम-शायकैः ।
तच्-चित्तौ जहतुर् देहं यथा प्राक्तन-जन्मनि ॥
**श्रीधरः : **तच् चित्तौ श्री-रामे चित्तं ययोस् तौ ॥३७॥
क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.३८ ॥ **
ताव् इहाथ पुनर् जातौ शिशुपाल-करूष-जौ ।
हरौ वैरानुबन्धेन पश्यतस् ते समीयतुः ॥
एनः पूर्व-कृतं यत् तद् राजानः कृष्ण-वैरिणः ।
जहुस् तेऽन्ते तद्-आत्मानः कीटः पेशस्कृतो यथा ॥
मध्वः : तद् आत्मानस् तत्राधिष्ठास् तु मद्-भक्ताः वैरोपसर्जनेनानुबन्धेनेत्य् अन्वयः ॥३८-३९॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एनोऽपराधः कृष्ण-निन्दादिनेत्य् अर्थः । पूर्व-कृतं यं पापं तद् अपि तद्-ध्यानेन तद् आत्मानः सन्तो जहुः । तद्-आत्मत्वे दृष्टान्तः—कीटः पेशस्कृतः कीट-विशेषस्य ध्यानेन यथा तद् आत्मा भवतीति ॥३८-३९॥
—ओ)०(ओ—
**॥ ७.१०.४० ॥ **
यथा यथा भगवतो भक्त्या परमयाभिदा ।
नृपाश् चैद्यादयः सात्म्यं हरेस् तच्-चिन्तया ययुः ॥
**मध्वः :**पौण्ड्रके नरके चैव शाल्वे कंसे च रुक्मिणि ।
अविष्टास् तु हरेर् भक्तास् तद्-भक्त्या हरिम् आपिरे ।
असुरास् तु स्वयं ते तु महा-तमसि पातिताः ॥ इति च ॥४०॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **यथेति । यथा यथा भगवतः परया भक्त्या अन्ये सारूप्यं ययुस् तथा चैद्यादयो नृपा अपि परमया तच्-चिन्तया तद्-ध्यानावेशेन ययुः अभिदा व्यवधान-शून्यया निरन्तरयेत्य् अपि भक्ति-चिन्तयोः विशेषणं तत्र चैद्य-कारूषकयोः सारूप्याविर्भाव एव तत्-प्राप्तिर् इति गम्यम् ॥४०॥
विश्वनाथः : भक्त्या यथा यथा अभिदा अभेदेन ज्ञानि-भक्ता हरेः सात्म्यं ययुः । तथा चैद्यादयोऽपि तच्-चिन्तया तद् ययुः । भक्त्या कीदृश्या ? तदीय-ज्ञान-वैराग्यादिभ्योऽपि परमया, अग्रेऽप्य् एवं, निभृत-मरुन्-मनः [भा।पु। १०.८७.२१] इत्य् अत्र, तद्-अरयोऽपि ययुः स्मरणात् इति वक्ष्यते ॥४०॥
—ओ)०(ओ—
**॥ ७.१०.४१ ॥ **
आख्यातं सर्वम् एतत् ते यन् मां त्वं परिपृष्टवान् ।
दमघोष-सुतादीनां हरेः सात्म्यम् अपि द्विषाम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.४२ ॥ **
एषा ब्रह्मण्य-देवस्य कृष्णस्य च महात्मनः ।
अवतार-कथा पुण्या वधो यत्रादि-दैत्ययोः ॥
**श्रीधरः : **प्रह्राद-चरितार्थम् उपसंहरति—एषेति चतुर्भिः । अवतारः श्री-नृसिंह-रूपस् तस्य कथा आख्यातेति शेषः ॥४२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.४३ ॥ **
प्रह्रादस्यानुचरितं महा-भागवतस्य च ।
भक्तिर् ज्ञानं विरक्तिश् च याथार्थ्यं चास्य वै हरेः ॥
**श्रीधरः : **प्रह्रादस्यानुचरितम् इत्य्-आदेः समाम्नातम् इति तृतीयेनान्वयः । अस्येत्य् अनेनोक्तं सर्ग-स्थित्य्-अप्ययानाम् ईशस्य हरेर् याथात्म्यं तत्त्वम्, अनेन कृतं हरेर् गुण-कर्मानुवर्णनं चेत्य् अर्थः ॥४३॥
**क्रम-सन्दर्भः : **प्रह्लादस्येति त्रिकम् अस्य श्री-कृष्णाख्यस्य हरेर् याथात्म्यं तत् तद् यथावन् माहात्म्यं सर्वावतारित्वात् । टीकायाम् अस्येति पाठम् उत्थाप्य व्याचष्टे, अनेन प्रह्लादेनोक्तम् इत्य् आदिकं गम्यम् ॥४३॥
**विश्वनाथः : **अनुचरितम् आख्यातम् इति पूर्वेण समाम्नातम् इति परेण वान्वयः । हरेर् याथात्म्यं हरेः स्वरूपम् अनतिक्रम्य स्वार्थए ष्यञ् ॥४३॥
—ओ)०(ओ—
**॥ ७.१०.४४ ॥ **
सर्ग-स्थित्य्-अप्ययेशस्य गुण-कर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥
मध्वः : भगवान् येन गम्यते इत्य् अनेन भागवत-धर्मेणैव भगवान् गम्यते, न द्वेषादिनेत्य् उपसंह्रीयते । आवृत्तानुकथनं च तद्-अर्थत्वेनैव । ज्ञानस्य विशेषायाथात्म्यादयः ।
भक्ति-ज्ञानं विरक्तिश् च नरकः चरणारविन्दादिकः ।
धर्मो भागवतः प्रोक्तस् तद्-भक्तेषु तथा नव ॥ इति तन्त्र-सारे ॥४४॥
**श्रीधरः : **परावरेषां देव-दैत्यादीनां यानि स्थानानि तेषां व्यत्ययो विपर्यासः ॥४४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सर्गेति सृष्ट्यादयोऽपि उक्ताः । परावरेषां देव-दैत्यादीनां यानि स्थानानि तेषां व्यत्ययो विनाशः ॥४४॥
—ओ)०(ओ—
**॥ ७.१०.४५ ॥ **
धर्मो भागवतानां च भगवान् येन गम्यते ।
आख्यानेऽस्मिन् समाम्नातम् आध्यात्मिकम् अशेषतः ॥
**श्रीधरः : **आध्यात्मिकम् आत्मानात्म-विवेकादि ॥४५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.४६ ॥ **
य एतत् पुण्यम् आख्यानं विष्णोर् वीर्योपबृंहितम् ।
कीर्तयेच् छ्रद्धया श्रुत्वा कर्म-पाशैर् विमुच्यते ॥
**श्रीधरः : **एतच् छ्रवणादि-फलम् आह—य इति द्वाभ्याम् । एतच् छ्रुत्वा यः कीर्तयेत् ॥४६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.४७ ॥ **
**एतद् य आदि-पुरुषस्य मृगेन्द्र-लीलां **
दैत्येन्द्र-यूथप-वधं प्रयतः पठेत ।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वानुभावम् अकुतो-भयम् एति लोकम् ॥
**श्रीधरः : **एतद् एतां मृगेन्द्रस्य लीलाम् । ताम् एवाह—दैत्येन्द्रस्य यूथपानां च वधम्। यः शुचिः सन् पठेत । पुण्यम् अनुभावं प्रभावं मति-निश्चयं वा । लोकं वैकुण्ठम् ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एतद् एताम् । मृगेन्द्रस्य सिंहस्य, पक्षे नृसिंह-लीलां, ऋद्धस्य राज-मातङ्गा इतिवत् समास आर्षः । लीलाम् आह—दैत्येन्द्र एव यूथपो हस्ती तस्य । दैत्येन्द्राणां यूथपस्य हिरण्यकशिपोश् च वधम् ॥४७॥
—ओ)०(ओ—
**॥ ७.१०.४८ ॥ **
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥
**श्रीधरः- **अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्याः इति विषीदन्तं राजानं प्रत्य् आह—यूयम् इति त्रिभिः । येषां युष्माकं गृहान्मुनयोऽभियन्ति सर्वतः समायान्ति । तत् कस्य हेतोः ? येषु गृहेषु नराकारं गूढं सच् छ्री-कृष्णाख्यं परं ब्रह्म साक्षाद् वसतीति ॥४८॥
**क्रम-सन्दर्भः : **अहो प्रह्लादस्य भाग्यम् इति स-विस्मयं तं राजानं प्रत्य् आह—यूयम् इति त्रिभिः । मनुष्य-लिङ्गम् इति तद्-आकारे तद्-आविर्भावस्यापि न तादृशत्वम् इति व्यञ्जितम् ॥४८॥ [कृष्ण-सन्दर्भ ५९]
विश्वनाथः : अहो प्रह्लादस्य भाग्यम्—येन देवो दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रति यूयं प्रह्लादात्, प्रह्लाद-गुरोर् मत्तोऽप्य् अन्येभ्योऽपि भक्तेभ्यो युष्मत्-पूर्वजेभ्यो यदु-पुरूवरः-प्रभृतिभ्योऽपि वशिष्ट-मरीचि-कश्यपादि-ऋसिभ्योऽपि, ब्रह्म-रुद्राभ्याम् अपि, भूरि-सौभाग्यवन्त इत्य् आह नारदः—यूयम् इति । यूयंनृणां जीवानां लोक-मध्ये भूरि-भागाः । येषां युष्माकं गृहान्लोकं स्व-दर्शनादिना पवित्रीकुर्वन्तोऽपि मुनयोऽभि सर्वतो-भावेन स्वं कृतार्थीकर्तुं गच्छन्ति । यतो गूढं सर्वतोऽपि रहस्यं यन् मनुष्य-लिङ्गं नराकृति परं ब्रह्म । तत् सम्यक् प्रकारेण युष्माभिर् अनाहूतम् अप्य् आसक्ति-पूर्वकं येषां गृहेषु साक्षाद् वसति । न हि प्रह्लादादीनां गृहेषु नराकृति परं ब्रह्म साक्षाद् वसति । न च तद्-दर्शने कृतार्थी-भवितुं मुनयो गच्छन्तीति भावः ॥४३॥
—ओ)०(ओ—
**॥ ७.१०.४९ ॥ **
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च ॥
मध्वः : निर्वाण-सुखम् अशरीर-सुखम् । एतद्-बाणम् अवष्ठभ्य इति श्रुतेः ॥४९॥
**श्रीधरः : **ननु कृष्णोऽस्माकं मातुलेयः कथं ब्रह्मेत्य् उच्यते ? तत्राह—स वा इति । सोऽयं ब्रह्मैव । कथं-भूतः ? महद्भिर् विमृग्यं यत् कैवल्य-निर्वाण-सुखं निरुपाधिः परमानन्दः, तद्-अनुभूति-रूपो वो युष्माकं खलु प्रियः सुहृद् इत्य्-आदि-रूपो भवति । विधि-कृद् आज्ञानुवर्ती ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : न च परं ब्रह्मैव नराकृतिः कृष्णोऽभूद् इति वाच्यं, किन्तु कृष्ण एव परं ब्रह्म भवतीत्य् आह—सोऽयं प्रसिद्धो नराकृतिः कृष्ण एव ब्रह्म । कीदृशम् ? महद्भिर् विमृग्यं यत् कैवल्य-निर्वाण-सुखं निरुपाधिः परमानन्दस् तस्य अनुभूतिर् अनुभव-रूपम् इत्य् अर्थः । कृष्णस् तु भगवान् स्वयम् इतिवद् अनुवादाविधेय-भावेन व्याख्येयम् अत्र प्रमाणं, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७]इति गीतोपनिषद् एव एतावद्-अर्थस्य निश्चायिकेति वै-शब्दार्थः । न केवलं स युष्मद्-गृहे वसति-मात्रं किन्तु प्रियः सन्न् इति युष्माकं तेनानन्दनीयत्वं, सुहृद् इति हिते प्रवर्तणियत्वं, मातुलेय इति सम्बन्ध-विशेषेणानुगम्यत्वम्, आत्मेति स्वीय-शरीर-भावेनाभिमन्तव्यत्वम्, अर्हणीय इति कृपया प्रतिपाल्यत्वम्, विधि-कृत् किङ्कर इति सारथ्यादिनोपास्यत्वं, **गुरुर् **इत्य् अनुशासनीयत्वम् इति । न च प्रह्लादादीनां गृहेषु स गुरु-किङ्करादि-भावेन तिष्ठतीति भावः ॥४९॥
—ओ)०(ओ—
**॥ ७.१०.५० ॥ **
न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः ॥
**श्रीधरः : **ननु परं ब्रह्म चेत् कथं द्व्य्-अष्ट-सहस्र-स्त्रीषु रतिः ? कथं वाधर्माद्य्-आचरणं तस्य ? इत्य् अत आह—नेति । यस्य रूपं तत्त्वं भवादिभिर् अपि धिया स्व-बुद्ध्या वस्तुतया इदम् इत्थम् इति साक्षान् नोपवर्णितं, स युष्माकं स्वयम् एव प्रसन्नः । अस्माकं तु मौनादि-साधनैस् तत्-प्रसादः प्रार्थनीय एवेत्य् आह—मौनेनेति । स एषसात्वतां पतिर् नः प्रसीदतु । न हि प्रह्रादस्य गृहेषु परं ब्रह्म वसति, न च तद्-दर्शनाय मुनयस् तद् गृहान् अभियन्ति, न च तस्य ब्रह्म मातुलेयादि-रूपेण वर्तते, न च स्वयम् एव प्रसन्नम् अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागा इति भावः ॥५०॥
**क्रम-सन्दर्भः : **ननु कश्चिद् अस्यैतद्-रूपम् अप्य् अवस्तुत्वेन मन्यते ? तत्राह—न यस्येति । यस्य साक्षात् प्रत्यक्षम् अपि रूपं परम-विद्वद्भिर् भव-पद्मजादिभिस् तु अवस्तुतया अपरमार्थतया नोपवर्णितं, किन्तु परमार्थतया निर्णीतम् इत्य् अर्थः । त्वं ब्रह्म परमं साक्षात् [भा।पु। ११.१६.१] इत्य् अनेन, यन्-मित्रं परमानन्दं [भा।पु। १०.१४.३२] इत्य्-आदिना, मल्लानाम् अशनिर् नृणां नरवरः [भा।पु। १०.४३.१७] इत्यादौ, विराड् अविदुषां तत्त्वं परं योगिनाम् इत्य् अनेन च ॥५०॥ [कृष्ण-सन्दर्भ ५९]
विश्वनाथः : नन्व् एवं साक्षात् परं ब्रह्म प्रतिष्ठा-भूतस्यास्य ग्राम्याणाम् अस्मादृशानां कैङ्कर्यादौ किं कारणम् इति चेत् ? सत्यं, अस्य महैश्वर्यस्य प्रेम-वश्यतायाश् च तत्त्वं विज्ञातुं कोऽहं वराकः यतः ब्रह्माद्या अपि न जानन्तीत्य् आह—न यस्येति । रूपं तत्त्वं वस्तुतया याथार्थ्येन इदम् इत्थम् इति साक्षान् नोपवर्णितं, धियेति तत्र बुद्धेः प्रवेशाभावाद् एवेति भावः । मौनेनेत्य् अस्मद्-आदयो यत् प्रसादं मौनादिभिः साधनैः प्रार्थयन्ते, स कृष्णो युष्मत्-प्रसादं कैङ्कर्यादिना प्रार्थयत इति युष्मद्-आद्य्-अस्मद्-आद्योर् एतद् एवान्तरम् इति भावः ॥५०॥
—ओ)०(ओ—
**॥ ७.१०.५१ ॥ **
स एष भगवान् राजन् व्यतनोद् विहतं यशः ।
पुरा रुद्रस्य देवस्य मयेनानन्त-मायिना ॥
**मध्वः :**तद्-अधीनं वा सर्वं न वेति संशयं रुद्रस्याहनत् ।
अल्पकेनैव मयेन रुद्रस्य प्रतिकारं कृत्वा ॥
कस्मिन् कर्मणि मयो विपरीतं चकार ।
सापेक्षं न तु दोषाय यत्र सिद्धम् अपेक्षितम् ॥ इति शब्द-निर्णये ॥५१॥
**श्रीधरः : **नन्व् अन्यैर् दुष्करं त्रि-पुर-भेदादिकं श्री-रुद्रः कृतवान् स एवं-भूत ईश्वरोऽप्य् अस्य तत्त्वं न जानातीति कथम् इत्य् अपेक्षायां तस्याप्य् एतत् साहाय्यादेवासौ प्रभावो न केवलस्येति वक्तुम् आख्यानम् उपक्षिपति—स एष इति ॥५१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु पद्मजो न जानातु भवन्त्व् ईश्वर एव, सत्यं तस्यापैश्वर्यम् एतद् दत्तम् एवेति वक्तुम् आख्यानम् आरभते—स एष इति ॥५९॥
—ओ)०(ओ—
॥ ७.१०.५२ ॥
राजोवाच—
कस्मिन् कर्मणि देवस्य मयोऽहन् जगद्-ईशितुः ।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥
**श्रीधरः : **राजा युधिष्ठिर उवाच—जगद् ईशितुर् देवस्य कीर्तिं कस्मिन् कर्मणि मयो हतवान् ॥५२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.१०.५३ ॥
श्री-नारद उवाच—
निर्जिता असुरा देवैर् युध्य् अनेनोपबृंहितैः ।
मायिनां परमाचार्यं मयं शरणम् आययुः ॥
**श्रीधरः : **अनेन श्री-कृष्णेनोपबृंहितैः संवर्धितैः ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनेन कृष्णेन ॥५३॥
—ओ)०(ओ—
**॥ ७.१०.५४ ॥ **
स निर्माय पुरस् तिस्रो हैमी-रौप्यायसीर् विभुः ।
दुर्लक्ष्यापाय-संयोगा दुर्वितर्क्य-परिच्छदाः ॥
**श्रीधरः : **हैमी च रौप्य चायसी चेति तिस्रः पुरो निर्माय तेभ्यो ददाव् इति शेषः । दुर्लक्ष्याव् अपाय-संयोगौ गमनागमने यासाम् । दुर्वितर्क्याः परिच्छदा यासु ॥५४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : दुर्लक्ष्म्यौ अपाय-संयोगौ गमनागमने यासां ताः । निर्मायासुरेभ्यो ददाव् इति शेषः ॥५४॥
—ओ)०(ओ—
**॥ ७.१०.५५ ॥ **
ताभिस् तेऽसुर-सेनान्यो लोकांस् त्रीन् सेश्वरान् नृप ।
स्मरन्तो नाशयां चक्रुः पूर्व-वैरम् अलक्षिताः ॥
**श्रीधरः : **सेनान्यः सेनापतयः । पूर्व-वैरं स्मरन्तः ॥५५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.५६ ॥ **
ततस् ते सेश्वरा लोका उपासाद्येश्वरं नताः ।
त्राहि नस् तावकान् देव विनष्टांस् त्रिपुरालयैः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ईश्वरं रुद्रम् ॥५६॥
—ओ)०(ओ—
**॥ ७.१०.५७ ॥ **
अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः ।
शरं धनुषि सन्धाय पुरेष्व् अस्त्रं व्यमुञ्चत ॥
**श्रीधरः : **अस्त्रम् अभिमन्त्रितं शरं पुरेषु व्यमुञ्चत ॥५७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.५८ ॥ **
ततोऽग्नि-वर्णा इषव उत्पेतुः सूर्य-मण्डलात् ।
यथा मयूख-सन्दोहा नादृश्यन्त पुरो यतः ॥
**श्रीधरः : **ततः शरात् । सूर्य-मण्डलान् मयूख-सन्दोहा रश्मि-समूहा इव । यतो येभ्यः ॥५८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यथेति सूर्य-मण्डलाद् इत्य् अस्मात् पूर्वं योज्यम् । यतो येभ्य इषुभ्यो हेतुभ्यः ॥५८॥
—ओ)०(ओ—
**॥ ७.१०.५९ ॥ **
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।
तान् आनीय महा-योगी मयः कूप-रसेऽक्षिपत् ॥
**श्रीधरः : **कूप-रसे स्वयं निर्मित-कूपामृते ॥५९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कूप-रसे स्व-निर्मित-कूप-रसामृते ॥५९॥
—ओ)०(ओ—
**॥ ७.१०.६० ॥ **
सिद्धामृत-रस-स्पृष्टा वज्र-सारा महौजसः ।
उत्तस्थुर् मेघ-दलना वैद्युता इव वह्नयः ॥
**श्रीधरः : **वज्र-साराः वज्र-वद् दृढाङ्गाः । महौजसो महा-बलाः । मेघ-दलना मेघ-भेदिनो विद्युद्-रूपा वह्नय इव ॥६०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : मेघ-दलना मेघ-भेदिनो विद्युद्-रूपा वह्नय इव मेघस्था विद्युतो यथा मेघ-कान्ति-तिरस्कारिण इत्य् अर्थः ॥६०॥
—ओ)०(ओ—
**॥ ७.१०.६१ ॥ **
विलोक्य भग्न-सङ्कल्पं विमनस्कं वृष-ध्वजम् ।
तदायं भगवान् विष्णुस् तत्रोपायम् अकल्पयत् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.६२ ॥ **
वत्सश् चासीत् तदा ब्रह्मा स्वयं विष्णुर् अयं हि गौः ।
प्रविश्य त्रिपुरं काले रस-कूपामृतं पपौ ॥
**श्रीधरः, विश्वनाथः : **काले मध्याह्ने ॥६२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.६३ ॥ **
तेऽसुरा ह्य् अपि पश्यन्तो न न्यषेधन् विमोहिताः ।
तद् विज्ञाय महा-योगी रस-पालान् इदं जगौ ।
स्मयन् विशोकः शोकार्तान् स्मरन् दैव-गतिं च ताम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.६४ ॥ **
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ॥
मध्वः : विष्णुम् आदिष्टं व्यपोहितुं देवोऽसुरोऽन्यो वा न समर्थः ॥६४॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : आत्मनो वा अन्यस्य वा द्वयोर् अपि वा दैवेनोपकल्पितं दिष्टम् अपोहितुं दूरीकर्तुम् इह कश्चिद् अपीश्वरः समर्थो नास्ति ॥६४॥
—ओ)०(ओ—
**॥ ७.१०.६५-६६ ॥ **
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ।
धर्म-ज्ञान-विरक्त्य्-ऋद्धि- तपो-विद्या-क्रियादिभिः ॥
रथं सूतं ध्वजं वाहान् धनुर् वर्म-शरादि यत् ।
सन्नद्धो रथम् आस्थाय शरं धनुर् उपाददे ॥
**श्रीधरः : **आत्मनो वा अनुयस्य वा द्वयोर् अपि वा दैवेन दिष्टम् उपकल्पितम् अपोहितुं परिहर्तुम् इह कश्चिद् अपीश्वरः समर्थो नास्ति असौ श्री-कृष्णः । प्रधनं सङ्ग्रामस् तत्-साधनम् ॥६५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : असौ कृष्णः प्रधनं सङ्ग्रामस् तद्-अर्हं रथादिकं स्वाभिः शक्तिभिर् आविष्टं क्रमेण व्यधाद् इति । स्व-शक्तीनाम् अनश्वरत्वाज् जिष्णुत्वाच् च तद्-आविष्टानां रथादीनाम् अपि तादृशत्वम् । एतत् स्वीय-धर्मस्य भक्ति-योगस्यावेशो रथे भक्ति-योगाश्रितानां ज्ञानादीनां रथाश्रितेषु सुतादिषु ज्ञेयः ॥६६॥
—ओ)०(ओ—
**॥ ७.१०.६७ ॥ **
शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वरः ॥
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ।
**श्रीधरः, विश्वनाथः : **अभिजिति मध्याह्ने ॥६७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.६८ ॥ **
दिवि दुन्दुभयो नेदुर् विमान-शत-सङ्कुलाः ।
देवर्षि-पितृ-सिद्धेशा जयेति कुसुमोत्करैः ।
अवाकिरन् जगुर् हृष्टा ननृतुश् चाप्सरो-गणाः ॥
**श्रीधरः : **विमान-शतानि सङ्कुलानि सङ्कीर्णानि येषां ते देवादयः ॥६८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.६९ ॥ **
एवं दग्ध्वा पुरस् तिस्रो भगवान् पुर-हा नृप ।
ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
**॥ ७.१०.७० ॥ **
एवं विधान्य् अस्य हरेः स्व-मायया
विडम्बमानस्य नृ-लोकम् आत्मनः ।
वीर्याणि गीतान्य् ऋषिभिर् जगद्-गुरोर्
लोकं पुनानान्य् अपरं वदामि किम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स्व-मायया विडम्बमानस्य अत एव मोह-वशात् नृलोकस् तं न भजत इति भावः ॥७०॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्तमे दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे
प्रह्लाद-चरितं पुर-विजयश् च
दशमोऽध्यायः ।
॥ ७.१० ॥
(७.११)