॥ ७.६.१ ॥
श्री-प्रह्राद उवाच
कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह ।
दुर्लभं मानुषं जन्म तद् अप्य् अध्रुवम् अर्थदम् ॥
श्रीधरः :
षष्ठे गुरौ गृह-व्यग्रे प्रह्रादो दैत्य-बालकान् ।
अनुकम्प्य परं तत्त्वं नारदोक्तम् उपादिशत् ॥
निरर्थक-क्रियालापैर् आयुर्-व्ययम् अजानताम् ।
प्रह्रादः स-दयं प्राह धर्मं भागवतं कृती ॥
कौमार इत्य्-आदिना । इहैव मानुष-जन्मनि धर्मान् आचरेत् । यतोऽर्थदम् एतत् । तत्र च कौमार एव, यतस् तद् अप्य् अध्रुवम् । न चैवं-भूतं जन्मान्तरम्, यतो दुर्लभम् । तत्र धर्मान् एवाचरेन् न सुखार्थे प्रयासान् । तत्र भागवतान् एव न काम्यान् ॥१॥
क्रम-सन्दर्भः : भागवतान् धर्मान् आचरेत् यतोऽर्थदम् एतज् जन्म, देवादि-जन्मनि महा-विषयावेशात्, पश्व्-आदि-जन्मनि विवेकाभावाच् च । तत्रापि न विलम्बेनेत्य् आह कौमारे, कौमारम् आरभ्येत्य् अर्थः । यतस् तद् अपि जन्म ध्रुवं पुनर् दुर्लभं च । तथा च ब्रह्म-वैवर्ते—
प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ।
अशीतिं चतुरश् चैव लक्षांस् तान् जीव-जातिषु ।
भ्रमद्भिः पुरुषैः प्राप्यं मानुष्यं जन्म पर्ययात् ।
तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् ।
वराकाणाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ इति ।
शास्त्रस्य प्राधान्येन मानुष्यम् अधिकृत्य प्रवर्तत्वात् तद्-अनुवादेनोक्तिर् इयं तद्-बुद्ध्य्-आदि-सामान्येन मानुषत्वम् आरोप्यैवेति ज्ञेयम् ॥१॥
भक्ति-सन्दर्भ (१८): इहैव मानुष-जन्मनि भागवतान् धर्मान् आचरेत्, यतोऽर्थदम् एतज् जन्म । देवादि-जन्मनि महा-विषयावेशात्, पश्व्-आदि-जन्मनि विवेकाभावाच् च । मानुषं जन्म च प्राप्य न विलम्बेतेत्य् आह—कौमारे, कौमारम् आरभ्य इत्य् अर्थः । यतस् तद् अपि जन्म अध्रुवं पुनर् दुर्लभं च । शास्त्रस्य च प्राधान्येन मनुष्यम् अधिकृत्य प्रवृत्तत्वात् तद्-अनुवादेनोक्तिर् इयम् । तद्-बुद्ध्य्-आदि-साम्येन मानुषत्वम् आरोप्यैवेति ज्ञेयम् ॥१॥
विश्वनाथः :
षष्ठे तु ग्राहयामास प्रह्लादो भक्तिम् अर्भकम् ।
आसक्तिं देह-गेहादौ ब्याजयामास बोधयन् ॥
तान् आह करुणो मैत्र इति पूर्वम् उक्तम् । तत् किम् आह ? इत्य् आह—कौमारे धर्मान् आचरेत् । ननु कौमारे वर्णाश्रम-धर्मानाम् अनधिकारः ? तत्राह—भागवतान् चरणारविन्द-कीर्तनादीन् इह भारत-भूमौ ।
ननु तान् यौवनादाव् अपि कृत्वा कृतार्थई-भवति ? तत्राह—प्राज्ञ इति । यदि कौमारान्त एव मृत्युः स्यात्, तर्हि किं भवेत् ? इति प्रकृष्ट-ज्ञानवान् ।
ननु तत्र का चिन्ता जन्मान्तरं तु भावि तत्रैव भक्तिः कार्येति । तत्राह—दुर्लभं मानुषं जन्म । तद् अपि भाग्याल् लब्धम् अप्य् अध्रुवम् । अद्य वर्तमानत्वेऽपि तस्य श्वः स्थितौ निश्चयाभावात् ।
ननु तर्हि ताव-मात्र-कालेन कुतो भक्ति-सिद्धिः ? तत्राह—अर्थदं मुहूर्त-मात्र-व्यापि भक्तिमताम् अपि खट्वङ्गादीनां सिद्धि-दर्शनात् ॥१॥
—ओ)०(ओ—
॥ ७.६.२ ॥
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यद् एष सर्व-भूतानां प्रिय आत्मेश्वरः सुहृत् ॥
**श्रीधरः : **इह भागवतान् एव धर्मान् आचरेद् इत्य् एतद् उपपादयति—यथा हीति चतुर्भिः । इह पुरुषस्य विष्णोः पादोपसर्पणम् एव यथानुरूपं योग्यम् इत्य् अर्थः । यद् यस्माद् एष प्रिय इत्य्-आदि ॥२॥
**क्रम-सन्दर्भः : **तत्र भागवत-धर्माचरणस्यैव युक्तत्वं दर्शयति—यथा हीति । यद् यस्मात् एष भूतानां स्वभाव एव प्रियः प्रेम-विषयः प्रेम-कर्ता च । तत्र हेतुः—आत्मा परमात्मा पादोपसर्पणे हेत्व्-अन्तरं यस्माच् चैष ईश्वरः कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थः । सुहृत् सर्वेषां हितं चिकीर्षुश् चेति ॥२॥
भक्ति-सन्दर्भ (१८): तत्र भागवत-धर्माचरणस्यैव युक्तत्वं दर्शयति—यथा हीत्य्-आदि । इह पुरुषस्य विष्णोः पादोपसर्पणम् एव यथा अनुरूपं योग्यम् इत्य् अर्थः । यद् यस्माद् एष भूतानां स्वभावत एव प्रियः प्रीति-विषयः प्रेम-कर्ता च । तत्र हेतुः—आत्मा परमात्मा । पादोपसर्पणे हेत्व्-अन्तरं यस्माच् चैष ईश्वरः कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थः । सुहृत् सर्वेषां हितं चिकीर्षुश् चेति ॥२॥
विश्वनाथः : भागवत-धर्मान् केन प्रकारेण आचरेत् ? इत्य् अपेक्षायाम् आह—यथा येन प्रकारेण विष्णोः पादयोर् उप समीपे सर्पणं प्राप्तिर् भवेत्, तथा आचरेद् इत्य् अनुषङ्गः । तम् एव प्रकारं चतुर्विधं व्यञ्जयन् विष्णुं विशिनष्टि—यद् यस्माद् एष प्रिय इत्य्-आदि । तेन, येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भा।पु। ३.२५.३८] इति भगवद्-उक्ति-प्रामाण्येन कान्ता-भाव-शान्ति-रति-दास्य-भाव-सख्य-भावानां मध्ये येन भावेन उपसर्पितुम् इच्छेत्, तेनैवोपसर्पन् भागवतान् धर्मान् आचरेद् इति राग-भक्ताव् अपि विधिर् व्यञ्जितः । आत्म-तुल्यत्वाद् आत्मा सुत इति तन्त्रेणोक्ता पञ्चैव भावाः प्रह्लादेनोपदिष्टा इति वा ॥२॥
—ओ)०(ओ—
॥ ७.६.३ ॥
सुखम् ऐन्द्रियकं दैत्या देह-योगेन देहिनाम् ।
सर्वत्र लभ्यते दैवाद् यथा दुःखम् अयत्नतः ॥
**श्रीधरः : **ननु भोगोद्यमः कथं त्याज्यः ? इति चेत् तत्राह—सुखम् इति । सर्वत्र पश्व्-आदाव् अपि । दैवात् पूर्वादृष्टाद् एव ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सुख-भोगार्थम् उद्यमस् तु मानुषं देहं प्राप्य न कर्तव्य इत्य् आह—सुखम् इति । देह-योगेनेति सुख-दुःखे देह-धर्माव् एवेत्य् अर्थः । सर्वत्र पश्व्-आदाव् अपि ॥३॥
—ओ)०(ओ—
॥ ७.६.४ ॥
तत्-प्रयासो न कर्तव्यो यत आयुर्-व्ययः परम् ।
न तथा विन्दते क्षेमं मुकुन्द-चरणाम्बुजम् ॥
**श्रीधरः : **अतस् तद्-अर्थं प्रयासो न कर्तव्यः, यतः प्रयासात् परं केवलम् आयुषो व्यय एव । यतस् तथा, तेन प्रकारेण **क्षेमं न **प्राप्नोति ॥४॥
**क्रम-सन्दर्भः : **मुकुन्द-चरणाम्बुज-रूपं क्षेमम् ॥४॥
विश्वनाथः : तथा तेन प्रकारेण क्षेमं न विन्दते, क्षेमम् एवाह—मुकुन्द- इति ॥४॥
—ओ)०(ओ—
॥ ७.६.५ ॥
ततो यतेत कुशलः क्षेमाय भयम्1** आश्रितः ।**
शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् ॥
श्रीधरः : भयम् आश्रितः संसारं प्राप्तः । पुरुष-रूपं शरीरं यावत् पुष्कलम् अस्ति न विपद्येत अक्षमं न भवेन् न नश्येद् इति वा, तावच् छीघ्रं क्षेमाय यतेत ॥५॥
**क्रम-सन्दर्भः : **पुरुष-रूपम् इति स्वामी, पौरुषम् इति सम्बन्धोक्तिः ॥५॥
विश्वनाथः : भयम् आश्रित इति हरि-भजनाभावे, स्थानाद् भ्रष्टाः पतन्त्य् अधः [भा।पु। ११.५.३] इति भयं श्रुत्वेति वैध-भक्तौ विधिर् उक्तः । पुष्कलम् जरारोगाद्य्-अभावात् पुष्टं यत्न-समर्थम् इत्य्-आदि ॥५॥
—ओ)०(ओ—
॥ ७.६.६ ॥
पुंसो वर्ष-शतं ह्य् आयुस् तद्-अर्धं चाजितात्मनः ।
निष्फलं यद् असौ रात्र्यां शेतेऽन्धं प्रापितस् तमः ॥
**श्रीधरः : **आयुर्-व्यय-क्रमम् आह—पुंस इति त्रिभिः । यद् यस्मात् शेते ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आयुर्-व्यय-क्रमम् आह—पुंस इति ॥६॥
—ओ)०(ओ—
॥ ७.६.७ ॥
मुग्धस्य बाल्ये कैशोरे2** क्रीडतो याति विंशतिः ।**
जरया ग्रस्त-देहस्य यात्य् अकल्पस्य विंशतिः ॥
**श्रीधरः : **विंशतिर् वर्षाण्य् आयुर् याति ॥७॥
**क्रम-सन्दर्भः : **कौमार इत्य् अत्र कैशोर इति क्वचित् ॥७॥
**विश्वनाथः : **क्रीडत इति बालैर् बालाभिश् च सह ॥७॥
—ओ)०(ओ—
॥ ७.६.८ ॥
दुरापूरेण कामेन मोहेन च बलीयसा ।
शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥
श्रीधरः : दुरापूरेण दुःखैः समन्ताद् आपूर्यमाणेन ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : शेषम् अवशिष्टम् आयुः ॥८॥
—ओ)०(ओ—
॥ ७.६.९ ॥
को गृहेषु पुमान् सक्तम् आत्मानम् अजितेन्द्रियः ।
स्नेह-पाशैर् दृढैर् बद्धम् उत्सहेत विमोचितुम् ॥
**श्रीधरः : **ननु यौवने गृहासक्तोऽपि पश्चाद् विरक्तः सन् क्षेमं यास्यतीत्य् आशङ्क्य तद् असंभवं दर्शयन्, कौमार एवाचरेत् [भा।पु। ७.६.१] इत्य् एतद् उपपादयति—को गृहेष्व् इति सप्तभिः ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्र तत्र कृष्णं भजेद् इति विवेकवत्त्वेऽपि भजनासामर्थ्यम् आह—क इति । तस्मात् कौमारत एव भजने आरभ्यमाणे भजन एवासक्त्या व्युत्पद्यमानया अन्यत्रानासक्त्या भजनं सिद्ध्यति नान्यथेति भावः ॥९॥
—ओ)०(ओ—
॥ ७.६.१० ॥
को न्व् अर्थ-तृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः ।
यं क्रीणात्य् असुभिः प्रेष्ठैस् तस्करः सेवको वणिक् ॥
**श्रीधरः : **यम् अर्थम् असुभिः क्रीणाति प्राण-हानिम् अङ्गीकृत्यापि साधयति तस्करादिः । तस्मिन्न् अर्थे तृष्णां को नु विसृजेत् ? ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **द्रव्यासक्तेः प्राबल्यं दर्शयति—को न्व् इति । योऽर्थः अर्थस्य प्राणेभ्योऽपि प्रियत्वम् आह—यम् अर्थं प्राणैः क्रीणाति प्राण-हानिम् अङ्गीकृत्यैव तस्करो द्रव्यार्थं रात्रौ धनिनां गृहं प्रविशति, सेवको राजकीयो युद्धाभिमुखं चलति, वणिक् समुद्रादि-दुर्ग-गामी ॥१०॥
—ओ)०(ओ—
॥ ७.६.११ ॥
कथं प्रियाया अनुकम्पितायाः
सङ्गं रहस्यं रुचिरांश् च मन्त्रान् ।
सुहृत्सु तत्-स्नेह-सितः शिशूनां
कलाक्षराणाम् अनुरक्त-चित्तः ॥
**श्रीधरः : **किं च, कथम् ? इत्य्-आदि । प्रियायाः सङ्गादिकं स्मरन् कथं त्यजेत ? इति तृतीयेनान्वयः । मन्त्रान् हित-शिक्षालापान् । सुहृत्सु च सङ्गम् । तेषां स्नेहेन सितो बद्धः । कलानि मधुराण्य् अक्षराणि येषां तेषां च सङ्गम् । तेष्व् अनुरक्तं चित्तं यस्य ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्त्री-पुत्राद्य्-आसक्तेः प्राबल्यं दर्शयति—कथम् इति । प्रियायाः सङ्गादिकं स्मरन् कथं त्यजेत् ? इति तृतीयेनान्वयः । मन्त्रान् हित-शिक्षालापान् । सितो बद्धः । शिशूनां च सङ्गम् ॥११॥
—ओ)०(ओ—
॥ ७.६.१२ ॥
पुत्रान् स्मरंस् ता दुहितॄर् हृदय्या
भ्रातॄन् स्वसॄर् वा पितरौ च दीनौ ।
गृहान् मनोज्ञोरु-परिच्छदांश् च
वृत्तीश् च कुल्याः पशु-भृत्य-वर्गान् ॥
श्रीधरः : ताः श्वशुर-गृहे स्थिताः । हृदय्या हृदयङ्गमाः । मनो-ज्ञा उरवः परिच्छदा येषु तान् गृहान् । वृत्तीर् जीविकाः । कुल्याः कुल-परम्परागताः ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ताः श्वशुर-गृहे स्थिताः हृदय्या हृदयङ्गमाः, वृत्तीर् जीविकाः, कुल्याः कुल-परम्परा-प्राप्ताः ॥१२॥
—ओ)०(ओ—
॥ ७.६.१३ ॥
त्यजेत कोशस्-कृद् इवेहमानः
कर्माणि लोभाद् अवितृप्त-कामः ।
औपस्थ्य-जैह्व्यं बहु-मन्यमानः
कथं विरज्येत दुरन्त-मोहः ॥
श्रीधरः : कोशस्-कृत् कोशस्-कारी कीटः । स यथा आत्मनो हितं गृहं कुर्वाणो निर्गमाय द्वारम् अपि नावशेषयति तथा कर्माणीहमानः । नन्व् अवितृप्त-कामोऽपि दोष-दर्शनेन विरक्तः संस् त्यजेत् तत्राह—औपस्थ्यं शैश्न्यं जैह्व्यं च सुखं बहु-मन्यमानस् तद् एवाधिकं मन्यमानः । अतो दुरन्तो मोहो यस्य स कथं विरज्येत विरक्तः स्यात् ? ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कोशस्कृत् कोश-कीटः । स यथा गृहं कुर्वन्न् आत्मनो निर्गमाय द्वारम् अरक्षन् म्रियते, तथैव कर्माणि ईहमानः, औपस्थ्यं सुखं जैह्व्यं च सुखम् ॥१३॥
—ओ)०(ओ—
॥ ७.६.१४ ॥
कुटुम्ब-पोषाय वियन् निजायुर्
न बुध्यतेऽर्थं विहतं प्रमत्तः ।
सर्वत्र ताप-त्रय-दुःखितात्मा
निर्विद्यते न स्व-कुटुम्ब-रामः ॥
श्रीधरः : दुरन्त-मोहत्वं दर्शयन्न् आह—कुटुम्ब-पोषणाय वियत् क्षीयमाणं निजम् आयुः पुरुष्आर्थं च विहतं न बुध्यते । अत एव ताप-त्रयेण दुःखित-चित्तोऽपि न निर्विद्यते । तत्र दुःख-बुद्धिं न करोति । यतः स्व-कुटुम्बे रामो रतिर् यस्य ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : वियत् क्षीयमाणं निजम् आयुः पुरुष्आर्थं च हतं न बुध्यते । वटिका-मात्रस्याप्य् अपचयं तु बुध्यत एवेति भावः । तद् अपि तस्मान् न निर्विद्यते ॥१४॥
—ओ)०(ओ—
॥ ७.६.१५ ॥
वित्तेषु नित्याभिनिविष्ट-चेता
विद्वांश् च दोषं पर-वित्त-हर्तुः ।
प्रेत्येह वाथाप्य् अजितेन्द्रियस् तद्
अशान्त-कामो हरते कुटुम्बी ॥
**श्रीधरः : **प्रत्युत चौर्यं करोतीत्य् आह—वित्तेष्व् इति । नित्यम् अभिनिविष्टं चेतो यस्य स **पर-वित्त-हर्तुः प्रेत्य **नरक-लक्षणम् इह च दण्डादि-रूपं दोषं यद्य् अपि विद्वान् जानन्, अथाप्य् अशान्ताभिलाषस् तत् पर-वित्तं हरत्य् एव ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रेत्य नरक-लक्षणम् इह च राज-दण्डादि-रूपं दोषं यद्यपि विद्वान् तत् तद् अपि तानि वित्तानि हरते ॥१५॥
—ओ)०(ओ—
॥ ७.६.१६ ॥
विद्वान् अपीत्थं दनुजाः कुटुम्बं
पुष्णन् स्व-लोकाय न कल्पते वै ।
यः स्वीय-पारक्य-विभिन्न-भावस्
तमः प्रपद्येत यथा विमूढः ॥
**श्रीधरः : **तद् एवं को गृहेषु पुमान् [भा।पु। ७.६.९] इत्य्-आदि-सप्तभिः श्लोकैर् उपपादितम् । गृहादिषु प्रसक्तस्य वैराग्याद्य्-असंभवम् उपसंहरति—विद्वान् इति । स्व-लोकायात्म-परामर्शाय न कल्पते, किन्तु विमूढो यथा तथा विद्वान् अपि तमोऽभिनिवेशम् एव प्रपद्यते । तत्र हेतुः—य इति । स्वीयम् इदं पारक्यम् इदम् इति विभिन्नो भावो भावना यस्य सः ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विद्वान् अपि शास्त्रज्ञोऽपि स्व-लोकाय कोऽहं, किं करोमि ? इति स्वम् अवलोकितुम् इत्य् अर्थः । यथा विमूढस् तथैव । हे दनूजाः ! ॥१६॥
—ओ)०(ओ—
॥ ७.६.१७ ॥
यतो न कश्चित् क्व च कुत्रचिद् वा
दीनः स्वम् आत्मानम् अलं समर्थः ।
विमोचितुं काम-दृशां विहार-
क्रीडा-मृगो यन्-निगडो विसर्गः ॥
**श्रीधरः : **तस्मात् कौमार एव भागवतान् धर्मान् आचरेद् इति स-हेतुकम् उपसंहरति—यत इति । यतः कश्चिद् अपि स्वम् आत्मानं मोचितुं न समर्थः, ततो नारायणम् उपेत शरणं यातेत्य् उत्तरेणान्वयः । असामर्थ्ये हेतुः—अलं दीनो लम्पटः । अतः कामो दृशि यासां, तासां विहारे क्रीडायां निमित्ते क्रीडा-मृगः । विहारम् इति पृथक् पाठे तासां विहार-साधनम् आत्मानम्, यतस् तासां क्रीडा-मृगः स इत्य् अन्वयः । किं च, यद् यासु निगडः शृङ्खला-तुल्यो विसर्गः पुत्र-पौत्रादि-रूपो भवति ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यतः कुटुम्बात् क्वापि देशे कुत्रचिद् अपि काले समर्थः शास्त्र-ज्ञानादि-सामर्थ्यवान् अपि कश्चिद् अपि आत्मानं स्वीयं वा विमोचयितुम्, अलं न शक्नोति । विहारम् इति पाठे आत्मानम् इत्य् अस्य विशेषणम् । समास-पाठे कर्तृ-विशेषणम् । याः कामदृश एव निगडो यत्र तथा-विधः सर्गो जन्म भवेत् ॥१७॥
—ओ)०(ओ—
॥ ७.६.१८ ॥
ततो विदूरात् परिहृत्य दैत्या
दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणम् आदि-देवं
स मुक्त-सङ्गैर् इषितोऽपवर्गः ॥
श्रीधरः : विदूराद् दूरतः सङ्गं परिहृत्य । यद् वा, अविदूराच् छीघ्रं नारायणम् उपेत इत्य् अन्वयः, यस्मात् स एव अपवर्ग इषित इष्टः ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**प्रीति-सन्दर्भः ५- **अथ श्री-भगवत्-साक्सात्कारस्य मुक्तित्वम् आह—ततो विदूराद् इति । टीका च—यस्मात् स एव अपवर्ग इष्टः इत्य् एषा । अत्र नारायणस्यापवर्गत्वं तत्-साक्षात्कृताव् एव पर्यवस्यति, तस्या एव संसार-ध्वंस-पूर्वक-परमानन्द-प्राप्ति-रूपत्वात्, तद्-अस्तित्व-मात्रत्वे तादृशत्वाभावाच् च ॥१८॥
विश्वनाथः : अपवर्गः संसार-बन्ध-विमोचकः । इषित इष्टः ॥१८॥
—ओ)०(ओ—
॥ ७.६.१९ ॥
न ह्य् अच्युतं प्रीणयतो बह्व्-आयासोऽसुरात्मजाः ।
आत्मत्वात् सर्व-भूतानां सिद्धत्वाद् इह सर्वतः ॥
**श्रीधरः : **ननु बालानाम् अस्माकं तद् भजनम् अशक्यम् इति चेत् तत्राह—नहीति । बह्व्-आयासोऽति-प्रयासः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : प्रीणयतः परिचर्यया प्रीणयितुम् न बह्व्-आयासः, यथा कुटुम्बं प्रीणयत इति भावः । न च तस्यान्वेषणे श्रमः आत्मवत् हृद्य् एव वर्तमानत्वात्, न च तत्-प्रीणनेऽपि श्रमः सर्वतः सर्वैर् अपि प्रकारैर् मानसैर् अप्य् उपचारैस् तत्-प्रीणनस्य सिद्धत्वात् । तथा अच्युतं प्रीणयानीति सङ्कल्प-मात्रेणापि प्रीतेः सिद्धत्वात् चरणारविन्द-कीर्तनाद्यतमेनापि वा सिद्धत्वात् ॥१९॥
—ओ)०(ओ—
॥ ७.६.२० ॥
परावरेषु भूतेषु ब्रह्मान्त-स्थावरादिषु ।
भौतिकेषु विकारेषु भूतेष्व् अथ महत्सु च ॥
**श्रीधरः : **आत्मत्वात् सर्वत्र सिद्धत्वाद् इति च हेतु-द्वयम् उपपादयति—परावरेष्व् इति चतुर्भिः । ब्रह्म अन्तो येषां स्थावर आदिर् येषां तेषु भूतेषु जीवेषु । भौतिकेष्व् अजीवेषु घटादिषु । महत्सु च भूतेष्व् आकाशादिषु ॥२०॥
**क्रम-सन्दर्भः : **पूर्वोक्तं तत्-तद्-रूपत्वम् एवोपपादयति—परावरेष्व् इति चतुष्केण ॥२०॥
**विश्वनाथः : **न केवलं स स्व-हृदय एव वर्तमानः परिचरणीयः, अपि तु सर्वत्रैव वर्तमानः सर्व-सम्मानेनैव सन्तोषणीय इत्य् उपदेष्टुं तस्य सात्वत्रिकीं सार्वकालिकीं च सत्ताम् आह द्वाभ्याम् । परावरेष्व् उत्कृष्ट-निकृष्टेषु भूतेषु जीवेषु । ब्रह्मा अन्तो येषां स्थावर आदिर् येषां तेषु । भौतिकेष्व् अजीवेषु घटादिषु च महत्सु भूतेष्व् आकाशादिषु ॥२०॥
—ओ)०(ओ—
॥ ७.६.२१ ॥
गुणेषु गुण-साम्ये च गुण-व्यतिकरे तथा ।
एक एव परो ह्य् आत्मा भगवान् ईश्वरोऽव्ययः ॥
**श्रीधरः : **गुण-साम्ये प्रधाने । गुण-व्यतिकरे महत्-तत्त्वादौ च । परो ब्रह्म-स्वरूपः ॥२१॥
**क्रम-सन्दर्भः : **तेषु तेष्व् इव एव पर आत्मा सर्वेषां मूल-स्वरूपो भगवान् स्वरूप-भूताऽचिन्त्य-तत्-तच्-छक्तिः । अत एवेश्वरो दुर्घट-घटना-समर्थः । अत एवाव्ययः ॥२१॥
**विश्वनाथः : **गुण-साम्ये प्रधाने । गुण-व्यतिकरे महत्-तत्त्वादौ परः । भूतादिभ्यः प्राकृतेभ्यः प्रकृतेश् च सकाशाद् अन्य एकः पर-ब्रह्मेति आत्मा परमात्मेति भगवान् इति शब्द-त्रय-वाच्य ईश्वर ईयत इत्य् उत्तरेणान्वयः ॥२१॥
—ओ)०(ओ—
॥ ७.६.२२-२३ ॥
प्रत्यग्-आत्म-स्वरूपेण दृश्य-रूपेण च स्वयम् ।
व्याप्य-व्यापक-निर्देश्यो ह्य् अनिर्देश्योऽविकल्पितः ॥
केवलानुभवानन्द- स्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुण-सर्गया ॥
**मध्वः : **अन्तर्यामी प्रत्यग्-आत्मा व्याप्तः कालो हरिः स्मृतः ।
प्रकृत्या तमसावृतत्वात् हरेर् ऐश्वर्यं न ज्ञायते ॥ इति च ॥२२-२३॥
**श्रीधरः : **कथं तर्हि द्रष्टृ-दृश्य-भोक्तृ-भोग्यादि-भेदो मायया ? इत्य् आह—प्रत्यग्-आत्मा द्रष्टा भोक्ता तत् स्वरूपेण व्यापकतया निर्देश्यः । दृश्यं भोग्यं देहादि तद् रूपेण च व्याप्यतया निर्देश्यो मायया ईयत इत्य् उत्तरेणान्वयः । वस्तुतस् तु स्वयम् अविकल्पितोऽनिर्देश्योऽपि सन् यद् वा, अनिर्देश्योऽप्य् एवं निर्देश्यः सन् विकल्पित ईयत इत्य् अन्वयः ॥२२॥
यतः केवलोऽनुभवात्मक आनन्द एव स्वरूपं यस्य । ननु स एव चेत् सर्वत्र, तर्हि सर्वत्र सर्व-ज्ञत्वाद्य् उपलभ्येत ? तत्राह—गुणात्मकः सर्गो यस्याः सा गुण-सर्गा, तया माययान्तर्हितम् ऐश्वर्यं येन सः ॥२३॥
**क्रम-सन्दर्भः : **स्वेनैव तत्-तद्-भावेऽप्य् अधिकारी सन् स्वयम् एव प्रत्यग्-आत्म-स्वरूपेण जीव-रूपेण केषाञ्चित् तन्-मात्र-ज्ञानानाम् ईयते केषाञ्चित् तु ततोऽप्य् अधम-ज्ञानानां दृश्य-रूपेण प्रधान-रूपेण चेयते । तत्र जीव-रूपेण व्यापकत्वेन निर्देश्यो भवति । प्रधानादि-रूपेण तु व्याप्य-रूपतयेत्य् अनेनेत्य् अर्थः । केषाञ्चित् तु अद्वैत-ज्ञानिनां स एव परमेश्वरः अनिर्देश्यः सन्न् अविकल्पितो भेद-मात्र-शून्यश् च सन् केवलानुभवानन्द-स्वरूप एवेयते, न तु स्वरूप-शक्ति-मयैश्वर्य-युक्तः । कथं? तत्राह—माययेति । तत्-कृपया मायान्तर्धाने सम्यक् सत्यैवेयते । न तत् प्रकाशत इति भावः । तस्यास् तच्-छादक-धर्मत्वम् एव दर्शयति—गुण-सर्गयेति । सत्त्वादि-गुण-विक्षेपिकयेत्य् अर्थः । ब्रह्म-ज्ञानिनाम् अप्य् अस्ति सत्त्व-गुण एवावरक इति भावः ॥२२-२३॥
**भगवत्-सन्दर्भ (२१): **अत्र भगवद्-ऐश्वर्यस्य माययान्तर्हितत्वेन गुण-सर्गस्येति मायाया विशेषण-विन्यासेन च तद्-अतीतत्वं बोधयति स्वरूपवत् । अतः परमेश्वर इति विशेषणम् अपि तत्-सहयोगेन पूर्वम् एव दत्तम् इति ज्ञेयम् ॥२३॥
विश्वनाथः : कीदृशः ? अव्ययः सर्वेष्व् अपि कालेष्व् अपक्षय-शून्यः । ननु स ज्ञायते चेद् इदम् इत्थं-कारेण निर्दिश्यताम् इत्य् अत आह—प्रत्यग्-आत्मेति प्रतीचां सर्व-जीवानाम् आत्मा परमात्मा पर-स्वरूपेण व्यापकः दृश्यं जगत् तद्-रूपेण व्याप्य इत्य् एव व्याप्य-व्यापक-निर्देश्यः, वस्तुतः स्वयं ह्य् अनिर्देश्यः । अनिर्देश्योऽपि विकल्पित उपासक-भेदैर् ब्रह्म परमात्मा भगवान् इत्य् एवं विकल्प-विषयीकृतोऽपि केवल एकोऽनुभवात्मक आनन्द एव स्वरूपं यस्य सः ।
एवं सर्वत्र स्व-स्वरूप-भूतैश्वर्येण प्रकटम् एव विराजमानोऽपि मायया स्वाविद्यया हेतुना जीवैर् द्रष्टुम् अशक्यत्वाद् अन्तर्हितैश्वर्य ईयते । कीदृश्या ? गुणानाम् इन्द्रियैर् अनुभूयमानानां शब्दादीनां सर्गः सृष्टिर् यतस् तयेति शब्दादय एवानुभावान्ते, न तु तत्रैव सन्न् अपीश्वरः । ईश्वरं प्रति तया स्व-वृत्त्या अविद्यया जीव-दृष्टेर् आवरणात् तेन,
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४]
इति भगवद्-उक्तेस् तद्-भक्त्यैव माया-तरणे सति स यथा-योगं भक्ति-तारतम्येन निर्देशोऽपि भवतीति भावः ॥२४॥
—ओ)०(ओ—
॥ ७.६.२४ ॥
तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावम् आसुरम् उन्मुच्य यया तुष्यत्य् अधोक्षजः ॥
**मध्वः :**विष्णोर् गृहत्वाद् भूतेषु दया कार्या विजानता इति च ॥२४॥
**श्रीधरः : **यस्माद् एवं तस्मात् सर्वेषु भूतेषु यथोचितं दयां सौहृदं च कुरुत । यया दयया । उन्मुच्य सन्त्यज्य ॥२४॥
**क्रम-सन्दर्भः : **तस्मात् सर्वेष्व् एव भूतेषु न त्व् आत्म-मात्र-सम्बन्धिषु दयां कुरुत, भगवत एवाधिष्ठानत्वात् । सौहृदम् आत्मीय-बुद्धिं कुरुत ॥२४॥
विश्वनाथः : यतो भक्ति-गम्य एव भगवान् सा च भक्तिः सर्व-भूतेषु दया-सौहृदाभ्याम् सुस्थिरा निर्विघ्ना भवति, अतस् ते विधत्ते—तस्माद् इति । सौहृदं स्नेहं च सर्वाणीमानि भूतानि भगवच्-छक्ति-मयत्वाद् भगवद्-रूपाण्य् एव स्वरूपेणापि सर्वत्रैवैतेषु स मत्-प्रभुर् विराजत एव श्रीमद्-गुरु-वैष्णवैक-कृपया यदि मां भक्ति-देवी स्वीकरिष्यति, तदा सोऽपि साक्षात् द्रष्टव्य इति बुद्ध्येति भावः । यया दयया सौहृदेन च ॥२४॥
—ओ)०(ओ—
॥ ७.६.२५ ॥
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥
**मध्वः : **काङ्क्षते मोक्षगम् अपि सुखं नाकाङ्क्षतो यथा इति च ॥२५॥
**श्रीधरः : **ततः किम् ? अत आह—तुष्टे च तत्र तस्मिन् किम् अलभ्यम् ? तथापि गुण-परिणामाद् दैवाद् एव स्व-सिद्धा अयत्नतः सिद्धा ये धर्मादयः, तैः किम् ? अगुणेन च मोक्षेण काङ्क्षितेन किम् ? तम् उपगायतां नोऽस्माकम् अकाङ्क्षितस्यापि तस्य सिद्धेः । यद् वा, मा भून् मोक्षः ! तस्य चरणयोः सारञ्जुषां सुधां सेवमानानां, तेनापि किम् ? इत्य् अर्थः ॥२५॥
**क्रम-सन्दर्भः : **पूर्वानुसारेणैव भगवत्-तोषस्य ब्रह्म-सिद्धितोऽप्य् उत्कृष्टं फलम् आह—तुष्टे ॥२५॥
विश्वनाथः : ततश् च तस्मिन् तुष्टे तैर् धर्मादिभिः काङ्क्षितैः किं न किम् अपि फलम् इत्य् अर्थः । ये गुणानां व्यतिकरात् परिणामात् इह जगति स्वत एव सिद्धाः । अगुणेन मोक्षेण च किम् ? यतः चरणयोः सारं जुषां सेवमानानाम् उप मोक्षाद् अप्य् आधिक्येन गायताम् इति चरणयोः कमलत्वं सारस्य-सौरभ्य-माधुर्यादित्वं तत्-सेविनां भ्रमरत्वम् आरोपितं, भ्रमरत्वेन स्वाभाविकं काङ्क्षितान्तर-शून्यत्वं व्यञ्जितम् ॥२५॥
—ओ)०(ओ—
॥ ७.६.२६ ॥
धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग
ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।
मन्ये तद् एतद् अखिलं निगमस्य सत्यं
स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥
**श्रीधरः : **ननु च धर्मादेर् अपुरुषार्थत्वे किम् इत्य् आचार्याभ्यां वेदोक्तत्वेन सत्य एवाभिहितः ? तत्राह—धर्मोऽर्थः कामश् चेति यस् त्रि-वर्गस् तद्-अर्थं च य ईक्षाद्या अभिहिताः । ईक्षा आत्म-विद्या, त्रयी कर्म-विद्या । नय-दमौ तर्को दण्ड-नीतिश् च । विविधा च वार्ता जीविका । तद् एतत् सर्वं निगमस्यार्थ-जातं स्व-सुहृदः स्वान्तर्यामिणः परमस्य पुंसःस्वात्मार्पण-साधनं चेत्, तर्हि सर्वं सत्यं मन्ये, सत्य-परत्वात्। अन्यथा तद् असत्यम् एव ।
यद् वा, तद् एतद् अखिलं निगमस्य त्रैगुण्य-विषयस्य प्रतिपाद्यं मन्ये । सत्यं पुनर् निस्त्रैगुण्य-लक्षणं परमस्य पुंसः स्वात्मार्पणम् एवेत्य् अर्थः । तद् उक्तं भगवता—त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २.४५] इति ॥२६॥
**क्रम-सन्दर्भः : **अहो नश्वराणि फलानि तत्-साधनान्य् अपि यत्-सम्बन्धेनानश्वरत्व-फलाय कल्पन्त इत्य् आह—धर्मार्थेति ॥२६॥
**भक्ति-सन्दर्भः ५५- **उपसंहरति—धर्मार्थ-काम इति । ईक्षा आत्म-विद्या । तद् एतत् सर्वं निगमस्य अर्थ-जातं स्व-सुहृदः स्वान्तर्यामिनः परमस्य पुंसस् तस्मै स्वात्मार्पण-साधनं चेत्, तर्हि सत्यं मन्ये सत्य-फलत्वात् । यद् वा, सत्यम् अर्थ-क्रिया-कारकं सफलम् इति यावत् । अन्यथा धर्मादीनां निष्फलत्वम् एवेति भावः ॥२६॥
विश्वनाथः : ननु च धर्मादेर् अपुरुषार्थत्वे कथं स एव गुरु-पुत्राभ्याम् वेदोक्तत्वेनोक्तः ? तत्राह—धर्मार्थ इति । ईक्षा आत्म-विद्या । त्रयी कर्म-विद्या । नय-दमौ तर्को दण्ड-नीतिश् च । विविधा च वार्ता जीविका । तद् एतद् अखिलं निगमस्यैव सम्बन्धि वेदोक्तम् एव मन्य एव, न तु दूषयामि, तादृशाधिकारि-सम्मतत्वाद् इति भावः । सत्यं सद्भ्योऽभिहितं तु परमस्य पुंसः, परमे पुंसि** स्वात्मार्पणं** स्वस्यात्मनस् तदीयत्वेनार्पणम् । \
\
श्री-स्वामि-चरणास् तु—तद् एतद् अखिलं निगमस्य त्रैगुण्य-विषयस्य प्रतिपाद्यं मन्ये । सत्यं पुनर् निस्त्रैगुण्य-लक्षणं परमस्य पुंसः स्वात्मार्पणम् एवेत्य् अर्थः । तद् उक्तं भगवता—त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २.४५] इति व्याचक्षते स्म ॥२६॥
—ओ)०(ओ—
॥ ७.६.२७ ॥
**ज्ञानं तद् एतद् अमलं दुरवापम् आह **
नारायणो नर-सखः किल नारदाय ।
**एकान्तिनां भगवतस् तद् अकिञ्चनानां **
पादारविन्द-रजसाप्लुत-देहिनां स्यात् ॥
**श्रीधरः : **तेषां पुनर् विश्वासार्थं गुरु-सम्प्रदायम् आह—ज्ञानम् इति । यत्र नारदः श्रोता, तत्र कुतो मादृशानाम् अधिकारः ? इति माशङ्कीत्य् आह—भगवत एकान्त-भक्तानां यत् पाद-रजस् तेनाप्लुतानां स्नातानां देहिनां सर्वेषाम् अपि तज् ज्ञानं स्यात्, न तूत्तमानाम् एवेति नियमः ॥२७॥
**क्रम-सन्दर्भः : **एतादृश-ज्ञानस्य विरलत्वं तद्-भक्त-कृपैक-लभ्यत्वं चाह—ज्ञानम् इति । नर-सख इति तत्र श्रीमन्-नरस्य तद्-भक्त-वरस्य कृपा-माहात्म्यं दर्शितं यत एवैकान्तिनाम् इति । साक्षात् तद्-उपदेशोऽपि कृपाम् अपेक्षते, किम् उतान्यद् एवेति भावः ॥२७॥
विश्वनाथः : तेषां विश्वासार्थं गुरु-सम्प्रदायम् आह—ज्ञानम् इति । यत्र नारदः श्रोता, तत्र मादृशानां निकृष्टानां कुतोऽधिकार इति नाशङ्कनीयम् इत्य् आह—भगवत एकान्त-भक्तानां यत्-पाद-रजस् तेनाप्लुतानां स्नातानां देहिनां सर्वेषाम् अपि तज् ज्ञानं स्यात्, न तूत्तमानाम् एवेति नियमः ॥२७॥
—ओ)०(ओ—
॥ ७.६.२८ ॥
श्रुतम् एतन् मया पूर्वं ज्ञानं विज्ञान-संयुतम् ।
धर्मं भागवतं शुद्धं नारदाद् देव-दर्शनात् ॥
**श्रीधरः : **अत एव मयापि पूर्वं नारदाच् छ्रुतम् । विज्ञान-सहितम् अनुभव-पर्यन्तं ज्ञानं धर्मं च श्रुतम् ॥२८॥
**क्रम-सन्दर्भः : **तत्रैव स्वस्य दर्शयति—श्रुतम् इति । ज्ञानं तत्-प्रतिपादकं वाक्यं यद् एव खल्व् अनुभव-पर्यन्तं फलं तत्-सहायत्वेन भागवतं धर्मं च श्रुतम्, तच् च शुद्धम् एव, न तु ज्ञान-कर्मादि-मिश्रम् ॥२८॥ \
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.६.२९ ॥
श्री-दैत्य-पुत्रा ऊचुः—
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।
एताभ्यां गुरु-पुत्राभ्यां बालानाम् अपि हीश्वरौ ॥
बालस्यान्तःपुर-स्थस्य महत्-सङ्गो दुरन्वयः ।
छिन्धि नः संशयं सौम्य स्याच् चेद् विस्रम्भ-कारणम् ॥
**श्रीधरः : **तत्राति-विस्मिताः पृच्छन्ति, प्रह्रादेति । हे प्रह्राद, त्वं वयम् एताभ्यां शण्डामर्काभ्याम् ऋतेऽन्यं गुरुं न विद्मः । एतद् आगमनात् पूर्वम् एवाहं नारद-पार्श्वं गत इति चेत् तत्राहुः—बालानाम् अप्य् अतिशिशूनाम् अस्माकम् एतावीश्वरौ नियन्तारावतस्तवान्यत्र गमनं न संभवति ॥२९॥
स एवात्रागत इत्य् अपि न संभवतीत्य् आहुः—वालस्येति । दुरन्वयो दुर्घटः । विश्रम्भ-कारणं विश्वास-हेतुः ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स-विस्मयं पृच्छन्ति—प्रह्लादेति । एताभ्याम् अमृतेऽन्यं गुरुं न विद्मः । बालानाम् ईश्वराव् इति त्वयाप्य् एतद्-धस्तात् स्वम् उन्मोच्य तत्-पार्श्वं गन्तुम् अशक्यम् इति । स एवात्रागत इत्य् अपि न सम्भवतीत्य् आहुः—बालस्येति ॥२९-३०॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठोऽध्यायः सप्तमस्य सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे
प्रह्लादानुचरिते
षष्ठोऽध्यायः ॥
॥ ७.६ ॥
(७.७)