॥ ७.९.१ ॥
श्री-नारद उवाच—
एवं सुरादयः सर्वे ब्रह्म-रुद्र-पुरः सराः ।
नोपैतुम् अशकन् मन्यु- संरम्भं सुदुरासदम् ॥
श्रीधरः :
नवमे ब्रह्मणा भीत्या चोदितोऽसुर-बालकः ।
कोपं प्रशमयन् अस्तौन् नृसिंहम् अतिभीषणम् ॥
उग्रोऽप्य् अनुग्र एवायं स्वभक्तानां नृकेसरी ।
केसरीव स्व-पोतानाम् अन्येषाम् उग्र-विग्रहः ॥
इत्य् आद्य् आगमोक्तां भक्तानुकम्पिताम् आह—एवम् इति सप्तभिः । एवं दूरत एव स्थित्वा स्तुवन्तः मन्युना संरम्भम् आवेशो यस्य तम् । उप समीपे गन्तुं नाशक्नुवन् ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः :
सर्वे बिभ्युस् तदागन्तुम् अन्तिकं नवमे हरेः ।
प्रह्लादो ब्रह्मणादिष्टस् तुष्टाव सन्निधिं गतः ॥
रमापि यत्र न प्राभूद् अन्येषां तत्र का कथा ।
वात्सल्यं मूर्तिमत् किन्तु प्रह्लादोऽनुबभूव तम् ॥
ननु स्व-स्व-दुःखम् आवेदयन्तो दूरत एव स्तुवाना देवादयः किम् इति समीपम् एत्य नोपासते स्म ? तत्राह एवम् इति । मन्युना संरम्भ आवेशो यस्य तम् ॥१॥
—ओ)०(ओ—
॥ ७.९.२ ॥
साक्षात् श्रीः प्रेषिता देवैर् दृष्ट्वा तं महद् अद्भुतम् ।
अदृष्टाश्रुत-पूर्वत्वात् सा नोपेयाय शङ्किता ॥
**मध्वः-**अदृष्टाश्रुत-पूर्वत्वाद् अन्यैः साधारणैर् जनैः ।
नृसिंहं शङ्कितेव श्रीर् लोक-मोहायनो ययौ ॥
प्रह्लादे चैव वात्सल्य-दर्शनाय हरेर् अपि ।
ज्ञात्वा मनस् तथा ब्रह्मा प्रह्लादं प्रेषयत् तदा ॥
एकत्रैकस्य वात्सल्यं विशेषाद् दर्शयेद् धरिः ।
अवरस्यापि मोहाय क्रमेणैवापि वत्सलः ॥ इति ब्रह्माण्डे ॥२-३॥
श्रीधरः : श्रीर् लक्ष्मीर् देवी प्रेषितापि महद् अद्भुतं तद्-रूपं दृष्ट्वा शङ्किता सती तं नोपजगाम । अद्भुतत्वे हेतुः—अदृष्टेति ॥२॥
**क्रम-सन्दर्भः : **साक्षात् श्रीर् इति सापि तस्यैव प्रेयसी अदृष्टाश्रुत-पूर्वत्वाद् इति । अत्रादृष्टाश्रुत-पूर्वत्वं सम्भ्रमाद् एव जातम् इवेत्य् ऊह्यम् ॥२॥
विश्वनाथः : अदृष्टाश्रुत-पूर्वत्वाद् इति नृसिंह-रूपस्य पूर्व-कल्प-दृष्टत्वेऽपि नृसिंहस्य वैकुण्ठे सदैव दृष्टत्वेऽपि तदानीम् अदृष्ट्वाश्रुतत्व-प्रतीति-लीला-शक्त्यैव कारिता । अद्भुत-रसास्वाद-प्रापणार्थम् इत्य् आहुः ॥२॥
—ओ)०(ओ—
॥ ७.९.३-४ ॥
प्रह्रादं प्रेषयाम् आस ब्रह्मावस्थितम् अन्तिके ।
तात प्रशमयोपेहि स्व-पित्रे कुपितं प्रभुम् ॥३ ॥
तथेति शनकै राजन् महा-भागवतोऽर्भकः ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥४ ॥।
श्रीधरः : उपेह्य् उपगच्छ ॥३-४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.९.५ ॥
स्व-पाद-मूले पतितं तम् अर्भकं
विलोक्य देवः कृपया परिप्लुतः ।
उत्थाप्य तच्-छीर्ष्ण्य् अदधात् कराम्बुजं
कालाहि-वित्रस्त-धियां कृताभयम् ॥
श्रीधरः : काल एवाहितस् तस्माद् वित्रस्ता धीर् येषां तेषां कृतम् अभयं येन तत् कराम्बुजम् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कृतम् अभयं येन तत् ॥५ ॥
—ओ)०(ओ—
॥ ७.९.६ ॥
स तत्-कर-स्पर्श-धुताखिलाशुभः
सपद्य् अभिव्यक्त-परात्म-दर्शनः ।
तत्-पाद-पद्मं हृदि निर्वृतो दधौ
हृष्यत्-तनुः क्लिन्न-हृद् अश्रु-लोचनः ॥
श्रीधरः : तस्य श्री-नृसिंहस्य कर-स्पर्शेन धुतं निरस्तम् अखिलम् अशुभं यस्य । सपदि तत्-क्षणम् एवाभिव्यक्तम् अपरोक्षीभूतं परात्म-दर्शनं ब्रह्म-ज्ञानं यस्य । निर्वृतः सन् हृदि दधौ । हृष्यन्ती रोमाञ्चिता तनुर् यस्य । क्लिन्नं प्रेमार्द्रं हृत् यस्य । अश्रूणि लोचनयोर् यस्य । परम-पुरुषार्थतया दधौ, न साधनत्वेनेत्य् अर्थः ॥६॥
**क्रम-सन्दर्भः : **अथ प्रह्लादस्य श्री-भगवत्-साक्षात्-कार-कृत-सर्वाघ-धूनन-पूर्वकं ब्रह्म-साक्षात्-कारानन्तरं भगवत्-साक्षात्-कार-विशेषात्मक-निर्वृतिं परमाभीष्टत्वेनाह—स तद्- इति ॥६॥ [प्रीति-सन्दर्भ ७]
विश्वनाथः : असुर-जातित्वात् तदीय-स्पर्शादि-प्राप्त्य्-असम्भावना-लक्षणम् अशुभं यत् पूर्वम् आसीत्, तत् धुतं निरस्तं यस्य सः । तत्-कर-स्पर्श-प्रभावाद् अभिव्यक्तं पूर्व-सिद्धम् एव तदानीं सर्वतो-भावेन व्यक्तीभूतं परात्म-दर्शनं परमात्मानुभवो यस्य सः ॥६॥
—ओ)०(ओ—
॥ ७.९.७ ॥
अस्तौषीद् धरिम् एकाग्र- मनसा सुसमाहितः ।
प्रेम-गद्गदया वाचा तन्-न्यस्त-हृदयेक्षणः ॥
श्रीधरः : सुसमाधिम् एवाह—तस्मिन्न् एव न्यस्तं हृदयम् ईक्षणम् च येनेति ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सुसमाधिम् आह—तस्मिन्न् एव न्यस्तं हृदयम् ईक्षणं च येन सः ॥७॥
—ओ)०(ओ—
॥ ७.९.८ ॥
श्री-प्रह्राद उवाच—
ब्रह्मादयः सुर-गणा मुनयोऽथ सिद्धाः
सत्त्वैकतान-मतयो1** वचसां प्रवाहैः ।**
नाराधितुं पुरु-गुणैर् अधुनापि पिप्रुः
किं तोष्टुम् अर्हति स मे हरिर् उग्र-जातेः ॥
श्रीधरः :
स्वस्मिन्न् इव समस्तेषु तत्-कृपामृत-दृष्टये ।
प्रह्रादः स्तौति सत्-पद्यैर् द्विचत्वारिंशता हरिम् ॥ इति ।
तत्र तावद् आत्मनो भगवत्-स्तुताव् अनधिकारम् इवाशङ्क्याधिकारं सम्भावयन्न् आह—ब्रह्मादय इति पञ्चभिः । मुनयो मनन-शीलाः । सिद्धा ज्ञानिनोऽपि । कथम्भूताः ? सत्त्व एव एकस्मिंस् तानो विस्तारो यस्याः सा मतिर् येषां, तथाविधा अपि वचसां प्रवाहैर् अपि, तथा बहुभिर् वक्ष्यमाणैर् गुणैर् अपि यम् आराधयितुं न पिप्रुर् न पूर्णाः, न शक्ता इत्य् अर्थः। स हरिर् मे मम कथं तोषं प्राप्तुम् अर्हति । तत्र हेतुः—उग्र-जातेः उग्रा घोरा आसुरी जातिर् यस्य ॥८॥
**क्रम-सन्दर्भः : **तत्र तावन् निजायोग्यतायां कैमुत्यं व्यञ्जयति—ब्रह्मादय इति । वचसां कर्म-योग-ज्ञान-प्रधानानां शब्दानां प्रवाहैर् निरन्तराभ्यासैः ॥८॥
विश्वनाथः : भो दुरवगमाश्चर्य-प्रभो ! मयि कं गुणम् आलम्ब्य कृपयसीत्य् आह—ब्रह्मादय इति । सात्त्विकत्वम् अपि न ते कृपायाः कारणं, किं पुनस् तामसत्वम् इत्य् आह—सत्त्वेषु धर्म-ज्ञान-तपःस्व् एव एकताना अनन्य-वर्तिनी मतिर् येषां ते । किं पुनर् अधर्माज्ञान-विषय-भोगैकतान-मतयो वयम् इति भावः । एकतानोऽनन्य-वृत्तिः इत्य् अमरः । न च केवलं स्तुति-वादानाम् एव त्वत्-प्रसादकत्वम् इत्य् आह—वचसां प्रवाहैः पुरु-गुणैर् ध्वनि-गुणालङ्कार-युक्तैः । प्रवाह-पक्षे स्वच्छत्व-शैत्य-माधुर्य-पावित्राद्यैः । आराधयितुं स्वेषु सन्तोषयितुम् इत्य् अर्थः । न पिप्रुः नाशक्नुवन्न् इत्य् अर्थः। मे मयीत्य् अर्थः । उग्रजातेर् महा-तामस-जातेः ॥८ ॥
—ओ)०(ओ—
** ॥ ७.९.९ ॥**
मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूथ-पाय ॥
श्रीधरः : एवं हरि-तोषणे स्वस्यायोग्यताम् आशङ्क्य योग्यतां सम्भावयति—मन्य इति द्वाभ्याम् । अभिजनः सत्-कुले जन्म । रूपं सौन्दर्यम् । श्रुतं पाण्डित्यम् । ओज इन्द्रिय-नैपुण्यम् । तेजः कान्तिः । प्रभावः प्रतापः । पौरुषम् उद्यमः । बुद्धिः प्रज्ञा । योगोऽष्टाङ्गः । एते धनादयो द्वादशापि गुणाः परस्य पुंसः आराधनाय न भवन्ति । हि यतः । केवलया भक्त्यैव गजेन्द्राय तुष्टोऽभवत् ॥९॥
सनातन-गोस्वामी- अभिजनः सत्-कुले जन्म । रूपं सौन्दर्यम् । तपः स्व-धर्माचरणम् । श्रुतं पाण्डित्यम् । ओज इन्द्रिय-नैपुण्यम् । तेजः कान्तिः । **प्रभावः **प्रतापः । बलं शरीर-शक्तिः । पौरुषम् उद्यमः । बुद्धिः प्रज्ञा । योगोऽष्टाङ्गः । एते धनादयो द्वादशापि गुणाः परस्य पुंसः तव आराधनाय साधनाय भजनोपकरणायापि नभवन्ति, किम् उत त्वत्-तुष्ट्यै । हि यतः । केवलया भक्त्यैव गजेन्द्रायतुष्टोऽभवत् ॥९॥ [ह।भ।वि। ११.५९२]
**क्रम-सन्दर्भः : **तस्माद् एवं दृष्टत्वाद् एवं निर्णीय इत्य् आह—मन्य इति चरण-त्रयेण । धनादयस् तत्-तच्-छास्त्राभ्यास-फल-रूपास् तेऽपि नाराधनाय, न परितोषाय । तर्हि केन तोषः स्यात् ? इत्य् अपेक्षायां दृष्टान्त-द्वारैव तद् दर्शयति—भक्त्येति । ब्रह्मादिषु ब्रह्मादि-कतिपयानां भक्तत्वेऽपि तेन तेन तु तेषाम् अपि स परितुष्टो न भवतीति विवक्षयोक्तम् ॥९॥
विश्वनाथः : न च बहु-धन-प्रदानादिभिस् त्वं तुष्यसीत्य् आह—मन्य इति । अभिजनः सत्-कुले जन्म । ओज इन्द्रिय-नैपुण्यम् । तेजः कान्तिः । प्रभावः प्रतापः । पौरुषम् उद्यमः । योगोऽष्टाङ्गः कर्म-योगो ज्ञान-योगश् च । नाराधनाय न सन्तोषणाय । तर्हि केनाहं सन्तुष्यामि ? इत्य् अत आह—भक्त्येति । तुतोषेति भूत-निर्देशेन नात्र काप्य् अन्या युक्तिर् अन्वेष्टव्या, किन्तु भवतः स्वभाव एवायं भक्तेर् वा काप्य् अद्भुता शक्तिर् इति द्योतते। तेन च त्वत्-सन्तोषान्यथानुपपत्त्या मय्य् अपि श्री-नारद-कृपाद्भुतो भक्ति-गन्धो वर्तत इति व्यञ्जितम् ॥९॥
—ओ)०(ओ—
॥ ७.९.१० ॥
विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-
पादारविन्द-विमुखात् श्वपचं वरिष्ठम् ।
मन्ये तद्-अर्पित-मनो-वचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरि-मानः ॥
**मध्वः- **द्विषड्-गुण-युतात्—
ज्ञानं च सत्यं च दमः शमश् च
ह्य् अमात्सर्यं ह्रीस् तितिक्षानसूया ।
दानं च यज्ञश् च तपः श्रुतं च
महा-व्रता द्वादश ब्राह्मणस्य ॥ [म।भा। ५.४३.१२] इति भारते ॥१०॥
श्रीधरः : एवं भक्त्यैव केवलया हरेस् तोषः सम्भवतीत्य् उक्तम् इदानीं भक्तिं विना नान्यत् किञ्चित् तत्-तोष-हेतुर् इत्य् आह—विप्राद् इति । पूर्वोक्ता धनादयो द्वि-षट् द्वादश गुणास् तैर् युक्ताद् विप्राद् अपि श्वपचं वरिष्ठं मन्ये ।
यद् वा, सनत्-सुजातोक्ताद्वादश धर्मादयो गुणा द्रष्टव्याः—
धर्मश् च सत्यं च दमस् तपश् च
ह्य् अमात्सर्यं ह्रीस् तितिक्षानसूया ।
यज्ञश् च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥[म।भा। ५.४३.१२] इति ।
यद् वा,
शमो दमस् तपः शौचं क्षान्त्य्-आर्जव-विरक्तताः ।
ज्ञान-विज्ञान-सन्तोषाः सत्यास्तिक्ये द्विषद्-गुणाः ॥ इति ।
कथम्भूताद् विप्रात् ? अरविन्द-नाभस्य पादारविन्दाद् विमुखात् । कथम्-भूतं श्वपचम् ? तस्मिन्न् अरविन्द-नाभेऽर्पिता मन-आदाय येन तम् । ईहितं कर्म। वरिष्ठत्वे हेतुः—स एवम्भूतः श्वपचः सर्व-कुलंपुनाति । भूरिर् मानो गर्वो यस्य स तु विप्र आत्मानम् अपि न पुनाति, कुतः कुलम् ? यतो भक्ति-हीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये । अतो हीन इति भावः ॥१०॥
**सनातनः **[ह।भ।वि। १०.१९२]: मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः [भा।पु। ७.९.९] इति पूर्वोक्ता मे धनादयः द्विषट् द्वादश गुणास् तैर् युक्ताद् विप्राद् अपि श्वपचं वरिष्ठं मन्ये । यद् वा, उद्योग-पर्वणि सनत्-सुजातोक्ताद्वादश धर्मादयो गुणा द्रष्टव्याः । तथा हि—
धर्मश् च सत्यं च दमस् तपश् च
ह्य् अमात्सर्यं ह्रीस् तितिक्षानसूया ।
यज्ञश् च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥[म।भा। ५.४३.१२] इति ।
कथम्भूताद् विप्रात् ? अरविन्द-नाभस्य पादारविन्दाद् विमुखात् । कथम्-भूतं श्वपचम् ? तस्मिन्न् अरविन्द-नाभ-पदारविन्देऽर्पिता मन-आदाय येन तम् । ईहितं कर्म। वरिष्ठत्वे हेतुः—स एवम्भूतः श्वपचः स्व-कुलं पुनाति । भूरिर् मानो गर्वो यस्य, स तु विप्र आत्मानम् अपि न पुनाति, कुतः कुलम् ? यतो भक्ति-हीनस्यैते गुणा गर्वायैव भवन्ति, अतो हीन इति भावः ।
यद् वा, ताड्र्शाद् विप्रात् श्वपचम् एवाहं मन्ये आद्रिये, भगवद्-विमुखत्वेन विप्रस्य श्वपचोऽप्य् अधमत्वात् । श्वपचस्य च जात्यादि-स्वभावेन भगवज्-ज्ञानाद्य्-असम्भवात्, केवलं भगवत्य् आभिमुख्याभावः, न तु वैमुख्यम् । अतस् तस्मात् अप्य् अयम् एव साधुः । अत एव तं मन्ये इति । तद्-अर्पित-मनो-वचनेहितार्थ-प्राणं सन्तं वरिष्ठं सर्वोत्कृष्टां मन्ये । तत्र हेतुः—पुनातीति ।
यद् वा, आदितो विप्रस्य सन्धोपासनादौ स्वत एव नित्यं भगवद्-आभिमुख्यम् अस्त्य् एव, पश्चाच् चाध्यनादिना ताड्र्श-द्वादश-गुणाः सम्पन्नाः, अतोऽधुनाभिमुख्य-विशेषस् तावद् दूरेऽस्तु । अथ च “अहम् एव सत्यं परं ब्रह्म नारायणः, मत्तोऽन्यच् च दृष्ट-श्रुतं सर्वं मन्-माया-कल्पितं मय्य् अध्यस्तम् एव” इत्य् आदि मिथ्याभिमानेन सता भगवत्-पादारविन्दाद् वैमुख्यं गताद् इति । अन्यत् समानम् ॥१०॥
**क्रम-सन्दर्भः : **ननु भक्ति-व्यतिरिक्ता अपि केचित् ते गुणा वरिष्ठतयोद्घुष्यन्ते, तत्रासहमान आहुः—विप्राद् इति ॥१०॥
**विश्वनाथः : **किम् अन्यद् वक्तव्यं भक्त्य्-अभाव-सद्भावाभ्याम् एवं विविच्यत इत्य् आह—भक्ति-हीनात् विप्राद् अपि श्वपचं वरिष्ठं मन्ये, किम् उत क्षत्रियादिभ्यः । तत्रापि द्वि-षट् पूर्वोक्ता धनादयो द्वादश-गुणास् तैर् युक्ता, किम् उत सप्ताष्ट-त्रि-चतुर्-आदि-गुण-युक्तात्, किम् उततरां तत्-तद्-गुण-हीनात्, तत्रापि वरिष्ठम् अतिशयेनाधिकम् एव । सनत्-सुजातोक्ता द्वादश वा गुणा द्रष्टव्याः । तद् उक्तम्—
ज्ञानं च सत्यं च दमः शमश् च
ह्य् अमात्सर्यं ह्रीस् तितिक्षानसूया ।
दानं च यज्ञश् च तपः श्रुतं च
महा-व्रता द्वादश ब्राह्मणस्य ॥ [म।भा। ५.४३.१२] इति ।
अरविन्द- इति तेन ज्ञान-योगादि-सत्त्वे विप्रो भगवद्-विमुखो नोच्यते इति मतं परास्तम् । श्वपचं कीदृशम् ? तस्मिन्न् अरविन्द-नाभे अर्पिता मन-आदयो येन तम् । ईहितं कर्म अर्थो धनम् । विप्राद् वरिष्ठत्वे हेतुः—स श्वपचः कुलं स्वीयं सर्वम् एव पुनाति । **भूरि-मानो **लोकेष्व् आदरो यस्य तथा-भूतोऽपि, स तु विप्र आत्मानम् अपि न पुनाति, कुतः कुलम् इति भावः । भक्ति-हीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये इति स्वामि-चरणाः ॥१०॥
—ओ)०(ओ—
॥ ७.९.११ ॥
नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो
मानं जनाद् अविदुषः करुणो वृणीते ।
यद् यज् जनो भगवते विदधीत मानं
तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः ॥
श्रीधरः : तर्हि किं धनाद्य्-अर्पणेन संमानं प्राकृत इव भगवान् अपेक्षते ? नेत्य् आह—नैवेति । अयं प्रभुर् ईश्वरोऽविदुषोऽल्पकाज् जनात्मानं पूजाम् आत्मनोऽर्थे **न वृणीते **नेच्छति, यतो निज-लाभेनैव पूर्णः । तर्हि पूजां नेच्छत्य् एव ? तत्राह—करुणः कृपालुर् अतो वृणीते च । तत्र हेतुः—यद् यद् इति । यं यं मानम् । यद् वा, यद् यस्माद् यद् येन धनादिना भगवते मानं विदधीत, तद् एव आत्मने भवति, नान्यत् । यथा मुखे कृतैव तिलकादि-श्रीः शोभा प्रतिबिम्बस्य भवति, न तु साक्षात् तस्यैव कर्तुं शक्यते, तद्वत् ॥११॥
**क्रम-सन्दर्भः : **भक्तास् तु श्री-भगवतोऽपि स्वत एव परमाभीष्ट-रूपाः, भक्तिर् एव च भक्तानां सुख-रूपेति भक्त्या तुतोष इत्य् एवोत्कर्षयन् स्व-कर्तव्यत्वेन ताम् एव निगमयितुम् आह—नैवात्मन इति ।
अयं प्रभुर् आत्मनो मानं पूजां जनान् निज-भक्तान् न वृणीते नेच्छति । तत्र हेतुः—निजस्य भक्तस्यैव लाभेनैव पूर्णः परम-सन्तुष्टः। हेत्व्-अन्तरं—करुणः पूजार्थं तत्-प्रयासादाव् असहिष्णुः । कथम्भूतात् ? जनाद् अविदुषः । पितुर् अग्रे बालकवत् तस्याग्रे न किञ्चिद् अपि जानतः । एषा स्वस्य जनैक-वर्गत्वेन दैन्योक्तिः । यद् वा, तद्-आवेशेनान्यत् किञ्चिद् अपि न जानत इत्य् अर्थः । उभयत्र पक्षेऽपि तच् च तस्य कारुण्य-हेतुर् इति भावः ।
तर्हि किं जनस् तस्य पूजां न कुरुते ? इत्य् आशङ्क्याह—यद् इति । स च जनो यद् यद् यं यं मानं भगवते विदधीत सम्पादयति, स सर्वोऽप्य् आत्मार्थम् एव । तत्-सम्मान-मात्रेणैव स्व-सम्माननाभिमननात् सुखं मन्यमानस् तन्-मानं करोत्य् एवेत्य् अर्थः। \
तत्-सम्मान-मात्रेण स्व-सम्मानश् च तद्-एक-जीवनस्य तज्-जनस्य युक्त एवेति दृष्टान्तम् आह—यथा मुखे या शोभा क्रियते, तन्-मात्रम् एव प्रतिमुखस्य शोभायै भवति, नान्यद् इति ॥११॥ [भक्ति-सन्दर्भ १६७]
विश्वनाथः : ननु तर्हि श्रवण-कीर्तनार्हणादिभिर् मत्-सम्माननं हि भक्तिस् तयैव तुष्यामि, न तु तपः-श्रुतादिभिः पुं-निष्ठैर् गुणैर् इति चेन् मम स्वार्थ-परत्वं प्रसक्तम् ? तत्र नहि नहीत्य् आह—नैवेति ।
अयं प्रभुर् ईश्वरो भगवान् आत्मनः स्वस्य मानं सम्माननं जनात् जन-मात्रात् न वृणीते । कीदृशात् ? अविदुषः । तद्-अपेक्षया ब्रह्मादि-स्तम्ब-पर्यन्तः सर्व एव जनो ह्य् अविद्वान् एवेत्य् अर्थः । न हि शास्त्रादि-विद्या-ज्ञान-शून्य-जन-कृतं सम्माननं भव्यः कश्चित् गृह्णातीति मानाग्रहणे जन-निष्ठोऽज्ञान-लक्षणो धर्मो हेतुर् उक्तः ।
तत्र त्वन्-निष्ठो [ज्ञान-लक्षणो] धर्मोऽपि हेतुर् अस्तीत्य् आह—निज-लाभेन पूर्णः किन्तु करुणः कृपालुः सन् वृणीते च । यत् कुतश्चिद् वृणीते इति दृश्यते, तत् तम् अनुग्रहीतुम् एवेति मान-ग्रहणेऽपि करुणत्व-लक्षणस् त्वन्-निष्ठो धर्म एव हेतुर् अस्तीति भावः ।
न च प्राकृत-जन-दत्तेन मानेन तव कश्चिद् उत्कर्षो भवेत्, अपि तु मान-प्रदातुर् एवेत्य् आह—यद् यद् यां यां मानं पूजां भगवतेविदधीत कुर्यात्, तत् संमान आत्मने स्वस्मै स्वोत्कर्षायैव भवेत् । यथा मुख-श्रीः मुखे कृतैव तिलकादि-शोभा प्रतिमुखस्य प्रतिबिम्बस्य भवेत्, न तु प्रतिबिम्बे कृता प्रतिबिम्बस्येत्य् अर्थः ॥११॥
—ओ)०(ओ—
॥ ७.९.१२ ॥
तस्माद् अहं विगत-विक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथा मनीषम् ।
नीचोऽजया गुण-विसर्गम् अनुप्रविष्टः
पूयेत येन हि पुमान् अनुवर्णितेन ॥
**श्रीधरः : **यस्माद् एवं भगवान् भक्त्यैव तुष्यति, तस्माद् अहं नीचोऽपि विगत-विक्लवो गत-शङ्कः सन्न् ईश्वरस्य महि महिमानं सर्व-प्रयत्नेन स्व-मनीषानुसारेण अनुवर्णयामि । अजानतोऽपि स्तुति-करणे हेतुम् आह—येनैव महिम्नानुवर्णितेनाविद्यया संसारम् अनुप्रविष्टः पुमान् पूयेत शुद्ध्येत, तन् महि अन्यस्य तथा शोधकत्वाभावाद् इत्य् अर्थः ॥१२॥
**क्रम-सन्दर्भः : **निगमयति—तस्माद् इति ॥१२॥
**विश्वनाथः : **यस्माद् एवं भवान् भक्त्यैव तुष्यति, न तु सज्जात्य्-आदिभिः, यस्माच् च त्वत्-सम्माननं खल्व् आत्मने एव फलति, तस्माद् अहं नीचोऽपि महिमानं गृणामि स्तौमि, येन त्वन्-महिम्ना अनुवर्णितेन गुण-विसर्गं संसार-व्याधिम् अनुप्रविष्टो जनः पूयेत । तस्मान् मुच्येतेत्य् अर्थः ॥१२॥
—ओ)०(ओ—
॥ ७.९.१३ ॥
सर्वे ह्य् अमी विधि-करास् तव सत्त्व-धाम्नो
ब्रह्मादयो वयम् इवेश न चोद्विजन्तः ।
क्षेमाय भूतय उतात्म-सुखाय चास्य
विक्रीडितं भगवतो रुचिरावतारैः ॥
**श्रीधरः : **तद् एवम् आत्मनः स्तुताव् अनधिकारं परिहृत्येदानीं तं स्तुवन् कोपोपसंहारं प्रार्थयते—सर्वे हीति द्वाभ्याम् । भो ईश ! अमी उद्विजन्तो बिभ्यतः सर्वे ब्रह्मादयः सत्त्व-मूर्तेस् तव विधि-करास् त्वन्-नियोग-कर्तारो भक्ता एव, नान्ये । न च वयम् असुरा इव वैर-भावेनैते भक्ताः, किन्तु श्रद्धयैव । तव रुचिरैर् अवतारैर् विविधं क्रीडनम् अस्य विश्वस्य क्षेमादि-प्रयोजनाय, न तु भयोत्पादनाय ॥१३॥
**क्रम-सन्दर्भः : **नन्व् एवं ब्रह्माद्या भक्ता न भवन्ति, भवान् एव तु भक्त इत्य् आशङ्क्यासुर-कुल-जन्मत्वात् दैन्येनात्मानम् अपि तत्-स्वभावत्वेन निर्दिशन् ब्रह्मादीन् प्रसाद-विषयीकारयितुं व्यतिरेक-दृष्टान्तेन तेषां भक्तत्वम् एव दृढयति—सर्व इति । न च न तु वयम् इव असुरा इव उद्विजन्तः, त्वद्-असमोर्ध-वैभव-दर्शनेनोद्वेगम् ईर्ष्यादि-भावं प्राप्नुवन्तो भवन्ति । भवांस् तु सर्व-मङ्गल-चरित एवेत्य् आह—क्षेमायेति ॥१३॥
विश्वनाथः : वयम् असुरा एवास्मिन् जगत्य् अभक्ता मन्द-भाग्याः, अन्ये तु सर्वे तव भक्ता भूरि-भागा एवेत्य् आह—सर्वे विधिकरास् त्वन्-नियोग-कर्तारो दासा एव, न च वयम् असुरा इव वैर-भाववत्त्वाद् उद्विजन्तः, स्वतो भीताः । अतोऽस्य स्व-भक्त-रूपस्य विश्वस्य क्षेमाय भूतये सम्पत्त्यै च उत आत्मनः स्वस्य च सुखार्थं तवेदम् असुर-वधादि विक्रीडितं भवेत् ॥१३॥
—ओ)०(ओ—
॥ ७.९.१४ ॥
तद् यच्छ मन्युम् असुरश् च हतस् त्वयाद्य
मोदेत साधुर् अपि वृश्चिक-सर्प-हत्या ।
लोकाश् च निर्वृतिम् इताः प्रतियन्ति सर्वे
रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥
श्रीधरः : तत् तस्माद् एषां भय-परिहाराय मन्युं यच्छ उपसंहर । यद् अर्थम् अयं मन्युः, स चासुरः साधूनां सन्तोषार्थम् अद्य हतः । अतः परं क्रोधेन कार्याभावात् तं नियच्छ । नन्व् अन्येषां वधेन साधुः किं मोदेत ? तत्राह—**वृश्चिकादेः **परोपद्रव-कारिणोऽन्यतो जातया हत्या वधेन तस्यैव तद् भद्रं जातम् इति साधुर् अपि मोदेतैव । तर्हि बहूनां सुखावहत्वाद् अमुं क्रोधं न त्यजामीति चेत्, तत्राह—लोकाश् च निर्वृतिम् इताः प्राप्ताः सन्तः प्रतियन्ति क्रोधोपसंहारं प्रतीक्षन्ते, तर्हि जनानां पुनर् भयाभावाय मन्युं धारयामीति चेत्, तत्राह—रूपम् इति । विभयाय भय-निवृत्त्यै । एतद् रूप-स्मरणाद् एव भय-निवृत्तेर् न मन्यु-धारणेन कृत्यम् अस्तीत्य् अर्थः॥१४॥
**क्रम-सन्दर्भः : **ननु, परम-साधोस् तव हिंसकोऽयम् इति महा-प्राणिनोऽप्य् अस्य मया हननं साधवोऽप्य् एतत्-तत्त्वानभिज्ञा एते ब्रह्म-मरीच्यादयो न सहेरन् । अत एवैतेष्व् अपि प्रसादो न युक्त इत्य् आशङ्क्याह—मोदेतेति । अहं को वराकः, किन्तु वृश्चिकादेर् इव सर्व-हिंसकस्यास्य हननं साधु-जनोऽप्य् अनुमोदेत, किम् उतैत इत्य् अर्थः । किं वक्तव्यं, त एव मोदं लब्ध्वा इति । यतो लोकाश् चेति अतो विश्व-सुखदत्वात् साध्व् एवानुष्ठितम् इति । प्रसादस्यावसरोऽयं, न तु मन्योर् इति भावः । किं च, रूपम् इति ॥१४॥
विश्वनाथः : यस्माद् विश्वस्य क्षेमाद्य् अभूत् तस्मान् मन्युं यच्छ दूरीकुरु । ननु पर-दुःखेन सुखित्वात् कथम् अस्य विश्वस्य साधुत्वम् ? तत्राह—साधुर् अपि परोद्वेजक-वृश्चिक-सर्पादीनां हत्यया हिंसया अन्य-कृतया मोदेतेति विधेर् नासाधुत्वम् इत्य् अर्थः । प्रतियन्ति तव दुष्ट-निग्रह-शिष्ट-पालन-कर्तृत्वे प्रतीतिं प्राप्नुवन्ति । न चातः परं तवैतादृशावतारापेक्षापीत्य् आह—हे नृसिंह ! तव रूपम् एवेदं विभयाय भयाभावाय स्मरन्ति । तवैतद्-रूप-स्मरणेनैवातः परं भीताः असुरा नङ्क्ष्यन्तीति भावः ॥१४॥
—ओ)०(ओ—
॥ ७.९.१५ ॥
नाहं बिभेम्य् अजित तेऽतिभयानकास्य-
जिह्वार्क-नेत्र-भ्रुकुटी-रभसोग्र-दंष्ट्रात् ।
आन्त्र-स्रजः-क्षतज-केशर-शङ्कु-कर्णान्
निर्ह्राद-भीत-दिगिभाद् अरि-भिन्-नखाग्रात् ॥
**श्रीधरः : **त्वं चेद् बिभेषि, तर्हि त्यजामीति चेत्, तत्राह—नाहम् इति । भो अजित ! तेऽस्माद् रूपाद् अहं **न बिभेमि **। कथं-भूतात् ? आस्यं च जिह्वा चार्क-सदृश-नेत्राणि च भ्रू-कुटीनां रभस आटोपश् च उग्रा दंष्ट्राश् च, एतान्य् अतिभयानकानि यस्मिंस् तस्मात् । अन्त्र-मय्यः स्रजो यस्मिंस् तद् आन्त्र-स्रक्, तस्मात् । क्षतजाक्ताः केसरा यस्मिन्, शङ्कुवद् उन्नतौ स्तब्धौ कर्णौ यस्मिन्, तच् च तच् च तस्मात् । निर्ह्रादेन भीता दिग्-इभा यस्मात् । अरीन् भिन्दन्तीत्य् अरि-भिन्दितानि नखाग्राणि यस्मिन् । एवं-भूताद् अपि ते रूपाद् अहं न बिभेमि॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : असुर-जातित्वेऽप्य् अन्येषाम् असुराणाम् इव त्वत्तो न मे भयम् ? इत्य् आह—नाहम् इति । तेऽस्मद्-रूपाद् अहं न बिभेमि । कीदृशात् ? अतिभयानकम् आस्यं जिह्वा, अर्क-तुल्य-नेत्राणि भ्रूकुट्या रभस आटोप उग्र-दंष्ट्राश् च यत्र तस्मात् । अन्त्र-मय्यः स्रजो यत्र तद् आन्त्र-स्रक्, तस्मात् । क्षतजाक्ताः केसरा यस्मिन्, शङ्कुवद् उन्नतौ स्तब्धौ कर्णौ यस्मिन्, तच् च तच् च तस्मात् । निर्ह्रादेन भीता दिग्-इभा यस्मात् । अरीन् भिन्दन्तीत्य् अरि-भिन्दितानि नखाग्राणि यस्मिन्, तस्मात् ॥१५॥
—ओ)०(ओ—
॥ ७.९.१६ ॥
त्रस्तोऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र-
संसार-चक्र-कदनाद् ग्रसतां प्रणीतः ।
बद्धः स्व-कर्मभिर् उशत्तम तेऽङ्घ्रि-मूलं
प्रीतोऽपवर्ग-शरणं ह्वयसे कदा नु ॥
**श्रीधरः : **महद्-भयं त्व् अन्यद् अस्तीत्य् आह—त्रस्तोऽस्मीति । दुःसहं यद् उग्रं संसार-चक्रे कदनं दुःखं, तस्माद् अहं **त्रस्तोऽस्मि **। तत्र च ग्रसतां हिंस्राणां मध्ये स्व-कर्मभिर् बद्धः सन् प्रणीतो निक्षिप्तोऽस्मि । हे कृपण-वत्सल ! हे उशत्तम! कदा नु त्वं प्रीतः सन्न् अपवर्ग-भूतं शरणं तव अङ्घ्रि-कमलं प्रति ह्वयसे माम् आह्वयसि ॥१६॥
**क्रम-सन्दर्भः : **दुःसहेति तद्-बहिर्-मुखता-मयत्वाद् इति भावः । तत्रापि ग्रसतां त्वद्-भक्तेः सर्वङ्गिलानाम् असुराणां मध्ये, ततो हे उशत्तम्! ते तवाङ्घ्रि-मूलं चरणारविन्दयोः नित्याधिष्ठानं श्री-वैकुण्ठं प्रति कदा नु ह्वयसे ॥१६॥
**प्रीति-सन्दर्भः (४९): **एवं सद्यो जहुर् भगवत्-पार्श्व-कामाः [भा।पु। १.१९.२०] इत्य् अत्र तत्-सामीप्य-कामनापि व्याख्येया । तत्-प्रीति-विशेषातिशयवतां हि तेषां तत्-कृतार्ति-भरेणैव तत्-स्फूर्ताव् अप्य् अतृप्तौ सत्यां, तत्-सामीप्य-प्राप्तेश् च तत्-प्राप्ति-विघातक-संसार-बन्धन-त्रोटनस्य च प्रार्थनं दृश्यते । पितृ-मातृ-प्रीत्य्-एक-सुखिनां विदूर-बद्धानां बालकानाम् इव । यथाह—त्रस्तोऽस्मीति ।
त्वद्-बहिर्मुख-व्यापार-मयत्वाद् दुःख-सहम् अनुशीलयितुम् अशक्यम् । त्वद्-भक्ति-विरोधि-व्याकार-2मयत्वात् तु उग्रं भयानकं यत् संसार-चक्रं, तस्माद् यत् कदनं लोकानां मनो-दौःस्थ्यं, तस्माद् अहं त्रस्तोऽस्मि, त्वद्-अभिमुखीभवितुं न पारय इत्य् अर्थः । एवम् एव वक्ष्यते—
श्री-नारद उवाच—
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
श्री-प्रह्राद उवाच—
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भा।पु। ७.१०.१-२] इत्य् अनेन ।
यद्यप्य् एवं त्रस्तोऽस्मि, तथाप्य् अहो ग्रसतां भगवद्-विरोधित्वेन मादृश-सर्वङ्गिलानाम् एषाम् असुराणां मध्ये स्व-कर्मभिर् बद्धः सन् प्रणीतो निक्षिप्तोऽस्मि । ततस् तव विरह-दूनतया इदं याचे । कदा नु प्रीतः सन् अपवर्ग-भूतम् अरणं शरणं **तवाङ्घ्रि-मूलं **त्वत्-समीपं प्रति माम् आह्वास्यसीति ॥१६॥
**विश्वनाथः : **किन्तु त्वद्-वैमुख्य-प्रदायक-दुःसङ्गादिभ्य एव भीतोऽस्मीत्य् आह—त्रस्तोऽस्मीति । यत् त्वन्-निन्दा-द्वेषादि-मयत्वाद् उग्रं संसार-चक्र-कदनं तस्माद् एव त्रस्तोऽस्मि, न तु साधारण-संसाराद् इति प्रह्लादाभिप्रायो व्याख्येयः ।
नैवोद्विजे पर दुरत्यय-वैतरण्यास्
त्वद्-वीर्य-गायन-महामृत-मग्न-चित्तः [भा।पु। ७.९.४३] इत्य्-अग्रिम-तद्-उक्तेः ।
यतः ग्रसतां त्वद्-भक्तं मां भक्षितुम् इवेच्छताम् असुराणां मध्ये प्रणीतो निक्षिप्तः । ननु त्वं किं मया निक्षिप्तः ? तत्र नहि नहीत्य् आह—बद्धः सन् स्व-कर्मभिर् एव । तस्मात् कदा नु प्रीतः सन् अपवर्ग-भूतं शरणं तवाङ्घ्रि-कमलं प्रति ह्वयसे पाद-संवाहनार्थं माम् आह्वास्यसि ॥१६॥
—ओ)०(ओ—
॥ ७.९.१७ ॥
यस्मात् प्रियाप्रिय-वियोग-संयोग-जन्म-
शोकाग्निना सकल-योनिषु दह्यमानः ।
दुःखौषधं तद् अपि दुःखम् अतद्-धियाहं
भूमन् भ्रमामि वद मे तव दास्य-योगम् ॥
**श्रीधरः : **दास्ये सति मत्-प्रीतिर् इति चेत्, तर्हि नाना-योनिषु क्लिष्यमानस्य मम दास्य-ज्ञानाभावात् त्वम् एव तद् उपदिशेति प्रार्थयते । यस्मात् प्रियैर् अप्रियैश् च यथा-सङ्ख्यं वियोग-संयोगाभ्यां जन्म यस्य, तेन शोकाग्निना सकल-योनिषु दह्यमानोऽस्मि । दुःखस्य प्रतीकारः कार्य इति चेत्, तत्राह—दुःखस्यौषधं प्रतीकारः, तद् अपि दुःखम् एव । एवम् अप्य् अतद्-धिया देहाद्य्-अभिमानेन मुह्यामि । अतो हे भूमन् विभो ! मे तव दास्य-रूपं योगं निस्तारोपायं वद ॥१७॥
**क्रम-सन्दर्भः : **ननु, यावद् आह्वयामि, तावत् पैतृकं राज्य-सुखम् अनुभवेति चेद् दुःखम् एव तत्, तावच् च प्रार्थनीयस् त्व् एष एवेत्य् आह—यस्माद् इति । दास्यं दासस्य कर्म तच् च श्री-भगवत्-प्रतिमा-परिचर्या, तद् एव योगस् त्वत्-संयोग-रूपस् तम् ॥१७॥
**विश्वनाथः : **ननु मद्-अङ्घ्रि-सेवया किं करिष्यसि ? पैतृकं त्रिजगद्-ऐश्वर्य-सुखं तावत् भुङ्क्ष्वेत्य् अत आह—यस्मात् प्रियैर् अप्रियैश् च यथा-सङ्ख्यं वियोग-संयोगाभ्याम् जन्म यस्य तेन शोकाग्निना सकल-योनिष्व् इति राज-देहेऽपि तादृश-शोकाग्नि-दाहस्य नासद्-भाव इति भावः ।
ननु शोकाग्नेः प्रतीकारा अपि बहवो वर्तन्त इत्य् अत आह—दुःखस्यौषधं प्रतीकारः, तद् अपि दुःखम् एव । तद् अपि अतद्-धिया अदुःख-बुद्ध्यैव शूकरादि-योनाव् अप्य् अहं सुखीति बुद्ध्यैव भ्रमामि, अतस् तव दास्यस्य योगम् उपायं वद, केनोपायेन तव दास्यं प्राप्नुयाम् ? तत्त्वम् एवोपदिश, त्वद्-दास्यवत्त्वे सति नाना-योनि-गतस्यापि तत्त्वम् एवोपदिश, त्वद्-दास्यवत्त्वे सति नाना-योनि-गतस्यापि न मे किम् अपि दुःखम् इति भावः ॥१७॥
—ओ)०(ओ—
॥ ७.९.१८ ॥
सोऽहं प्रियस्य सुहृदः पर-देवताया
लीला-कथास् तव नृसिंह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥
**श्रीधरः : **ननु दास्य-योगेन प्रवृत्तस्यापि तद्-अन्तराय-भूतानां पूर्वोक्त-नाना-दुःखानां कुतः परिहारः ? तत्राह—सोऽहं त्वद्-दासः सन्, भो नृसिंह ! तव लीला-कथा अनुगृणन् दुर्गाणि महा-दुःखान्य् अञ्जसा तितर्मि तरामि, न गणयिष्यामीत्य् अर्थः । तत्र हेतुः—गुणै रागादिभिर् विशेषेण प्रमुक्तः सन् । तत् कुतः ? ते पद-युगम् एवालयो येषां भक्तानां, त एव हंसा ज्ञानिनः, तैः सङ्गो यस्य मम, सोऽहम् ।
कथं-भूतस्यकथाः? तत्राह—प्रियस्येत्य् आदि । कुतो ज्ञाताः ? विरिञ्चेन गीतास् तत्-सम्प्रदाय-प्रवृत्ताः । तथा चाथर्वणी श्रुतिः—देवा ह वै प्रजा-पतिम् अब्रुवन् इत्य्-आदि । दास्ये प्रवृत्तस्य भवद्-अनुग्रहेण सत्-सङ्गः, ततो वीत-रागतया भगवद्-गुणानुवर्णनं, ततश् च न दुःखाभिभवः स्याद् इति वाक्यार्थः ॥१८॥
**सनातनः **[ह।भ।वि। १०.५३३]: सोऽहं त्वद्-दासः । भो नृसिंह ! तव लीला-कथा अनुगृणन् दुर्गाणि महा-दुःखान्य् अञ्जसा तितर्मि तरामि, न गणयिष्यामीत्य् अर्थः । तत्र हेतुः—गुणै रागादिभिर् विशेषेण प्रमुक्तः सन् । तत् कुतः ? ते पद-युगम् एवालयो येषां भक्तानां, त एव हंसा ज्ञानिनः सारासार-विवेकिनो वा, तैः सङ्गो यस्य मम, सोऽहम् ।
कथं-भूतस्यकथाः ? तत्राह—प्रियस्य इति-विशेषण-त्रयेणानेन कथाया अपि प्रियत्वादि-विवक्षया परम-सुख-मयत्वादिकम् । तेन च सदानुकीर्तनम् अभिप्रेतम् । कुतो ज्ञाताः ? विरिञ्चिणा गीतास् तत्-सम्प्रदाय-प्रवृत्ताः । तथा चाथर्वणी श्रुतिः—देवा ह वै प्रजा-पतिम् अब्रुवन् इत्य्-आदि । एतेन कथायाः परम-पुरुषार्थता च दर्शिता । सनकादि-परमहंसाचार्येण अपि सेवितत्वात् । दुर्गाणि तितर्मीति आनुषङ्गिक-फल-मात्रम् इति दिक् ॥१८॥
**क्रम-सन्दर्भः : **तत्-तद्-उपद्रव-हानिस् तु तत्र स्वतः-सिद्ध-प्रकारान्तरेण भवत्-स्फूर्ति-विशेषाद् एव स्याद् इत्य् आह—सोऽहम् इति ॥१८॥
विश्वनाथः : ननु मद्-दास्ये वर्तमानेऽपि त्वया प्रस्तुत-सांसारिक-दुःखस्यौषधम् अन्यद् अन्वेष्टव्यम् एवेति, तत्र साटोपं स-प्रगल्भास्फोटं चाह—सोऽहं त्वद्-अनन्य-भक्तः श्री-नारद-भृत्यत्वेन प्रसिद्धः प्रह्लादोऽहम् । अनन्य इव न ज्ञान-कर्मादिकं स्वप्नेऽप्य् अङ्गीकरोमीति भावः । तव लीला-कथा गृणन्, कीर्तयन्न् एव, गुण-विप्रमुक्तो गुणातीत इति यद्य् अहं गुणातीतोऽभूवं तदा मे कुतः प्रस्तुत-दुःखं दुःखौषधं वेति भावः ।
ननु गुणातीतस्य भक्तस्यापि दुःखानि दृश्यन्ते ? तत्राह—दुर्गाणि, त्वद्-विरह-सन्तापान् अञ्जः शीघ्रं तितर्मि अतिशयेन तरामीति त्वत्-साक्षात्-सेवा-प्राप्ताव् अपि त्वत्-कीर्तन-प्रसादान् मे नातिविलम्बो भावीति भावः । त्वत्-पद-युगस्य कमलत्वात् तदालयैर् हंसैस् तत्-पार्षदैर् मां नेतुम् आगच्छद्भिः सह सङ्गो यस्य सः । विरिञ्च-गीता इति कथानां प्रामाण्यं, न च त्वत्-कथा-कीर्तने केषाम् अपि श्रम इत्य् आह—प्रियस्य उज्ज्वल-भक्तानां कान्तस्य सुहृदः सक्य-भक्तानां सख्युः पर-देवताया दास्य-भक्तानां मद्-विधानां प्रभोः ॥१८॥
—ओ)०(ओ—
॥ ७.९.१९ ॥
बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदम् उदन्वति मज्जतो नौः ।
तप्तस्य तत्-प्रतिविधिर् य इहाञ्जसेष्टस्
तावद् विभो तनु-भृतां त्वद्-उपेक्षितानाम् ॥
**श्रीधरः : **ननु दुःखैस् तप्तस्य तत् प्रतीकारो लोके प्रसिद्ध एव किं मद्-दास्यादिना तत्राह—बालस्येति । भो नृसिंह, तप्तस्य तत् प्रति-विधिर् दुःख-प्रती-कार इह लोके योऽञ्जसेष्टः स त्वयोपेक्षितानां तावद् एव क्षण-मात्रम् एव न त्वात्यन्तिकः । तद् एवाह—बालस्य पितरौ शरणं रक्षकाव् इह न भवतः, ताभ्यां पाल्यमानस्यापि तस्य दुःख-दर्शनात्, क्वचिद् अजीगर्तादिषु ताभ्याम् एव तद्-वध-दर्शनाच् च । न चार्तस्य रोगिणोऽगदम् औषधं शरणम्, कृतेऽप्य् औषधे मृत्यु-दर्शनात् । न चोदन्वति समुद्रे मज्-जतः पुंसो नौः शरणम्, तया सह मज्-जन-दर्शनात् । अतस् त्वम् एव शरणम् इत्य् अर्थः । अथ वैवं काक्वा व्याख्येयम् । तप्तस्य तत् प्रतिविधिर्य इह तावत् प्रसिद्धः स त्वद्-उपेक्षितानां किम् अञ्जसेष्टोऽपितु नेष्ट एव । यद् वा, यस् तावद् इह प्रतिविधिर् इष्टः स किम् अञ्जसा नैवाञ्जसेत्य्-आदि योज्यम् । बालस्येत्य्-आदि पूर्ववद् एव ॥१९॥
**क्रम-सन्दर्भः : **नान्यत इत्याह—बालस्येति । तर्हि कथं शास्त्रान्तरे तत्-तत्-प्रतीकार इष्यते ? तत्राह—तप्तस्येति च त्वद्-उपेक्षितानां सञ्जात-त्वद्-विषयोपेक्षाणां त्वद्-बहिर्मुखानाम् इत्य् अर्थः । तेषाम् अर्थे साक्षाद्-उपदेशेन यः प्रतिविधिः तत्र तत्रेष्टः स तावद् एव आपात-धैर्यार्थम् एवेत्य् अर्थः । तेषाम् अतस् तत्रापि सर्व-भक्ताश्रय-परम-शक्तिना त्वयैव रक्षणम् इति भावः ॥१९॥
विश्वनाथः : न च दुःखस्य प्रतीकारा अपि त्वां विना फलन्तीत्य् आह—बालस्य पितरौ शरणं रक्षकाव् इह न भवतः । ताभ्याम् पाल्यमानस्यापि तस्य दुःख-दर्शनात् क्वचिद् आजीगर्तादिषु तद्-वध-दर्शनाच् च । न चार्तस्य रोगिणः अगदम् औषधं शरणं, कृतेऽप्य् औषधे मृत्यु-दर्शनात् । न च उदन्वति समुद्रे मज्जतः पुंसः नौः शरणं, तया सहैव मज्जन-दर्शनात् । अतस् तप्तस्य दुःखिनस् तत्-प्रतिविधिर् दुःख-प्रतिकारो य इह इष्टः स त्वद्-उपेक्षितानां त्वद्-इच्छया अविषयीभूतानां जनानां नेति पूर्वेणान्वयः । तावद् इति वाक्यालङ्कारे ॥१९॥
—ओ)०(ओ—
॥ ७.९.२० ॥
यस्मिन् यतो यर्हि येन च यस्य यस्माद्
यस्मै यथा यद् उत यस् त्व् अपरः परो वा ।
भावः करोति विकरोति पृथक् स्वभावः
सञ्चोदितस् तद् अखिलं भवतः स्वरूपम् ॥
**मध्वः : **कर्तृ-कर्म-क्रियादीनां सत्त्वावृत्तिस् तथैव च ।
विष्ण्व्-अधीनं यतः सर्वं सर्व-रूपस् तद् उच्यते ॥इति ब्रह्म-तर्के ॥२०॥
**श्रीधरः : **ननु क्वचित् कुतश्चित् केनचित् कदाचित् कश्चिद् रक्षकोऽपि दृश्यत एवेत्य् आशङ्क्य तत्रापि तत् तद् रूपेण त्वम् एव रक्षक इत्य् उररी-कृत्य तस्यैव सर्वात्मताम् आह—यस्मिन्न् इति । अपरोऽर्वाचीनः पित्रादिः परो ब्रह्मादिर् वा भावः कर्ता तत् तत् कारकैर् यद् यत् करोति तत् सर्वं भवत एव स्वरूपं न तु पृथक् । यस्मिन्न् अधिकरणे, यतो निमित्तात्, यर्हि यस्मिन् काले, येन करणेन, येन हेतु-कर्त्रा सञ्चोदितश् च, यस्य संबन्धि, यस्माद् अपादानात्, यस्मै सम्प्रदानाय, यद् ईप्सित-तमं, यः कर्ता, इत्य् एवं सप्त विभक्त्य्-अर्थाः । यथा येन प्रकारेणेति क्रियाविशेषण-भूतानाम् अव्ययानाम् अर्थः । पृथक् स्वभावः सत्त्वादि-प्रकृतिः । करोत्य् उत्पादयति विकरोति रूपान्तरं नयतीति ॥२०॥
**क्रम-सन्दर्भः : **तस्य तादृशत्वम् एव दर्शयति—यस्मिन्न् इति । टीकायां योऽपरोऽर्वाचीन इति यद् यत् कारकैर् इति च पाठोऽवगन्तव्यः स्वरूपम् इति स्वोपादान-कार्य-भूतम् इत्य् अर्थः ॥२०॥
विश्वनाथः : केषांचिद् यः पित्रादिको रक्षको दृश्यते सोऽपि त्वद्-रूप एवेत्य् आह—यस्मिन्न् इति । अपरोऽर्वाचीनः जनः परः प्राचीनो ब्रह्मादिर् वा । भावः कर्ता कारकैर् यत् यत् करोति तत् सर्वं भवतो माया-शक्ति-युक्तस्य स्वरूपं स्वीयं रूपम् इत्य् अर्थः । यस्मिन्न् अधिकरणे, यतो निमित्तात्, यर्हि यस्मिन् काले, येन करणेन, येन हेतुना, कर्त्रा वा सञ्चोदितश् च, यस्य सम्बन्धि, यस्माद् उपादानात्, यस्मै सम्प्रदानाय, यदीप्सिततमं यः कर्तेत्य् एवं सप्त-विभक्त्य्-अर्थः, यथा येन प्रकारेण इति क्रिया-विशेषण-भूतानाम् अव्ययानाम् अर्थः । त्वत्तो निर्गुणात् पृथक्-स्वभावः सत्त्वादि-प्रकृतिः करोति उत्पादयति, विकरोति रूपान्तरं नयति ॥२०॥
—ओ)०(ओ—
॥ ७.९.२१ ॥
माया मनः सृजति कर्ममयं बलीयः
कालेन चोदित-गुणानुमतेन पुंसः ।
छन्दोमयं यद् अजयार्पित-षोडशारं
संसार-चक्रम् अज कोऽतितरेत् त्वद्-अन्यः ॥
मध्वः : दशेन्द्रिय-प्राण-मनो-मूलं मन एव च संसार-चक्रम् ॥२१॥
**श्रीधरः : **अतोऽन्यस्य रक्षकस्याभावाद् असंसारित्वाच् च नित्य-मुक्तस् त्वम् एव मां शरणागतं रक्षेति प्रार्थयते, मायेति द्वाभ्याम् । त्वद्-अंशस्य पुंसोऽनुमतेनेक्षण-रूपेणानुग्रहेण मनो मनः-प्रधानं लिङ्गं माया सृजति । कथं-भूता ? कालेन नोदिताः क्षोभिता गुणा यस्याः । कथं-भूतं मनः? कर्म-मयं कुर्वद् रूपम् । बलीयो दुर्जयम् । छन्दो-मयं वेदोक्त-कर्म-प्रधानं च । अजया जीवस्याविद्यया तद्-भोगार्थम् अर्पिताः षोडश अरा विकारा यस्मिन् । यद् एवं-भूतं संसार-चक्रात्मकं मनस् तत् कोऽतितरेत् ? भो अज ! त्वद्-अन्यस् त्वत्तः पृथक्-स्थितः त्वाम् अभजन्न् इत्य् अर्थः ॥२१॥
**क्रम-सन्दर्भः : **सर्वस्य च तद्-अधीनत्वं दर्शयंस् तद्-एक-रक्ष्यत्वं स्थापयति—मायेति । माया तावत् कर्म मायादि-रूपं मनः सृजति, तस्मात् तस्य दुर्बलत्वात् छन्दो-मयादि-रूपं संसार-चक्रं त्वत्-कृपाम् अप्राप्तः कोऽतितरेन् न कोऽपीत्य् अर्थः ॥२१॥
विश्वनाथः : ननु यदाहम् एव सर्व-रूपः, तर्हि संसारोऽप्य् अहम् एव, कुतो मद्-रूपात् संसाराद् अस्माद् विमोक्तुम् इच्छसीत्य् अत आह—द्वाभ्याम् । माया त्वदीय-बहिरङ्गा शक्तिर् मनो-महद्-आद्य्-आत्मकं लिङ्ग-देहं जीवस्योपाधिं सृजति कर्माणि लौकिक-वैदिक-व्यापारस् तन्-मयं बलीयो दुर्जयम् । पुंसस् तद्-अंशस्य अनुमतेन ईक्षण-रूपेण चोदिताः क्षोभिता गुणा यस्याः सा । छन्दो-मयं वासना-मयं, छन्दः पद्यऽभिलाषे च इत्य् अमरः । यद् एव खल्व् इदं संसार-चक्रं भवेत् । कीदृशम् ? अजया अविद्यया अर्पिता षोडश अरा विकारा यस्मिंस् तच् च तत् कोऽतितरेत् ? त्वद्-अन्यः त्वत्तः पृथग्-भूतः त्वाम् अभजन्न् इत्य् अर्थः । त्वद्-अनन्य-भक्तस् तु तरेद् एवेत्य् अर्थः ॥२१॥
—ओ)०(ओ—
॥ ७.९.२२ ॥
स त्वं हि नित्य-विजितात्म-गुणः स्व-धाम्ना
कालो वशी-कृत-विसृज्य-विसर्ग-शक्तिः ।
चक्रे विसृष्टम् अजयेश्वर षोडशारे
निष्पीड्यमानम् उपकर्ष विभो प्रपन्नम् ॥
**श्रीधरः : **ननु ममापि माया-संबन्धात् कर्तृत्वाद्य्-अविशेषाच् च त्वत्तः को विशेष इत्य् आह—स इति । स्व-धाम्ना चिच्-छक्त्या नित्यं विजीता आत्मनो बुद्धेर् गुणा येन स हि त्वम् । यतः कालो माया-प्रेरकः । अत एव वशी-कृता विसृज्यानां कार्याणां विसर्गाणां साधनानां च शक्तयो येन । अत इक्षु-दण्ड-वन् निष्पीड्यमानं माम् उपकर्ष स्व-समीपं नय ॥२२॥
**क्रम-सन्दर्भः : **पुनस् तद् एव विशेषतो दर्शयन् स्वाभीष्टं निवेदयति—स त्वम् इति ॥२२॥
**भगवत्-सन्दर्भः(१७):**आत्मा त्व् अत्र जीवः, तस्य गुणाः सत्त्वादयः, सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे [भा।पु। ११.२५.१२] इत्य् उक्तत्वात् ॥२२॥
**विश्वनाथः : **अतो मायायास् त्वच्-छक्तित्वात् तन्-मयं संसार-चक्रं यद्यपि तद्-रूपंतद् अपि त्वं स्वरूप-शक्त्या तस्मात् पृथग्-भूत एव तस्माद् विमोच्य लोकम् इमं स्व-चरणान्तिकं नयेत्य् आह—स त्वम् इति । यन् माया हि गुण-मयं जीवोपाधिं सृजति, स त्वं स्व-धाम्ना स्वरूप-शक्त्या विजिता आत्म-गुणा बुद्धि-गुणा येन सः । यो गुणान् क्षोभयति—स कालोऽपि त्वम् । अत एव वशीकृता विसृज्या माया-कार्य-भूता उपाधयस् तेषु विसर्गो निःक्षेपः शक्तिर् अविद्या च येन सः । अत इक्षु-दण्डवन् निष्पीड्यमानं प्रपन्नं जनम् उपकर्ष समीपं नय ॥२२॥
—ओ)०(ओ—
॥ ७.९.२३ ॥
दृष्टा मया दिवि विभोऽखिल-धिष्ण्य-पानाम्
आयुः श्रियो विभव इच्छति यान् जनोऽयम् ।
येऽस्मत्-पितुः कुपित-हास-विजृम्भित-भ्रू-
विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥
**श्रीधरः : **ननु लोक-पालनां भोगान् भुङ्क्ष्व पित्र्यं वा राज्यम् इदं दास्यामि । किम् इति संसाराद् उद्विजसे ? तत्राह—दृष्टा इति त्रिभिः । श्रियः सम्पदः । विभव उद्भवः । आयुर्-आदयो दृष्टा इति काक्वा तुच्छत्वम् उक्तम् । तद् एवाह—येऽस्मत्-पितुः **कोप-हास-विकृत-भ्रू-**भङ्ग-मात्रेण विध्वस्ताः, स च त्वया निरस्तः ॥२३॥
**क्रम-सन्दर्भः : **पुनर् अपि स्व-दुःख-दर्शनया कृपयन् स्वाभीष्टं प्रार्थयते—दृष्टा इति द्वाभ्याम् । एकैव निज-परमाभीष्ट-रूपा तत्-सेवक-चरणानुगत्या साक्षाच्-चरणारविन्द-प्रेम-सेवा दैन्य-भङ्ग्याच्छाद्य बहु-विधं प्रार्थ्यत इति ज्ञेयं पूर्वत्र परत्र च ॥२३-२४॥
**विश्वनाथः : **न च त्वां विनान्यं कम् अप्य् ऐश्वर्यवन्तं पश्यामि यम् अहं प्रपद्येयं, यो मां संसाराद् उद्धरिष्यामीत्य् आह—दृष्टा इति । दिवि-स्थानान् अखिल-लोक-पालानाम् आयुर्-आदयो दृष्टाः । श्रियो धन-सम्पदः । विभव ऐश्वर्यम् । ये धिष्ण्यपाः अस्मत्-पितुः कोप-हास-साधारण-प्रभावाद् अपि त्वम् एव परमेश्वर इति जानामीति भावः ॥२३॥
—ओ)०(ओ—
॥ ७.९.२४ ॥
तस्माद् अमूस् तनु-भृताम् अहम् आशिषो ज्ञ
आयुः श्रियं विभवम् ऐन्द्रियम् आ विरिञ्च्यात् ।
नेच्छामि ते विलुलितान् उरु-विक्रमेण
कालात्मनोपनय मां निज-भृत्य-पार्श्वम् ॥
**श्रीधरः : **यस्माद् एवं, तस्माद् आशिषो भोगान् । ज्ञस् तत्-परिपाकं विद्वान् **अहम् ऐन्द्रियम् **इन्द्रियैर् भोग्यं ब्रह्मणो भोगम् अभिव्याप्य किम् अपि नेच्छामि । ते कालात्मनो विक्रमेण विलुलितान् विध्वस्तान् अणिमादीन् अपि ॥२४॥
**सनातनः **[ह।भ।वि। १०.२९३] : यस्माल् लोक-प्रार्थ्याः स्वर्गिणाम् आयुर्-आदयो विभवा मत्-पितृ-क्रोध-भ्रू-क्षेपेणैव विनष्टाः, तस्माद् आशिषो भोगान्, ऐन्द्रियम् इन्द्रियैर् भोग्यं, ब्रह्मणो भोगम् अभिव्याप्य किम् अपि नेच्छामि । यतो ज्ञस् तत्-परिपाकं विद्वान्, नश्वरत्वाद् इत्य् अर्थः । ते कालात्मना काल-रूप-स्वरूपेण उरु-विक्रमेण विलुलितान् अणिमादीन् अपि ।
यद् वा, कालात्मना अविलुलितान् अस्पृष्टान् अर्थान् सालोक्य-सारूप्य-सामीप्य-सायुज्य-लक्षणान् अपि नेच्छामि । तर्हि किम् इच्छसि ? इत्य् अत आह—उपनयेति । परम-फल-रूपस् त्वद्-भक्त-सङ्गमो यत्र कुत्रापि भूयात्, तत्र मम स्थानाद्य्-आग्रहो नास्तीति भावः ॥२४॥
**क्रम-सन्दर्भः- **[भक्ताः] कालातीतास् ते परम-भक्तानाम् अपि परम-पुरुषार्थ-सामीप्याश् चेत्य् आह—तस्माद् इति । स्पष्टम् ॥२४॥ [भगवत्-सन्दर्भः६६]
**विश्वनाथः : **ततः किम् ? अत आह—तस्माद् इति । यस्मान् मत्-पिता तादृशैश्वर्य-सम्पत्तिमान् अपि निरस्तः, तस्माद् अहम् आशिषो भोगान् ज्ञस् तत्-परिपाकं विद्वान् ऐन्द्रियम् इन्द्रियैर् भोग्यम् आविरिञ्च्याद् ब्रह्मणो भोग्यम् अप्य् अभिव्याप्य किम् अपि नेच्छामि । ते काल-स्वरूपेण विलुलितान् विध्वस्तान् अणिमादीन् अपि । निज-भृत्य-पार्श्वम् इति तद् एव सर्वोत्तमं जानामीति भावः ॥२४॥
—ओ)०(ओ—
॥ ७.९.२५ ॥
कुत्राशिषः श्रुति-सुखा मृगतृष्णि-रूपाः
क्वेदं कलेवरम् अशेष-रुजां विरोहः ।
निर्विद्यते न तु जनो यद् अपीति विद्वान्
कामानलं मधु-लवैः शमयन् दुरापैः ॥
**श्रीधरः : **किं च, वर्तमान-कालेऽपि न भोगार्हा इत्य् आह—कुत्रेति । श्रुतिः श्रवणं, तद् एव सुखं यासु ताः । मृग-तृष्णिकावन् मिथ्या-भूताश् **चाशिषः क्व **? अशेषाणां रुजां रोगाणां विरोह उद्भव-स्थानं क्व चेदं कलेवरम् ?
एवं चेत्, सर्वोऽपि जनः किं न विरज्यते ? तत्राह—यद् अपि यद्यपि इति एवं विद्वान् अयं जनः, तथापि न निर्विद्यते, विरक्तो न भवति । कुतः ? काम एव अनलः, तम् । मधु-तुल्यैः सुख-लवैर् दुःसाध्यैर् अपि शमयन् । कामाग्नि-शमन-व्यग्रस्य निर्वेदावकाशो नास्तीत्य् अर्थः । यद् वा, अचिन्त्यम् इदं त्वन्-माया-चेष्टितम् इति भावः ॥२५॥
**क्रम-सन्दर्भः : **पुनः स्वस्यातिदैन्यं दर्शयितुं सामान्यतो जीवानां दैन्यं दर्शयति—कुत्रेति । मधु-रूपकं तेनाग्नेः प्रत्युत वृद्धेः ॥२५॥
**विश्वनाथः : **तर्हि किम् ? इति भोगैश्वर्यं सर्व एव लोको वाञ्छतीति चेत् सर्वोऽप्य् अनभिज्ञ एवेत्य् आह—कुत्रेति । मृगतृष्णी-रूपाः मृगतृष्णा यथा दृष्टि-सुख-रूपास् तथैव आशिषो राज्याद्या अपि श्रुति-सुख-मात्राः स्पर्धासूया-राग-द्वेषापाय-चिन्तादिभिर् वस्तुतः सुख-लेशस्याप्य् अभावात् । अस्तु वा सुखं तस्य भोगासामर्थ्यान् महद् एव दुःखम् इत्य् आह—क्वेदम् इति । यद् यतो विद्वान् अपि जन इति विचार्यापि न निर्विद्यते ततो मूर्खः किम् उत ? इति भावः । कीदृशः ? **काम-**रूपम् अनलं मधु-लवैः सुख-लेशैः शमयन्न् इति, न हि मधु-लवैर् अनलः शाम्यति, प्रत्युत दीप्यते एव । दुरापैर् इति ते च सुख-लेशा दुःखैर् एवोपार्ज्यन्ते ॥२५॥
—ओ)०(ओ—
॥ ७.९.२६ ॥
क्वाहं रजः-प्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन् मेऽर्पितः शिरसि पद्म-करः प्रसादः ॥
मध्वः : रमादीनाम् इदानीं नार्पितः । रमादीनाम् अधिकोदयोऽपि सेवाधिकत्वाद् एव।
श्री-ब्रह्म-ब्राह्मीवीन्द्रादि-त्रिक-तत्-स्त्री-पुरु-ष्टुताः ।
तद् अन्ये च क्रमाद् एव सदा मुक्तौ स्मृताव् अपि ॥
हरि-भक्तौ च तज्-ज्ञाने सुखे च नियमेन तु ।
परतः स्वतः कर्मतो वा न कथञ्चित् तद् अन्यथा ॥ इति ब्रह्म-तर्के ॥२६॥
श्रीधरः- तर्हि त्वं कथं निर्विण्णोऽसि ? अनर्हेऽपि मयि प्रवृत्तया त्वत्-कृपयैवेत्य् आशयेनाह—क्वेति । रजसैव प्रभवो जन्म यस्य सः । सप्तम्य्-अन्तं वा कुल-विशेषणम् । तमोऽधिकं यस्मिंस् तस्मिन्न् असुराणां कुले जातोऽहं क्व ? क्व च तवानुकम्पा ? ताम् एवाह—ब्रह्मादीनां शिरसि यो नैवार्पितः स पद्मवत् सकल-सन्ताप-हरः करः प्रसादः पुरुषार्थ-रूपो मे शिरस्य् अर्पित इति यत् । यद् ययानुकम्पयेति वा ॥२६॥
**क्रम-सन्दर्भः : **अथ स्वस्यापि दैन्यं दर्शयन् तत्-कृपया निरुपाधित्व-प्राबल्यं च दर्शयति—क्वाहम् इति । न च ब्रह्मण इति तदानीन्तन-वृत्तान्तापेक्षया ॥२६॥
**विश्वनाथः : **किं च, यद्यपि मादृशो नास्ति कोऽप्य् अधमस्, तद् अपि त्वं मां सर्वोत्तमम् अकरोः । तत् ते कृपा-माहात्म्यं किं वर्णयामि ? इत्य् आह—क्वाहम् इति । यद् यः पद्म-करो मम शिरस्य् अर्पितः सन् ब्रह्मण इत्य् आदि ॥२६॥
—ओ)०(ओ—
॥ ७.९.२७ ॥
नैषा परावर-मतिर् भवतो ननु स्याज्
जन्तोर् यथात्म-सुहृदो जगतस् तथापि ।
संसेवया सुर-तरोर् इव ते प्रसादः
सेवानुरूपम् उदयो न परावरत्वम् ॥
श्रीधरः : न च त्वयीदम् अतिचित्रम् इत्य् आह—नैषेति । एते ब्रह्मादय उत्तमाः, अयम् असुरो नीच इत्य् एषा परावर-मतिर् जन्तोः प्राकृतस्य यथा तथा भवतो नैव स्यात् । अत्र हेतुः—जगत आत्मनः सुहृदश् च । तर्हि सर्वत्र मत्-प्रसाद एवं-रूपश् च किं न स्यात् ? तत्राह—संसेवया तव प्रसादो भवति । तत्र च सेवानुरूपं तत्-तद्-इच्छानुसारेण धर्मादीनाम् उदयो भवति । एवं सत्य् अपि वैषम्याभावे दृष्टान्तः—सुरतरुर् यथा सेवकस्यैव सङ्कल्पानुसारेण फलं ददाति, न च विषमस्, तद्वत् । न परावरत्वम् अत्र कारणम् इति शेषः ॥२७॥
**क्रम-सन्दर्भः : **यत् तु भवान् भक्तान् अनुगृह्णाति, तच् च यद्यपि चित्रं, तथापि दृष्टान्त-सद्-भावात् नातिचित्रम् । मय्य् अनुग्रहस् तु तद्-अभावाद् अतीव चित्रम् एव । अहो कृपायाः प्राबल्यम् इति पूर्वार्थम् एवोत्कर्षयितुम् आह—नैषेति ॥२७॥
**विश्वनाथः : **न च त्वं स्वरूपया उत्तमाधमौ गणयसीत्य् आह—नैष्येति । एते च ब्रह्मादय उत्तमा अयम् असुरो नीच इत्य् एषा परावर-मतिर् जन्तोः प्राकृतस्य यथा तथा भवतो नैव स्यात् । तत्र हेतुः—जगत आत्मनः सुहृदश् च । तर्हि सर्वत्रैव समये मत्-प्रसादोऽस्तु ? तत्राह—संसेवया यथा सुर-तरुर् आश्रितस्यैव सङ्कल्पानुसारेण, फलं ददद् अपि न विषमस् तथैव त्वम् अपि, तत्रापि सेवानुरूप उदयः सेवा-तारतम्येनैव कृपया उदय-तारतम्यं, न तु परावरत्वम् उत्कृष्टत्वम् एव कृपोदय-तारतम्यस्य कारणम् इत्य् अर्थः ॥२७॥
—ओ)०(ओ—
॥ ७.९.२८ ॥
एवं जनं निपतितं प्रभवाहि-कूपे
कामाभिकामम् अनु यः प्रपतन् प्रसङ्गात् ।
कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः
सोऽहं कथं नु विसृजे तव भृत्य-सेवाम् ॥
श्रीधरः : एतच् च त्वद्-भृत्य-कृपया मया प्राप्तम् इति त्वद्-भृत्य-पार्श्वम् एव मां नयेत्य् आद्शयेनाह—एवम् इति । यथा त्वयानुकम्पितोऽस्म्य् एवं नारदेनात्मसात् कृत्वा पूर्वम् अनुगृहीतः, सोऽहं कथं नु त्वद्-भृत्य-सेवां विसृजामि । कथम्भूतोऽनुगृहीतोऽस्मि । प्रभव एवाहि-युक्तः कूपस् तस्मिन् कामान् अभितः कामयमानं जनं निपतितम् अनु तत्-प्रसङ्गात् प्रपतन् योऽहम् । तद् एवं त्वद्-भृत्यस्य नारदस्यानुग्रहेण त्वयात्यन्तम् अनुकम्पितोऽस्म्य् अयम् एव च मम परमोऽनुग्रहो न पुनर् इदम् अतितुच्छं मत्-प्राण-रक्षणादि ॥२८॥
**क्रम-सन्दर्भः : **अथैतादृश्याः कृपायाः कारणं स्मरन्न् अपि तद् एवाभीष्टं प्रार्थयते—एवम् इति । एवं त्वत्-कृपा-योग्यं यथा स्यात् तथानुगृहीतो यः, सोऽहं दृष्ट-भगवद्-भृत्य-कृपातिशयत्वात् कथं विसृजे, त्यक्तुं शक्नोमि ? नैवेत्य् अर्थः ॥२८॥
विश्वनाथः : ननु मत्-संसेवया त्वयि मम सम्यक्-प्रसाद इत्य् अत्र सुरतरु-दृष्टान्तेन मद्-वैषम्यं पर्यहार्षीः । किन्तु संसेवायाः किं कारणम् ? तद् ब्रूहीति तत्राह—एवम् उत्कृष्ट-निकृष्ट-भावेन जनं सर्वम् एव कामाभिकामयमानं प्रभव एवाहि-युक्त-कूपस् तत्र निपतितम् अनु तत्-प्रसङ्गात् प्रपतन्न् एवाहं सुरर्षिणा श्री-नारदेन आत्मसात् कृत्वा अयं जीवो मदीयो भवत्व् इति मयि स्व-स्वत्त्वम् आरोप्य गृहीतः । बलात् स्व-पाणिनैव गृहीत्वा ततः सकाशात् स्वान्तिकं नीत्वा तन्-मन्त्र-राजम् उपदिश्य स्व-सेवकी-कृतः इति भावः । सोऽहं संसार-कूप-पतित एव सम्प्रत्य् अहं प्रह्लादस् त्वद्-भक्तो यत्-प्रसादाद् अभवत्, तस्य तव भृत्यस्य श्रीमद्-गुरोः सेवां कथं विसृजामि त्यजामि, यथा कर्मि-ज्ञानि-योगिनः फल-प्राप्तौ साधनं त्यजन्ति तथेत्य् अर्थः । भक्ति-मार्गे हि साधनस्यापि फली-भावात् भगवन्तं प्राप्तानाम् अपि ध्रुवादीनां साधु-सङ्गादि-साधन-स्पृहा, यथा—
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो
भूयाद् अनन्त महताम् अमलाशयानाम् [भा।पु। ४.९.११] इति ।
ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् [भा।पु। १०.६९.१८] इति च ।
अत एव विचार्यैव मया प्रार्थितं, नय मां निज-भृत्य-पार्श्वं [भा।पु। ७.९.२४] इति ॥२८॥
—ओ)०(ओ—
॥ ७.९.२९ ॥
मत्-प्राण-रक्षणम् अनन्त पितुर् वधश् च
मन्ये स्व-भृत्य-ऋषि-वाक्यम् ऋतं विधातुम् ।
खड्गं प्रगृह्य यद् अवोचद् असद्-विधित्सुस्
त्वाम् ईश्वरो मद्-अपरोऽवतु कं हरामि ॥
**श्रीधरः : **न चेदं त्वया मद्-अनुग्रहार्थं कृतं किं त्व् अन्यार्थम् इत्य् आह—भो अनन्त, यद् एतन् मत्-प्राण-रक्षणं मां हन्तुम् उद्यतस्य मत्-पितुर् वधश् च तद् उभयं स्व-भृत्य-ऋषि-वाक्यम् ऋतं सत्यं विधातुम् इत्य् अहं मन्ये । कुतः ? यद् यस्माद् असद् अयुक्तं विधित्सुः खङ्गं प्रगृह्यावोचत् । किम् ? मद् अपरो मद्-व्यतिरिक्तश् चेद् ईश्वरोऽस्ति तर्हि त्वाम् इदानीम् अवतु तव कं शिरोऽहं हरामीति । पाठान्तरेऽप्य् अयम् एवार्थः । यद् यदावोचत् तदा मत्-प्राण-रक्षणम् इति वान्वयः । एतच् च, सत्यं विधातुं निज-भृत्य-भाषितम् [भा।पु। ७.८.१७] इत्य् अत्रैव बहुधा व्यख्यातम् ॥२९॥
**क्रम-सन्दर्भः : **मत्-प्राण-रक्षणादिकं च तथैवेत्य् आह—मत्-प्राणेति ॥२९॥
**विश्वनाथः : **अतस् तव भक्त-वश्यत्वाद् भक्त-कृपानुगामिन्य् एव लोकेषु तव कृपा दृष्टा, न तु त्वं स्व-भक्तम् अनाश्रितान् कंश्चिद् अपि कृपयसीति न ते क्वापि वैषम्यं मय्य् अपि तव स्व-भक्तानुरोधेनैव सर्व एवानुग्रह इत्य् आह—मद् इति । स्व-भृत्य-ऋषिर् यो नारदस् तस्य वाक्यं सत्यं कर्तुम् इत्य् अहं मन्ये । मन्-मात्रा मद्-अर्थं प्रार्थितेन श्री-नारदेन त्वत्-पुत्रस्य विद्वेषक-नाशादिना कल्याणं भविष्यतीति वर-दानात् । यद् उक्तं—
ऋषिं पर्यचरत् तत्र भक्त्या परमया सती ।
अन्तर्वत्नी स्व-गर्भस्य क्षेमायेच्छा-प्रसूतये ॥
ऋषिः कारुणिकस् तस्याः प्रादाद् उभयम् ईश्वरः ।
धर्मस्य तत्त्वं ज्ञानं च माम् अप्य् उद्दिश्य निर्मलम् ॥ [भा।पु। ७.७.१४-५] इति ।
यद् यस्माद् असत् मद्-धिंसनं विधित्सुः कं शिरो हरामीति । तथा हि—दिग्-गजादिभ्यो यथा मद्-रक्षणं तथा तद्-धस्तान् न सम्भवतीति तद्-वधश् च त्वया कृत इति । एवं भगवतः सर्वत्र साम्येऽपि भक्त-वश्यत्वं विशिष्यत इति प्रह्लादेन ज्ञापितम् ॥२९॥
—ओ)०(ओ—
॥ ७.९.३० ॥
एकस् त्वम् एव जगद् एतम् अमुष्य यत् त्वम्
आद्य्-अन्तयोः पृथग् अवस्यसि मध्यतश् च ।
सृष्ट्वा गुण-व्यतिकरं निज-माययेदं
नानेव तैर् अवसितस् तद् अनुप्रविष्टः ॥
**श्रीधरः : **न चेदं पक्ष-पातेन रक्षणं दैत्य-हननं च त्वयि स्वाभाविकं किन्तु माया-गुणोपाधिकम्, सर्वात्मके त्वयि स्वतस् तद् अयोगाद् इत्य् आह—एक इति । एतच् च जगत् त्वम् एवैकः । यद् यतः अमुष्यादाव् अन्ते च पृथग् अवस्यसि विरामं करोषि । सन् मात्रतया कारणत्वेनावधित्वेन च वर्तस इत्य् अर्थः । अतो मध्यतश् च त्वम् एव । कुतस् तर्हि भेद-प्रतीतिस् तत्राह—निज-मायया गुण-परिणामात्मकम् इदं जगत् सृष्ट्वा तद् अनुप्रविष्टस् त्वं तैर् गुणैर् हेतु-भूतैर् नानेव रक्षक इव हन्तेव चावसितः प्रतीतः । तद् उक्तं स्कन्धोपक्रमे—
निर्गुणोऽपि ह्य् अजोऽव्यक्तो भगवान् प्रकृतेः परः ।
स्व-माया-गुणम् आविश्य बाध्य-बाधकतां गतः ॥ [भा।पु। ७.१.६] इत्य्-आदिना ॥३०॥
**क्रम-सन्दर्भः : **अथ रसान्तरेण तत्-क्रोध-शमनम् । तथा हि—कथम् अयं वराकस् तव क्रोध-विषयो यत एकः इत्य् आदि । तथापि पूर्वेण सङ्गतिर् दृश्यते । तथा हि तद् एवं भक्तानुग्रह-सम्बन्धेन साक्षाद् एवावतीर्यास्मद्-विध-रक्षणं करोषीति स्थिते यत् त्वम् अन्तर्यामितया सामान्यतो विश्व-रक्षणम् । तच् च त्वयैव क्रियमाणम् अपि न साक्षात् । किन्त्व् अन्यद् वारैवेति दर्शयंस् तद्-अनुषङ्गतः सृष्ट्य्-आदि-लीलाम् आह—एक इति ॥३०॥
**विश्वनाथः : **एवं गुणातीतानां मादृश-भक्तानां गुणातीतेन त्वया भक्त-वत्सलेन पालनं गुणातीतम् एव । गुण-मयस्य जगतस् तु सृष्टि-पालन-संहारा उदासीनेनैव त्वया गुण-मया एवेति वदंस् तस्य जगतस् त्वत्-कारणकत्वात् त्वन्-मयत्वम् एवेत्य् आह—एक इति । यद् यस्माद् अमुष्य आदाव् अन्ते मध्ये च अमुष्यात् पृथग्-भूतोऽपि त्वम् एव अवस्यसि अवसीयसे विवेकिभिः प्रतीयसे इत्य् अर्थः । कुतस् तर्हि तथा न प्रतीतिः ? तत्राह—निज-मायया गुण-परिणामात्मकम् इदं जगत् सृष्ट्वेति निर्गुणस्य तव माया-शक्तेः स्वरूप-शक्तित्वाभावाद् इति भावः । तद्-अनुप्रविष्टस् त्वं तैर् गुणैर् हेतु-भूतैर् नानेव हन्तेव पालक इव उत्पादक इव अवसितः । वस्तुतस् तु तमो-गुण एव हन्ता सत्त्व-गुण एव पालकः रजो-गुण एव स्रष्टा तेष्व् एवौदासीन्येन त्वत्-प्रवेशाद् एव त्वं हन्तेत्य्-आदि व्यपदेशः ॥३०॥
—ओ)०(ओ—
॥ ७.९.३१ ॥
त्वम् वा इदं सद् असद् ईश भवांस् ततोऽन्यो
माया यद् आत्म-पर-बुद्धिर् इयं ह्य् अपार्था ।
यद् यस्य जन्म निधनं स्थितिर् ईक्षणं च
तद् वैतद् एव वसुकालवद् अष्टि-तर्वोः ॥
मध्वः : यथा वृक्षश् च वृक्ष-दाहश् च दैवकालाधीअत्वाद् दैव कालश् चेत्य् उच्यते । एवं त्वद्-अधीनत्वात् सर्वस्य सर्वं त्वम् इत्य् उच्यते । स्वतस् तद्-भिन्नोऽपि । अहं चान्यश् च परमेश्वर एवेत्य् अपार्थो भ्रान्ति । तद्-अधीनत्वाद् एव सह इत्य् उच्यते । न स्वरूपत्वाद् इत्य् अर्थः ॥३१॥
**श्रीधरः : **ननु यद्य् एतज् जगद् अहम् एव तर्हि जगतो वैषम्येण मम वैषम्यम् अपि किं न स्यात् ? इत्य् अत आह—त्वं वै त्वम् एवेदं सद्-असत्-कार्य-कारणात्मकं जगन् न तु त्वत्तः पृथक् । भवांस् तु ततोऽन्यः । आद्य्-अन्तयोः पृथग् अवस्थानात् । यद् यस्माद् एवम् अतोऽयम् आत्मीयोऽयं पर इति य बुद्धिः सापार्था मायैव । कार्य-कारणाभेदं दृष्टान्तेन साधयति । यद् यतो यस्य जन्म ईक्षणं प्रकाशश् च । यस्मिन् निधनं च स्थितिश् च तद् वै तद् एव । अष्टिर् बीजं कारणं तरुः कार्यं तयोर् यथा वसु-काल-मात्रत्वम् ।
अयम् अर्थः—काल-शब्देन नीलत्वाद्य्-असाधारण-गुण-योगात् पृथ्वी । वसु-शब्देन वस्तु-मात्रं भूत-सूक्ष्मम् । तत्र तरोर् यथा पृथ्वी-मय-बीज-मात्रत्वं तस्य च यथा भूत-सूक्ष्म-मात्रत्वम् एवं सर्वम् अपि कार्य-कारणात्मकं जगत्-परम-कारणात्मकम् एवेति। तथा च पारमर्षं सूत्रम्, तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे।सू। २.१.१४] इति । श्रुतिश् च, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४] इति ॥३१॥
**क्रम-सन्दर्भः : **तत्र तस्य वैलक्षण्यं स्थापयति—त्वं वा इति ॥३१॥
**विश्वनाथः : **ननु जगतो मायिकत्वेऽपि मायाया मच्-छक्तित्वाज् जगतो वैषम्ये ममापि वैषम्यं किं न स्यात् ? इत्य् अत आह—त्वं वै त्वम् इदं सद्-असत्-कार्य-कारणात्मकं जगत् प्राधानिकत्वात् सत्यम् एव, न तु त्वत्तः पृथक् । ततोऽस्माज् जगतस् तु भवान् अन्यः पृथग् एव आद्य्-अन्तयोः पृथग्-अवस्थानात् । यद् यत् तु तस्मिन्न् एव जगति आत्मायं ममात्मीयः परः अयं मम शत्रुर् इति बुद्धिः । सा माया अविद्या जीवस्याविद्या-कल्पितैवेत्य् अर्थः । अपार्था सा तु मिथ्या-भूतैवेत्य् अर्थः । कार्यस्य कारणाभेदम् अपि साधयन् दृष्टान्तेन परम-कारणस्य भगवतो वैषम्यम् अपि निराकरोति । यद् यतो यस्य जन्म ईक्षणं च प्रकाशश् च यस्मिन् निधनं स्थितिश् च तद् वै तद् एव । अष्टिर् बीजं कारणं तरुः कार्यं, तयोर् यथा वसु-कालवद् वसुत्व-कालत्वे यथेत्य् अर्थः ।
वसु-शब्देन वस्तु-मात्रं भूत-सूक्ष्मम् उच्यते । काल-शब्देन नीलत्वासाधारण-गुण-योगात् पृथ्वी, काल-शब्दोऽत्र नील-गुण-वाची । ततश् च कारण-कार्यात्मकयोर् अष्टि-तर्वोर् द्वयोर् एव यथा पृथिवीत्वं गन्धत्वं च ।
अयम् अर्थः—यथा वसु-मात्रत्वं कालस्य काल-मात्रत्वं पृथिवी-मात्रत्वम् अष्टेर् अष्टि-मात्रत्वं तरोः एवम् एवेश्वर-मात्रत्वं प्रधानस्य प्रधान-मात्रत्वं महद्-आदि-मात्रत्वं देव-तिर्यग्-आदि-मय-जगतः । एवं च तर्व्-आदि-सर्व-कार्य-कारणात्मक एको भवान् एव । तथा च पारमर्षं सूत्रम्, तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [वे।सू। २.१.१४] इति । श्रुतिश् च, वाचारम्भणं विकारो नामधेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४] इति तेन पार्थिव-पदार्थानां काष्ठ-पाषाणादीनां वैषम्येऽपि तत्-परम-कारणस्य गन्धस्य यथा न वैषम्यं, तथैव जगतो वैषम्येऽपि न भगवत इति ॥३१॥
—ओ)०(ओ—
॥ ७.९.३२ ॥
न्यस्येदम् आत्मनि जगद् विलयाम्बु-मध्ये
शेषेऽऽत्मना निज-सुखानुभवो निरीहः ।
योगेन मीलित-दृग्-आत्म-निपीत-निद्रस्
तुर्ये स्थितो न तु तमो न गुणांश् च युङ्क्षे ॥
मध्वः : तूर्य-स्थितः ॥३२॥
**श्रीधरः : **तत्र तावद् अन्ते पृथग् अवस्थानं दर्शयति—न्यस्येदम् इति । इदम् जगद् आत्मनैवात्मनि निक्षिप्य स्व-सुखम् एवानुभवन् निष्क्रियः सन् प्रलयोदक-मध्ये शयनं करोषि । तर्हि किं जीवस्येव ममापि तमो-वृत्ति-रूपा निद्रास्ति ? न हि न हि । योग एव तु बहिर् वृत्त्य्-अभाव-साम्यान् निद्रोच्यत इत्य् आह—योगेन मीलिते दृशौ येन । आत्मनः स्वरूप-प्रकाशेन निपीता निद्रा येन । यतस् तुर्येऽवस्थात्रयातीते स्वरूपे स्थितस् त्वं न तु सुप्त इवात्मना तमो युङ्क्षे योजयसि न पश्यसि न जाग्रत्-स्वप्नयोर् इव गुणान् विषयांश् चेत्य् अर्थः ॥३२॥
**क्रम-सन्दर्भः : **प्रसङ्गेन महा-भक्त-विरिञ्चाद्य्-अनुग्रहतः सृष्ट्य्-आदि-मयीं साक्षाल् लीलाम् एव विशेषतो वर्णयति—न्यस्येदम् इति सप्तभिः । आत्मनि गर्भोदक-शायि-रूपे । जगत् त्रैलोक्यम् । योगम् एवाह—तूर्ये स्व-तुरीय-तत्त्वे श्री-वासुदेवाख्ये स्थितस् त्वन्-मात्रत्वेनात्मन्य् उररीकृत-स्फूर्तिर् इत्य् अर्थः ॥३२॥
**विश्वनाथः : **आद्य्-अन्त-मध्यावस्थानेनोक्तं जगत्-कारणत्वं प्रपञ्चयति—न्यस्येति पञ्चभिः । इदं जगद् आत्मन्य् एव न्यस्य विलयानि विगत-लयान्य् अनश्वराणि अम्बूनि यस्य तस्य कारणार्णवस्य मध्ये शेषे स्वपिषि । आत्मना आत्म-स्वरूप-शक्त्यैव निज-सुखस्यानुभवो यस्य सः । निरीहः मायिक-लीलाम् अनिच्छुः । तर्हि किं जीवस्येव ममापि तमो-वृत्ति-रूपा निद्रास्ति ? न हि न हि । बहिर्-वृत्त्य्-अभाव-साम्यान् निद्रोच्यत इत्य् आह—योगेन मीलिते दृशौ येन । आत्मनः स्वरूप-प्रकाशेन निपीता निद्रा येन । यतस् तुरीयेऽवस्था-त्रयातिरिक्ते स्वरूपे स्थित एव, न तु तमः सुषुप्त इव युङ्क्षे योजयसि जीववत् स्वीकरोषि, नापि जाग्रत्-स्वप्नयोर् इव गुणान् विषयान् ॥३२॥
—ओ)०(ओ—
॥ ७.९.३३ ॥
तस्यैव ते वपुर् इदं निज-काल-शक्त्या
सञ्चोदित-प्रकृति-धर्मण आत्म-गूढम् ।
अम्भस्य् अनन्त-शयनाद् विरमत्-समाधेर्
नाभेर् अभूत् स्व-कणिका-वटवन्-महाब्जम् ॥
**मध्वः :**जगद्-आत्मकम् अब्जम् अपि भगवद्-वंशत्वाद् वपुः ।
स्थावराणां तु सर्वेषां देवता याभिमानिनी ।
विशेषाद् वट-बीजे च साश्वत्थे च व्यवस्थिता ॥
अदृश्या कणिका नाम ॥३३॥
**श्रीधरः : **इदानीं कारणत्वेनादाव् अपि पृथग् अवस्थानं दर्शयन् मध्यतश् च त्वम् एवेत्य् एतत् प्रपञ्चयति चतुर्भिः । यस् त्वम् अम्भसि शेषे, तस्यैव ते इदं जगद् वपुः स्वरूपं नान्यस्य, यतस् त्वं मध्यतोऽपि तस्य । कथं-भूतस्य ? निजया काल-शक्त्या सञ्चोदिताः प्रकृतेर् धर्माः सत्त्वादयो येन । स्वरूपत्वे हेतुः—अनन्त-शायनाच् छेष-पर्यङ्काद् विरमन् समाधिर् यस्य तस्य तव नाभेः सकाशाद् एकार्णवोदके महाब्जं लोक-पद्मम् अभूत् । कथं-भूतम् ? आत्मनि त्वय्य् एव गूढं सत् । स्व-कणिकातः सूक्ष्माद् वट-बीजान् महा-वट इव ॥३३॥
**क्रम-सन्दर्भः : **जात-मात्रेऽप्य् अङ्कुरेऽधिकरणे स्वांशेन वर्तमानम् अपि बीजं कथम् उपलभते? नैवेत्य् अर्थः । किन्तु तत्-तल एवोपलभते । तत् तु तस्यागम्यम् एवासीद् इति भावः॥३३॥
**विश्वनाथः : **ततश् च तस्यैव तव पुनः सृष्टारम्भे निज-काल-शक्त्या सञ्चोदिताः प्रकृतेर् धर्माः सत्त्वादयो येन तस्य आत्मनि त्वयि निगूढम् एव, इदं ब्रह्माण्ड-रूपं वपुः प्रकृतेः सकाशात् प्रकटम् अभूत् । ततश् चाम्भसि तद्-अण्ड-गर्भादे शयानस्य तव अनन्त-शयनात् विरमन् समाधिर् यस्य । तव नाभेः सकाशान् महाब्जम् अभूत् । स्व-कणिकातः सूक्ष्माद् वट-बीजान् महा-वट इव ॥३३॥
—ओ)०(ओ—
॥ ७.९.३४ ॥
तत्-सम्भवः कविर् अतोऽन्यद् अपश्यमानस्
त्वां बीजम् आत्मनि ततं स बहिर् विचिन्त्य ।
नाविन्दद् अब्द-शतम् अप्सु निमज्जमानो
जातेऽङ्कुरे कथम् उहोपलभेत बीजम् ॥
मध्वः : सा वृक्षान् व्यञ्जयत्य् अपि । अतो बीजम् इति प्रोक्ता सा जातेऽप्य् अङ्कुरे स्थिता ।
एवं हरिः कारणेषु स्थितः कार्य-जन-रेणू ।
कार्याण्य् अनुप्रविष्टः सन् प्रथमं नात्र दृश्यते ॥इति च ॥३४॥
**श्रीधरः : **तद् एवं कारणत्वेनानुगतः सन् मध्यतश् च त्वम् एव वर्तस इत्य् उक्तम् एतद् एव शुद्ध-सत्त्वस्य ब्रह्मणोऽनुभवेन स्फुटयितुं तस्य प्राक्तनीम् अवस्थाम् आह—तस्मिन्न् अब्जे संभवो यस्य । कविर् ब्रह्मा । अतः पद्माद् अन्यद् अपश्यन् बीजम् उपादान-कारण-भूतं त्वां स्वस्मिन् व्याप्तं सन्तम् अपि नाविन्दत् । युक्तं चैतद् ऊह अहो । अङ्कुरे जाते सति बीजं तद् अनुगतं कारणं पृथक् कथं नाम पुमान् पश्येत् ? ॥३४॥
**क्रम-सन्दर्भः : **जात-मात्रेऽप्य् अङ्कुरेऽधिकरणे स्वांशेन वर्तमानम् अपि बीजं कथम् उपलभेत ? नैवेत्य् अर्थः । किन्तु तत्-तल एवोपलभेत । तत् तु तस्यागम्यम् एवासीद् इति भावः ॥३४॥
**विश्वनाथः : **तत्-सम्भवः तद्-अब्ज-जातः कविर् ब्रह्मा अतोऽब्जाद् अन्यद् अपश्यन् स्व-शक्त्यैवोपादान-कारणं त्वाम् आत्मनि स्वस्मिन् विततं व्याप्त्या सन्तम् अपि स्व-बहिर् एव वर्तमानं विचार्य अब्द-शतं व्याप्यान्विष्यन्न् अपि नाविन्दत् । युक्तं चैतत् । उ अहो । अङ्कुरे जाते सति तत्र स्वांशेन वर्तमानम् अपि बीजं तत्राङ्कुरेऽधिकरणे कथम् उपलभेत, किन्तु तत्-तले एव उपलभेतेत्य् अर्थः । कमल-शूर;नादीनाम् अङ्कुरेषूत्पद्योत्पद्ये नष्टेष्व् अपि बीज-नाशादृष्टेः । तत्-तलं तु तदानीं ब्रह्मणोऽगम्यम् एवासीद् इति भावः ॥३४॥
—ओ)०(ओ—
॥ ७.९.३५ ॥
स त्व् आत्म-योनिर् अतिविस्मित आश्रितोऽब्जं
कालेन तीव्र-तपसा परिशुद्ध-भावः ।
त्वाम् आत्मनीश भुवि गन्धम् इवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥
**श्रीधरः : **भवद्-उपासनया तु स्वस्मिन्न् एव दृष्टवान् इत्य् आह—स त्व् इति । परावृत्याब्जम् आस्थितः सन् । तीव्रेण तपसा ध्यानेन । अनेन सन्-मात्र-रूपेणोपादानतया दर्शनम् उक्तम्॥३५॥
**क्रम-सन्दर्भः : **ततश् च समाधिना प्रथमं तावत् तत्रैव ब्रह्माख्य-सन्-मात्रत्वेन तम् अनुभूतवान् इत्य् आह—स त्व् इति ॥३५॥
**विश्वनाथः : **आस्थितोऽन्वेषणान् निवृत्य अब्जम् एवाश्रितः सन्, तीव्र-तपसा त्वदीय-ध्यानेन आत्मनि स्व-देहे एव भुवि कार्य-भूतायां स्थितं कारण-गन्धम् इव त्वां ददर्श ॥३५॥
—ओ)०(ओ—
॥ ७.९.३६ ॥
एवं सहस्र-वदनाङ्घ्रि-शिरः-करोरु-
नासाद्य-कर्ण-नयनाभरणायुधाढ्यम् ।
मायामयं सद्-उपलक्षित-सन्निवेशं
दृष्ट्वा महा-पुरुषम् आप मुदं विरिञ्चः ॥
मध्वः : मायामयं ज्ञान-स्वरूपं, सद्-उपलक्षण-सन्निवेशम् आनन्द् आदि-लक्षण-समुदाय-रूपम् ।
गन्धाख्या देवता यद्वत् पृथिवीं व्याप्य तिष्ठति ।
एवं व्याप्तं जगद् विष्णुं ब्रह्मात्म-स्थं ददर्श ह ॥ इति च ॥३६॥
**श्रीधरः : **ईश्वरत्वेन च दृष्ट्वा कृतार्थोऽभवद् इत्य् आह—एवम् अनेन प्रकारेण सहस्रम् अपरिमितानि यानि वदनादीनि तैर् आढ्यं समृद्धम् । माया-मयं माया-प्रधानम् । सता प्रपञ्चेनोपलक्षितः सन्निवेशः पादादि-रचना यस्य ॥३६॥
**क्रम-सन्दर्भः : **ततश् च सच्-चिद्-आनन्द-रूपं तस्य विग्रहम् अपि दृष्टवान् इत्य् आह—एवम् इति । ननु कथं तल-स्थ-बीज-स्थानीयस्य तस्य तत्रैव दर्शनम् ? तत्राह—एवं समाधौ विततत्वानुभव-प्रकारेणैवेति तद्-विग्रहस्य मध्यम-परिमाणतया दृश्यमानत्वेऽपि विभुत्वानुभवाद् इति भावः । माया_-_मयं प्रचुर-तच्-छक्तिम् इति । प्रपञ्चाधिष्ठातृत्वात् ॥३६॥
विश्वनाथः : एवम् अनेन प्रकारेण सहस्रम् अपरिमितानि यानि वदनादीनि तैर् आढ्यं महा-पुरुषं चिद्-आनन्द-विग्रहं यतो माया-मयं स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतं, अतो माया-मयं विष्णुं प्रवदन्ति मनीषिणः इति श्रुतेः । यद् वा, मायया जीवस्याविद्यया आमयं रोगम् इव विनाशकं, सन् समुचितत्वेनोत्तमः, उप आधिक्येन लक्षितः सामुद्रक-लक्षणान्वितः सन्निवेशो नयन-ग्रीवादि-विन्यासो यस्य तम् । यद् वा, तम् एव कारण-कार्ययोर् ऐक्यात् सता प्रपञ्चेन पातालादिना उपलक्षितः सन्निवेशः पादादि-रचना यस्य तथाभूतं वैराजं माया-मयं दृष्ट्वेति सम्बन्धः ॥३६॥
—ओ)०(ओ—
॥ ७.९.३७ ॥
तस्मै भवान् हय-शिरस् तनुवं हि बिभ्रद्
वेद-द्रुहाव् अतिबलौ मधु-कैटभाख्यौ ।
हत्वानयच् छ्रुति-गणांश् च रजस् तमश् च
सत्त्वं तव प्रियतमां तनुम् आमनन्ति ॥
**श्रीधरः : **तदा च भवांस् तस्यानुग्रहं कृतवान् इत्य् आह—तस्मा इति । हयग्रीव-मूर्तिं बिभ्रत्सन् रजस्-तमो-रूपौ मधु-कैटभाख्यौ हत्वा तस्मै श्रुति-गणान् समर्पितवान् । तत्र हेतुः—सत्त्वम् इति ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्व-भक्तं तं च पुनः पुनर् अवतीर्य त्वम् अरक्षीर् इत्य् आह—तस्मै इति । हयग्रीव-मूर्तिं दधत् श्रुति-गणान् अनयत् तस्मै समर्पयामास । मधु-कैटभाख्यौ कीदृशौ रजस्-तमः-स्वाभावाव् इत्य् अर्थः । तयोर् हनने हेतुः—सत्त्वम् इति यद्यपि गुण-मात्र एवोदासीनस्य हरेः सत्त्व-गुणो न प्रियोऽपि, तद् अपि तत्-स्वरूप-भूते शुद्ध-सत्त्वे सत्त्व-गुणस्य प्रातिकूल्याभाव-दर्शनाद् एव प्रियतमत्वम् उत्प्रेक्षितम् । न तु वस्तुतः प्रियतमत्वम् अपि । किन्तु सात्त्विक-लोक-पक्षपातित्वम् एव तव तादृशोत्प्रेक्षायां हेतुः । अतः शिष्ट-पालनार्थम् एव तव दुष्ट-निग्रहो यत् तत् खलु गुणानाम् एव स्वभावो न तु वस्तुतस् त्वयि वैषम्यम् इति भावः ॥३७॥
—ओ)०(ओ—
॥ ७.९.३८ ॥
इत्थं नृ-तिर्यग्-ऋषि-देव-झषावतारैर्
लोकान् विभावयसि हंसि जगत् प्रतीपान् ।
धर्मं महा-पुरुष पासि युगानुवृत्तं
छन्नः कलौ यद् अभवस् त्रि-युगोऽथ स त्वम् ॥
श्रीधरः : एकस् त्वम् एवेत्य् आदिभिर् अष्टभिः श्लोकैर् यद् उक्तं पक्ष-पातेन रक्षणं तद्-विपक्ष-वधश् च सत्त्वौपाधिको, न तु स्वत इति तद् उपसंहरति—इत्थम् इति । विभावयसि पालयसि । हंसि घातयसि । कलौ तु तन् न करोषि । यतस् तदा त्वं छन्नोऽभवः । अतस् त्रिष्व् अपि युगेष्व् आविर्भावात् स एवंभूतस् त्वं त्रियुग इति प्रसिद्धः ॥३८॥
एकस् त्वम् एवेत्य्-आदिभिर् अष्टभिः श्लोकैर् यद् उक्तं पक्ष-पातेन रक्षणं तद् विपक्ष-वधश् च सत्त्वौपाधिको न तु स्वत इति तद् उपसंहरति, इत्थम् इति । विभावयसि पालयसि । हंसि घातयसि । कलौ तु तन् न करोषि । यतस् तदा त्वं छन्नोऽभवः । अतस् त्रिष्व् अपि युगेष्व् आविर्भवात् स एवं-भूतस् त्वं त्रि-युग इति प्रसिद्धः ।
**क्रम-सन्दर्भः : **तत्र तत्र साक्षाद् अवतीर्य तत्-पालनं तेनोपसंहरति—इत्थम् इति ॥३८॥
विश्वनाथः- यथा विरिञ्चस्य कृते हयग्रीवावतारस् तथैवान्येषाम् अपि भक्तानां कृते अन्येऽप्य् अवतारा इत्य् आह—इत्थम् इति । विभावयसि पालयसि, हंसि घातयसि । युगे युगे अनुरूपं वृत्तं चरित्रं यस्य सः यद् यस्मात् त्वं कलौ छन्नः अन्यदीय-रूप-भावाभ्यां रहिताच्छन्नः । अत एव त्वं त्रियुग इति प्रसिद्धः । सत्यादि-युग-त्रय एव स्वस्य प्रख्यापनात् न तु कलाव् इत्य् अर्थः । अत एवाग्रे तत्-प्रमाण-वचनम् अप्य् अर्थान्तराच्छन्नतयैव वक्ष्यते, नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु [भा।पु। ११.५.३१]
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ [भा।पु। ११.५.३२] इति ॥३८ ॥
—ओ)०(ओ—
॥ ७.९.३९ ॥
नैतन् मनस् तव कथासु विकुण्ठ-नाथ
सम्प्रीयते दुरित-दुष्टम् असाधु तीव्रम् ।
कामातुरं हर्ष-शोक-भयैषणार्तं
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥
**श्रीधरः : **तद् एवं भगवतस् तत्त्वं निरूप्य स्वस्य च तद्-विचारायोग्यतां निवेदयन् प्रार्थयते—नैतद् इति त्रिभिः । असाधु बहिर्मुखम् । तीव्रं दुर्धरम् । हर्ष-शोक-भयैर् एषणा-त्रयेण चार्तं दुःखितम् अपि त्वत्-कथासु न सम्प्रीयते । तस्मिन्न् एवंभूते मनसि सति कथं तव तत्त्वं विचारयामि ?॥३९॥
**क्रम-सन्दर्भः : **तद् एवं तत्-कथाम् अनूद्य पूर्व-पूर्व-जन्म-भावम् अनुस्मृत्य तच् च दैन्येनास्मिन् जन्मन्य् आरोप्य तस्याम् अप्य् अतितृष्णया ताम् असेवमानम् इव मत्वा स्व-मनस् तिरस्करोति—नैतन् मन इति ॥३९॥
विश्वनाथः- तद् एवं मुहुर् अप्य् अवतीर्य त्वं स्वीय-रूप-गुण-लीलामृतं वर्षसि, तद् अप्य् अस्माकं पापिष्ठं मनस् तत्र न प्रीणाति, दुर्विषय-गर्त एव मुहुः पतति, किं कुर्मः ? इत्य् आह—नैतद् इति त्रिभिः । तव रूप-गुण-लीलादीनां कथासु ।
नन्व् अतिस्वाद्वीष्व् अपि कथासु किम् इति न प्रीयते ? तत्राह—दुरित-दुष्टं यथा पित्त-दुष्टा रसना सितास्व् इत्य् अर्थः । तीव्रं दुर्वारम् । एषणा धनादि-वासना । तस्मिन् मनसि **तव गतिं **तत्त्वं कथं विमृशामि ?
यद्यपि महा-भागवतस्य प्रह्लादस्य मनो न प्राकृतम् एतादृशं तद् वीर्य-गायन-महामृत-मग्न-चित्तः [भा।पु। ७.९.४३] इत्य् अस्यैवाग्रिमोक्तेः, तद् अपि प्रेम्णा विविध-विचित्र-तरङ्गवत्त्वेनातिदैन्योदयाद् एव प्रेमि-लोकस्यैव मुक्तिर् न विरुध्यते ॥३९॥
—ओ)०(ओ—
॥ ७.९.४० ॥
जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस् त्वग्-उदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर्
बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥
**श्रीधरः : **किं च, जिह्वा अवितृप्ता सती, भो अच्युत ! मा मां यतो मधुरादि-रसस् तत आकर्षति उदरं तु क्षुधा-सन्तप्तं सत् सद्य एव यत्किञ्चिद् आहार-मात्रं प्रति । चपला दृक् चक्षुः । कर्म-शक्तिः कर्मेन्द्रियाणि लुनन्ति त्रोटयन्ति ॥४०॥
**क्रम-सन्दर्भः : **तद् एवं स्व-दुःख-सादृश्येन जन-दुःखम् अनुस्मृत्य कृपा-परवशः स्व-दुःखम् अप्य् अनादृत्य तद्-अर्थम् एव निवेदयति—जिह्वैकत इति द्वाभ्याम् ॥४०॥
विश्वनाथः- मनसो दुष्टत्वेऽपि मत्-कीर्तनादिना जनः कृतार्थीभवतीति चेत् तत्राह—जिह्वा वाग्-इन्द्रियं रसनेन्द्रियं च अवितृप्ता सती भो अच्युत माम् आकर्षति । ग्राम्य-कटु-मिथ्यादि-प्रलापं प्रति मधुरादि-रसं प्रति चेति भावः । अयतस् ततोऽप्य् अन्यत्र कामिनीषु धर्म-धनोपार्जनादाव् अन्य-ताडनादौ वा शक्तिः सामर्थ्यं लुनन्ति त्रोटयन्त्य् अतस् तत्-कीर्तनादाव् अवकाशम् एव न प्राप्नोमीति भावः ॥४०॥
[अत्र यथा-श्लोकं भा। ११.९.२७-श-पद्यं द्रष्टव्यम् ।]
—ओ)०(ओ—
॥ ७.९.४१ ॥
एवं स्व-कर्म-पतितं भव-वैतरण्याम्
अन्योन्य-जन्म-मरणाशन-भीत-भीतम् ।
पश्यन् जनं स्व-पर-विग्रह-वैर-मैत्रं
हन्तेति पारचर पीपृहि मूढम् अद्य ॥
**श्रीधरः : **न केवलम् अहम् एक एवैवं कष्टां दशाम् आपन्नः, किन्तु महा-जनोऽप्य् एवम् एव क्लिश्यति । अतः सर्वं जनं पालयेति प्रार्थयते—एवम् इति । भवः संसार एव वैतरणी यम-द्वार-नदी, तस्याम् । अन्योऽन्यतो यानि जन्मादीनि, तेभ्योऽतिभीतम् । स्वेषां परेषां च विग्रहेषु यथा-यथं वैरं मैत्रं च यस्य । एवं मूढं जनं पश्यंस् त्वम्, हे पारचर ! तस्याः पारे स्थित नित्य-मुक्त ! हन्तेति अहो कष्टम् ! इत्य् एवम् अनुकम्प्याद्य पीपृहि वैतरणीम् उत्तार्य पालय ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः- **न केवलम् अहम् एक एव, अपि तु सांसारिकः सर्व एव जनः क्लिश्यतीति तद्-उद्धारं प्रार्थयते—एवम् इति । भव एव वैतरणी यम-द्वार-नदी तस्यां, स्वेषां परेषां च विग्रहे यथायथं वैरं मैत्रं च यस्य तम् । हे पारचर ! एवं-भूत-वैतरण्याः पार एव विरचित-क्रीड इति हेतोर् हन्त कृपया पीपृहि वैतरणीम् उत्तार्य पालय ॥४१॥
—ओ)०(ओ—
॥ ७.९.४२ ॥
को न्व् अत्र तेऽखिल-गुरो भगवन् प्रयास
उत्तारणेऽस्य भव-सम्भव-लोप-हेतोः ।
मूढेषु वै महद्-अनुग्रह आर्त-बन्धो
किं तेन ते प्रिय-जनान् अनुसेवतां नः ॥
**श्रीधरः : **एकेन मया कथं सर्वो जनस् तारणीय इति चेत् तत्राह—को न्व् इति । को नु ते अत्र सर्व-जनोत्तारणे प्रयासो न कोऽपि । कुतः ? अस्य विश्वस्य भव-संभव-लोपानाम् उत्पत्ति-स्थिति-संहाराणां हेतोः ततोऽपि किम् एतद् दुष्करम् इति भावः । उचितं चैतद् इत्य् आह—मूढेष्व् इति । त्वां च त्वदीयांश् च तारयिष्यामीमं दुराग्रहं मा कृथा इति चेत् तत्राह—तव ये प्रिय-जना भक्तास् तान् अनुसेवमानानां नोऽस्माकं तेनोत्तारणेन किम् ?
कोऽतिप्रयासोऽसुर-बालका हरेः
को न्व् अत्र तेऽखिल-गुरो भगवन् प्रयासः ।
प्रह्राद इत्थम् उपमन्त्र्य मिथो नराणाम्
ईशेन सख्यम् अकरोद् अपनीय मायाम् ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एकेन मया कथं सर्वो जनस् तारणीय इति चेत्, तत्राह—को न्व् इति । अखिल-गुरो गुरु-रूप-धारिणा एकेनापि त्वया परः परार्धेनापि भवितुं समर्थेन सर्व एव जनो निस्तार्यताम् इति भावः । न चैतावत् सामर्थ्यं मे नास्तीति वाच्यम् इत्य् आह—अस्य विश्वस्य जन्म-स्थिति-संहार-कारणस्य यदि जन्मादेः कारणम् अभूस् तदा उद्धारस्यापि कारणं भवितुम् अर्हस्य् एवेति भावः । उचितम् एवैतद् इत्य् आह—मूढेष्व् एति । त्वां च त्वदीयांश् च तारयिष्यामि इदम् अतिदुराग्रहं मा कृथा इति चेत्, तत्राह—तव ये प्रिय-जना भक्तास् तान् अनुसेवमानानां नोऽस्माकं तेन त्वत्-कर्तृकोत्तारणेन किं त्वद्-भक्त-सेवा-प्रभावात् स्वयम् एव वयं तरिष्याम इति भावः ॥४२॥
—ओ)०(ओ—
॥ ७.९.४३ ॥
नैवोद्विजे पर दुरत्यय-वैतरण्यास्
त्वद्-वीर्य-गायन-महामृत-मग्न-चित्तः ।
शोचे ततो विमुख-चेतस इन्द्रियार्थ-
माया-सुखाय भरम् उद्वहतो विमूढान् ॥
**श्रीधरः : **वत्स प्रह्राद, त्वां तावत् तारयिष्यामि तावतैव कृतार्थः स्याः, किम् अनेन निर्बन्धेन ? इत्य् अत आह—नैवेति । हे पर सर्वोत्तम ! त्वद्-वीर्य-गायनम् एव महामृतं, तस्मिन् मग्नं चित्तं यस्य सोऽहं भव-वैतरण्या नैवोद्विजे, किन्तु विमूढान् शोचामि । तान् एवाह—ततो महामृताद् विमुखं चेतो येषाम् । प्रत्युत, इन्द्रियार्थ-निमित्तं यन् माया-सुखं तद्-अर्थं भरं कुटुम्बादि-भारम् उद्वहतः ॥४३॥
**क्रम-सन्दर्भः : **ननु, मत्-प्रिय-जन-सेविनाम् अपि भवाद् अनुत्तीर्णानां तद्-उद्वेगः स्याद् एवेत्य् आशङ्क्य नहि नहीति स्वं दृष्टान्तयति—नैवेति । त्वद्-वीर्याणां ये गायकास् तत्-प्रिय-जनाः तत्-सम्बन्धि यन् महामृतं, तद्-गान-रूपम् एव तत्र मग्नं चित्तं यस्य सोऽहं नैवोद्विजे । अत्र पूर्वं त्रस्तोऽस्म्य् अहम् [भा।पु। ७.९.१६] इत्य्-आदिकं यद् उक्तं, तत् खलु तद्-बहिर्-मुखं साङ्गा-रोचकत्वेन । सम्प्रति नैवोद्विज इत्य्-आदिकं तत् कथामृत-माधुर्याविष्टत्वेन मध्ये च नैतन् मन [भा।पु। ७.९.३९] इत्य्-आदिकम् अतितृष्णयेति विवेचनीयम् । भावानां विचित्र-गतित्वात् ॥४३॥
**विश्वनाथः : **किं च, अहं स्वार्थस् तु संसार-तरणं नैवार्थय इत्य् आह—नैवेति । हे पर, सर्व-श्रेष्ठ, वैतरण्याः सकाशान् नोद्विजे । तत्र हेतुः—त्वद्-वीर्येति, किन्तु विमूढान् शोचामि, इन्द्रियथार्थ-हेतुकं, यन् माया-मयं सुखं तद्-अर्थं भरं कुटुम्ब-भरणादि-भारम् उद्वहतः ॥४३॥
—ओ)०(ओ—
॥ ७.९.४४ ॥
प्रायेण देव मुनयः स्व-विमुक्ति-कामा
मौनं चरन्ति विजने न परार्थ-निष्ठाः ।
नैतान् विहाय कृपणान् विमुमुक्ष एको
नान्यं त्वद् अस्य शरणं भ्रमतोऽनुपश्ये ॥
मध्वः : प्रायेण देव-मुनयः ।
आश्रितेषु कृपा कार्या विशेषात् तात्त्विकैः सुरैः ।
मुनिभिश् च तथा कैश्चित् कैश्चित् कार्याखिलेष्व् अपि ॥
तथापि तात्त्विक-सुर-कृपा विषयतां गताः ।
अत एव विमुच्यन्ते तद् अन्येन कथञ्चन ॥ इति ॥४४॥
**श्रीधरः : **त्वं तावन् मुक्तिं गृहाण, तांस् तु तत्त्व-ज्ञा मुनय उपदेक्ष्यन्तीति चेत् तत्राह—प्रायेणेति । न विमुमुक्षे विमुक्तिं नेच्छामि । तर्ह्य् अन्यं कम् अपि प्रार्थय, माम् एव किम् इति निर्बध्नासि ? इति चेद्, अत आह—त्वत्तोऽन्यम् अस्य जनस्य शरणं न पश्यामि ॥४४॥
**क्रम-सन्दर्भः : **यथा श्री-भगवन्तं को न्व् अत्र [भा।पु। ७.९.४२] इत्य्-आदिकम् उवाच, तथैव मुनीन् अपि प्रत्याह—प्रायेणेति ॥४४॥
**विश्वनाथः : **त्वं तावन्-मुक्तिं गृहाण, त्वांस् तु तत्त्व-ज्ञा मुनयो मुक्ति-साधनम् उपदेक्ष्यन्तीति चेत्, तत्राह—प्रायेणेति । अहं तु न तथा बुभूषामीत्य् आह—नैतान् इति । त्वत्तोऽन्यम् अस्य जनस्य शरणं न पश्यामि ॥४४॥
—ओ)०(ओ—
॥ ७.९.४५ ॥
यन् मैथुनादि-गृहमेधि-सुखं हि तुच्छं
कण्डूयनेन करयोर् इव दुःख-दुःखम् ।
तृप्यन्ति नेह कृपणा बहु-दुःख-भाजः
कण्डूतिवन् मनसिजं विषहेत धीरः ॥
**श्रीधरः : **नन्व् एते स्त्री-संभोगादिना सुखिन एव न कृपणाः ? तत्राह—यद् इति । करयोः कण्डूयनेन सङ्घर्षणेनेव दुःखम् अनु दुःखं यस्मिन् । तर्हि दुःखत्वाद् एव ततो निर्विद्य मुच्येरंस् तत्राह—कृपणाः कामुका बहु-दुःख-भाजोऽपीह गृह-मेधि-सुखे न तृप्यन्त्य् अलम् इति न मन्यन्ते । कण्डूतिवत् कामस्य दुःसहत्वात् । ननु केचित् कण्डूतिम् अपि सहन्ते कामं च ? इत्य् अत्राह—त्वत्-प्रसादात् तु कश्चिद् धीर एव मनसिजं कामं विषहेत, न तु सर्वे । अत्रापि कण्डूतिवद् इति दृष्टान्तः ॥४५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् एते स्त्री-सम्भोगादिभिः सुखिन एव न कृपणाः ? तत्राह—
यद् इति । करयोः कण्डूयनेन सङ्घर्षणेनेव दुःखम् अनु दुःखं यत्र तत् । तर्हि दुःखत्वाद् एव ततो निर्विद्य मुच्येरंस् तत्राह—कृपणाः कामुका बहु-दुःख-भाजोऽपीह गृह-मेधि-सुखे दुःख-रूपे न तृप्यन्ति, अलम् इति न मन्यन्ते । कण्डूतिवत् कण्डूताव् इवेत्य् अर्थः । ननु कश्चित् कश्चित् ततो निर्विघ्नोऽपि दृश्यते ? सत्यं, त्वत्-प्रसादाद् धीर एव मनसिजं कामं दुःख-स्वरूपम् एव विषहेत, न तु सर्वे ॥४५॥
—ओ)०(ओ—
॥ ७.९.४६ ॥
मौन-व्रत-श्रुत-तपो-ऽध्ययन-स्व-धर्म-
व्याख्या-रहो-जप-समाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्व् अजितेन्द्रियाणां
वार्ता भवन्त्य् उत न वात्र तु दाम्भिकानाम् ॥
**श्रीधरः : **ननु मौनादिभिर् मोक्ष-साधनैः सुलभैव, तेषाम् अपि मुक्तिः ? तत्राह—मौनेति । हे पुरुष अन्तर्यामिन् ! ये मौनादयो दश आपवर्ग्या अपवर्ग-हेतवः प्रसिद्धाः। रहो विविक्त-वासः । ते तु प्रायशोऽजितेन्द्रियाणाम् इन्द्रिय-भोगायार्थार्थं विक्रीणतां वार्ता जीवनोपाया भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति वा न वा । दम्भस्यानियत-फलत्वात् ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**भक्ति-सन्दर्भः (१६८): मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा **दम्भस्यानियत-फलत्वाद् इत्य् अर्थः ॥४६॥
**विश्वनाथः : **ननु ब्राह्मणानां तावन्-मौनादिभिर् मोक्ष-साधनैः स्वत एव सिद्धैर् मोक्षोऽपि स्वत एव सिद्धः ? तत्राह—मौनेति । हे पुरुष ! अन्तर्यामिन् ! त्वां किं विज्ञापयामीति भावः । ये मौनादयो दश आपवर्ग्या अपवर्ग-हेतवः प्रसिद्धाः। रहो विविक्त-वासः । ते तु प्रायशोऽजितेन्द्रियाणाम् विषय-भोगार्थम् एव तान् विक्रीणतां वार्ता जीवनोपाया एव भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा, दम्भस्यानियत-फलत्वात् ॥४६॥
—ओ)०(ओ—
॥ ७.९.४७ ॥
रूपे इमे सद्-असती तव वेद-सृष्टे
बीजाङ्कुराव् इव न चान्यद् अरूपकस्य ।
युक्ताः समक्षम् उभयत्र विचक्षन्ते त्वां
योगेन वह्निम् इव दारुषु नान्यतः स्यात् ॥
**मध्वः : **कार्याकारण-रूपे तद्-वशत्वापेक्षया साक्षात् स्वरूपापेक्षया स्वरूपाद् अन्यद् रूपं न ॥४७॥
**श्रीधरः : **त्वज्-ज्ञानं भक्तिं विना स-कामैर् मौनादिभिर् न भवत्य् एवेत्य् आह—रूपे इति त्रिभिः । बीजाङ्कुराव् इव प्रवाहापन्ने इमे सद्-असती कार्य-कारणे एव ते रूपे उपलक्षण-भूते वेदेन सृष्टे प्रकाशिते, न च अन्यत् स्व-समवेतं गौरत्वादिकम् इव देव-दत्तादेः । कुतः ? अरूपकस्य प्राकृत-रूपादि-शून्यस्य, अतो युक्ताः संयता एव भक्ति-योगेन प्रत्यक्षं त्वाम् उभयत्र कार्ये कारणे चानुगतं पश्यन्ति मथनेन दारुषु वह्निम् इव। नान्यतः स्यात् त्वज्-ज्ञानम् इति शेषः । यद् वा, ज्ञान-प्रकारम् एवाह—एतद् उभयम् अन्यतः प्रधान-परमाण्व्-आदेर् न स्यात् । स ऐक्षत [बृ।आ।उ। १.२.५] इत्य्-आदि-श्रुतेः । अतस् त्वम् एव कारणत्वात् सर्वत्रानुस्यूत इति ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वत्-प्राप्तिस् तु भक्ति-योगं विना मौनादिभिर् नैव भवतीत्य् आह—रूपे इति । इमे सद्-असती कार्य-कारणे बीजाङ्कुराव् इव प्रवाहापन्ने समष्टि-व्यष्टी तवैव रूपे । न चान्यत् समष्टि-व्यष्ट्य्-आत्मकं विश्वम् इदं त्वत्तो भिन्नं न भवति, अरूपकस्य प्राकृत-रूप-रहितस्य तव । अतो युक्ता विवेकिनः त्वाम् उभयत्र समष्टौ व्यष्टौ च विचिन्वते प्राप्तुम् अन्विष्यन्ति यतस् त्वं कारणत्वेनोभयत्र वर्तसे इति भावः । योगेन उपायेन भक्ति-योगेनैव न चान्यतो ज्ञानादिना, भक्त्याहम् एकया ग्राह्यः[भा।पु। ११.१४.११] इति त्वद्-उक्तेर् इति भावः । वह्नि-पक्षे, योगेन मन्थनेन, अत एव भक्त्येत्य् अस्य स्पष्ट-शब्दस्याप्रयोगः ॥४७॥
—ओ)०(ओ—
॥ ७.९.४८ ॥
त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः
प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च ।
सर्वं त्वम् एव सगुणो विगुणश् च भूमन्
नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् ॥
**श्रीधरः : **तद् एवाह—त्वं वायुर् इति । हृदयं मनः । चिच् चित्तम् । अनुग्रहोऽहङ्कारो देवता-वर्गो वा । स-गुणः स्थूलः । विगुणः सूक्ष्मः । मनश् च वचश् च मनो-वचस् तेन निरुक्तं प्रकाशितं किम् अपि त्वत्तोऽन्यन् नास्ति ॥४८॥
**क्रम-सन्दर्भः : **त्वम् इति । हृदयम् अन्तर्-इन्द्रियं मनो-बुद्ध्य्-अहङ्कार-चित्तात्मकं । चित् शुद्धो जीवः । **अनुग्रहः **स्व-सम्मुखी-करण-शक्तिः । किं बहुना, स-गुणो मायिकः विगुणश् चामायिकः सर्वार्थस् त्वम् एवेति ॥४८॥ (परमात्म-सन्दर्भ ६७)
विश्वनाथः : उक्तम् अर्थं विवृणोति—त्वम् इति । हृदयं मनः । चिच् चित्तम् । अनुग्रहो ऽनुग्राहको देवता-वर्गः । स-गुणः स्थूलः । विगुणः सूक्ष्मः । मनश् च वचश् च मनो-वचस् तेन निरुक्तं प्रकाशितं किम् अपि त्वत्तोऽन्यन् नास्ति ॥४८॥
—ओ)०(ओ—
॥ ७.९.४९ ॥
नैते गुणा न गुणिनो महद्-आदयो ये
सर्वे मनः-प्रभृतयः सह-देव-मर्त्याः ।
आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम्
एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥
**श्रीधरः : **अभक्तास् तु स्वस्मिन्न् अनुगतम् अपि त्वां न जानन्तीत्य् आह—नैत इति । एते गुणाद्य्-अभिमानिनो देवा आद्य्-अन्त-वन्तो जडोपाधित्वाद् अनाद्य्-अन्तं निरुपाधिं त्वां न विदन्ति । हि यस्मात् सुधियो विद्वांस एवंविचार्यशब्दाद् अध्ययनादि-व्यापाराद् उपरमन्ति । त्वाम् एव समाधिनोपासत इत्य् अर्थः । तथा च श्रुतिः, किम्-अर्था वयम् अध्येष्यामहे किम्-अर्था वयं यक्ष्यामहे3इति । नानुध्यायेद् बहून् शब्दान् वाचो-विग्लापनं हि तद् इति । स्मृतिश् च,
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता २.५२] इत्य्-आदि ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : तज् ज्ञानं त्वद्-भक्त्यैव भवेन्, न तु शास्त्राध्ययन-बुद्धि-कौशलादिभिर् इत्य् आह—नेति । यद्य् एते त्वांन विदन्ति, तर्ह्य् एतैर् एव मनो-बुद्ध्य्-आदिभिः शास्त्राण्य् अध्ययनाध्यापनादिभिर् विचार्य जीवाः कथं ज्ञास्यन्ति ? इति विमृष्यशब्दाद् अध्ययनादि-व्यापाराद् उपरमन्ति । तथा च श्रुतिः— किम्-अर्था वयम् अध्येष्यामहे किम्-अर्था वयं यक्ष्यामहेइति । नानुध्यायेद् बहून् शब्दान् वाचो-विग्लापनं हि तद् इति । स्मृतिश् च,
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता २.५२] इत्य्-आदि ॥४९॥
—ओ)०(ओ—
॥ ७.९.५० ॥
तत् तेऽर्हत्तम नमः-स्तुति-कर्म-पूजाः
कर्म स्मृतिश् चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षड्-अङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥
**श्रीधरः : **उपसंहरति—तद् इति । हे अर्हत्तम ! नमः-स्तुति-कर्म-पूजाः प्रणिपात-स्तुति-सर्व-कर्मार्पणानि, कर्म च परिचर्या, चरणयोः स्मृतिश् च, **कथायां श्रवणं **चेत्य् एवं षड्-अङ्गया सम्यक्-सेवया विनापरमहंसानां गतौ प्राप्ये त्वयि जनःकथं भक्तिं लभेत ? यस्माद् एवं भक्तिं विना न मोक्षो, न च भक्तिः संसेवया विना, अतः प्राक् प्रार्थितं त्वद्-दास्य-योगम् एव देहीति प्रकरणार्थः ॥५०॥
क्रम-सन्दर्भः : कर्म परिचर्या । कर्म-स्मृतिर् लीला-स्मरणम् । चरणयोर् इति सर्वत्रान्वितं भक्ति-व्यञ्जकम् । तस्मात् सर्व-कृतार्थता-मूल-तत्-प्रेम-भक्ति-सम्पादनीं षड्-अङ्गांसंसेवाम् एव सर्वेभ्योऽपि देहि । अहं च त्वद्-भक्त-कृपया साक्षाद्-अङ्घ्रि-मूल-प्राप्तौ त्वत्-साक्षाद्-दास्य-योगादौ वा कृतार्थताम् आपन्नोऽपि तेनैव कृतार्थतां मंस्य इति भावः । एवं च ब्रह्मादिषु प्रसादो यः प्रथमं प्रार्थितस् तस्यापि कैमुत्येन गमितत्वात् सर्व-प्रार्थना-वाक्यैक-वाक्यत्वे सिद्धे त्वद्-अनुगतानाम् अन्येषाम् अपि वाक्यानां तत् स्वतः-सिद्धम् ॥५०॥ [भक्ति-सन्दर्भ २०२]
विश्वनाथः : स्तुतिम् उपसंहरति—तद् इति । यस्माद् अध्ययनादिभिस् तज्-ज्ञानं न भवेत्, तस्मात् त्वज्-ज्ञानार्थम् आग्रहं परित्यज्य सर्व-पुरुषार्थ-सारस्य त्वत्-प्रेम्णः साधार्थम् एव यतेतेत्य् आह—हे अर्हत्तम ! नमो नमस्कारश् च, स्तुति-कर्म स्तव-करणं च, पूजा अर्चनं च ताः । कर्म परिचर्या, चरणयोः स्मृतिश् च, कथायां श्रवणं चेत्य् एवं षड्-अङ्गया सेवया भक्त्या विना त्वयि किं भक्तिं प्रेमाणं लभेत? नैव लभेतेत्य् अर्थः । परमहंसानां ज्ञानिनां गतिर् मुक्तिर् यस्मात्, तस्मात् तस्मिन्न् इति कथञ्चिद् भक्ति-मिश्र-ज्ञानेन मुक्तिम् एव लभेतेति भावः । तस्मात् सर्व-कृतार्थता-मूलत्वात् प्रेम-भक्ति-सम्पादिनीं षड्-अङ्गां संसेवाम् एव सर्वेभ्योऽपि देहि । सा दुर्लभा चेत्, मुक्तिम् एव दत्त्वा संसार-दुःखात् तावत् सर्वांस् त्रायस्व । अहं तु त्वद्-भक्त-सेवयैव कृतार्थीकृत एव वर्ते इति न काचिच् चिन्तेति भावः ॥५०॥
—ओ)०(ओ—
॥ ७.९.५१ ॥
श्री-नारद उवाच—
एतावद् वर्णित-गुणो भक्त्या भक्तेन निर्गुणः ।
प्रह्रादं प्रणतं प्रीतो यत-मन्युर् अभाषत ॥
**श्रीधरः : **एतावन्तो वर्णिता गुणा यस्य । यत-मन्युर् उपसंहृत-कोपः ॥५१॥
**क्रम-सन्दर्भः : **गुणाः कारुण्यादयस् तत्-तद्-दानादि क्रिया-शक्ति-रूपाश् च ॥५१॥
विश्वनाथः : गुणाः कारुण्यादयः निर्गुणः प्राकृत-गुण-रहितः । यत-मन्युः मद्-भक्ताय प्रह्लादायापि द्रुह्यतीति यो दुर्वारो मन्युर् अभूत्, स प्रह्लादस्यानन्द-दर्शनाद् उपशान्त इत्य् अर्थः ॥५१॥
—ओ)०(ओ—
॥ ७.९.५२ ॥
श्री-भगवान् उवाच—
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं काम-पूरोऽस्म्य् अहं नृणाम् ॥
**श्रीधरः : **कामान् पूरयतीति तथा पुरुषार्थ-प्रवाहोऽस्मीत्य् अर्थः ॥५२॥
**क्रम-सन्दर्भः : **तद् एवं श्रीमत्-प्रह्लादस्य सर्व-जीव-गतां कृपाम् अनुमोदमानस् तस्याश् च पूर्वकं—य एतत् कीर्तयेत् [भा।पु। ७.१०.१४] इति पर्यन्तम् आशंसनं करिष्यन्न् अभीष्टान्तरम् अर्थयितुम् उत्साहयति—अभिमतम् अन्यम् अन्यम् अपि वरम् ॥५२॥
विश्वनाथः : अभिमतं वृणीष्वेति मयि भृत्य-वत्सले परमोदार-चूडामणौ कः सङ्कोच इति भावः । येषां कृते त्वं मां प्रार्थयसे, तेषाम् अपि नृणाम् अहं काम-पूरोऽस्मि, पुरुषार्थ-प्रवाह-रूप एव वर्ते । किं पुनर् एकां मुक्तिम् एव ददे इति भावः । तेन प्रह्लाद-बुद्धि-विषयी-कृतास् तात्-कालिका जीवा निस्तीर्णा एव, जीवानाम् आनन्त्यात् तद् अन्यैर् एव जीवैस् तद्-अनन्तरं ब्रह्माण्डम् अपूरीति ज्ञेयम् ॥५२॥
—ओ)०(ओ—
॥ ७.९.५३ ॥
माम् अप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर् जन्तुर् आत्मानं तप्तुम् अर्हति ॥
**श्रीधरः, विश्वनाथः **: अप्रीणतः अप्रीणयतः । तप्तुम् अपूर्ण-कामत्वेन शोचितुम् ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.९.५४ ॥
प्रीणन्ति ह्य् अथ मां धीराः सर्व-भावेन साधवः ।
श्रेयस्-कामा महा-भाग सर्वासाम् आशिषां पतिम् ॥
श्रीधरः : प्रीणन्ति तोषयन्ति ॥५४॥
**क्रम-सन्दर्भः : **अथ अत एवाभिमत-वरेच्छात एव ॥५४॥
विश्वनाथः : प्रीणन्ति प्रीणयन्ति, मां प्रति तुष्यन्तीति वा । सर्व-भावेन दास्य-सख्यादिना ॥५४॥
—ओ)०(ओ—
॥ ७.९.५५ ॥
श्री-नारद उवाच—
एवं प्रलोभ्यमानोऽपि वरैर् लोक-प्रलोभनैः ।
एकान्तित्वाद् भगवति नैच्छत् तान् असुरोत्तमः ॥
श्रीधरः : एकान्तित्वान् निरुपाधि-भक्तत्वात् ॥५५॥
क्रम-सन्दर्भः : एवं पूर्वोक्त-प्रकारेण । वरैः स्वयम् एव निर्दिष्टैः ॥५५॥
विश्वनाथः : एकान्तित्वात्, एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति [भा।पु। ८.३.२०] इति तल्-लक्षणात् ॥५५॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्तमे नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे
प्रह्लादानुचरिते नवमोऽध्यायः ।
॥७.९॥
(७.१०)