०८ हिरण्यकशिपु-वधः

॥ ७.८.१ ॥

श्री-नारद उवाच—

अथ दैत्य-सुताः सर्वे श्रुत्वा तद्-अनुवर्णितम् ।

जगृहुर् निरवद्यत्वान् नैव गुर्व्-अनुशिक्षितम् ॥

श्रीधरः :

अष्टमेऽतिरुषा सूनुं निघ्नन् दैत्यो हतः स्वयम् ।

आविर्भूय नृसिंहेन स च ब्रह्मादिभिः स्तुतः ॥

अन्तः कृपा-सुधा-पूर्णो बहिः-क्रोधो नृ-केसरि ।

दैत्येन्द्रम् अरि-भावेन भजन्तं समभावयत् ॥

**क्रम-सन्दर्भः : **टीका-पद्ये अरि-भावेन भजन्तम् इति तद्-आज्ञा-कृतत्वाद् बहिरङ्गेनैव तेन भजन्तं स्वं प्रति अभावयत् प्रापयत् ॥१॥

विश्वनाथः :

अष्टमे स्व-सुतं हन्तुम् अहन् स्तम्भं रुषासुरः ।

स्तम्भोत्थस् तम् अहन् साक्षान् नृसिंहो दैवतैः स्तुतः ॥१॥

—ओ)०(ओ—

॥ ७.८.२ ॥

अथाचार्य-सुतस् तेषां बुद्धिम् एकान्त-संस्थिताम् ।

आलक्ष्य भीतस् त्वरितो राज्ञ आवेदयद् यथा ॥

**श्रीधरः : **एकान्त-संस्थितां प्रत्यङ् निष्ठाम् । यथा यथावत् ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एको मुख्यश् चासाव् अन्तं सर्वेषां चेत्य् एकान्तो विष्णु-भक्ति-योगो वा तत्र संस्थिताम् ॥२॥

—ओ)०(ओ—

॥ ७.८.३ ॥

श्रुत्वा तद् अप्रियं दैत्यो दुःसहं तनयानयम् ।1

कोपावेश-चलद्-गात्रः पुत्रं हन्तुं मनो दधे ।

क्षिप्त्वा परुषया वाचा प्रह्रादम् अतद्-अर्हणम् ॥

**श्रीधरः : **स च पुत्रं हन्तुं मनो दधे । कथं-भूतः ? कोपस्यावेशेनोद्रेकेण चलद् गात्रं वपुर् यस्य सः ॥३॥

**क्रम-सन्दर्भः : **श्रुत्वेति पद्यार्धं गौड-मिथिलयोर् नास्ति स्वाम्य्-असम्मतं च, स च इत्य् अध्याहारस्य वैयर्थ्यात् ॥३॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.८.४ ॥

आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ।

प्रश्रयावनतं दान्तं बद्धाञ्जलिम् अवस्थितम् ।

सर्पः पदाहत इव श्वसन् प्रकृति-दारुणः ॥

**श्रीधरः : **क्षिप्त्वा तिरस्कृत्य । पापेन स-रोषेण । तिरश्चीनेन वक्रेण ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.८.५ ॥

श्री-हिरण्यकशिपुर् उवाच—

हे दुर्विनीत मन्दात्मन् कुल-भेद-कराधम ।

स्तब्धं मच्-छासनोद्वृत्तं नेष्ये त्वाद्य यम-क्षयम् ॥

**श्रीधरः : **हे मन्दात्मन् ! अल्प-बुद्धे ! मद्-आज्ञातिलङ्घिनं त्वाम् अद्य यमालयं नेष्यामि ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : दुर्विनीतेति ! वस्त्व्-अर्थश् चायं—दुष्टेष्व् अपि विशिष्टं नीतं कृपा-लक्षणं यस्य, पर-दुःखासहिष्णुत्वात् मन्दानाम् अप्य् आत्मा मनो यत्र । सर्व-चित्ताकर्षकत्वात् कुल-भेद-कराः कुल-विशेष-स्रष्टारः प्रजापतयोऽप्य् अधमा यस्मात्, महा-विभूतिमत्त्वात् स्तब्धम् असुरेषु पूज्य-बुद्धित्वाभावात् । मच्-छासनोद्वृत्तं मद्-आज्ञा-लङ्घिनम् । यद् अक्षयं यमालयं, पक्षे यमानाम् अष्टाङ्ग-योगानां क्षयं निवास-भूतं त्वां नेष्ये स्व-त्रायकत्वेनाङ्गीकरिष्यामीत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ७.८.६ ॥

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः ।

तस्य मेऽभीतवन् मूढ शासनं किं-बलोऽत्यगाः ॥

**श्रीधरः : **अभीतवत् । किं बलं किं बलः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अभीतवत् । किं-बलं यस्य सः ॥७॥

—ओ)०(ओ—

॥ ७.८.७-८ ॥

श्री-प्रह्राद उवाच—

न केवलं मे भवतश् च राजन्

स वै बलं बलिनां चापरेषाम् ।

परेऽवरेऽमी स्थिर-जङ्गमा ये

ब्रह्मादयो येन वशं प्रणीताः ॥

स ईश्वरः काल उरुक्रमोऽसाव्

ओजः सहः सत्त्व-बलेन्द्रियात्मा ।

स एव विश्वं परमः स्व-शक्तिभिः

सृजत्य् अवत्य् अत्ति गुण-त्रयेशः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.८.९ ॥

जह्य् आसुरं भावम् इमं त्वम् आत्मनः

समं मनो धत्स्व न सन्ति विद्विषः ।

ऋते ञ्जिताद् आत्मन उत्पथे स्थितात्

तद् धि ह्य् अनन्तस्य महत् समर्हणम् ॥

**मध्वः : **द्विषड्-गुण-युतात्—

ज्ञानं च सत्यं च दमः शमश् च
ह्य् अमात्सर्यं ह्रीस् तितिक्षानसूया ।
दानं च यज्ञश् च तपः श्रुतं च
महा-व्रता द्वादश ब्राह्मणस्य ॥ [भा। ५.४३.१२]इति भारते ॥९॥

**श्रीधरः : **वशं प्रणीता इत्य् अत्र हेतुः—स ईश्वर इति । उरवः क्रमाः पाद-विक्षेपा यस्य । बहु-पराक्रम इति वा । ओज-आदि-रूपः । सत्त्वं धैर्यं बुद्धिर् वा ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जहि त्यज । आत्मनः स्वस्य मनः समं स्वस्मिन्न् इव सर्वत्र तुल्यं कुरु । ननु शत्रुषु स्व-समं मनः कथं करोमि ? तत्राह—विद्विषः शत्रवो नैव सन्ति । अजिताद् अवशीकृतात्मनो मनसः ऋते मनसः सर्वत्र स्व-तुल्य-दर्शन-लक्षणं साम्यम् एव वशीभावस् तस्मिन् सति शात्रवादर्शनान् न केऽपि शत्रव इति भावः । तद् एव सर्वत्र साम्यम् एव समर्हणम् आराधनम् ॥९॥

—ओ)०(ओ—

॥ ७.८.१० ॥

दस्यून् पुरा षण् न विजित्य लुम्पतो

मन्यन्त एके स्व-जिता दिशो दश ।

जितात्मनो ज्ञस्य समस्य देहिनां

साधोः स्व-मोह-प्रभवाः कुतः परे ॥

**श्रीधरः : **ननु मच्-छत्रुर् असौ कथं ममापि स एव बलं स्यात् ? अत आह—जहीति। आत्मनः स्वस्य भावं स्वभावं त्यज । यतोऽजिताद् आत्मनो मनस ऋते विनऽन्ये विद्विषो न सन्ति । किं च, तद् धि तद् एव हि साम्येन मनसो धारणम् एव समर्हणम् आराधनम् ।

ननु मया दिग्-विजये सर्वे रिपवो जिता अतः साम्प्रतं विद्विषो न सन्तीति चेत् सत्यं, तत्राह—दस्यून् इति । एके भवादृशा मन्दाः पुरा आदौ लुम्पतः सर्वस्वं हरतः षड्-इन्द्रिय-लक्षणान् शत्रून्न् अविजित्याजित्वा दश दिशः स्वयं जिता मन्यन्ते । साधोस् तु जित-चित्तस्य । देहिना समस्य ज्ञस्य विदुषः स्वाज्ञान-कल्पिताः परे शत्रवः कुतः स्युः ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एके युष्मादृशा मन्दा दस्यून् कामादीन् लुम्पतः सर्वस्वं हरः स्व-सङ्गे स्थितान् अपि अविजित्य अजित्वा दश-दिशः स्व-जिता स्वेन जिता मन्यन्ते । जित-चित्तस्य चित्तजयेनैव विजित-षट्-सपत्नस्य ज्ञस्य विदुषः परे शत्रवः कुतो हेतोर् अपि तु नैव इत्य् अर्थः । यतः स्व-मोह-प्रभवाः ॥१०॥

—ओ)०(ओ—

॥ ७.८.११ ॥

श्री-हिरण्यकशिपुर् उवाच—

व्यक्तं त्वं मर्तु-कामोऽसि योऽतिमात्रं विकत्थसे ।

मुमूर्षूणां हि मन्दात्मन् ननु स्युर् विक्लवा गिरः ॥

**श्रीधरः : **व्यक्तं निश्चितम् । विप्लवा अनन्विता इत्य् अर्थः ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विकत्थसे हरि-भक्तत्वाद् अहम् एव विजित-षड्-मित्रो न तु ममायं जनक इत्य् आत्म-श्लाघां करोषीत्य् अर्थः । विक्लवा अनन्विताः ॥११॥

—ओ)०(ओ—

॥ ७.८.१२ ॥

यस् त्वया मन्द-भाग्योक्तो मद्-अन्यो जगद्-ईश्वरः ।

क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥

**श्रीधरः : **हे मन्द-भाग्य, मद्-अन्यो जगदीश्वरो यद्य् अस्ति, तर्ह्य् असौ क्वास्ति ? प्रह्राद आह—स सर्वत्रास्ति । हिरण्यकशिपुर् आह—तर्हि कस्मात् स्तम्भे नास्ति ? प्रह्रादस् तु तं स्तम्भं निरीक्षमाणो नमस्यन्न् आह—दृश्यत इति ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हे मन्द-भाग्येति । यथा जगद्-ऐश्वर्यं मम तथैव मत्-पुत्रत्वात् तवापि तन्-न्याय-प्राप्तम् इति त्वया त्यज्यत इति भावः । यद्य् असाव् अस्ति तर्हि क्वास्ति ? प्रह्लाद आह—सर्वत्रास्ति । हिरण्यकशिपुर् आह—स्तम्भे कस्मात् नास्ति ? प्रह्लादस् तु स-प्रणामं पश्यन्न् आह—दृश्यत इति ॥१२॥

—ओ)०(ओ—

॥ ७.८.१३ ॥

सोऽहं विकत्थमानस्य शिरः कायाद् धरामि ते ।

गोपायेत हरिस् त्वाद्य यस् ते शरणम् ईप्सितम् ॥

**श्रीधरः : **हिरण्यकशिपुस् तु तत्र तम् अपश्यन्न् आह—सोऽहम् इति । विकत्थमानस्य विपरीतं ब्रुवाणस्य ते शिरः कायाद् धरामि पृथक् करोमि ॥१३॥

**क्रम-सन्दर्भः : **विकत्थमानस्येति, तत्-तद्-उक्तेर् आत्म-श्लाघायाम् एव पर्यवसानात् ॥१३॥

विश्वनाथः : हिरण्यकशिपुस् तत्र तम् अपश्यन्न् आह—सोऽहम् इति ॥१३॥

—ओ)०(ओ—

॥ ७.८.१४ ॥

एवं दुरुक्तैर् मुहुर् अर्दयन् रुषा

सुतं महा-भागवतं महासुरः ।

खड्गं प्रगृह्योत्पतितो वरासनात्

स्तम्भं तताडातिबलः स्व-मुष्टिना ॥

**श्रीधरः : **प्रह्रादेन मूर्ध्नि बद्धाञ्जलिना निरीक्ष्यमाणं स्तम्भं मुष्टिना ताडितवान् ॥१४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.८.१५ ॥

तदैव तस्मिन् निनदोऽतिभीषणो

बभूव येनाण्ड-कटाहम् अस्फुटत् ।

यं वै स्व-धिष्ण्योपगतं त्व् अजादयः

श्रुत्वा स्व-धामात्ययम् अङ्ग मेनिरे ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अस्फुट-देवेत्य् अर्थः । यत् निनदम् । अत्ययं नाशम् ॥१५॥

—ओ)०(ओ—

॥ ७.८.१६ ॥

स विक्रमन् पुत्र-वधेप्सुर् ओजसा

निशम्य निर्ह्रादम् अपूर्वम् अद्भुतम् ।

अन्तः-सभायां न ददर्श तत्-पदं

वितत्रसुर् येन सुरारि-यूथ-पाः ॥

**श्रीधरः : **तत् पदं तस्य ध्वनेर् आश्रयम् । येन नादेन ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत् तस्य ध्वनेर् पदम् आश्रयम् ॥१६॥

—ओ)०(ओ—

॥ ७.८.१७ ॥

सत्यं विधातुं निज-भृत्य-भाषितं

व्याप्तिं च भूतेष्व् अखिलेषु चात्मनः ।

अदृश्यतात्यद्भुत-रूपम् उद्वहन्

स्तम्भे सभायां न मृगं न मानुषम् ॥

**श्रीधरः : **भगवांस् तदा स्तम्भं विदार्यादृश्यत दृश्यो बभूव । किम् अर्थम् । निज-भृत्येन प्रह्रादेन यद् भाषितं दृश्यत इति तत् सत्यं विधातुं कर्तुम् । तथाऽखिलेषु भूतेष्व् आत्मनो व्याप्तिं च सत्यां कर्तुं स्तम्भेऽदृश्यत । तत् किम्-अर्थम् ? भौतिकेषु च भावेषु भूतेष्व् अथ महत्सु च भगवान् आस्ते इति तेनैव भृत्येन यद् भाषितं, तत् सत्यं कर्तुम् । तथात्यद्भुतं दैत्य-घातकम् अतिघोरं रूपम् उद्वहन् दधत् ।

तत् किम्-अर्थम् ? निज-भृत्यैः सनकादिभिः शापानन्तरम् अनुतप्तैर् भाषितं यत्, त्रिभिर् जन्मभिः शाप-मोक्षो भवतु इति तत् सत्यं कर्तुम् । तथात्यद्भुतं रूपं ब्रह्म-सृष्टाव् अदृष्टम् अश्रुतं च रूपम् उद्वहन् । तच् च न मृगाकारं न च मनुष्याकारम् उद्वहन् । सभायां मध्येऽदृश्यत तत् किम्-अर्थम् ? निज-भृत्येन हिरण्यकशिपुना ब्रह्माणं प्रति यद् भाषितम्, भूतेभ्यस् त्वद्-विसृष्टेभ्यो मृत्युर् मा भून् मम प्रभो[भा।पु। ७.३.३५] इति, तथा नान्तर् बहिः इति, न नरैर् न मृगैर् अपि [भा।पु। ७.३.३६] इति च । ब्रह्मणा च निज-भृत्येन तथास्त्व् इति यद् भाषितं, तद् उभयोर् वाक्यं सत्यं कर्तुम् ।

न हि तद् ब्रह्म-सृष्टं भूतं न च नरो वा मृगो वा न च सभा-गृहस्यान्तः न च प्राङ्गणवद् बहिः एवं ताभ्यां यद् भाषितं तत् सत्यं कर्तुम् । यच् च हिरण्यकशिपुना भाषितम्, नूनम् एतद्-विरोधेन मृत्युर् मे भविता इति, अकुतश्चिद्-भयोऽमरः[भा।पु। ७.५.४७] इति च । यच् च नारदेन निज-भृत्येन भाषितम् इन्द्रं प्रति, अयं महांस् त्वया संस्थां न प्राप्स्यति, अनन्तानुचरः [भा।पु। ७.७.१०] इत्य् अनेन स्व-भक्त-पक्ष-पातित्वं च यद् भाषितं तच् च सत्यं कर्तुं तथा अदृश्यत । चकारान् निज-भाषितं च । किं तत् ? कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति [गीता ९.३१] इति, तथा तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् [गीता १२.७] इत्य्-आदि । तच् च सत्यं कर्तुम् अदृश्यतेति द्रष्टव्यम् । अलम् अतिविस्तरेण ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निज-भृत्यस्य प्रह्लादस्य भाषितं दृश्यत इति वचनं सत्यं विधातुं सत्यम् एव तल्-लोकेऽपि सत्यत्वेन प्रकटीकर्तुम् इत्य् अर्थः । तथैवाखिलेषु आत्मनो नृसिंहाद्याकारस्य व्याप्तिं च सत्यां कर्तुं स्तम्भे अदृश्यत दृष्टो बभूव । कीदृशः ? न मृगं न मृग-सम्बन्धि नापि मानुषं रूपं सभायाम् उद्वहन्, अत्रापि हेतुः—सत्यम् इति । निज-भृत्यस्य हिरण्यकशिपोर् भाषितं, भूतेभ्यस् त्वद्-विसृष्टेभ्यो मृत्युर् मा भून् मम प्रभो[भा।पु। ७.३.३५] इति, तथा नान्तर् बहिः इति, न नरैर् न मृगैर् अपि [भा।पु।७.३.३६] इति प्रार्थितं सत्यं कर्तुं, यतो न हि तद् ब्रह्म-सृष्टां भूतं न च नरो वा मृगो वा न च सभा-गृहस्यान्तः, नापि प्राङ्गणवद् बहिर् इति । एवं च केचित् निजस्य भृत्यानां नारदादीनाम् अपि भाषितं सत्यं विधातुम् इति व्याचक्षते । तथापि कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति [गीता ९.३१] इति निजोक्तम्, अयं महान् संस्थां न प्राप्स्यति [भा।पु। ७.७.१०] इन्द्रं प्रति नारदोक्तं, नूनम् एतद्-विरोधेन मृत्युर् मे भविता [भा।पु। ७.५.४७] इति हिरण्यकशिपूक्तं, हिरण्यकशिपुना व्रियमाणे वरे तथास्त्व् इति ब्रह्मोक्तं च ॥१७॥

—ओ)०(ओ—

॥ ७.८.१८ ॥

स सत्त्वम् एनं परितो विपश्यन्

स्तम्भस्य मध्याद् अनुनिर्जिहानम् ।

नायं मृगो नापि नरो विचित्रम्

अहो किम् एतन् नृ-मृगेन्द्र-रूपम् ॥

**श्रीधरः : **स दैत्य एवम् अद्भुतं ध्वनिं श्रुत्वा तद्-आश्रयं सत्त्वं प्राणि-विशेषं सर्वतो विलोकयन् स्तम्भ-मध्यान् निर्गच्छत् नृ-मृगेन्द्रयोर् मिश्रं रूपम् अहो किम् एतद् इति मीमांसितवान् इति शेषः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद् अलम् अतिशयेन भयानकं नृ-मृगेन्द्र-रूपम् ॥१८॥

—ओ)०(ओ—

॥ ७.८.१९ ॥

मीमांसमानस्य समुत्थितोऽग्रतो

नृसिंह-रूपस् तद् अलं भयानकम् ॥

**श्रीधरः : **तस्यैवम् अलं भयानकं तन् नृसिंह-रूपं मीमांस-मानस्याग्रतो न्र्सिंह-रूपो हरिः समुत्थितः ।

**क्रम-सन्दर्भः : **मीमांसेति सार्ध-त्रिकं तत्र मीमांसेत्य् अर्धकम् ॥१९॥

**विश्वनाथः : **मीमांसमानस्य तस्याग्रत एव नृषिंह-रूपः समुत्थित इत्य् अन्वयः ॥१९॥

—ओ)०(ओ—

॥ ७.८.२० ॥

प्रतप्त-चामीकर-चण्ड-लोचनं

स्फुरत् सटा-केशर-जृम्भिताननम् ।

कराल-दंष्ट्रं करवाल-चञ्चल-

क्षुरान्त-जिह्वं भ्रुकुटी-मुखोल्बणम् ॥

**श्रीधरः : **भयानकत्वम् एव दर्शयंस् तद्-रूपम् अनुवर्णयति—प्रतप्तेत्य्-आदिना विद्रावित-दैत्य-दानवम् इत्य् अन्तेन । प्रतप्तं चामीकरं सुवर्णं तद्वत् पिङ्गानि चण्डानि लोचनानि यस्मिन् । सटा जटाः, केसराः कण्ठ-रोमाणि, स्फुरद्भिः सटाकेसरैर् जृम्भितं साटोपमाननं यस्मिन् । करालास् तुङ्गा दंष्ट्रा यस्मिन् । करवालः खड्गस् तद्वच् चञ्चला क्षुरान्तवत् तीक्ष्णा च जिह्वा यस्मिन् । भ्रुकुटी-युक्तेन मुखेनोल्बणम् ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भयानकत्वं विवृण्वन् रूपं विशिनष्टि त्रिभिः । प्रतप्तेति चामीकरं सुवर्णम् । सटा जटाः, केसराः कण्ठ-रोमाणि । करवालः खड्गः । भ्रुकुटि-युक्तेन मुखेन उल्बणम् ॥२०॥

—ओ)०(ओ—

॥ ७.८.२१ ॥

स्तब्धोर्ध्व-कर्णं गिरि-कन्दराद्भुत-

व्यात्तास्य-नासं हनु-भेद-भीषणम् ।

दिवि-स्पृशत् कायम् अदीर्घ-पीवर-

ग्रीवोरु-वक्षः-स्थलम् अल्प-मध्यमम् ॥

**श्रीधरः : **स्तब्धाव् उन्नतौ शङ्कु-वद्-ऊर्ध्वौ कर्णौ यस्मिन् । गिरि-कन्दर-वद्-अद्भुतं व्यात्तं प्रसृत-मास्यं नासे च यस्मिन् । हनू कपोल-प्रान्तौ तयोर् भेदेन विदारणेन भीषणम् । कर्णान्त-मुख-विस्तारम् इत्य् अर्थः । दिवि-स्पृशन् कायो यस्मिन्, अलुक्-समासः । अदीर्घ ह्रस्वा पीवरा च स्थूला ग्रीवा यस्मिन्, उरु विशालं वक्षः-स्थलं यस्मिंस् तच् च तच् च । अल्पं मध्यमम् उदरं यस्मिन् ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हनू कपोल-प्रान्तौ तयोर् भेदेन विदारणेन भीषणम् । अदीर्घा पीवरा च ग्रीवा यस्मिन् । उरु विशालं वक्षः-स्थलं यस्मिन् तत् । अल्प-मध्यं क्षीण-मध्य-देशम् । चन्द्रांशुवद् गौरैः श्वेतैः विष्वग् सर्व-दिक्षु स्थितानां भुजानीकानां शतानि यस्मिंस् तन् नखान्य् आयुध-तुल्यानि यस्मिंस् तत् ॥२१॥

—ओ)०(ओ—

॥ ७.८.२२ ॥

चन्द्रांशु-गौरैश् छुरितं तनूरुहैर्

विष्वग् भुजानीक-शतं नखायुधम् ।

दुरासदं सर्व-निजेतरायुध-

प्रवेक-विद्रावित-दैत्य-दानवम् ॥

**श्रीधरः : **चन्द्रांशु-वद्-गौरैस् तनूरुहैर् लोमभिश् छुरितं व्याप्तम् । विष्वञ्चः सर्वतः प्रसृता भुजास् तेषाम् अनीकानि स्तोमास् तेषां शतानि यस्मिन् । नखान्य् एवायुधानि यस्मिन् । दुरासदं प्राप्तुम् अशक्यम् । सर्वाणि च निजानि चक्रादीनीतराणि वज्रादीनि । त एवायुध-प्रवेकाः शस्त्रोत्तमास् तैर् विद्राविता दैत्य-दानवा येन तद् रूपं मीमांस-मानस्याग्रतः समुत्थित इति पूर्वेणैवान्वयः ॥२३॥

**क्रम-सन्दर्भः : **चन्द्रे । भुजा एवानीकानि सेनाः ॥२२॥

**विश्वनाथः : **सर्वाणि निजानि चक्रादीनि इतराणि वज्रादीनि । तान्य् एवायुध-प्रवेकाः शस्त्रोत्तमैस् तैर् विद्राविता दैत्य-दानवा यत्र तत् ॥२२॥

—ओ)०(ओ—

॥ ७.८.२३ ॥

प्रायेण मेऽयं हरिणोरुमायिना

वधः स्मृतोऽनेन समुद्यतेन किम् ॥

एवं ब्रुवंस् त्व् अभ्यपतद् गदायुधो

नदन् नृसिंहं प्रति दैत्य-कुञ्जरः ।

**श्रीधरः : **तद्-आविर्भाव-प्रयोजन-विमर्श-पूर्वकं तेन सह दैत्यस्य युद्धम् आह सप्तभिः । प्रायेण महा-मायिना हरिणा मेऽयम् एवं-भूतो वधो मृत्यु-हेतुः स्मृतश् चिन्तितः, तथाप्य् अनेन समुद्यतेन किं न किञ्चित् स्याद् इत्य् एवं ब्रुवन्न् अभ्यपतद् इत्य् अन्वयः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद् अद्भुतं दृष्ट्वा तस्य मानसं वाचिकं च व्यवहारम् आह—प्रायेणेति । वधः स्मृत इति प्राक् चिकीर्षित एवासीत् । सम्प्रति संस्मृति-विषयीकृत इत्य् अर्थः । तद् अप्य् अनेन हरिणा समुद्यतेन, तद्-अर्थं कृतोद्यमेनापि किं न किञ्चिद् अपीत्य् अर्थः । मद्-बलस्यानेन दुष्पारत्वाद् इति भावः ॥२३॥

—ओ)०(ओ—

॥ ७.८.२४ ॥

अलक्षितोऽग्नौ पतितः पतङ्गमो

यथा नृसिंहौजसि सोऽसुरस् तदा ।

न तद् विचित्रं खलु सत्त्व-धामनि

स्व-तेजसा यो नु पुरापिबत् तमः ॥

**श्रीधरः : **तदा सोऽसुरो नृसिंहस्यौजसि दीप्तौ पतितः सन्न् अलक्षितोऽदृष्टोऽभूत् । सत्त्व-धामनि सत्त्व-प्रकाशे हरौ पतितस्य तमो-मयस्यादर्शनं, तद् विचित्रं न भवति । तत्र हेतुः—यो हरिः पुरा सृष्ट्य्-आदौ प्रलय-कालीनं तमः नु अहो अपिबत् तस्मिन् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : स नृसिंहस्यौजसि दीप्तौ पतितः सन्न-लक्षितोऽदृष्टोऽभूत् । सत्त्व-धामनि शुद्ध-सत्त्व-प्रकाशे हरौ तत् तस्य तमो-मयस्यादर्शनं न विचित्रम् । यतः पुरा सृष्ट्य्-आदौ प्रलय-कालीनं तमोऽपिबत् महत्-तत्त्वम् अधिष्ठायैव नाशयामास । सम्प्रति साक्षात् स्वरूप-भूतत्वेन किम् उतेति भावः ॥२४॥

—ओ)०(ओ—

॥ ७.८.२५ ॥

ततोऽभिपद्याभ्यहनन् महासुरो

रुषा नृसिंहं गदयोरु-वेगया ।

तं विक्रमन्तं सगदं गदाधरो

महोरगं तार्क्ष्य-सुतो यथाग्रहीत् ॥

**श्रीधरः : **विक्रमन्तं ततस् ततः प्रहरन्तम् । हस्ताद् उत्कलितो निःसृतः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ततस् तस्मात् पृथग्-भूय अभिपद्य अभिमुखम् आगत्य ॥२५॥

—ओ)०(ओ—

॥ ७.८.२६ ॥

स तस्य हस्तोत्कलितस् तदासुरो

विक्रीडतो यद्वद् अहिर् गरुत्मतः ।

असाध्व् अमन्यन्त हृतौकसोऽमरा

घन-च्छदा भारत सर्व-धिष्ण्य-पाः ॥२६॥

**श्रीधरः : **तदा अमरा देवाः सर्वे धिष्ण्य-पा असाध्व् अमन्यन्त । हृतान्य् ओकांसि स्थानानि येषां ते । तद्-भिया घन-च्छदा मेघान्तरिताः सन्तः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हस्ताद् उत्कलितः निःसृतः । घन-च्छदा मद्-वधम् एते दिदृक्षन्त इति दैत्य-कोप-भयान् मेघान्तरिताः । हृतौकसोऽसाध्वमन्यन्तेति ओकांस्य् अपहृतवान् एव सम्प्रति यद्य् अयं जीविष्यति तद् अस्माकम् अवशिष्टान् प्राणान् अपि हरिष्यतीति भावः ॥२६॥

—ओ)०(ओ—

॥ ७.८.२७ ॥

तं मन्यमानो निज-वीर्य-शङ्कितं

यद्-धस्त-मुक्तो नृहरिं महासुरः ।

पुनस् तम् आसज्जत खड्ग-चर्मणी

प्रगृह्य वेगेन गत-श्रमो मृधे ॥

**श्रीधरः : **यस्य हस्तात् स्वयं मुक्तस् तं नृ-हरिं स्व-वीर्याच् छङ्कितं मन्यमानः खड्ग-चर्मणी प्रगृह्य पुनस् तम् आसज्जताभ्यपद्यतेत्य् अन्वयः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निज-वीर्याच् छङ्कितं मन्यमानः । यद् यस्मात् हस्तान् मुक्तः ॥२७॥

—ओ)०(ओ—

॥ ७.८.२८ ॥

तं श्येन-वेगं शत-चन्द्र-वर्त्मभिश्

चरन्तम् अच्छिद्रम् उपर्य्-अधो हरिः ॥

कृत्वाट्ट-हासं खरम् उत्स्वनोल्बणं

निमीलिताक्षं जगृहे महा-जवः ॥

**श्रीधरः : **श्येनस्येव वेगो यस्य तम् । शत-चन्द्र-वर्त्मभिः खड्ग-चर्म-मार्गैर् अच्छिद्रं यथा भवत्य् एवम् उपर्य् अधश् चरन्तम् । अट्टहासम् एवाह—खरं तीव्रम् । उत्स्वनेन महा-शब्देनोल्बणं भयङ्-करम् । तद् भयेन हरेस् तेजसा च निस्तेजसा च निमीलिते आक्षिणी यस्य ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : शत-चन्द्र-वर्त्मभिः खड्ग-चर्म-मार्गैः अट्ट-हास-शब्दोत्थ-भयेन निमीलिते अक्षिणी येन तम् ॥२८॥

—ओ)०(ओ—

॥ ७.८.२९ ॥

विष्वक् स्फुरन्तं ग्रहणातुरं हरिर्

व्यालो यथाखुं कुलिशाक्षत-त्वचम् ।

द्वार्य् ऊरुम् आपत्य ददार लीलया

नखैर् यथाहिं गरुडो महा-विषम् ॥

**श्रीधरः : **ग्रहणे दृष्टान्तः—व्यालो यथा आखुं मूषकम् । विदारणे दृष्टान्तः—अहिं गरुड इवेति । विष्वक् सर्वतः स्फुरन्तं निःसरन्तम् । ग्रहणेनातुरं विवशम् । इन्द्रेण सह युद्धे तत्-प्रयुक्तेन कुलिशेन न क्षता त्वग् अपि यस्य । द्वारि सभायां नान्तर् न बहिः । ऊरे ऊरौ निपात्य, न भूमौ न चाम्बरे । नखैर् न व्यसुभिर् असुमद्भिर् वा । एवं दिवा-नक्त-परिहाराय सन्ध्यायाम् इति द्रष्टव्यम् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **व्यालो यथा मूषिकम् इति ग्रहणे दृष्टान्तः । गरुडो यथाहिम् इति विदारणे । कुलिशेनाक्षता त्वग् अपि यस्य तम् । लीलयावहेलयैव ददार, द्वारि सभायां नान्तर् न बहिः । ऊरम् ऊरौ निपात्य, न भूमौ नाम्बरे । नखैर् न व्यसुभिर् असुमद्भिर् वा । एवं दिवा-नक्तं परिहाय सन्ध्यायाम् इति ज्ञेयम् ॥२९॥

—ओ)०(ओ—

॥ ७.८.३० ॥

संरम्भ-दुष्प्रेक्ष्य-कराल-लोचनो

व्यात्ताननान्तं विलिहन् स्व-जिह्वया ।

असृग्-लवाक्तारुण-केशराननो

यथान्त्र-माली द्विप-हत्यया हरिः ॥

**श्रीधरः : **दैत्य-वधम् उक्त्वा तद् भृत्य-वधम् आह द्वाभ्याम् । संरम्भेण दुष्प्रेक्ष्याणि करालानि लोचनानि यस्य । असृजो रक्तस्य लवैर् बिन्दुभी रक्ताः सिक्ता अत एवारुणाः देसरा आननं च यस्य सः । क इव ? द्विप-हत्यया गज-वधेन हरिः सिंहो यथा एवं-भूतस् तस्यानुचरान् अहन्न् इत्य् उत्तरेणान्वयः । अन्त्राणां माला कण्ठे विद्यते यस्य ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : असृजो रक्तस्य लवैर् बिन्दुभिर् आक्ताः सिक्ताः । अत एवारुणाः केशरा आननं च यस्य । अस्त्र-माली माला-रूपेणास्त्रं दधान इत्य् अर्थः । द्विपहत्यया हस्ति-वधेनान्वितो हरिः सिंह इव ॥३०॥

—ओ)०(ओ—

॥ ७.८.३१ ॥

नखाङ्कुरोत्पाटित-हृत्-सरोरुहं

विसृज्य तस्यानुचरान् उदायुधान् ।

अहन् समस्तान् नख-शस्त्र-पाणिभिर्

दोर्दण्ड-यूथोऽनुपथान् सहस्रशः ॥

**श्रीधरः : **नखाङ्कुरैर् उत्पाटितं हृत्-सरोरुहं यस्य तम् । दोर्-दण्डानां यूथानि समूहा यस्य सः । तं दैत्येन्द्रम् अनु पन्था येषां तान् अन्यान् अपि तत् पक्ष-पातिन इत्य् अर्थः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**नखाङ्कुरैर् उत्पाटितं हृत्-सरोरुहं यस्येति यत्राहम् एव प्रतिक्षणं सुखम् अवसं तत्र सम्प्रत्य् अयं मन्द-भाग्यः क्रोध-मत्सरादिकं तामसं कथं वासयति स्म ? इति द्रष्टुम् इवेत्य् उत्प्रेक्षा सरोरुह-रूपकेण व्यज्यते । अत एवाङ्कुर-रूपकं सरोरुह-भङ्गाभावायैव बुद्ध्यते । दोर्दण्डानां यूथानि यस्य सः । अनुपथान् अनुवर्तिनः ॥३१॥

—ओ)०(ओ—

॥ ७.८.३२ ॥

सटावधूता जलदाः परापतन्

ग्रहाश् च तद्-दृष्टि-विमुष्ट-रोचिषः ।

अम्भोधयः श्वास-हता विचुक्षुभुर्

निर्ह्राद-भीता दिग्-इभा विचुक्रुशुः ॥

**श्रीधरः : **दैत्य-वध-व्यग्रस्य नृ-हरेर् आटोपम् आह द्वाभ्याम् । सटाभिर् अवधूताः प्रकम्पिता जल-दा मेघाः परापतन् व्यशीर्यन्त । (अनेन ये मेघान्तरिता देवास् ते स्पष्टं पश्यन्त्व् इत्य् आज्ञां दत्तवान् इत्य् अर्थः) । तस्य दृष्ट्या विमुष्टं रोचिर् येषां ग्रहाणां ते तिरस्कृत-प्रभा अभवन्न् इति शेषः । दिग्-इभा दिग्-गजाः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तत्-प्रतापान् आह—सटेत्य्-आदि ॥३२॥

—ओ)०(ओ—

॥ ७.८.३३ ॥

द्यौस् तत्-सटोत्क्षिप्त-विमान-सङ्कुला

प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।

शैलाः समुत्पेतुर् अमुष्य रंहसा

तत्-तेजसा खं ककुभो न रेजिरे ॥

**श्रीधरः : **तस्य सटाभिर् उत्क्षिप्तानि विमानानि तैः सङ्कुला व्याप्ता सती प्रोत्सर्पत स्व-स्थानात् प्रकर्षेणोदसर्पच् चलिता ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सटाभिर् ऊर्ध्वं क्षिप्तैश् चालितैर् विमानैः सङ्कुला व्याप्ता क्ष्मा च प्रोत्सर्पत अड्-आगमाभाव-तङाव् आर्षः, तिर्यग्-ऊर्ध्वाधो-भावेनातिष्ठत् ॥३३॥

—ओ)०(ओ—

॥ ७.८.३४ ॥

ततः सभायाम् उपविष्टम् उत्तमे

नृपासने सम्भृत-तेजसं विभुम् ।

अलक्षित-द्वैरथम् अत्यमर्षणं

प्रचण्ड-वक्त्रं न बभाज कश्चन ॥

**श्रीधरः : **स्व-भृत्यैश्वर्यम् आश्चर्यम् इव मत्वा कौतूहलेन तस्यासने उपविष्टं भयात् कोऽपि न बभाज नासेवत । न लक्षितो द्वैरथः प्रतियोद्धा येन ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नृपासने उपविष्टम् इति येन यः पराभूयते तेन तद्-अधिकारः स्वीक्रियते इति राजनीतिं प्रदर्शयन्तम् इव । यद् वा, शाप-ग्रस्तेऽपि स्व-भृत्ये स्वाभिमान-त्यागाभावो व्यञ्जितः । यः किल ऋषिभिर् अपि समर्पितान् अन्यान् उपहतान् मन्त्र-पूतान् अप्य् आसनाद्य् उपहारान् साक्षान् नाङ्गीकरोति, स एव भगवान् स्व-भक्तेनासुर-भाव-ग्रस्तेन शाप-भ्रष्टेनाप्य् अदत्तम् अपि तद्-उपभुक्तम् अपि सिंहासनं यत् स्वयम् एवाध्यास्त, तद्-भक्त-सौभाग्यम् एव सर्वान् दर्शयामासेति तत्त्वम् । सम्भृत-तेजसं सम्पूर्ण-प्रकाशं, न लक्षितो द्वैरथः प्रतियोद्धा येन तम् । न बभाज भयाद् व्यजनादिना भक्तोऽपि कोऽपि नासेवते ॥३४॥

—ओ)०(ओ—

॥ ७.८.३५ ॥

निशाम्य लोक-त्रय-मस्तक-ज्वरं

तम् आदि-दैत्यं हरिणा हतं मृधे ।

प्रहर्ष-वेगोत्कलितानना मुहुः

प्रसून-वर्षैर् ववृषुः सुर-स्त्रियः ॥

**श्रीधरः : **लोक-त्रयस्य मस्तक-ज्वरं शिरो-व्यथेव दुःसहम् । प्रहर्षस्य वेगेनोत्कलितानि विकसितान्य् आननानि यासां ताः सुरस् त्रियः पुष्प-वर्षैर् नृ-हरिं ववृषुः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निशाम्य दृष्ट्वा मस्तकस्य ज्वरम् इव दुःसहम् ॥३५॥

—ओ)०(ओ—

॥ ७.८.३६ ॥

तदा विमानावलिभिर् नभस्तलं

दिदृक्षतां सङ्कुलम् आस नाकिनाम् ।

सुरानका दुन्दुभयोऽथ जघ्निरे

गन्धर्व-मुख्या ननृतुर् जगुः स्त्रियः ॥

**श्रीधरः : **नाकिनां देवानां विमानावलिभिर् नभस् तलं सङ्कीर्णम् आस । सुराणाम् आनकाः पटहास् तैर् जघ्निरे वादिताः । स्त्रियोऽप्सरसो ननृतुः । गन्धर्वा जगुः ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नाकिनां स्वर्गिणाम् आस बभूव ॥३६॥

—ओ)०(ओ—

॥ ७.८.३७-३९ ॥

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र-गिरिशादयः ।

ऋषयः पितरः सिद्धा विद्याधर-महोरगाः ॥

मनवः प्रजानां पतयो गन्धर्वाप्सर-चारणाः ।

यक्षाः किम्पुरुषास् तात वेतालाः सह-किन्नराः ॥

ते विष्णु-पार्षदाः सर्वे सुनन्द-कुमुदादयः ।

मूर्ध्नि बद्धाञ्जलि-पुटा आसीनं तीव्र-तेजसम् ।

ईडिरे नर-शार्दुलं नातिदूरचराः पृथक् ॥

**श्रीधरः : **गन्धर्वाप्सरसश् चारणश् चेत्य् अर्थः ॥३८॥ नर-शार्दूलं पुरुषोत्तमम् ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अप्सरसश् चारणश् इत्य् आर्षम् ॥३८॥

—ओ)०(ओ—

॥ ७.८.४० ॥

श्री-ब्रह्मोवाच—

**नतोऽस्म्य् अनन्ताय दुरन्त-शक्तये **

विचित्र-वीर्याय पवित्र-कर्मणे ।

**विश्वस्य सर्ग-स्थिति-संयमान् गुणैः **

स्व-लीलया सन्दधतेऽव्ययात्मने ॥

**श्रीधरः : **

ब्रह्मादयो नृसिंहस्य शङ्क-याकुल-चेतसः ।

आरादेवास्तुवन् सप्त- दश-श्लोकैः पृथक् पृथक् ॥

अनन्तायानन्तं त्वां प्रसादयितुं नतोऽस्मि । अनन्तत्वे हेतुः, दुरन्ताः शक्तयो यस्य । तत् कुतः ? विचित्राणि वीर्याणि प्रभावा यस्य । तत् किम् अर्थम् । पवित्राणि श्रवण-मात्रेण शोधकानि कर्माणि यस्य । विचित्र-वीर्यत्वम् एवाह—विश्वस्येति । सन्दधते सम्यक् कुर्वते । एवम् अप्य् अव्ययात्मनेऽप्रच्युत-स्वरूपाय ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सनकादीन् कोपयसि स्व-भक्तौ भ्रंशयसि मया वरान् दापयसि दैत्य-गृहे भक्त-राजम् आविर्भावयसि । दैत्यं प्रेर्य भक्तं जिघांसयसि भक्त-रक्षर्थं स्वयम् एवम् आविर्भवसीति तव विधित्सितं न कोऽपि वेत्तीत्य् आह—नतोऽस्मीति । अनन्ताय न ज्ञातुं शक्योऽन्तो यस्य तस्मै अनन्तं त्वां प्रसादयितुम् दुरन्त-शक्तये दुर्ज्ञेयोऽन्तो यासां तथाभूताः शक्तयो यस्य तस्मै विचित्र-वीर्याय क्षण-मात्रेण सर्वाजेय-दैत्य-निहन्त्रे । क्रोध-चेष्टितत्वेऽपि शुद्ध-सत्त्व-मयत्वात् पवित्रं कर्म यस्य तस्मै । सन्दधते कुर्वते ॥४०॥

—ओ)०(ओ—

॥ ७.८.४१ ॥

श्री-रुद्र उवाच—

कोप-कालो युगान्तस् ते हतोऽयम् असुरोऽल्पकः ।

तत्-सुतं पाह्य् उपसृतं भक्तं ते भक्त-वत्सल ॥

**श्रीधरः : रुद्रस् तु तत्-कोप-कालाभिज्ञो नायं कोपावसर इति तं प्रार्थयते—**कोपेति । सहस्र-युगान्तस् तव कोपस्य कालः । कोपायोग्यश् चायम् इत्य् आह—अल्पकोऽत्य्-अल्पः । अतः कोपानिवृत्त्या प्रह्रादं मा हिंसीर् इत्य् आह—तत् सुतम् इति । यद् वा, अकालेऽप्य् अयं कोपोऽस्य भक्तस्य रक्षणार्थम् इति चेत् तर्हीदानीं कोपं त्यक्त्वेमं पाहीत्य् अर्थः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तव घोर-स्वरूपम् आलक्ष्य प्रलय-शङ्कया सर्वे बिभ्यति न त्व् अहम् इत्य् आह—कोपेति । युगान्तः प्रलयः । तव कोपस्य कालः प्रलयः, तत्र संहारे कर्मणि अहम् एव त्वद्-अंशो वर्त एवेति भावः । भक्त-वात्सल्यार्थम् अयं कोप इति चेत् अल्पकस् त्वद्-अपेक्षया अत्यल्पोऽयम् असुरो हत एव । अतस् तत्-सुतं प्रह्लादम् उपसृतम् अनुगतम् ॥४१॥

—ओ)०(ओ—

॥ ७.८.४२ ॥

श्री-इन्द्र उवाच—

प्रत्यानीताः परम भवता त्रायता नः स्व-भागा

दैत्याक्रान्तं हृदय-कमलं त्वद्-गृहं प्रत्यबोधि ।

**काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते **

मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥

**श्रीधरः : **इन्द्रस् तु नास्माकं हविर् भागादि-लाभः पुरुषार्थः, किन्तु त्वत्-परिचर्यैव । भवता पुनर् अनेन संरम्भेण स्व-कार्यम् एव साधितं, तस्य च सिद्धत्वाद् उपसंहरैनं क्रोधम् इत्य् आशयेनाह—हे परम ! नोऽस्मांस् त्रायता रक्षता भवता स्वीया एव भागा दैत्यात् प्रत्याहृताः, अन्तर्यामिणस् तवैव यज्ञेषु भोक्तृत्वात् । अस्मदीयं हृदय-कमलं त्वद्-गृहम् एवैतावत्-पर्यन्तं भय-हेतुत्वेनास्मत्-स्मृति-पथे नित्यं स्थितेन दैत्येन आक्रान्तं व्याप्तं सत् प्रत्यबोधि भयापाकरणेन विकासं नीतम् ।

ननु तव त्रैलोक्यैश्वर्य-साधनार्थमयम् उद्यम इति चेत् तत्राह—काल-ग्रस्तम् इति । ते त्वाम्। हे नारसिंह ! नरस्य सिंहस्य चाकाराभ्याम् आविर्भूत ! अपरैः स्वर्गादिभिः किम् ? ॥४२॥

**क्रम-सन्दर्भः : **इन्द्रस् तु स्वोपकार-विशेषानुमोदनेन तं प्रसादयति—प्रत्येति। स्वभागा अस्मद्-रूप-सेवक-वर्गाः प्रत्यानीताः पुनान-कट एव प्रातिताः, तथा दैत्याक्रान्तम् इति ताव् एताव् एव परमोपकारौ त्रैलोक्य-राज्य-दानं तु यत् किञ्चिद् एवेत्य् आह—कालेति ॥४२॥

**विश्वनाथः : **एतावद् दिन-पर्यन्तं त्वच्-चरण-स्मरण-विमुख एवाहं वर्ते इत्य् आह—हे परम ! नोऽस्मांस् त्रायता रक्षता भवता स्वीया एव भागा दैत्यात् प्रत्यानीताः प्रत्याहृताः, इन्द्रादीनां तद्-दासानाम् अस्माकं वस्तुषु प्रभोस् तवैव स्वत्वौचित्यात् । किं चास्माकं हृदयं खलु कमलं, तत्र शश्वत् तवैव ध्यातत्वात् त्वद्-गृहम् । तच् च कमलं यथा निःश्रीकं रात्रौ तमसाक्रान्तं मलिनं निद्रितं भवेत्, तथैव दैत्य-जन्मारभ्य एतावद्-दिन-पर्यन्तं भयाद् दैत्यस्यैव ध्यातत्वाद् दैत्याक्रान्तं सद् व्यकसद् इत्य् अर्थः । यद् वा, तद्-गृहं वैकुण्ठं प्रति अबोधि तच्-चरण-सेवार्थं बुद्धिं प्रापेत्य् अर्थः ।

ननु भक्ताभिमानिन्न् इन्द्र-पदं गृहाणेति तत्र सत्यम् अहं सकामो भक्ति-शून्यो ग्रहीष्यामीत्य् आह—त्वन्-निष्काम-भक्तानां तु काल-ग्रस्तम् इति । इदम् इन्द्र-पदम् । अपरैर् योगैश्वर्यादिभिः ॥४२॥

—ओ)०(ओ—

॥ ७.८.४३ ॥

श्री-ऋषय ऊचुः—

त्वं नस् तपः परमम् आत्थ यद् आत्म-तेजो

येनेदम् आदि-पुरुषात्म-गतं ससर्क्थ ।

तद्-विप्रलुप्तम् अमून् आद्य शरण्य-पाल

रक्षा-गृहीत-वपुषा पुनर् अन्वमंस्था ॥

**श्रीधरः : **ऋषयस् तु तपः-प्रवर्तनेनास्माकं महान् अनुग्रहः कृत इत्य् आहुः, त्वं नो यदात्थ परमं ध्यान-लक्षणं तपः । परमत्वे हेतुः, आत्मनस् तव तेजः प्रभाव-रूपम् । तद् एवाहुः, येन तपसात्मनि लीनम् इदं विश्वं ससर्ज सृष्टवान् असि तद् अमुना दैत्येन विप्रलुप्तं कुण्ठितं सत् । हे शरण्य-पाल, अद्य रक्षार्थं गृहीतेनानेन वपुषा पुनर् अपि तपः कुरुतेत्य् अनुज्ञातवान् असि तस्मै ते नम इत्य् उत्तर-श्लोक-चतुर्थ-पादस्यानुषङ्गः ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एतावद्-दिन-पर्यन्तम् अस्माभिर् न तपस् तप्तम् इत्य् आहुः—त्वं नोऽस्माकं परमं युष्मद्-ध्यान-मयं यत् तपस् तत् आत्मनः स्वस्य तेजः आत्थ अस्मासु तपः प्रवर्तनार्थम् इति भावः । येन तेजसा तपो-रूपेण आत्मनि लीनम् इदं विश्वं ससर्क्थ अस्राक्षीः । ससर्जेत्य् अपि पाठः । सृजामि तपसैवेदम् इति तद्-उक्तेः । तत् तपः अमुना दैत्येन सौरं तेजो राहुणेव विप्रलुप्तं तत् सम्प्रति रक्सार्थं गृहीतेनानेन वपुषा नृसिंहाकारेण अन्वमंस्थाः पुनर् अप्य् अस्मत्-कर्तव्यत्वेन अनुमतं सम्मतम् अकरोः ॥४३॥

—ओ)०(ओ—

॥ ७.८.४४ ॥

श्री-पितर ऊचुः—

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्

दत्तानि तीर्थ-समयेऽप्य् अपिबत् तिलाम्बु ।

तस्योदरान् नख-विदीर्ण-वपाद् य आर्च्छत्

तस्मै नमो नृहरयेऽखिल-धर्म-गोप्त्रे ॥

**श्रीधरः : **पितरस् तु श्राद्धोद्धरणेन परमोपकारिणं श्री-नृसिंहं प्रणमन्ति। श्राद्धानि श्रद्धा-युक्तानि पिण्डादीनि नोऽस्मभ्यं पुत्रैर् दत्तानि प्रसभं बलाद्यः स्वयम् अधिकृत्य बुभुजे । किं च, तीर्थ-स्नान-समये दत्तं तिलोदकम् अप्य् अपिबत् । तानि च तस्योदराद्य आर्च्छदाहृतवान् । कथं-भूतात् ? नखैर् विदीर्णा वपा यस्य तस्मात् । वपा-विदारणस्य तद् गत-पिण्दोरणम् एव फलम् इति भावः ॥४४॥

**क्रम-सन्दर्भः : **समयेऽप्य् अपिबत् तिलाम्बु इति पाठः स्वामि-सम्मतः । माया नृसिंहम् इति कृपा-प्रधानं नृसिंहम् इत्य् अर्थः ॥४४॥

विश्वनाथः : वयम् एतावद्-दिन-पर्यन्तम् उपवास-परा एवाभूमेत्य् आहुः । श्राद्धानि श्राद्ध-पिण्डादीनि । तीर्थ-स्नान-समये तिलाम्बु तिल-तर्पणोदकं तानि तच् च । तस्य उदराद् य आर्च्छत् आहृतवान् । कीर्तन्भावात् नखरि विदीर्णा वपा मेदो यस्य

—ओ)०(ओ—

॥ ७.८.४५ ॥

श्री-सिद्धा ऊचुः—

यो नो गतिं योग-सिद्धाम् असाधुर्

अहार्षीद् योग-तपो-बलेन ।

नाना दर्पं तं नखैर् विददार

तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥

**श्रीधरः : **योग-सिद्धां गतिम् अणिमादि-सिद्धिम् । नाना अनेके दर्पा यस्य तम् । तस्मै तुभ्यं तं त्वाम् उद्दिश्य ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **योगैश्वर्य-सम्पत्ति-हीना रङ्का एव वयम् एतं कालं प्रतीक्षामहे इत्य् आहुः—यो नो गतिम् अणिमादि-सिद्धिम् । नाना-दर्पनम् अनेक-दर्पवन्तं तम् असुरम् ॥४५॥

—ओ)०(ओ—

॥ ७.८.४६ ॥

श्री-विद्याधरा ऊचुः—

विद्यां पृथग् धारणयानुराद्धां

न्यषेधद् अज्ञो बल-वीर्य-दृप्तः ।

स येन सङ्ख्ये पशुवद् धतस् तं

माया-नृसिंहं प्रणताः स्म नित्यम् ॥

**श्रीधरः : **विद्याम् अन्तर् धानादि-लक्षणाम् । अनुराद्धां सम्प्राप्ताम् । सङ्ख्ये युद्धे ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : वयम् अप्य् एतावद्-दिन-पर्यन्तं विद्या-रहिता एवास्मेत्य् आहुः—विद्याम् अन्तर्धानादि-लक्षणां, राद्धां सिद्धाम्, सङ्ख्ये युद्धे, माया-नृसिंहं कृपा-प्रधानं नृसिंहम् ॥४६॥

—ओ)०(ओ—

॥ ७.८.४७ ॥

श्री-नागा ऊचुः—

येन पापेन रत्नानि स्त्री-रत्नानि हृतानि नः ।

तद्-वक्षः-पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥

**श्रीधरः : **रत्नानि फणासु स्थितानि तथा स्त्री-रत्नानि चोत्तमाः स्त्रियः । आसां स्त्रीणां दत्त आनन्दो येन तत् संबोधनम् । पाठान्तरेऽस्माकं दत्त आनन्दो येनेति ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हृत-धना हृत-स्त्रीका एव वयम् एतावद्-दिन-पर्यन्तं सन्तप्ता एवेत्य् आहुः—येनेति । तद्-वक्षसः पाटनेन विदारणेन आसां स्त्रीणाम् । हे दत्तानन्द ॥४७॥

—ओ)०(ओ—

॥ ७.८.४८ ॥

श्री-मनव ऊचुः—

मनवो वयं तव निदेश-कारिणो

दितिजेन देव परिभूत-सेतवः ।

भवता खलः स उपसंहृतः प्रभो

करवाम ते किम् अनुशाधि किङ्करान् ॥

**श्रीधरः : **नृसिंहेनावलोकिताः सन्तो मूर्ध्नि बद्धाञ्जलयो मनवः प्रोचुः, मनवो वयं धर्म-पालकाः । परिभूताः सेतवो वर्णाश्रम-धर्म-मर्यादा येषां ते । अनुशाध्य् अनुशिक्षय ॥४८॥

**क्रम-सन्दर्भः : **मनवोऽत्र वर्तमानम् अनुसहितास् तपः-स्थिताः अतीता इत्य् अर्थः ते च भाविनोऽप्य् आत्मानम् एनं मत्वा निवेदयन्ति स्मेति मनव ऊचुर् इत्य् उक्तम् ॥४८॥

**विश्वनाथः : **नृसिंहेनाकस्माद् अवलोक्यमाना मनवो मूर्ध्नि बद्धाञ्जलयो वयं त्वद्-आज्ञा-कारिणो मनवो भवामेत्य् आहुः—एवम् अग्रेऽप्य् अवतारिका ज्ञेया मनव इति । सेतवो वर्णाश्रम-धर्म-मर्यादाः ॥४८॥

—ओ)०(ओ—

॥ ७.८.४९ ॥

श्री-प्रजापतय ऊचुः—

प्रजेशा वयं ते परेशाभिसृष्टा

न येन प्रजा वै सृजामो निषिद्धाः ।

स एष त्वया भिन्न-वक्षा नु शेते

जगन्-मङ्गलं सत्त्व-मूर्तेऽवतारः ॥

**श्रीधरः : प्रजा-पतयोऽपि तद् अवलोकिताः प्रोचुःहे परेश, ते त्वया अभिसृष्टा वयं प्रजेशा येन निषिद्धाः सन्तः प्रजा न सृजामः स एष भिन्नं वक्षो यस्य नु निश्चितं शेते मृतः । अतः परं प्रजाः सृजाम इति हृष्य्-अन्तः प्राहुः—**हे सत्त्व-मूर्ते, तवायम् अवतारो जगतो मङ्गलम् ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हे परेश, हे परमेश्वर ! निषिद्धाः, अरे मा प्रजाः सृजतेत्य् आज्ञप्ताः । हे सत्त्व-मूर्ते ! तवावतारो जगन्-मङ्गलम् ॥४९॥

—ओ)०(ओ—

॥ ७.८.५० ॥

श्री-गन्धर्वा ऊचुः—

वयं विभो ते नट-नाट्य-गायका

येनात्मसाद् वीर्य-बलौजसा कृताः ।

स एष नीतो भवता दशाम् इमां

किम् उत्पथस्थः कुशलाय कल्पते ॥

मध्वः : नटनं तु कथा-बन्धो न;त्यकं भाव-दर्शनम् इति गान्धर्वे ॥५०॥

**श्रीधरः : **गन्धर्वा अपि तद् अवलोकिताः प्रोचुः—हे विभो ! वयं ते त्वदीया नटा नर्तका नाट्ये नृत्ये गायकाश् च येन स्वाधीनाः कृताः । कथं-भूतेन ? वीर्यं शौर्यं बलं शक्तिस् ताभ्याम् ओजः प्रभावो यस्य तेन । स एष भवता इमां दशां मृतिं नीतः । उचितं चैतद् इत्य् आहुः—किम् इति ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **येनदैत्येनात्म-सात्कृताः सन्तस् तस्यैव नटा नाट्ये तस्यैव गायकाश् चाभूमेत्य् अर्थः ॥५०॥

—ओ)०(ओ—

॥ ७.८.५१ ॥

श्री-चारणा ऊचुः—

हरे तवाङ्घ्रि-पङ्कजं भवापवर्गम् आश्रिताः ।

यद् एष साधु-हृच्-छयस् त्वयासुरः समापितः ॥

**श्रीधरः : **भवापवर्गं संसार-निवर्तकम् । आश्रयणे हेतुः, यद्य् अस्मात् साधूनां हृदि भय-जनकत्वेन शेते तिष्ठतीति तथा स एषोऽसुरस् त्वया समापितोऽन्तं नीतः ॥५१॥

**क्रम-सन्दर्भः : **हरे इति पूर्वम् अनाश्रयणे हेतुः साधु-हृच्-छय इति । सम्प्रत्य् आश्रयणे हेतुः समापित इति ॥५१॥

विश्वनाथः : साधूनां हृदि त्वच्-छयायाम् अपि शेते इति सः । अत एव तद् असहिष्णुनेव त्वया समार्पितः अन्तं नीतः । अत एवाद्यारभ्य तेषां हृदि त्वम् एव शेष्वेति भावः ॥५१॥

—ओ)०(ओ—

॥ ७.८.५२ ॥

श्री-यक्षा ऊचुः—

वयम् अनुचर-मुख्याः कर्मभिस् ते मनो-ज्ञैस् ।

त इह दिति-सुतेन प्रापिता वाहकत्वम् ।

स तु जन-परितापं तत्-कृतं जानता ते

नरहर उपनीतः पञ्चतां पञ्च-विंश ॥

**श्रीधरः : **मनो-ज्ञैः कर्मभिस् तवानुचरेषु मुख्यास् ते वयं दिति-सुतेन शिविकावाहकत्वं प्रापिताः । पञ्चतां मृत्युम् । हे पञ्च-विंश चतुर्-विंशति-तत्त्व-नियामक ॥५२॥

**क्रम-सन्दर्भः : **हे नरहरे! ते तव मनोज्ञैः कर्मभिर् अनुचरा ये शिव-कुबेरादयः ते मुख्याः स्वामिनो येषां ते वयम् ॥५२॥

विश्वनाथः : ते तव मनोज्ञैः कर्मभिर् अनुचरेषु मुख्याः । यद् वा, अनुचरास् त्वद्-भक्ता एव मुख्या येषां ते वयम् अपि शिविका-वाहकत्वं प्रापिताः । तेन दिति-सूतेन कृतं जन-परितापं जानता त्वया पञ्चतां मृत्युं, हे पञ्चविंश, चतुर्विंशति-तत्त्व-नियामक ॥५२॥

—ओ)०(ओ—

॥ ७.८.५३ ॥

श्री-किम्पुरुषा ऊचुः—

वयं किम्पुरुषास् त्वं तु महा-पुरुष ईश्वरः ।

अयं कुपुरुषो नष्टो धिक्-कृतः साधुभिर् यदा ॥

**श्रीधरः : किं पुरुषास् तु त्वां स्तोतुं के वयं वराकाः ? इत्य् आहुःवयम् इति । वयं किम्पुरुषास् तुच्छ-प्राणिनः, त्वं तु महान् अद्भुत-प्रभावः पुरुषः । नन्व् अयं महान् दैत्यो हत इति किं न वर्ण्यत इत्य् आशङ्क्य, कियद् एतत् ? इत्य् अहुः—**अयम् इति । यदा साधुभिर् भगवद्-भक्तैस् तिरस्कृतः, तदैव नष्टः ॥५३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.८.५४ ॥

श्री-वैतालिका ऊचुः—

सभासु सत्रेषु तवामलं यशो

गीत्वा सपर्यां महतीं लभामहे ।

यस् ताम् अनैषीद् वशम् एष दुर्जनो

द्विष्ट्या हतस् ते भगवन् यथामयः ॥

**श्रीधरः : **सत्रेषु यज्ञेषु । ते त्वया हतः, एतद्-दिष्ट्या भद्रं कृतम् ॥५४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ताम् अस्मत्-सम्प्रदानक-सपर्यां वशं स्वाधीनतां विशेषेण आनैषीत् नीतवान् ॥५४॥

—ओ)०(ओ—

॥ ७.८.५५ ॥

श्री-किन्नरा ऊचुः—

वयम् ईश किन्नर-गणास् तवानुगा

दितिजेन विष्टिम् अमुनानुकारिताः ।

भवता हरे स वृजिनोऽवसादितो

नरसिंह नाथ विभवाय नो भव ॥

**श्रीधरः : **अमुना दिति-जेन विष्टिं निर्मूल्यं कर्मानु निरन्तरं कारिताः, अतः परं नो विभवाय समृद्धये भव ॥५५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विष्टिं निर्मूल्यं कर्म अनु निरन्तरं कारिताः । वृजिनो दुःखदः ॥५५॥

—ओ)०(ओ—

॥ ७.८.५६ ॥

श्री-विष्णु-पार्षदा ऊचुः—

अद्यैतद् धरि-नर-रूपम् अद्भुतं ते

दृष्टं नः शरणद सर्व-लोक-शर्म ।

सोऽयं ते विधिकर ईश विप्र-शप्तस्

तस्येदं निधनम् अनुग्रहाय विद्मः ॥

**श्रीधरः : **नोऽस्माकं भक्तानां हे शरण-द आश्रय-प्रद, सर्वेषां लोकानां शर्म मङ्गलम् एतद् अद्भुतं रूपम् अद्यैव दृष्टं, न तु पूर्वम् । विधि-करः किङ्करः ।

**क्रम-सन्दर्भः : **एते विष्णु-पार्षदाः श्री-विकुण्ठानन्दन-सम्बन्धिनो ज्ञेयाः श्री-नृसिंह-देवेनैकीभूय तस्यावतरणात् ॥५६॥

**विश्वनाथः : **सोऽयं हिरण्यकशिपुस् ते विधिकरो दास एव विप्रैः सनकादिभिः शप्तः ॥५६॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे

युधिष्ठिर-नारद-संवादे

हिरण्यकशिपु-वधः

अष्टमोऽध्यायः ॥

॥ ७.८ ॥


  1. थिस् लिने इस् नोत् इन् अल्ल् एदितिओन्स्। ↩︎