०७ बालानुशासनं नाम

॥ ७.७.१ ॥

श्री-नारद उवाच—

एवं दैत्य-सुतैः पृष्टो महा-भागवतोऽसुरः ।

उवाच तान् स्मयमानः स्मरन् मद्-अनुभाषितम् ॥

श्रीधरः :

सप्तमे मातृ-गर्भ-स्थे स्वस्मिन् नारद-भाषितम् ।

प्रह्रादो वर्णयाम् आस शिष्य-प्रत्यय-सिद्धये ॥

अश्रावि नारदाद् एतन् मया गर्भ इतीरितुम् ।

तत्-प्रस्ताव-कथाम् आह पद्यैः षोडशभिः सुधीः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

सप्तमे नारदात् प्राप यज् ज्ञानं मातृ-गर्भगः ।

तद् एवोपादिशद् बालान् भक्तिं प्रेम च तत्-फलम् ॥१॥

—ओ)०(ओ—

॥ ७.७.२ ॥

श्री-प्रह्राद उवाच—

पितरि प्रस्थितेऽस्माकं तपसे मन्दराचलम् ।

युद्धोद्यमं परं चक्रुर् विबुधा दानवान् प्रति ॥

**श्रीधरः : **अस्माकं पितरि हिरण्यकशिपौ । स्व-कृतेनैव पापेन पापोऽसाव-भक्षि भक्षित इति हर्षेण वदन्तो युद्धोद्यमं चक्रुः ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.३-५ ॥

पिपीलिकैर् अहिर् इव दिष्ट्या लोकोपतापनः ।

पापेन पापोऽभक्षीति वदन्तो वासवादयः ॥

तेषाम् अतिबलोद्योगं निशम्यासुर-यूथपाः ।

वध्यमानाः सुरैर् भीता दुद्रुवुः सर्वतो दिशम् ॥

कलत्र-पुत्र-वित्ताप्तान् गृहान् पशु-परिच्छदान् ।

नावेक्ष्यमाणास् त्वरिताः सर्वे प्राण-परीप्सवः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.६ ॥

व्यलुम्पन् राज-शिबिरम् अमरा जय-काङ्क्षिणः ।

इन्द्रस् तु राज-महिषीं मातरं मम चाग्रहीत् ॥

**श्रीधरः : **राज्ञः शिबिरम् आवासं व्यलुम्पन् सर्वस्वापहारेण नाशितवन्तः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **राज्ञो हिरण्यकशिपोः शिबिरम् आवासं व्यलुम्पन् सर्वस्वापहारेण नाशितवन्तः ॥६॥

—ओ)०(ओ—

॥ ७.७.७ ॥

नीयमानां भयोद्विग्नां रुदतीं कुररीम् इव ।

यदृच्छयागतस् तत्र देवर्षिर् ददृशे पथि ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.८ ॥

प्राह नैनां सुर-पते नेतुम् अर्हस्य् अनागसम् ।

मुञ्च मुञ्च महा-भाग सतीं पर-परिग्रहम् ॥

**श्रीधरः : **अनागसं निरपराधाम् एनां नेतुं मार्हसीति प्राह ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.९ ॥

श्री-इन्द्र उवाच—

आस्तेऽस्या जठरे वीर्यम् अविषह्यं सुर-द्विषः ।

आस्यतां यावत् प्रसवं मोक्ष्येऽर्थ-पदवीं गतः ॥

**श्रीधरः : **अविषह्यं दुःसहम् । अतोऽनया प्रसव-पर्यन्तम् अत्रास्यताम् । ततश् चार्थस्य पदवीं मार्गं गतः प्राप्तः सन् । जातं पुत्रं हत्वा मोक्ष्यामीत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आस्यतां मत्-कारागार एव प्रसव-पर्यन्तम् अनया स्थीयतां, अर्थ-पदवीं स्वार्थ-मार्गं गतः प्राप्तः सन् मोक्ष्ये जातं पुत्रं हत्वा इमां मोक्ष्यामीत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ७.७.१० ॥

श्री-नारद उवाच—

अयं निष्किल्बिषः साक्षान् महा-भागवतो महान् ।

त्वया न प्राप्स्यते संस्थाम् अनन्तानुचरो बली ॥

**श्रीधरः : **साक्षात् स्व-गुणैर् एव महान् न तु पित्रादि-संबन्धात् । त्वया हेतु-भूतेन संस्थां मृत्युं न यास्यति । तत्र हेतवः—निष्किल्बिष इत्य् आदयः ॥१०॥

**क्रम-सन्दर्भः : **अनन्तानुचर इति । तस्य पूर्वत एव भक्ति-संस्कारो दर्शितः ॥१०॥

विश्वनाथः : त्वया हेतु-भूतेन संस्थां मृत्युम् ॥१०॥

—ओ)०(ओ—

॥ ७.७.११ ॥

इत्य् उक्तस् तां विहायेन्द्रो देवर्षेर् मानयन् वचः ।

अनन्त-प्रिय-भक्त्यैनां परिक्रम्य दिवं ययौ ॥

**श्रीधरः : **अनन्तस्य प्रियो योऽहं, स वा प्रियो यस्य तस्य मम भक्त्या एनां प्रदक्षिणी-कृत्य ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अनन्त-प्रिये मयि या भक्तिस् तया हेतुना परिक्रम्य एतद्-गर्भस्थाय हरेर् भक्ताय नम इति प्रणम्य च ॥११॥

—ओ)०(ओ—

॥ ७.७.१२ ॥

ततो मे मातरम् ऋषिः समानीय निजाश्रमे ।

आश्वास्येहोष्यतां वत्से यावत् ते भर्तुर् आगमः ॥

**श्रीधरः : **इहोच्यताम् इत्य् आहेति शेषः ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.१३ ॥

तथेत्य् अवात्सीद् देवर्षेर् अन्तिके साकुतो-भया ।

यावद् दैत्य-पतिर् घोरात् तपसो न न्यवर्तत ॥

**श्रीधरः : **अन्ति समीपे ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अन्ति अन्तिके ॥१३॥

—ओ)०(ओ—

॥ ७.७.१४ ॥

ऋषिं पर्यचरत् तत्र भक्त्या परमया सती ।

अन्तर्वत्नी स्व-गर्भस्य क्षेमायेच्छा-प्रसूतये ॥

**श्रीधरः : **अन्तर्वत्नी गर्भिणी । इच्छया भर्तुर् आगमनानन्तरं प्रसूतये । एवम् अपि स्व-गर्भस्य क्षेमाय ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**भर्तुर् आगमनानन्तरं या इच्छया प्रसूतिस् तस्यै ॥१४॥

—ओ)०(ओ—

॥ ७.७.१५ ॥

ऋषिः कारुणिकस् तस्याः प्रादाद् उभयम् ईश्वरः ।

धर्मस्य तत्त्वं ज्ञानं च माम् अप्य् उद्दिश्य निर्मलम् ॥

**श्रीधरः : **तस्याः शोक-शान्त्यै धर्मस्य तत्त्वं भक्ति-लक्षणं, ज्ञानम् आत्मानात्म-विवेकस् तद् उभयं प्रादात् । ईश्वरः समर्थः ॥१५॥

**क्रम-सन्दर्भः : **ऋषिर् इति । शोक-मात्र-शान्त्यै धर्मस्य तत्त्वं साधारण-स्वरूपं ज्ञानं चात्म-विषयं प्रादात् तत्रैव माम् अप्य् उद्दिश्य निर्मलं यद् धर्मस्यैतस्य तत्त्वं भागवताख्यम्—न शोभते ज्ञानम् अलं निरञ्जनं [भा।पु। १.५.१२] इति न्यायेन ज्ञानं च यत् तद्-आख्यं तत्-प्रदात् तत्-कथने तत् तद् अपि प्रतिपादितवान् । किन्तु सा गृहीतुं न शशाकेति भावः ॥१५॥

विश्वनाथः : उभयं गर्भ-क्षेमं स्वेच्छा-प्रसवं च, निर्मलमिति विशेषणात् धर्मस्य तत्त्वं भक्ति-योगं भागवत-सम्मतं ज्ञानं च । माम् अपीत्य् अपि-कारेण मन्-मातरम् अपि ॥१५॥

—ओ)०(ओ—

॥ ७.७.१६ ॥

तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस् तिरोदधे ।

ऋषिणानुगृहीतं मां नाधुनाप्य् अजहात् स्मृतिः ॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **तत् त्व् इति तद् अपीत्य् अर्थः । तेनैव स्व-मातरि श्री-नारदस्य सम्यग्-अनुग्रहो नाभूद् इति व्यञ्जतम् ॥१६॥

**विश्वनाथः : **तर्हि मातुस् ते भक्तिः कथं न दृश्यते इत्य् अत आह—तत् त्व् इति । तवापि बालत्व्त् काल-दैर्घ्याच् च कथं न तिरोदधे ? तत्राह—ऋषिणेति । तेन मन्मातुस् तद्-अनुगृहीतत्वाभावात् स्त्रीत्व-काल-दैर्घ्ये तत्र प्राभूताम् इति भावः ॥१६॥

—ओ)०(ओ—

॥ ७.७.१७ ॥

भवताम् अपि भूयान् मे यदि श्रद्दधते वचः ।

वैशारदी धीः श्रद्धातः स्त्री-बालानां च मे यथा ॥

**श्रीधरः : **भूयाद् भवेत् । वैशारदी । स्वार्थे तद् धितः । देहाद्य्-अहङ्कार-च्छेद-निपुणेत्य् अर्थः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भूयाद् इत्य् आशीर्वादेन स्वस्मिन् वर्तमानं श्री-नारदानुग्रहं तेष्व् अपि भक्ति-कारणत्वेनाशास्ते । यदि भवन्तः श्रद्दधते, तदा वैशारदी विशारदो भगवांस् तद्-विषया श्रद्धा इति मद्-अनुग्रहात् श्रद्धा श्रद्धातो भक्तिः भक्तेः प्रेमेत्य् अग्रिम-ग्रन्थाद् अवगन्तव्यम् ॥१७॥

—ओ)०(ओ—

॥ ७.७.१८ ॥

जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः ।

फलानाम् इव वृक्षस्य कालेनेश्वर-मूर्तिना ॥

**मध्वः :**षड्-विकाराः शरीरस्य न विष्णोस् तद्-गतस्य च ।

तद्-अधीनं शरीरं च ज्ञात्वा तन् ममतां त्यजेत् ॥ इति च ।

हेतुत्वाद् विष्णधीनत्वं शरीरस्य ॥१८॥

**श्रीधरः : **कासौ वैशारदी धीर्? इत्य् अपेक्षायां नारदोक्तम् एव देहात्म-विवेक-प्रकारम् आह—जन्मेति दशाभिः । जन्माद्या जायते अस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यतीत्य् एवं-भूता इमे षड्-भावा विकारा वृक्षे सत्य् एव यथा फलानां दृश्यन्ते तद्वद् आत्मनि तथैव स्थिते देहस्य दृष्टा इत्य् अर्थः । ईश्वरी विकार-समर्था मूर्तिर् यस्य तेन ॥१८॥

**क्रम-सन्दर्भः : **तत्र देहाद्य्-अध्यास-परित्यागार्थं स्व-मातृ-प्रतिपन्नम् आत्म-ज्ञान-मात्रम् आपातत आह—जन्माद्या इत्य् आदिभिः ॥१८॥

विश्वनाथः : केषाञ्चिन् मुमुक्षु-भक्तानां तु ज्ञानम् अपेक्षितम् इति तद् आह—जन्माद्या इति दशभिः । जायते अस्ति वर्धतेविपरिणमते अपक्षीयते नश्यतीत्य् एवं-भूता भावाः षड्-विकाराः सदा स्थितस्य वृक्षस्य प्रतिवर्षं फलानाम् एव यथा, न तु वृक्षस्य तथैव नित्य-स्थितस्यैवात्मनो देहस्यैव षड् इमे दृष्टाः न त्व् आत्मनः, ईश्वरस्य मूर्तिः समष्टि-व्यष्ट्य्-आत्मकं शरीरं यतो भवति तेन ॥१८॥

—ओ)०(ओ—

॥ ७.७.१९ ॥

आत्मा नित्योऽव्ययः शुद्ध एकः क्षेत्र-ज्ञ आश्रयः ।

अविक्रियः स्व-दृग् हेतुर् व्यापकोऽसङ्ग्य् अनावृतः ॥

**श्रीधरः : **तद् एवं देह-धर्मैस् तद् वैलक्षण्येनात्मनो देहाद् भेदो दर्शितः, इदानीम् आत्म-धर्मैर् एव भेदं स्फुटयंस् तद् अहङ्कारादिकं त्याजयति—आत्मेति । आत्मा नित्यः, अविनाशी वारेऽयम् आत्मा [बृ।आ।उ। ४.५.१४] इति श्रुतेः । अव्ययोऽपक्षय-शून्यः, ऋचो अक्षरे परमे व्योमन् [ऋ।वे। १.१६४.२१] इति श्रुतेः । शुद्धः, निरवद्यं निरञ्जनम्[श्वे।उ। ६.१९] इति श्रुतेः । एकः, एकम् एवाद्वितीयम् [बृ।आ।उ। ३.८.८] इति श्रुतेः । क्षेत्र-ज्ञः, विज्ञातारम् अरे केन विजानीयात् [बृ।आ।उ। २.४.१४] इति श्रुतेः । आश्रयः, यस्मिन् द्यौः पृथिवी चान्तरिक्षम् [मु।उ। २.२.५] इति श्रुतेः । अविक्रियः, निष्कलं निष्क्रियं शान्तम्[श्वे।उ। ६.१९] इति श्रुतेः । स्व-दृक्, आत्म-ज्योतिः सम्राड् इति होवाच इति श्रुतेः । हेतुः, स इमाल् लोकान् असृजत [ऐ।उ। १.२] इति श्रुतेः । व्यापकः, सत्यं ज्ञानम् अनन्तम्[तै।उ। २.१.१] इति श्रुतेः । असङ्गी, असङ्गो ह्य् अयं पुरुषः[बृ।आ।उ। ४.३.१५] इति श्रुतेः । अनावृतः, पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते [ई।उ। १] इति श्रुतेः ॥१९॥

**क्रम-सन्दर्भः : **एको न तु देहेन्द्रियादि-सघात-रूपः । क्षेत्रज्ञो ज्ञातृत्वादि-धर्मकः इन्द्रियादीनाम् आश्रयः स्वाभाविक-ज्ञातृत्वाद् एवाविक्रियः स्वदृक् स्वस्मै स्वयं प्रकाशः हेतुः सर्गादेर् निमित्तम् । तद् उक्तं श्री-सूतेन हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः [भा।पु। १२.७.१८] इति व्यापको व्याप्त-शीलः असङ्गी अनावृतश् च स्वतः स्व-प्रकाश-रूपत्वात् ॥१९॥

**विश्वनाथः : **जीवात्मनि षड् विकाराभाव-भावना त्वं-पदार्थ-शुद्धिः । सा च तत्-पदार्थस्य परमात्मनश् चिन्तन-रूपया भक्त्यैव स्याद् इत्य् अतः परमात्म-स्वरूपम् आह—आत्मेति द्वाभ्याम् । आत्मा परमात्मा । नित्यः, अविनाशी वारेऽयम् आत्मा [बृ।आ।उ। ४.५.१४] इति श्रुतेः । अव्ययोऽपक्षय-शून्यः, ऋचोऽक्षरे परमे व्योमन् [ऋ।वे। १.१६४.२१] इति श्रुतेः । शुद्धः, निरवद्यं निरञ्जनम्[श्वे।उ। ६.१९] इति श्रुतेः । एकः, एकम् एवाद्वितीयम् [बृ।आ।उ। ३.८.८] इति श्रुतेः । क्षेत्र-ज्ञः, विज्ञातारम् अरे केन विजानीयात् [बृ।आ।उ। २.४.१४] इति श्रुतेः । आश्रयः, यस्मिन् द्यौः पृथिवी चान्तरिक्षम् [मु।उ। २.२.५] इति श्रुतेः । अविक्रियः, निष्कलं निष्क्रियं शान्तम्[श्वे।उ। ६.१९] इति श्रुतेः । स्व-दृक्, आत्म-ज्योतिः सम्राड् इति होवाच इति श्रुतेः । हेतुः, स इमाल् लोकान् असृजत [ऐ।उ। १.२] इति श्रुतेः । व्यापकः, सत्यं ज्ञानम् अनन्तम्[तै।उ। २.१.१] इति श्रुतेः । असङ्गी, असङ्गो ह्य् अयं पुरुषः[बृ।आ।उ। ४.३.१५] इति श्रुतेः । अनावृतः, पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते [ई।उ। १] इति श्रुतेः ॥१९॥

—ओ)०(ओ—

॥ ७.७.२० ॥

एतैर् द्वादशभिर् विद्वान् आत्मनो लक्षणैः परैः ।

अहं ममेत्य् असद्-भावं देहादौ मोहजं त्यजेत् ॥

**श्रीधरः : **एतैर् द्वादशभिर् आत्मनो लक्षणैः परैः श्रेष्ठैर् विवेक-समर्थैर् देहाद् भेदं विद्वान् असद्-भावं मिथ्या-बुद्धिं त्यजेत् ॥२०॥

**क्रम-सन्दर्भः : **मोहजं त्यजेद् इति । देहाद्य्-अधिकरणक-मोहजस्यैव त्यागो, न तु स्वरूप-भूतस्येत्य् अहम्-अर्थस्य इति व्यज्यते । तद् एवं जीवस् तद्-अंशत्वात् सूक्ष्मः ज्योती-रूप इत्य् एके । तथैव हि कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्दे प्रभास-खण्डे जीव-निरुपणे,

न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् ।
न शक्यं कथितुं वापि सूक्ष्मश् चानन्त-विग्रहः ॥
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
तस्मात् सूक्ष्मतरो देवः स चानन्त्याय कल्पते ।
आदित्य-वर्णं सूक्ष्माभम् अब्-बिन्दुम् इव पुष्करे ।
नक्षत्रम् इव पश्यन्ति योगिनो ज्ञान-चक्षुषा ॥ इति ॥२०॥

**विश्वनाथः :**आत्मनः परमात्मनः परैर् जीवात्म-लक्षणेभ्योऽप्य् उत्कृष्टैः नित्य-चिन्तितैर् इति शेषः । देहादौ देहे दैहिकेषु च असद् अवास्तव-भावं परमात्म-चिन्तनं विना सत्य् अपि विवेके दिग्-भ्रम इव मोहो न निवर्तत इति भावः ॥२०॥

—ओ)०(ओ—

॥ ७.७.२१ ॥

स्वर्णं यथा ग्रावसु हेम-कारः

क्षेत्रेषु योगैस् तद्-अभिज्ञ आप्नुयात् ।

क्षेत्रेषु देहेषु तथात्म-योगैर्

अध्यात्म-विद् ब्रह्म-गतिं लभेत ॥

**श्रीधरः : **नन्व् एवं विविक्तात्म-ज्ञानिनोऽप्य् अपरोक्षानुभवेन ब्रह्मता-प्राप्तिः कथं स्यात्, यतोऽहङ्कारादिकं त्यजेत्? इत्य् अपेक्षायां तत्-प्राप्ति-प्रकारं स-दृष्टान्तम् आह—स्वर्णाकर-क्षेत्रेषु स्फुरत् स्वर्ण-कणेषु ग्रावसु योगैर् धमनाद्य्-उपायैस् तद्-अभिज्ञ उपायाभिज्ञो हेम-कारो यथा स्वर्णं प्राप्नुयात् । आत्म-योगैर् आत्म-प्राप्त्य्-उपायैः । ब्रह्म-गतिं ब्रह्मताम् । अध्यात्म-वित् आत्माधिकृत-कार्य-कारण-सङ्घात-ज्ञाता ॥२१॥

**क्रम-सन्दर्भः : **तत्-पदार्थ-ज्ञानम् अप्य् आह—स्वर्णम् इति ॥२१॥

**विश्वनाथः : **नन्व् एवं परमात्मा क्व वर्तेत इति चेत् स्व-देहेऽपीति तद् उपलब्धि-प्रकारं स-दृष्टान्तम् आह—स्वर्णम् इति । ग्रावसु स्फुरत्-स्वर्ण-कण-पाषाणेषु क्षेत्रेषु स्वर्णाकर-स्थानेषु योगैर् धमनादिभिर् गुरु-वक्त्र-शिक्षितैर् एवोपायैस् तम् उपायाभिज्ञो हेम-कारो यथा स्वर्णम् आप्नुयात्, तथैव देह-रूप-क्षेत्रेषु आत्म-योगैर् आत्म- आत्म-प्राप्त्य्-उपायैश् चिन्तनाद्यैः । ब्रह्म-गतिं ब्रह्मणः परमात्मनो गतिम् उपलब्धिम् ॥२१॥

—ओ)०(ओ—

॥ ७.७.२२ ॥

अष्टौ प्रकृतयः प्रोक्तास् त्रय एव हि तद्-गुणाः ।

विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात् ॥

**मध्वः **अभिमान्य् अपेक्षया विष्णुः पञ्चविंश इति स्मृतः ।

जडाद्य्-अपेक्षया जीवः सम्यग् ज्ञेयो हरिः स्मृतः ॥ इति च ॥२२॥

**श्रीधरः : **अध्यात्म-विवेकम् आत्म-प्राप्त्य्-उपायम् आह—अष्टाव् इति त्रिभिः । मूल-प्रकृतिर् महद्-अहङ्कारौ पञ्च-तन्-मात्राणि चेत्य् अष्टौ । त्रयः सत्त्वादयस् ते च प्रकृति-गुणा एव, न तु भिन्नाः । एकादशेन्द्रियाणि पञ्च-महा-भूतानि चेति षोडश । पुमान् आत्मा एकः प्रोक्तः कपिलादिभिर् आचार्यैः ।

एकत्वे हेतुः—एषु साक्षित्वेनान्वयात् । तद् उक्तं—

मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त ।
षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥इति ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अध्यात्मविद् इत्य् उक्तम् अतोऽध्यात्म-वस्तुन्य् आह—अष्टाव् इति सार्धेन । मूल-प्रकृतिर् महद्-अहङ्कारौ पञ्च तन्-मात्राणि चेत्य् अष्टौ । त्रयः सत्त्वादयो विकाराः । एकादशेन्द्रियाणि पञ्च महा-भूतानि चेति षोडश । आचार्यैः कपिलादिभिर् प्रोक्तः पुमान् आत्मा एकः । समन्वयात् एष सम्यग् अन्वयं सम्बन्धं प्राप्य वर्तमानः । यद् वा, समन्वयं सम्बन्धम् अतति सततं प्राप्नोति । अतः सातत्य-गमने क्विब्-अन्तः ॥२२॥

—ओ)०(ओ—

॥ ७.७.२३ ॥

देहस् तु सर्व-सङ्घातो जगत् तस्थुर् इति द्विधा ।

अत्रैव मृग्यः पुरुषो नेति नेतीत्य् अतत् त्यजन् ॥

**श्रीधरः : **जगज् जङ्गमम् । तस्थुः स्थावरम् । अत्रैव सर्व-सङ्घातात्मके देह एव पुरुषो मृग्योऽन्वेष्टव्यः । सुशकं चैतद् इत्य् आह—नेति नेतीत्य् अन्यापोहे क्रियमाणे स्वयम् एवातत् त्यजन् । अनात्म-वर्गात् पृथग् उपलभ्यमान इत्य् अर्थः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सर्व-सङ्घात उक्त-लक्षण-सर्व-वस्तु-समूह-रूपः जगत् जङ्गमो मनुष्यादिः, तस्थुः स्थावरो वृक्षादिः । अत्रैव देह एव पुरुषः परमात्मा मृग्योऽन्वेष्टव्यः । अन्वेषण-प्रकारम् आह—नेति नेतीत्य् एतत् तद्-भिन्नं वस्तु त्यजन् त्यजद्भिर् इत्य् अर्थः ॥२३॥

—ओ)०(ओ—

॥ ७.७.२४ ॥

अन्वय-व्यतिरेकेण विवेकेनोशतात्मना ।

स्वर्ग-स्थान-समाम्नायैर् विमृशद्भिर् असत्वरैः ॥

**श्रीधरः : **मणिषु सूत्रम् इव सर्वत्रानुस्यूतत्वेनान्वयः । अत एव मणिभ्यः सूत्रस्येवैकैक-व्यतिरेकश् च । तयोर् द्वन्द्वैक्यम् । तेन यो विवेकः पूर्वोक्तो वा तेन उशता शुद्धेनात्मना मनसा । सर्ग-स्थान-समाम्नायैः सृष्टि-स्थिति-संहारैः । यतो वा इमानि भूतानि जायन्ते इत्य्-आदि-श्रुत्य्-उक्त-सर्गाद्य्-अनुसन्धानेनेत्य् अर्थः । विमृशद्भिर् विचारयद्भिः असत्वरैर् अव्यग्रैर् मृग्य इति पूर्वेणान्वयः ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु तर्हि देहोऽतन्मय एव अतत्-त्यागे शून्यम् एवावशिष्यते ? इत्य् अत आह—अन्वयेति । देहे परमात्मनोऽन्वयः, परमात्मनि देह-व्यतिरेको यः प्रसिद्धस् तेन जडानाम् अपि बुद्ध्यादीनां यद् अन्वयेनैव प्रवृत्तिः । बुद्ध्यादि-व्यतिरिक्तश् च यः स परमात्मा देहस्थ इति यो विवेकस् तेन तथा उशता शुद्धेनात्मना मनसा सर्ग-स्थान-समाम्नायैः सृष्टि-स्थिति-संहारैः परामृष्टैर् इति शेषः । यतो वा इमानि भूतानि जायन्ते इत्य्-आदि-श्रुत्य्-उक्त-सर्गाद्य्-अनुसन्धानेनेत्य् अर्थः । असत्वरैर् अव्यग्रैर् मृग्यः ॥२४॥

—ओ)०(ओ—

॥ ७.७.२५ ॥

बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति वृत्तयः ।

ता येनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः ॥

**मध्वः : **बुद्धेर् जीवस्य ।

सत्त्व-बुद्ध्यादि-शब्दैस् तु जीवोऽपि क्वचिद् ईर्यते ।
जागृद्-आद्यैः कर्म चैव सुख-दुःखे च तस्य हि ॥
जागृद्-आदेः परो द्रष्टा सुख-निष्ठो हरिः स्मृतः ।
स जीवेन सह स्थानात् तत्-स्वरूपः प्रदृश्यते ॥
अज्ञ-दृष्ट्य्-अनज्ञ-दृष्ट्या यथा गन्ध-युतोऽनिलः ।
अदृष्टे जीव-परयोर् भेदस्याप्नोति संसृतिम् ।
अभेद-निश्चयाद् याति तमो नास्त्य् अत्र संशयः ॥ इति च ॥२५॥

**श्रीधरः : **विमर्श-प्रकारम् आह—बुद्धेर् इति द्वाभ्याम् । अध्यक्षः साक्षी ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**विमर्श-प्रकारम् आह—बुद्धेर् इति द्वाभ्याम् । यद्-अन्विताया एव बुद्धेस् तिस्रोऽवस्था उद्भवन्ति, स परः पुरुषः परमात्मा ॥२५॥

—ओ)०(ओ—

॥ ७.७.२६ ॥

एभिस् त्रि-वर्णैः पर्यस्तैर् बुद्धि-भेदैः क्रियोद्भवैः ।

स्वरूपम् आत्मनो बुध्येद् गन्धैर् वायुम् इवान्वयात् ॥

मध्वः : बुद्धि-भेदैर् जीवानां तारतम्य-ज्ञापकैः ॥२६॥

**श्रीधरः : **अत एभिर् बुद्धि-भेदैः परिणामैः पर्यस्तैः परितः क्षिप्तैर् अनात्म-धर्मत्वेन निरस्तैः । बुद्धि-धर्मत्वे हेतुः—त्रि-वर्णैस् त्रि-गुणात्मकैः । क्रियोद्भवैः कर्म-जन्यैः । बुद्धेर् एव त्रि-गुणात्मकत्वात् कर्म-कर्तृत्वाच् च तस्या एवैता अवस्थाः । आत्मा तु बुद्ध्य्-अन्वयात् तद् अवस्थावान् इवाभाति न तत्त्वत इत्य् आत्मनः स्वरूपं बुध्येज् जानीयाद् इत्य् अर्थः । अत्र दृष्टान्तः, कुसुम-धर्मैर् गन्धैस् तद् आश्रयं वायुम् इव ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यस् त्व् एतद् बुद्ध्य्-अवस्था-त्रयवान् आभाति, स जीवात्मेत्य् आह—एभिर् बुद्धि-भेदैः परिणामैः जागरादिभिः त्रिवर्णैस् त्रि-गुणात्मकैः क्रियोद्भवैः कर्म-जन्यैः पर्यस्तैः अनात्म-धर्मत्वेन निरस्तैर् अपि एभिर् एव । आत्मनोऽशुद्ध-जीवस्य स्वरूपं बुद्ध्येत् जानीयात्, यथान्वयात् सम्बन्ध-मात्राद् एव गन्धैः पुष्पादि-गन्धैर् वायुं गन्धवन्तं जानीयात् । यद्-अन्विता बुद्धिः प्रवर्तते, स परमात्मा, यो बुद्ध्य्-अन्वितः स जीवात्मेति भेदः ॥२६॥

—ओ)०(ओ—

॥ ७.७.२७ ॥

एतद् द्वारो हि संसारो गुण-कर्म-निबन्धनः ।

अज्ञान-मूलोऽपार्थोऽपि पुंसः स्वप्न इवार्प्यते ॥

**मध्वः :**दुःख-रूपोऽपि संसारो बुद्धि-पूर्वम् अवाप्यते ।

यथा स्वप्ने शिरश्-छेदं स्वयं कारण्नो वशः ।
ततो दुःखम् अवाप्येत तथा जागरितोऽपि तु ।
जानन् अप्य् आत्मनो दुःखम् अवशस् तु प्रवर्तते ॥ इति च ॥२७॥

**श्रीधरः : **ननु तर्हि यथा कुसुमोपाधिकोऽपि वायोर् गन्धो विवेक-ज्ञानेन निवर्तते एवम् आत्मनः संसारो न निवर्तत इत्य् आशङ्क्याह—एतद् द्वारो बुद्धि-द्वारकस् तद् अवस्था-द्वारको वा संसारो न स्वतः । हि यस्माद् बुद्धेर् ये गुणाः कराणि च तैर् निबध्यत इति । तथा स चाज्ञान-मूलोऽतोऽपार्थो मिथ्या-भूतोऽपि स्वप्न इवेष्यते । वायोस् तु गन्ध-द्रव्य-संबन्धस्य वास्तवत्वाद् विषमो दृष्टान्तः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एषा बुद्धिर् एव द्वारं यस्य सः । अत एव गुण-कर्माभ्याम् तदीयाभ्याम् नितरां बन्धनं यत्र सः । किं च, न ज्ञानं यस्य तथाभूतं मूलं यस्य सः । यस्य मूलं न ज्ञायत इत्य् अर्थः । अपार्थः अवस्तु-भूतोऽपि जीवस्य संसारो देहाध्यास-रूपः स्वप्न इव अर्प्यते, तस्मिन् पुंसि परमेश्वर-शक्त्यैवेत्य् अर्थः ॥२७॥

—ओ)०(ओ—

॥ ७.७.२८ ॥

तस्माद् भवद्भिः कर्तव्यं कर्मणां त्रि-गुणात्मनाम् ।

बीज-निर्हरणं योगः प्रवाहोपरमो धियः ॥

मध्वः- धियः प्रवाहोऽस्यापरमः परमेश्वरे रमणम् ॥२८॥

**श्रीधरः : **यस्माद् एवं निवृत्तिर् घटते तस्माद् बीजम् अज्ञानं तस्य निर्हरणं दहनम् । किं तत्? योगः । कथं-भूतः? धियः प्रवाहं जाग्रद्-आदि-रूपम् उपरमयतीति तथा॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**तस्माद् तन्-निवृत्तये यतितव्यम् इत्य् आह—तस्माद् इति । बीजं प्रकृती बुद्धिः, तस्य निर्हरणं दहनम् । दहनम् एव किम् ? तद् आह—धियो बुद्धेः प्रवाहानां जागराद्य्-अवस्थानाम् उपरमः स एव । योगः फलं—योगोऽपूर्वार्थ-सम्प्राप्तौ सङ्गति-ध्यान-युक्तिषु इति मेदिनी॥२८॥

—ओ)०(ओ—

॥ ७.७.२९ ॥

तत्रोपाय-सहस्राणाम् अयं भगवतोदितः ।

यद् ईश्वरे भगवति यथा यैर् अञ्जसा रतिः ॥

**श्रीधरः : **तद् एवं ज्ञान-प्रकारम् उक्त्वा तत् साधनं धर्मस्य तत्त्वं नारदोक्तम् एवाह—तत्रेति पञ्चभिः । यैर् धर्मैर् यथा यथावद् अनुष्ठितैर् वा भगवति श्री-नारायणे रतिर् इति यद् अयम् उपायो भगवतोक्तः । तथा च गीता-सूक्तम्—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद् अर्पणम् ॥ [गीता ९.२७] इति ।
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता ११.५५] इत्य् आदि च ॥२९॥

**क्रम-सन्दर्भः : **अथ स्व-प्रतिपत्तिं प्रतिपादयति—तत्रोपायेत्य् आदिभिः । तत्र पूर्वोक्ते त्रिगुणात्मक-कर्मणां बीज-निर्हरणेऽपि उपाय-सहस्रैः सिद्धानां मध्ये अयम् एव उपायो भगवता श्री-नारदेन मां प्रत्युपदिष्टः यैर् उपाय-सहस्रैः सिद्धात् यद्य् अस्माद् उपायात् यथा यथावत् ईश्वरे भगवति अञ्जसा व्यवधानान्तरं विनैव रतिः प्रीतिर् भवति । अतः कर्म-बीज-निर्हरणम् अपि तस्यानुषङ्गिकम् एव फलम् इति भावः ।

यद् वा, तत्र बीज-निर्हरणे निमित्ते यान्य् उपाय-सहस्राणि तेषाम् अप्य् अयम् एवोपायो भगवता श्री-नारदेनोदितः । अनेनैवोपायेन कृत-कृत्यानि भवन्तीत्य् अर्थः । कोऽसौ? तत्राह—यैर् उपायैः सिद्धात् यद्य् अस्माद् उपायाद् ईश्वरे भगवति यथा यथावद् अञ्जसा उपायान्तर-व्यवधानं विना रतिर् भवतीति ॥२९॥

विश्वनाथः : तत्र बीज-निर्हरणे विषये उपाय-सहस्राणां मध्ये अयम् उपायो भगवतोदितः । अन्ये त्व् अन्यैर् मुनिभिर् उदितत्वाद् अस्मात् ते निकृष्टा एवेति भावः । अयम् एव कः ? तत्राह—यद् इति । यैर् गुरु-शुश्रूषणाद्य्-अङ्गैर् उत्पन्नात् यद् यस्माद् भक्ति-योगाद् रतिर् भवति । अयं भक्ति-योग एवोपाय इत्य् अन्वयः । अत्र पञ्चम्य्-अन-यत्-पदात् अञ्जसा-शब्दाच् च रतिर् एव भक्ति-योगस्य मुख्यं फलं, बीज-निर्हरणं त्व् आनुषङ्गिकम् अयत्नत एव शुद्ध-भक्तानां भवेत् । यद् उक्तं—जरत्य् आशु या कोषं निगीर्णम् अनलो यथा [भा।पु। ३.२५.३०] इति ॥२९॥

—ओ)०(ओ—

॥ ७.७.३० ॥

गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च ।

सङ्गेन साधु-भक्तानाम् ईश्वराराधनेन च ॥

**श्रीधरः : **तत्रैवान्तरङ्गान् धर्मान् आह—गुरोः शुश्रूषया भक्त्या प्रेम्णा सर्वेषां लब्धानाम् अर्पणेन च ॥३०॥

**सनातनः **[ह।भ।वि। १०.४९५]: गुरोः शुश्रूषया तस्यैव भक्त्या प्रेम्णा, तस्मिन्न् एव सर्वेषां लब्धानां लाभानाम् अर्पणेन च । साधवः सद्-आचारा ये भक्ता वैष्णवाः, तेषां सङ्गेन ॥३०॥

**क्रम-सन्दर्भः : **गुरु-शुश्रुषयेति त्रिकम् ॥३०॥

विश्वनाथः : धर्मस्य तत्त्वं ज्ञानं चेति द्वयम् उपदेष्टव्यत्वेन यत् प्रक्रान्तं तत्र ज्ञानम् उक्त्वा धर्म-तत्त्वं भक्ति-योग एवेति द्योतयन् पूर्वोक्तानि यत्-पद-वाच्यानि तद्-अङ्गान्य् आह—गुर्व् इति त्रिभिः । गुरोः शुश्रूषया स्नपन-संवाहनादिकया, तथा सर्वेषां लब्धानां वस्तूनाम् अर्पणेन च तच् चार्पणं भक्त्यैव, न तु प्रतिष्ठादिना हेतुना । साधवः सद्-आचारा ये भक्ताः, तेषां सङ्गेनेति दुराचारा भक्ताः सेव्या वन्द्या दर्शनीयाश् च, न तु सङ्गार्थम् उपादेया इति भावः ॥३०-३१॥

—ओ)०(ओ—

॥ ७.७.३१ ॥

श्रद्धया तत्-कथायां च कीर्तनैर् गुण-कर्मणाम् ।

तत्-पादाम्बुरुह-ध्यानात् तल्-लिङ्गेक्षार्हणादिभिः ॥

**श्रीधरः : **तस्य लिङ्गानां मूर्तीनाम् ईक्षणम् अर्हणम् आदिर् येषां वन्दनादीनां तैश् च॥३१॥

**सनातनः **[ह।भ।वि। १०.४९५]: तल्-लिङ्गानां श्री-मूर्तीनाम् ईक्षणम् अर्हणं चादिर् येषां वन्दनादीनां तैश् च ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.३२ ॥

हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः ।

इति भूतानि मनसा कामैस् तैः साधु मानयेत् ॥

**सनातनः **[ह।भ।वि। १०.४९६]: कामैश् च तत्-तद्-इष्ट-दानैः, एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् इत्य् अनेन सर्वेषाम् एवान्वयः । अत्र च ईश्वराराधनादीनि भक्त्य्-अङ्गानि, तत्-साधनानि च गुरु-शुश्रूषादीनि ज्ञेयानि ॥३२॥

अन्यैर् न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.३३ ॥

एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे ।

वासुदेवे भगवति यया संलभ्यते रतिः1** ॥**

**श्रीधरः : **निर्जितः षणां काम-क्रोध-लोभ-मोह-मद-मत्सराणाम् इन्द्रियाणां वा वर्गो यैः ॥३३॥

**सनातनः **[ह।भ।वि। १०.५२२]: एवम् उक्त-गुरु-शुश्रूषादि-प्रकारेण निर्जितः षण्णां काम-क्रोध-लोभ-मोह-मद-मात्सर्याणाम् इन्द्रियाणां वा वर्गो यैस् तैः । भक्तिर् ईश्वराराधन-रूपैव । यया भक्त्या रतिः प्रेमा ॥३३॥

**क्रम-सन्दर्भः : **अथ तस्यैवोपायस्यैवाङ्गान्य् उक्त्वान्यान्य् आह—एवम् इति । एवं पूर्वोक्त-गुरु-शुश्रूषादि-प्रकारेणैव, न तु तद्-अर्थ-पृथक्-यत्नेन निर्जित-कर्म-बीज-लक्षण-कामादिभिर् जनैः पुनर् अपि भक्तिः क्रियत एव ॥३३॥

विश्वनाथः : एवम् एतत्-प्रकारया भक्त्यैव निर्जितः षण्णां कामादीनाम् इन्द्रियाणां वा वर्गो यैस् तैर् गुरु-शुश्रूषणाद्यैर् अङ्गैर् भक्तिर् इति पूर्वोक्तं बुद्धि-प्रवाहोपरम-रूपम् आनुषङ्गिकं फलम् उक्तम् । भक्तेर् मुख्य-फलम् आह—ययेति । रतिं प्रेमाणम् ॥३३॥

—ओ)०(ओ—

॥ ७.७.३४ ॥

निशम्य कर्माणि गुणान् अतुल्यान्

वीर्याणि लीला-तनुभिः कृतानि ।

यदातिहर्षोत्पुलकाश्रु-गद्गदं

प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥

**श्रीधरः : **भगवद्-रतेर् लिङ्गान्य् आह—निशम्येति त्रिभिः । गुणान् भक्त-वात्सल्यादीन् । अति-हर्षेणोद्गताः पुलका अश्रूणि च तैर् गद्गदं यथा भवति, एवं प्रोत्कण्ठो मुक्त-कण्ठ उद्गायति ॥३४॥

**सनातन-गोस्वामी- **गुणान् भक्त-वात्सल्यादीन् । वीर्याणि दैत्य-मारणादीनि पराक्रमांश् च । अतिहर्षेणोद्गताह्, पुलका अश्रूणि च तैर् गद्गदं यथा भवति, एवं सोत्कण्ठ उच्चैर् गायति ॥३४॥ [ह।भ।वि। ११.६३७]

**क्रम-सन्दर्भः : **निशम्येति त्रिकम् ॥३४॥

विश्वनाथः : रतेश् चिह्नान्य् आह—निशम्येति । कर्माणि दधि-पयश् चौर्यादीनि गुणान् भक्त-वात्सल्यादीन् वीर्याणि गोवर्धनोद्धरण-कंस-वधादीनि ॥३४॥

—ओ)०(ओ—

॥ ७.७.३५ ॥

यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य्

आक्रन्दते ध्यायति वन्दते जनम् ।

मुहुः श्वसन् वक्ति हरे जगत्-पते

नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**सनातन-गोस्वामी- **आत्मनि भगवतिमतिर् यस्य ।तथा-भूतः सन्, अत एव गत-त्रपः निर्लज्जः सन् ॥३५॥ [ह।भ।वि। ११.६३८]

विश्वनाथः : हरे जगत्-पते नारायण ! इति वाच्यं वक्ति आत्मना मनसा च मतिर् मननं यस्य सः ॥३५॥

—ओ)०(ओ—

॥ ७.७.३६ ॥

तदा पुमान् मुक्त-समस्त-बन्धनस्

तद्-भाव-भावानुकृताशयाकृतिः ।

निर्दग्ध-बीजानुशयो महीयसा

भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥

मध्वः- तद्-भाव-भावः तद् यथा-स्वरूपं भक्तिः ।

केचिद् भक्ता विनृत्यन्ति गायन्ति च यथेप्सितम् ।
केचित् तूष्णीं जपन्त्य् एव केचिच् चोभय-कारिणः ॥ इति च ॥३६॥

**श्रीधरः : **तस्य भावश् चेष्टादिस् तस्य भावो भावना तेनानुकृते आशयाकृती मनः-शरीरे यस्य । निर्दग्धं बीजम् अज्ञानम् अनुशयो वासना च यस्य सः सम्यग् एति प्राप्नोति ॥३६॥

**सनातन-गोस्वामी :**तस्य भावश् चेष्टादिस् तस्य भावो भावना, तेनानुकृते । यद् वा, तस्मिन् हरौ भावः, प्रेमा येषां जनानां तेषां भावो बाह्याभ्यन्तर-चेष्टा, तस्य अनुकृतम् अनुकारो ययोस् ।तथा-भूते आशयाकृती मनः-शरीरे यस्य । निर्दग्धं बीजम् अज्ञानम् अनुशयो वासना च यस्य सः । सम्यग् एति प्राप्नोति, नित्य-सङ्गी भवतीत्य् अर्थः । इति बाह्यान्तर-विक्रिया-रूप-लक्षणं माहात्म्यं चोक्तम् । एवम् अग्रेऽप्य् ऊह्यम् ॥३६॥ [ह।भ।वि। ११.६३९]

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तस्मिन् भावा दास्य-सख्यादयस् तेषां भावना दासोऽहं सखाहम् इत्य् आद्यात्मनो मननं तेन अनुकृते अनुरूपीकृते आशयाकृती मनः-शरीरे येन सः । न च शरीर-सद्भाव एव संसार आशङ्क्य इत्य् आह—निर्दग्धं पूर्वम् एव विनष्टं बीजं प्राकृती बुद्धिः अनुशयो विषण्ण-वासना च यस्य सः । महीयसा राग-मार्गवता सा मतिर् अधोक्षज-संयोगं प्राप्नोति ॥३६॥

—ओ)०(ओ—

॥ ७.७.३७ ॥

अधोक्षजालम्भम् इहाशुभात्मनः

शरीरिणः संसृति-चक्र-शातनम् ।

तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास्

ततो भजध्वं हृदये हृद्-ईश्वरम् ॥

मध्वः : ब्रह्म-निर्वाण-सुखं ब्रह्म-निमित्त-निर्वाण-सुखम् ॥३७॥

**श्रीधरः : **ततः किम् ? अत आह—अधोक्षजस्यालम्भं मनसा स्पर्शम् । पाठान्तरे तस्याश्रयणम् । अशुभात्मनः अशुभो रागादि-युक्त आत्मा मनो यस्य । संसृति-चक्र-शातनं तन्-निवर्तकं बुधा विदुः । तद् एव ब्रह्मणि निर्वाणं लयो मोक्षस् तद्-आत्मकं सुखं विदुः । हृद्-ईश्वरम् अन्तर्यामिणम् ॥३७॥

**क्रम-सन्दर्भः : **नन्व् अधोक्षजालम्भे सति संसारो विद्यते न वा ? तत्राह—अधोक्षजेति। शातनम् इति शीलार्थे ल्युट् । तत्-स्वभावतः स्वत एव सोऽपि यातीति भावः ॥३७॥

**विश्वनाथः : **ननु ब्रह्म-निर्वाण-सुखम् एव पुरुषार्थ-सार इति प्रसिद्धिः ? सत्यं, तद् अपि अधोक्षज-संयोग-सुख एवान्तर्भवतीत्य् आह—अधोक्षजस्यालम्भं मनसा ईषत् स्पर्शम् साक्षात् प्राप्तिं वा संसृति-चक्रस्य शातनं निवर्तकं विदुर् जानन्ति । तद् एव ब्रह्म-निर्वाण-सुखं च अधोक्षजस्यैव ब्रह्मत्वात् तच्-चरण-माधुर्यानुभवस्यैव परमानन्द-रूपत्वेन निर्वाण-सुख-रूपत्वात्, तत्र दास्यादि-भावत्वेन ममता-विशेषोत्थं तु सुखम् अधिकम् अपारम् एव यथा सर्व-जन-सुभगे परमाह्लादके चन्द्रे द्श्रीए यः स्वाभाविक आनन्दः, तस्मात् कोटि-गुणित आनन्दः स्व-पुत्रे खोडान्ध-वधिरेऽपि सर्व-जन-दुर्भगेऽपि ममतोत्थः स्याद् इतो भगवति दास्यादि-भाववत्त्वे पर-ब्रह्मणि स्वरूपोत्थ एव परमानन्दावधिस् तत्रैव यदि ममतोत्थेऽपि स्यात्, तदा किं वक्तव्यम् आनन्द-पारावार-परः-सहस्र-सम्मर्द-मध्य-पातित्व-सौभाग्योत्कर्षः महा-महत्त्वम् । अत एवोक्तं—या निर्वृतिस् तनु-भृतां [भा।पु। ४.९.१०] इत्य्-आदि । अन्यत्र च—

ब्रह्मानन्दो भवेद् एष चेत् परार्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्बोधेः परमाणु-तुलाम् अपि ॥ इति ।

अधोक्षजालम्बम् इति पाठे अधोक्ष्ज आलम्बो विषयालम्बनो यत्र तम् अर्थाद् दास्य-सख्यादि-रसम् । हृदीश्वरं हृदय-नाथम् इति दास्यादि-भाव-विशिष्टा भक्तिर् व्यञ्जिता ओ॥३७॥

—ओ)०(ओ—

॥ ७.७.३८ ॥

कोऽतिप्रयासोऽसुर-बालका हरेर्

उपासने स्वे हृदि छिद्रवत् सतः ।

स्वस्यात्मनः सख्युर् अशेष-देहिनां

सामान्यतः किं विषयोपपादनैः ॥

मध्वः : अशेष-देहिनां सामान्यतो हृदि-स्थत्वेन ॥३८॥

**श्रीधरः : **भक्तिर् अशक्येति च न मन्तव्यम् इत्य् आह—क इति । छिद्र-वद् आकाश-वद् धृदि तिष्ठतः । विषयाणाम् उपपादनैर् अर्जनैः किम् ? तत्र हेतुः, सर्व-देहिना सामान्यतः विषय-निष्ठत्वे सूकरादि-साधारण्यापत्तेर् इत्य् अर्थः । नचैवम् आदौ पौनर् उक्त्य्-अदोषः, नारदोक्तानुवाद-रूपत्वाद् अस्य प्रकरणस्य ॥३८॥

**क्रम-सन्दर्भः : **सामान्यतः सख्युः, सयुजौ सखायौ [मु।उ। ३.१.१] इत्य् उक्तेः ॥३९॥

**विश्वनाथः : **सर्व-श्रेष्ठयापि भक्तेः सुख-साध्यत्वम् आह—कोऽतीति । छिद्रवत् आकाशवत् आत्मनो जीवस्य सख्युः—सयुजौ सखायौ [मु।उ। ३.१.१] इति श्रुतेः । न हि सख्युर् उपासने किञ्चित् कष्टम् इति भावः । उपास्यस्य स्वतो विद्यमानत्वात् प्रियत्वाच् च उपासनस्य च चरणारविन्दादि-रूपत्वात् तत्-साधनानां श्रोत्रादीनां च स्वत एव विद्यमानात्वान् न हि कुतश्चन काचन तत्-सामग्री आनेतव्येति भावः । वरं नरक-साधनेऽपि श्रमोऽस्तीति व्यञ्जयन् वैषयिक-सुख-प्रवृत्तिं निन्दति । विषयाणां स्रक्-चन्दन-वनितादीनाम् उपपादनैर् द्रव्यादिनोपार्जनैः किम् ? तत्र हेतुः—सर्व-देहिनां सामान्यतः विषय-निष्ठत्वे शूकरादि-साधारण्यापत्तेर् इति भावः ॥३८॥

—ओ)०(ओ—

॥ ७.७.३९ ॥

रायः कलत्रं पशवः सुतादयो

गृहा मही कुञ्जर-कोश-भूतयः ।

सर्वेऽर्थ-कामाः क्षण-भङ्गुरायुषः

कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥

**श्रीधरः : **अनर्थकं विषयार्जनम् इत्य् आह—रायोऽर्थाः क्षण-भङ्गुरम् आयुर् यस्य तस्यैते कियत् प्रियं कुर्वन्ति । तद् उक्तम् इतिहासेषु—

धनं हि पुरुषो लोके पुरुषं धनम् एव वा ।
अवश्यम् एकं त्यजति तस्मात् किं धन-तृष्णया ॥ इति ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : न च कामिनां वैषयिक-सुखम् अपि वस्तोत्ऽस्तीत्य् आह—रायो धनानि । अर्थाश् च कामाश् च ॥३९॥

—ओ)०(ओ—

॥ ७.७.४० ॥

एवं हि लोकाः क्रतुभिः कृता अमी

क्षयिष्णवः सातिशया न निर्मलाः ।

तस्माद् अदृष्ट-श्रुत-दूषणं परं

भक्त्योक्तयेशं भजतात्म-लब्धये ॥

**श्रीधरः : **

यन् न दुःखेन संभिन्नं न च ग्रस्तम् अनन्तरम् ।
अभिलाषोपपन्नं च सुखं स्वर्ग-पदास्पदम् ॥

इत्य् एवं-भूताः स्वर्गादि-भोगा अपि न सेवार्हा इत्य् आह—एवं हीति । क्षयिष्णुत्वे हेतुः—क्रतुभिः कृता इति, तद् यथेह कर्म-चितो लोकः क्षियत एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छा।उ। ८.१.६] इति श्रुतेः । अत एव पुण्य-तारतम्येन सातिशयाः न च निर्मलाः, स्पर्धादि-मत्त्वात् । न विद्यते दृष्टं श्रुतं च दूषणं यस्मिन् ॥४०॥

**क्रम-सन्दर्भः : **आत्म-लब्धये आत्मनः स्वस्यैवेशस्य लब्धये । यद् वा, आत्मनो लब्धये भजत । अन्यथात्मानं नाशयिष्यथ इति भावः ॥४०॥

**विश्वनाथः : **स्वर्गादि-भोगा अपि न सेवार्हा इत्य् आह—एवं हीति । क्षयिष्णवः—तद् यथेह कर्म-चितो लोकः क्षियत एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते ॥ [छा।उ। ८.१.६] इति श्रुतेः । पुण्य-तारतम्येन सातिशयाः स्पर्धादिमयत्वाच् च न निर्मलाः । आत्म-लब्धये आत्म-कर्तृक-हरि-प्राप्तये परमात्म-प्राप्तये वा । यद् वा, आत्म-रूप-रत्नस्य प्राप्त्यै । अन्यथा तत्-स्वर्ग-नरकादि-कर्दमे क्षिप्तं नष्टम् एव जानीतेति भावः ॥४०॥

—ओ)०(ओ—

॥ ७.७.४१ ॥

यद्-अर्थ इह कर्माणि विद्वन्-मान्य् असकृन् नरः ।

करोत्य् अतो विपर्यासम् अमोघं विन्दते फलम् ॥

**श्रीधरः : **किं च, यद् अध्यर्थ्य यत् सङ्कल्प्य । अतः सङ्कल्पिताद् विपर्यासं विपरीतं फलम् अमोघम् अवश्यं प्राप्नोति ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद्-अर्थे यत् सङ्कल्प्यम् । अतः सङ्कल्पिताद् विपर्यासं विपरीतं फलम् अमोघम् अवश्यं प्राप्नोति ॥४१॥

—ओ)०(ओ—

॥ ७.७.४२ ॥

सुखाय दुःख-मोक्षाय सङ्कल्प इह कर्मिणः ।

सदाप्नोतीहया दुःखम् अनीहायाः सुखावृतः ॥

मध्वः : अप्रयासेन करणम् अनीहा प्रोच्यते बुधैः इति च ॥४२॥

**श्रीधरः : **तद् एव दर्शयति, सुखायेति । ईहया इच्छया क्रियया वा । यः पूर्वम् अनीहाया हेतोः सुखेनावृतो व्याप्त आसीत् स ईहया दुःखम् आप्नोत्य् एव ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अनीहाया हेतोः सुखावृतः सुख-परिपूर्णः स्यात् ॥४२॥

—ओ)०(ओ—

॥ ७.७.४३ ॥

कामान् कामयते काम्यैर् यद्-अर्थम् इह पूरुषः ।

स वै देहस् तु पारक्यो भङ्गुरो यात्य् उपैति च ॥

**श्रीधरः : **किं च, कामान् भोगान् । काम्यैर् विषयैः कर्मभिर् वा । पारक्यः श्वादि-भोग्यो न त्व् आत्मीयो भङ्गुरश् च ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काम्यैः कर्मभिः । अपैति नश्यति । उपैति पुनर् अपि दुःख-दानार्थम् उत्पादयति ॥४३॥

—ओ)०(ओ—

॥ ७.७.४४ ॥

किम् उ व्यवहितापत्य- दारागार-धनादयः ।

राज्य-कोश-गजामात्य- भृत्याप्ता ममतास्पदाः ॥

**श्रीधरः : **किम् उ देहाद्य्-अवहिता अपत्यादयो ममता-विषयाः पारक्या इति वक्तव्यम् ॥४४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.७.४५ ॥

किम् एतैर् आत्मनस् तुच्छैः सह देहेन नश्वरैः ।

अनर्थैर् अर्थ-सङ्काशैर् नित्यानन्द-रसोदधेः ॥

**श्रीधरः : **किं च, स्वयं पुरुषार्थ-रूपस्य किम् एतैर् अति-तुच्छैर् इत्य् आह—किम् एतैर् इति ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मनः स्वस्य नित्यो भजन-रूप आनन्द-रसोदधिर् यस्य तस्य भक्त-जनस्य ॥४५॥

—ओ)०(ओ—

॥ ७.७.४६ ॥

निरूप्यताम् इह स्वार्थः कियान् देह-भृतोऽसुराः ।

निषेकादिष्व् अवस्थासु क्लिश्यमानस्य कर्मभिः ॥

**श्रीधरः : **भोगावसराभावाच् चैतैः क उपयोग इत्य् आह—निरूप्यताम् इति । प्राचीनैः कर्मभिः क्लिश्यमानस्य । कर्मभिः कियान् स्वार्थ इति वाऽन्वयः ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **क्लिश्यमानस्येति । भोगावसर एव नास्तीति भावः ॥४६॥

—ओ)०(ओ—

॥ ७.७.४७ ॥

कर्माण्य् आरभते देही देहेनात्मानुवर्तिना ।

कर्मभिस् तनुते देहम् उभयं त्व् अविवेकतः ॥

**श्रीधरः : **ननु कर्मसु समाप्तेषु भोगावसरः स्यात् ? तत्राह—कर्माणीति । न चेदं कर्म तस्य फलं देहादिकं च परमार्थ इत्य् आह—उभयं कर्म च देहं च । अविवेकतोऽज्ञानेनैव तनुते ॥४७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **देहेन मानुष-शरीरेण कर्म-साधकेन देहं स्वर्गि-शरीरम् उभयं तद्-देह-द्वयम् अविवेकतः तद्-उभयस्याहं कर्म कुर्वे इति अहं कर्म-फलं स्वर्गम् उपभुञ्ज इत्य् अभिमान-मूलत्वात् तद्-अभिमानस्याविवेक-मूलत्वात् आत्मनश् च देह-द्वयातिरिक्तत्वात् ॥४७॥

—ओ)०(ओ—

॥ ७.७.४८ ॥

तस्माद् अर्थाश् च कामाश् च धर्माश् च यद्-अपाश्रयाः ।

भजतानीहयात्मानम् अनीहं हरिम् ईश्वरम् ॥

**श्रीधरः : **अर्थादयो यद्-अपाश्रया यद्-अधीनाः ॥४८॥

**क्रम-सन्दर्भः : **अनीहया निरूपाधिकया अनीहं तथैव निरूपाधि-कृपा-करम् । अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः [भा।पु। ७.१०.६] इति वक्ष्यमाणात् ॥४८॥

**विश्वनाथः : **तर्हि विवेक एव कः ? तत्राह—तस्माद् इति । यद्-अपाश्रया यद्-अधीना अनुडुहां वृषाणां कर्तृत्व-भोक्तृत्वादयः स्वाम्य्-अधीना इत्य् अर्थः । अनीहया कामना-राहित्येन । अनीहं निरपेक्षम् ॥४८॥

—ओ)०(ओ—

॥ ७.७.४९ ॥

सर्वेषाम् अपि भूतानां हरिर् आत्मेश्वरः प्रियः ।

भूतैर् महद्भिः स्व-कृतैः कृतानां जीव-संज्ञितः ॥

मध्वः : व्यञ्जनाज् जगतो विष्णुर् बीजं न परिमाणतः इति च ॥४९॥

**श्रीधरः : **भूतानां प्राणिनाम् । जीव-संज्ञितोऽन्तर्यामी ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यतः सर्वेषां देहश् च जीवश् च परमात्मा च प्रियश् च वस्तुतो हरिर् एव, तस्मात् तं भजतेत्य् आह—सर्वेषां देव-तिर्यग्-आदीनाम् अपि आत्मा परमात्मा स एवेश्वरः । स्वेनैव कृतैः कृतानाम् इति दोहोऽपि तत्-कारणत्वात् स एव जीव-संज्ञा सञ्जाता यस्य सः । जीवस्य तदीय-तटस्थ-शक्ति-रूपत्वात् । यद् वा, सर्वेषां प्रियत्वाद् अपि तम् एव भजतेत्य् आह—सर्वेषां भूतानां या जीव-संज्ञा जीव-नामा ततोऽपि प्रियः ॥४९॥

—ओ)०(ओ—

॥ ७.७.५० ॥

देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा ।

भजन् मुकुन्द-चरणं स्वस्तिमान् स्याद् यथा वयम् ॥

**श्रीधरः : **असुराणाम् अस्माकम् अत्रानधिकार इत्य् अपि न वाच्यम् इत्य् आह—देव इति पञ्चभिः ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यस्माद् एवं, तस्मात् सर्व एव भक्तिं कुर्युर् इत्य् आह—देव इति ॥५०॥

—ओ)०(ओ—

॥ ७.७.५१-५२ ॥

नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः ।

प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥

न दानं न तपो नेज्या न शौचं न व्रतानि च ।

प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥

श्रीधरः : अमलया निष्कामया । अन्यद् विडम्बनं नटन-मात्रम् ॥५२॥

सनातन-गोस्वामी : हे असुरात्मजाः ! देवत्वादिकं मुकुन्दस्य प्रीणनाय नालं न समर्थम् । वृत्तं सद्-आचारः ॥ अमलया निष्कामया विशुद्धया वा । विडम्बनं नटन-मात्रम्, न तु तात्त्विकम् इत्य् अर्थः ॥५१-५२॥ [ह।भ।वि। ११.५९०-५९१]

**क्रम-सन्दर्भः : **नालम् इति युग्मकम् ॥५१-५२॥

भक्ति-सन्दर्भः (१६८): अमलया निष्कामया । विडम्बनं नटन-मात्रम् । अतः सकाम-भक्तस्यापि भक्तेर् नटन-मात्र-तात्पर्येण भक्त्य्-अनुकरण-मात्रत्वात् । यथा परेषाम् अपि नटानां क्वचित् तद्-अनुकरणं तथैवेति ।

तत्र सकामत्वम् ऐहिकं पारलौकिकं चेति द्विविधम् । तत् सर्वम् एव निषिध्यते श्री-नागपत्नी-वचनादौ—न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यम् [भा।पु। १०.१६.३७] इत्य्-आदिना । तस्माद् वैवस्वत-मनु-पुत्रस्य पृषध्रस्य तु मुमुक्षोर् अपि एकान्तित्व-व्यपदेशो गौण एव बोद्धव्यः ।

मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भा।पु। ७.१०.२]

इत्य् अत्र श्री-प्रह्लाद-वाक्ये मुमुक्षा तु काम-त्यागेच्छैव ।

यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ ।
कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् ॥ [भा।पु। ७.१०.७] इति वक्षमाणात् ।

भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः [भा।पु। ७.१०.१] इति श्री-नारदेन प्राग् उक्तत्वाच् च2 । एवं श्रीमद्-अम्बरीषस्य यज्ञ-विधानम् अपि लोक-सङ्ग्रहार्थकम् एव3 ज्ञेयम् । तम् उद्दिश्याप्य् एकान्त-भक्ति-भावेनेत्य् उक्तम् अस्ति । तत्र चैहिकं निष्कामत्वं भक्त्या जीविका-प्रतिष्ठाद्य्-उपार्जनं4 यत् तद्-अभाव-मयम् अपि बोद्धव्यम् । विष्णुं यो नोपजीवति इति गारुडे शुद्ध-भक्त-लक्षणात्5

मौन-व्रत-श्रुत-तपो-ऽध्ययन-स्व-धर्म-
व्याख्या-रहो-जप-समाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्व् अजितेन्द्रियाणां
वार्ता भवन्त्य् उत न वात्र तु दाम्भिकानाम् ॥ [भा।पु। ७.९.४६]

इति श्री-प्रह्लाद-वाक्यवत् । मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा दम्भस्यानियत-फलत्वाद् इत्य् अर्थः । अत एवोक्तं—

आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ [भा।पु। ६.१८.७४] इति ।

परं मोक्षम् अपि इति टीका च । तस्मात् साधूक्तं—नालं द्विजत्वम् [७.७.५१] इत्य्-आदि ॥५१-५२॥

**विश्वनाथः : **प्रीणनाय नालं न समर्थम् इत्य् अर्थः ॥५१॥ विडम्बनं पुंसः प्रत्युत तिरस्कार-कारणम् इत्य् अर्थः ॥५२॥

—ओ)०(ओ—

॥ ७.७.५३ ॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः ।

आत्मौपम्येन सर्वत्र सर्व-भूतात्मनीश्वरे ॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **तत् इति सर्वत्र सर्वस्मिन् देशे काले च आत्मौपम्येन आत्मनि यथा आनुकूल्येन काय-मनो-वचन-वृत्ति-रूपं भजनं कुरुत, तद्वद् अपि कुरुतेति ॥५३॥

**विश्वनाथः : **आत्मौपमेयेनेत्य् अत्र सुख-दुःखादि-दृष्ट्येति शेषः ॥५३॥

—ओ)०(ओ—

॥ ७.७.५४ ॥

दैतेया यक्ष-रक्षांसि स्त्रियः शूद्रा व्रजौकसः ।

खगा मृगाः पाप-जीवाः सन्ति ह्य् अच्युततां गताः ॥

मध्वः : अच्युततां च्युति-वर्जनम् ॥५४॥

**श्रीधरः : **अच्युतताम् अमृतत्वम् ॥५४॥

**क्रम-सन्दर्भः : **व्रजौकसोऽत्र नीच्-सह-पाठात्, किरात-हूणान्ध्र-पुलिन्द-पुल्कसा आभीर-कङ्का यवनः खसादयः [भा।पु। २.४.१८] इत्य् आदाव् इव भवोपजीवना नीच-जाति-विशेषा एव आभीरा ज्ञेयाः । न तु

कृषि-वाणिज्य-गोरक्षाः कुसीदं तुर्यम् उच्यते ।
वार्ता चतुर्विधा तत्र वयं गो-वृत्तयोऽनिशम् ॥ [भा।पु। १०.२४.२१]

इतिवद् वैश्य-भेदा इति विशेषः प्रतिपत्तव्यः ॥५४॥

विश्वनाथः : न च भक्तिः सज्जात्य्-आदिकम् अपेक्षत इत्य् आह—दैतेया इति । अच्युततां चिन्मय-शरीरत्वेन अच्युत-तुल्यत्वम् । यद् वा, अच्युतताम् अच्युतिं गताः कर्मिण इव न च्युता भवन्तीत्य् अर्थः । यद् उक्तं काशी-खण्डे—

न च्यवन्ते च मद्-भक्ता महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके विद्वद्भिर् परिगीयते ॥५४॥

—ओ)०(ओ—

॥ ७.७.५५ ॥

एतावान् एव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।

एकान्त-भक्तिर् गोविन्दे यत् सर्वत्र तद्-ईक्षणम् ॥

**श्रीधरः : **अध्याय-द्वयोक्तम् उपसंहरति—एतावान् इति । तद् ईक्षणं गोविन्द-दृष्ट्या सम्माननम् ॥५५॥

**क्रम-सन्दर्भः : **तस्य भागवत एव ईक्षणं स्फूर्तिः । सर्व-भूतेषु यः पश्येत् [भा।पु। ११.२.४५] इत्य् आदेः ॥५५॥

**विश्वनाथः : **एकान्त-भक्तिर् अनन्या भक्तिर् यत् यस्यां भक्तौ सत्यां सर्वत्रैव स्थावर-जङ्गम-वस्तुषु तद्-ईक्षणं भगवतो भावना-परिपाकेन भगवद्-ईक्षणम् । यद् उक्तं—

नारायण-मयं धीराः पश्यन्ति परमार्थिनः ।
जगद् धन-मयं लुब्धाः कामुकाः कामिनी-मयम् ॥ इति ।

यथायं प्रह्लादः स्तम्भेऽपि भगवन्तम् अपश्यत् ॥५५॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे

बालानुशासनं नाम

सप्तमोऽध्यायः ॥

॥ ७.७ ॥

(७.८)


  1. संलभते रतिम्। ↩︎

  2. प्रयुक्तत्वाच् च (ग, च) ↩︎

  3. संग्रहार्थम् एव (छ, झ, ञ) ↩︎

  4. जीविका-प्रतिष्ठार्चाद्य्-उपार्जनम् (ख) ↩︎

  5. शुद्ध-भक्ति-लक्षणम् (छ, ज, ञ, य) ↩︎