०५ प्रह्लादानुचरिते

॥ ७.५.१ ॥

श्री-नारद उवाच—

पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः ।
षण्डामर्कौ सुतौ तस्य दैत्य-राज-गृहान्तिके ॥**

श्रीधरः :

पञ्चमे गुरुतोऽधीतं त्यक्त्वा विष्णुस् तुतौ रतम् ।

घातयन् द्विप-सर्पाद्यैः सुतं दैत्यो न चाशकत् ॥

भगवद्-भक्तिर् एव विद्वेषे कारणम् इति वक्तुम् आह—पौरोहित्यायेत्य्-आदिना । काव्यः शुक्रः । अतस् तस्य सुतौ दैत्य-राज-गृहान्तिके न्यवसताम् इति शेषः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

गुरुणाध्यापितः पित्रा पृष्टः कृष्णं स्तुवन् सुतः ।

पञ्चमे दिग्-गजाद्यैः स हतोऽपि स्वस्त्य् अराजत ॥

प्रह्लादस्य भक्तिर् एव विद्वेषे कारणम् इति वक्तुम् आह—पौरोहित्यायेत्य्-आदिना । काव्यः शत्रुः । अतस् तस्य सुतौ तत्र न्यवसताम् इति शेषः ॥१॥

—ओ)०(ओ—

॥ ७.५.२ ॥

तौ राज्ञा प्रापितं बालं प्रह्लादं नय-कोविदम् ।
पाठयाम् आसतुः पाठ्यान् अन्यांश् चासुर-बालकान् ॥**

**श्रीधरः : **पाठ्यान् दण्ड-नीत्य्-आदीन् । पाठ्यान् असुर-बालकान् इति वान्वयः ॥२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.३ ॥

यत् तत्र गुरुणा प्रोक्तं शुश्रुवेऽनुपपाठ च ।
न साधु मनसा मेने स्व-परासद्-ग्रहाश्रयम् ॥**

**श्रीधरः : **अनु श्रवणानन्तरं तथैव पपाठ च, किन्तु तत् साधु न मेने । तत्र हेतुः—स्वः पर इत्य् असद्-ग्रहो मिथ्याभिनिवेश एवाश्रयो यस्य तत् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यद् दण्ड-नीत्य्-आदिकं तत् साधु न मेने । कुतः ? स्वः पर इत्य् असद्-अनुग्रहं दुरभिनिवेशम् एव आ सम्यक् प्रकारेण श्रयते इति तत् ॥३॥

—ओ)०(ओ—

॥ ७.५.४ ॥

एकदासुर-राट् पुत्रम् अङ्कम् आरोप्य पाण्डव ।
पप्रच्छ कथ्यतां वत्स मन्यते साधु यद् भवान् ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : कठिन-पदार्थानां प्रश्ने बालस्यास्य स्तोभो भविष्यतीति मत्वा प्राह—यद् भवान् साधु अभ्यस्तीकृतं यत् त्वं जानासि मद्-अग्रे वक्तुं च शक्नोषि तद् एव वदेति हिरण्यकशिपोर् अभिप्रायः ॥४॥

—ओ)०(ओ—

॥ ७.५.५ ॥

श्री-प्रह्लाद उवाच—

तत् साधु मन्येऽसुर-वर्य देहिनां

सदा समुद्विग्न-धियाम् असद्-ग्रहात्।

हित्वात्म-पातं गृहम् अन्ध-कूपं

वनं गतो यद् धरिम् आश्रयेत ॥

**श्रीधरः : **हे असुर-वर्य ! असद्-ग्रहाद् अहं ममेति मिथ्याभिनिवेशाद् धेतोः सम्यग् उद्विग्ना निषण्णा धीर् येषां ते । वनं गतः सन् हरिम् आश्रयेतेति यत् तद् एवाहं साधु मन्ये । कथां-भूतं गृहम् ? आत्म-पातम् आत्मनोऽधः-पात-निमित्तम् । कुतः ? अन्ध-कूपवन् मोहावहम् ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रह्लादस् तु तद्-अभिप्रायं ज्ञात्वापि जगत्य् अस्मिन् जिज्ञास्यानां मध्ये भवान् किं वस्तु साधु मन्यते इति बुद्ध्या विचार्य स्व-सम्मतीकरोतीति मां पृच्छसि चेद् अस्य समुचितम् उत्तरं शृण्व् इत्य् आह—तद् इति । हे असुर-वर्य ! असद्-ग्रहाद् अहं ममेति मिथ्याभिनिवेशाद् उद्विग्न-धियां जनानां तद् एव साधु मन्ये । किं तत् ? आत्म-पात-हेतुं गृहं त्यक्त्वा वनं गतः सन् यद् धरिम् आश्रयेतेति यत् तद् एव हरि-चरणाश्रयणं साधु मन्ये । गृहे स्थितोऽपि स एव गृहम् अन्ध-कूपं हित्वा वनं गतः । अन्यथा वनं गतोऽपि गृहम् अन्ध-कूपम् एव श्रित इति च व्याचक्षते ॥५॥

—ओ)०(ओ—

॥ ७.५.६ ॥

श्री-नारद उवाच—

श्रुत्वा पुत्र-गिरो दैत्यः पर-पक्ष-समाहिताः ।
जहास बुद्धिर् बालानां भिद्यते पर-बुद्धिभिः ॥**

**श्रीधरः : **पर-पक्षे विष्णौ समाहिताः परिनिष्ठिताः । हासे हेतुः—बुद्धिर् इति ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पर-पक्षे शत्रु-पक्षे विष्णौ समाहिताः परिनिष्ठिताः । जहासेति बालोऽयं यो यद् धारयति, तद् एव धत्ते अस्य को दोषस् तद् अद्यारभ्य नारदाद्या वैष्णवा नात्र प्रवेशनीया इत्य्-आदि-देशेति भावः ॥६॥

—ओ)०(ओ—

॥ ७.५.७ ॥

सम्यग् विधार्यतां बालो गुरु-गेहे द्विजातिभिः ।
विष्णु-पक्षैः प्रतिच्छन्नैर् न भिद्येतास्य धीर् यथा ॥**

**श्रीधरः : **विष्णु-पक्षैर् भागवतैर् हेतु-भूतैः । ननु त्वद्-गृहे कुतस् तेषां प्रवेशः । सत्यम्, तथापि प्रतिच्छन्नैर् वेषान्तरेण छन्नैः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तद् अपि गुरु-गृह एव । ते चैवं वक्तव्या इत्य् आह—विष्णु-पक्षैर् इति ॥७॥

—ओ)०(ओ—

॥ ७.५.८ ॥

गृहम् आनीतम् आहूय प्रह्रादं दैत्य-याजकाः ।
प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥**

**श्रीधरः : **दैत्यैर् गृहम् आनीतम् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रश्नस्य श्लक्ष्णयेत्य् अन्यथा बालोऽयं भयेन स्वोपदेशकं वैष्णवं न वक्ष्यतीति भावः ॥८॥

—ओ)०(ओ—

॥ ७.५.९ ॥

वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा ।
बालान् अति कुतस् तुभ्यम् एष बुद्धि-विपर्ययः ॥**

**श्रीधरः : **बालान् सर्वान् अति अतिक्रम्य । तूभ्यं तव ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भद्रस् तु इति त्वद्-इष्टं मोदकादिकं दास्याम इति भावः । बालान् अतिक्रम्य । तूभ्यं तव ॥९॥

—ओ)०(ओ—

॥ ७.५.१० ॥

बुद्धि-भेदः पर-कृत उताहो ते स्वतोऽभवत् ।
भण्यतां श्रोतु-कामानां गुरूणां कुल-नन्दन ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भण्यताम् इति यद्य् अयं वैष्णवस्य कस्यचिन् नाम गृह्णाति, तदा तं वैष्णवं ज्ञात्वा राज्ञः सभां नीत्वा घातयाम इति भावः ॥१०॥

—ओ)०(ओ—

॥ ७.५.११ ॥

श्री-प्रह्राद उवाच—

परः स्वश् चेत्य् असद्-ग्राहः पुंसां यन्-मायया कृतः ।
विमोहित-धियां दृष्टस् तस्मै भगवते नमः ॥**

**श्रीधरः : **अहो माया-मोहिता भवन्तो मामाक्षिपन्तीत्य् आशयेन तावद् आह—स्वः परश् चेति मिथ्याभिनिवेशो यद् ईयया माययैव कृतः, न तु वास्तवः । अत एव तदीयया मायया विमोहित-बुद्धीनां भवताम् एव दृष्टः, न तु मम । तस्मै अचिन्त्य-मायेश्वराय नमः ॥११॥

**क्रम-सन्दर्भः : **पर इति पुंसां,भयं द्वितीयाभिनिवेशतः स्यात्[भा।पु। ११.२.३७] इत्य्-आदि-रीत्यानादिति एव भगवद्-विमुखानां जीवानाम्, अत एव न्यूनं सेर्ष्यया यस्य भगवतो मायया मोहित-धियां स्वरूप-विस्मरण-पूर्वक-देहात्म-बुद्ध्या विशेषेण मोहित-बुद्धीनामसतां, यन्माययैव परः परकीयोऽर्थः स्वीयोऽयमित्यसद्-आग्रहः कृतः,तस्मै भगवते नमः, तेषां तद्-आग्रह-शान्तये तमेव नमस्कारोमीत्यर्थः । स्व-शब्दोऽयमात्म-वाचकतायां नपुंसकमेव स्यात्,स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धनेइत्यमरः । तस्मादेवं व्याख्यातम् ॥११॥

विश्वनाथः : अहो मूढा इमे संसारे पाप-च्यमाना मां मुग्ध-बालकं जानन्तीति मनसि विभाव्याह—परः पर-पक्षः स्वः स्व-पक्ष इति असद्-ग्राहः असद्-आग्रहः श्लेषेण पुंसां संसार-सिन्धु-पतितानां ग्राहो हिंस्र-जनः जलजन्तु-विशेषः कृतः मायया सृष्टः दृष्टः पूर्वम् अनुमित एवासीत् सम्प्रति तु प्रत्यक्षीकृत इत्य् अर्थः । अतो यूयं प्रतिक्षणं चर्व्यध्वे एवेति भावः ॥११॥

—ओ)०(ओ—

॥ ७.५.१२ ॥

स यदानुव्रतः पुंसां पशु-बुद्धिर् विभिद्यते ।
अन्य एष तथान्योऽहम् इति भेद-गतासती ॥**

**मध्वः :**स्वातन्त्र्येणान्य-सद्भाव निषेधाय श्रुतिस् त्व् इयम् ।

अन्योऽसाव् अन्योऽहम् इति पश्यन्न् अज्ञ इति स्म ह ॥
आत्मानम् अन्तर्याम्यमयेद् इति भेदं स्वरूपतः ।
आह तद् ब्रह्मणोऽधीना भिन्ना जीवाः सदैव च ।
मुक्तस्यावस्थितिश् चैव सर्वं विष्णोर् वशे सदा ॥ इति ब्रह्म-तर्के ॥१२॥

**श्रीधरः : **अहो किम् एतत् प्रलपसि तव बुद्धि-भेदो यतो जातस् तं कथयेत्य् आक्षिप्तः संस् तत्-प्रसादाद् एवेत्य् उत्तरम् आह—स इति त्रिभिः । स भगवान् यदानुव्रतोऽनुकूलो भवति, तदा पशूनाम् अविवेकिनाम् इव बुद्धिर् भेद-गता असती मिथ्या संसार-विषया विभिद्यते अभिन्नात्म-निष्ठा भवति ॥१२॥

**क्रम-सन्दर्भः : **ततश् च, स यदेति कथञ्चिन् महतः प्रसङ्गेन तत्-साम्मुख्ये सति यदा स भगवान् अनुकूलः स्यात्, तदा पूर्वोक्त्या पशु-बुद्धिर् विभिद्यते नश्यतीत्य् अर्थः । ततस् ताम् एव विवृत्य दर्शयति—अन्य इति । अर्थ-काम-शास्त्रानुसारिणां भक्तानुगतानां नश्वरे सङ्घात एवात्मता मननाद् इति भावः ॥१२॥

**विश्वनाथः : **बुद्धि-भेदोऽयं तव कुत इत्य् अस्य प्रश्नोऽस्योत्तरम् आह—स इति । अनुव्रतोऽनुकूलः विशेषेण भिद्यते विदीर्यते । पशु-बुद्धिर् एव का ? तत्राह—अन्य एषोऽस्मद्-विपक्षस् तथान्योऽहम् एतस्य घातयितेति भेदं गता असती असाधुः । न हि गोप्यं हि साधूनाम् अमित्रोदास्त-विद्विषाम् इति भगवद्-उक्तेर् वस्तुतस् त्व् आत्म-दृष्ट्या सर्व-जीवानाम् ऐकरूप्यात् देह-दृष्ट्यापि सर्व-देहानां पञ्च-भूतात्मकत्वाद् भेदो नास्त्य् एवेति भावः ॥१२॥

—ओ)०(ओ—

॥ ७.५.१३ ॥

स एष आत्मा स्व-परेत्य् अबुद्धिभिर्

दुरत्ययानुक्रमणो निरूप्यते ।

मुह्यन्ति यद्-वर्त्मनि वेद-वादिनो

ब्रह्मादयो ह्य् एष भिनत्ति मे मतिम् ॥

**श्रीधरः : **भेदस्यासत्त्वं दर्शयन्न् आह—स एष परमात्मैव स्वः पर इति चाविवेकिभिर् निरूप्यते । युक्तं चैतत् । यतो यस्य वर्त्मनि जिज्ञासायां ब्रह्मादयोऽपि मुह्यन्ति । तत्र हेतुः—दुरत्ययं दुर्घटम् अनुक्रमणम् अनुचरितम् अनुवर्णनं वा यस्य ॥१३॥

**क्रम-सन्दर्भः : **स प्रसिद्धः परमात्मा तु एष मद्-दृष्टि-गोचरताम् इव गतः पूर्वोक्तैः स्व-परेत्य् अबुद्धिभिस् तु दुरत्ययानुक्रमणो निरूप्यते, दुर्बोध-रीतितया निश्चीयते । अहो आसतां ते यतस् तद्-वर्त्मनि वेद-वादिनोऽपि मुह्यन्ति, तेऽप्य् आसतां ब्रह्मादयोऽपि मुह्यन्तीति स एष एव च मन्-मतिं भिनत्ति । भवन्-मतात् पृथक् करोति ॥१३॥

विश्वनाथः : उक्त-लक्षण-पशु-बुद्धिमतां सुदुर्ज्ञेय इत्य् आह—स इति । एष परमात्मा स्वः स्व-पक्षः परो विपक्ष इति कुत्सिता बुद्धिर् येषां तैर् दुरत्ययं दुर्गमम् अनुक्रमणम् अनुसरणं यस्य सः, न च सुबुद्धिभिः शास्त्रज्ञैः सुगमम् एव तद्-अनुसरणम् इति वाच्यम् इत्य् आह—यद्-वर्त्मनि यत्-प्राप्ति-मार्गे अनुसरण-रूपे भक्ति-योगे वेद-वादिनो वेदार्थ-तात्पर्य-विवेचका अपि मुह्यन्ति । यूयं तु ज्ञान-लव-दुर्विदग्धाः किम् उतेति भावः । एष भगवान् मे मतिं भिनत्ति युष्मन्-मतिभ्यः सकाशाद् भिन्नां करोति ॥१३॥

—ओ)०(ओ—

॥ ७.५.१४ ॥

यथा भ्राम्यत्य् अयो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ ।
तथा मे भिद्यते चेतश् चक्र-पाणेर् यदृच्छया ॥**

**श्रीधरः : **ननु निर्विकारस्य कथं मति-भेदकत्वम् ? तत्राह—यथेति । यथा अयो लोहम् आकर्षस्यायस्कान्तस्य समीपे स्वयम् एव भ्रमति, तथा मे चेतश् चक्र-पाणेः सन्निधौ । तव कुतो जातस् तत् सन्निधिः ? तत्राह—यदृच्छयेति । कस्य तपो-दानादेः फलम् एतद् इति न ज्ञायत इत्य् अर्थः ॥१४॥

**क्रम-सन्दर्भः : **ननु, तेनैव त्वन्-मतिर् भिद्यते न त्व् अस्माभिः तथा तवैव मतिस् तेन भिद्यते न त्व् अस्माकम् इति कथं? तत्राह—यथेति । यदृच्छया स्वैरितया कारणान्तर-निरपेक्षतयेत्य् अर्थः । यदृच्छा स्वैरिता इत्य् अमरः । आकर्षायसोर् यथासौ स्वभावस् तथावयोर् अपीति युक्तम् एव तत् तद् इत्य् अर्थः ॥१४॥ [प्रीति-सन्दर्भ ९३]

विश्वनाथः : स एव मतेर् भेदः किम्-आकारः ? इति चेत् तत्राह—यथा अयो लोहम् आकर्षस्यायस्कान्तस्य सन्निधौ स्वयं भ्राम्यति, तथैव मे चेतः चक्रपाणेः सन्निधौ स्वयम् एव भ्राम्यति, भिद्यते युष्मच्-चेतोभ्यः सकाशाद् भिन्नं भवति । यदृच्छयेति नात्र सत्-कर्म-तपो-दानादेर् हेतुत्वं सम्भवतीत्य् अर्थः । अयम् अर्थः—अयस्कान्तेन स्व-शक्त्यैव लोखम् आकृष्य संयुक्तीक्रियते, तत्र किम् अपि कारणं प्रयोजनं च नास्तीत्य् अयस्कान्तस्य स्व-स्वभाव एव यथा तथैव चक्र-पाणेर् अपि स्वभाव एवायम्, यत् कृपा-परवशतया स्वभक्तस्य चेतसः स्वस्मिन्न् आकर्षणम् इति तत्र मम किं स्वातन्त्र्यम् अस्तीति भावः ॥१४॥

—ओ)०(ओ—

॥ ७.५.१५ ॥

श्री-नारद उवाच—

एतावद् ब्राह्मणायोक्त्वा विरराम महा-मतिः ।
तं सन्निभर्त्स्य कुपितः सुदीनो राज-सेवकः ॥**

**श्रीधरः, विश्वनाथः : **राज-सेवक उवाचेति शेषः ॥१५॥

**क्रम-सन्दर्भः : **एतावद् इत्य् अर्धकम् । तम् इत्य् अर्धकम् ॥१५॥

—ओ)०(ओ—

॥ ७.५.१६ ॥

आनीयताम् अरे वेत्रम् अस्माकम् अयशस्करः ।
कुलाङ्गारस्य दुर्बुद्धेश् चतुर्थोऽस्योदितो दमः ॥**

**श्रीधरः : **अरे वेत्रं कशा आनीयताम् । साम-दान-भेद-दण्डानां मध्ये चतुर्थो दमो दण्डोऽस्य दुर्बुद्धेर् उदित उक्तः शास्त्रेषु । दुर्बुद्धित्वे हेतुः, कुलाङ्गारस्य कुलस्याङ्गार-वन्-नाश-हेतोः ॥१६॥

**क्रम-सन्दर्भः : **आनीयताम् इत्य् अस्याद्ये चरणे युष्माभिर् इति, द्वितीये यस्माद् अयम् इति परार्धे यतो यस्येत्य् अध्याहार्यम्, “आनयध्वम् अरे वेत्रम्” इत्य्-आदिकतया तु यन् नोक्तं, तत् खलु तस्य कोमलतां दृष्ट्वा नातिस्पष्टं कर्तुं शक्तत्वाद् इति गम्यते ॥१६॥

विश्वनाथः : वेत्रं प्रहरण-दण्ड-विशेषः । यद् अयम् अयशस्करः, ततोऽस्य दुर्बुद्धेर् उपायानां मध्ये चतुर्थो दमो दण्ड एव उदित उक्तः शास्त्रेषु ॥१६॥

—ओ)०(ओ—

॥ ७.५.१७ ॥

दैतेय-चन्दन-वने जातोऽयं कण्टक-द्रुमः ।
यन्-मूलोन्मूल-परशोर् विष्णोर् नालायितोऽर्भकः ॥**

**श्रीधरः : **तत् कुतस् तत्राह—दैतेया एव चन्दन-द्रुमास् तेषां वनेऽयं कण्टक-द्रुम-तुल्यो जातः । तद् एवाह—यस्य दैतेय-चन्दन-वनस्य मूलोन्मूलने परशु-स्थानीयस्य विष्णोर् अयम् अर्भक एव नालायितो नालम् इवाचरत् । यथा परशोश् छेदकत्वे बब्बूलादि-द्रुम-निर्मितो दण्डः सह-कारी तं विना छेदनासंभवात्, तथायं विष्णोर् दैत्य-मूलोच्छेदे हेतुर् जात इत्य् अर्थः ॥१७॥

**क्रम-सन्दर्भः : **पुनश् च स एव तादृश-परम-शुद्ध-रूपस्य विष्णोर् नालायितः इत्य् आसामञ्जस्यम् अतीवेति भावः ॥१७॥

विश्वनाथः : यस्य वनस्य मूलोन्मूलने परशु-स्थानीयस्य विष्णोर् नालायितो दण्ड-स्थानीयो लोके हि परशोर् दण्डो बर्बुर एव प्रसिद्धः । स च कण्टक-द्रुमः ॥१७॥

—ओ)०(ओ—

॥ ७.५.१८ ॥

इति तं विविधोपायैर् भीषयंस् तर्जनादिभिः ।
प्रह्रादं ग्राहयाम् आस त्रि-वर्गस्योपपादनम् ॥**

**श्रीधरः : **इति तं प्रह्रादं भीषयन् धर्मार्थ-काम-वर्गस्य प्रतिपादकं शास्त्रम् अध्यापयाम् आस ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ग्राहयामास ग्राहयितुम् यतते स्मेत्य् अर्थः ॥१९॥

—ओ)०(ओ—

॥ ७.५.१९ ॥

तत एनं गुरुर् ज्ञात्वा ज्ञात-ज्ञेय-चतुष्टयम् ।
दैत्येन्द्रं दर्शयाम् आस मातृ-मृष्टम् अलङ्कृतम् ॥**

**श्रीधरः : **ज्ञातं ज्ञेयम् उपायानां चतुष्टयं साम-दानादि येन, तं दैत्येन्द्रं प्रति । मात्रा मृष्टम् उद्वर्त्य स्नापितम् । अलङ्कृतं भूषण-तिलकादिभिः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ज्ञातं ज्ञेयं ज्ञातुम् अर्हं चतुष्टयं साम-दान-भेद-दण्डन्तः-करणम् उपाय-चतुष्कं येन तम् ॥१९॥

—ओ)०(ओ—

॥ ७.५.२०-२१ ॥

पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः ।
परिष्वज्य चिरं दोर्भ्यां परमाम् आप निर्वृतिम् ॥**

आरोप्याङ्कम् अवघ्राय मूर्धन्य् अश्रु-कलाम्बुभिः ।
आसिञ्चन् विकसद्-वक्त्रम् इदम् आह युधिष्ठिर ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.२२ ॥

हिरण्यकशिपुर् उवाच—

प्रह्रादानूच्यतां तात स्वधीतं किञ्चिद् उत्तमम् ।
कालेनैतावतायुष्मन् यद् अशिक्षद् गुरोर् भवान् ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सुष्ठु अधीतं संशयादि-रहितम् अनु अनुकूलं गुरोर् हिरण्यकशिपु-मते शुक्र्।अथवाजात्, प्रह्लाद-मते नारदात् ॥२२॥

—ओ)०(ओ—

॥७.५.२३-२४॥

श्री-प्रह्राद उवाच—

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥**

इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥**

मध्वः : आत्म-स्थत्वेन वेदनम् आत्म-वेदनम् ।

मुक्तस्यापि ममान्तः-स्थो नियन्तैव हरिः सदा ।
इति ज्ञानं समुद्दिष्टं सम्यग् आत्म-निवेदनम् ॥ इति च ॥२३॥

श्रीधरः : पाद-सेवनं परिचर्या । अर्चनं पूजा । दास्यं कर्मार्पणम् । सख्यं तद्-विश्वासादि । आत्म-निवेदनं स्व-शरीर-समर्पणम् । यथा विक्रीतस्य गवाश्वादेर् भरण-पालनादि-चिन्ता न क्रियते, तथा देहं तस्मै समर्प्य तच् चिन्ता-वर्जनम् इत्य् अर्थः ॥२३॥

इति नव-लक्षणानि यस्याः सा अधीतेन चेद् भगवति विष्णौ भक्तिः क्रियते सा चार्पितैव सती यदि क्रियेत, न तु कृता सती पश्चाद् अर्प्येत तद् उत्तमम् अधीतं मन्ये, न त्व् अस्माद् गुरोर् अधीतं शिक्षितं वा तथा-विधं किञ्चिद् अस्तीति भावः ॥२३॥

**सनातन-गोस्वामी : **पाद-सेवनं परिचर्या । अर्चनं पूजा । दास्यं कर्मार्पणम् । सख्यं तद्-विश्वासादि । आत्म-निवेदनं देह-समर्पणम् । यथा विक्रीतस्य गवादेर् भरण-पालनादि-चिन्ता न क्रियते, तथा देहं तस्मै तच्-चिन्ता-वर्जनम् इत्य् अर्थः ॥२३॥

**क्रम-सन्दर्भः : **श्रवणम् इति युग्मकम् । तत्र श्रवणं नाम-रूप-गुण-परिकर-लीला-मय-शब्दानां श्रोत्र-स्पर्शः । एवं कीर्तन-स्मरणयोर् अपि क्रमो ज्ञेयः । स्मरणं यत् किञ्चिन्-मनसानुसन्धानम् । पाद-सेवनं काल-देशाद्य्-उचित-परिचर्या । अर्चनं विष्णु-पूजा । वन्दनं नमस्कारः । दास्यं तद्-दासोऽस्मीत्य् अभिमानः । सख्यं बन्धु-भावेन तदीय-हिताशंसनम् । आत्म-निवेदनं देहादि-शुद्धात्म-पर्यन्तस्य सर्वतो-भावेन तस्मिन्न् एवार्पणम् इति नव-लक्षणानि यस्याः, सा भगवति तद्-विषयिका अद्धा साक्षाद्-रूपा, न तु कर्माद्य्-अर्पण-रूप-परस्परा भक्तिः । इयं यत्रापि श्री-विष्णुर् एवार्पिता, तद्-अर्थम् एवेदम् इति भाविता, न तु धर्मार्थादिष्व् अर्पिता । एवम् एवम्-भूता चेत् क्रियेत, तदा तेन कर्त्रा यद् अधीतं, तद् उत्तमं मन्ये इत्य् अर्थः ।

तथा च श्री-गोपाल-तापनी श्रुतिः—भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैराश्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम्[गो।ता।उ। १.१४] इति ।

नव-लक्षणेति समुच्चयो नावश्यकः । एकेनैवाङ्गेन साध्याव्यभिचार-श्रवणात् । क्वचिद् अन्याङ्ग-मिश्रणं तु तथापि भिन्न-श्रद्धा-रुचित्वात् । ततो नव-लक्षण-शब्देन भक्ति-सामान्योक्त्या तन्-मात्रानुष्ठानं विधीयत इति ज्ञेयम् । ततो नव-लक्षणत्वं चास्या अन्येषाम् अप्य् अङ्गानां तद्-अन्तर्भावाद् उक्तम् ॥

अत्र1 नव-लक्षण-समुच्चयो नावश्यकः । एकेनैवाङ्गेन साध्याव्यभिचार-श्रवणात् क्वचिद् अन्याङ्ग-मिश्रणं तु, तथापि भिन्न-श्रद्धा-रुचित्वात्, ततो नव-लक्षण-शब्देन सामान्योक्त्या तन्-मात्रानुष्ठानं विधीयत इति ज्ञेयं, नव-लक्षणत्वं चास्याः । अन्येषाम् अप्य् अङ्गानां तद्-अन्तर्-भावाद् युक्तम् ॥ [भक्ति-सन्दर्भ १६९]

किञ्चिच् चात्र विशिष्य लिख्यते, तद् एवं नामादि-श्रवणब्-हक्त्य्-अङ्ग-क्रमः । तत्र यद्यप्य् एकतरेणापि व्युत्क्रमेणापि सिद्धिर् भवत्य् एव, तथापि प्रथमः नाम्नः श्रवणम् अन्तः-करण-शुद्ध्य्-अर्थम् अपेक्ष्यम् । शुद्धे चान्तः-करणे रूप-श्रवणेन, तद्-उदय-योग्यता भवति । सम्यग्-उदिते च रूपे गुणानां स्फुरणं सम्पद्यते । सम्पन्ने च गुणानां स्फुरणेन परिकर-वैशिष्ट्ये ततस् तेषु नाम-रूप-गुण-परिकरेषु सम्यक् स्फुरितेषु लीलानां स्फुरणं सुष्ठु भवतीत्य् अभिप्रेत्य साधन-क्रमो लिखितः । एवं कीर्तन-स्मरणयोश् च ज्ञेयम् ।

इदं च श्रवणं श्रीमन्-महन्-मुखरितं चेन् महा-माहात्म्यं2 जात-रुचीनां परम-सुखदं च । तच् च द्विविधं—महद्-आविर्भावितं महत्-कीर्त्यमानं चेति । [भक्ति-सन्दर्भ २५६]

तत्र श्री-भागवतम् उपलक्ष्य पूर्वं यथा—

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ॥ [भा।पु। १.३.४०]

तत्रापि श्रवणे श्री-भागवत-श्रवणं तु परम-श्रेष्ठम् । तस्य तादृश-प्रभावमय-शब्दात्मकत्वात् परम-रसमयत्वाच् च । [भक्ति-सन्दर्भ २६०]

अत्र मूर्त्याभिमतयात्मनः इतिवत् निजाभीस्ट-नामादि-श्रवणं तु मुहुर् आवर्तयितव्यम् । तत्रापि स-वासन-महानुभव-मुखात् सर्वस्य श्री-कृष्ण-नामादि-श्रवणं तु परम-भाग्याद् एव सम्पद्यते, तस्य पूर्ण-भगवत्त्वाद् इति । एवं कीर्तनादिष्व् अप्य् अनुसन्धेयम् । तत्र यत् स्वयं सम्प्रति कीर्त्यते, तद् अपि श्री-शुकदेवादि-महत्-कीर्तित-चरत्वेनानुसन्धाय कीर्तनीयम् इति ।

तद् एवं श्रवणं दर्शितम् । अस्य च कीर्तनादितः पूर्वत्वं, तद् विना तत्-तद्-अज्ञानात् । विशेषतश् च यदि साक्षाद् एव महत्-कृतस्य श्रवण-भाग्यं न सम्पद्यते, तदैवं स्वयं पृथक्-कीर्तनीयम् इति तत्-प्राधान्यात् । अत3 एवोक्तं तद्-वाग्-विसर्गो जनताघ-विप्लवः [भा।पु। १.५.११, १२.१२.५२] इत्य् आदौ । टीका-कृद्भिः—यद् यानि नामानि वक्तरि सति शृण्वन्ति श्रोतरि सति गृणन्ति । अन्यदा तु स्वयम् एव गायन्ति इति ।

अथातः **कीर्तनम् **। तत्र पूर्ववन् नामादि-क्रमो ज्ञेयः । [भक्ति-सन्दर्भ २६५]

नाम-कीर्तनं चेदम् उच्चैर् एव प्रशस्तम्—नामान्य् अनन्तस्य हत-त्रपः पठन् [भा।पु।१.६.२७] इत्य् आदौ । [भक्ति-सन्दर्भ २६५]

अत्र च नाम-सङ्कीर्तने यथोपदिष्टं कलि-युग-पावनावतारेण श्री-भगवता—

तृणाद् अपि सुनीचेन तरोर् अपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ [पद्या। ३२] इति । [भक्ति-सं। २६९]

इयं च कीर्तनाख्या भक्तिर् भगवतो द्रव्य-जाति-गुण-क्रियाभिर् दीन-जनैक-विषयापार-करुणा-मयीति श्रुति-पुराणादि-विश्रुतिः । कलौ च दीनत्वं, यथा ब्रह्म-वैवर्ते—

अतः कलौ तपो-योग-विद्या-याज्ञादिकाः क्रियाः ।
साङ्गाः भवन्ति न कृताः कुशलैर् अपि देहिभिः ॥ इति ।

अत एव कलौ स्वभावत एवातिदीनेषु लोकेष्व् आविर्भूय तान् अनायासेनैव तत्-तद्-युग-गत-महा-साधनानां सर्वम् एव फलं ददाना सा कृतार्थयति । अत एव तयैव कलौ4 भगवतो विशेषतश् च सन्तोषो भवति । [भक्ति-सन्दर्भः २७०]

अत्र कलि-प्रसङ्गेन कीर्तनस्य गुणोत्कर्ष इति वक्तव्यम् । भक्ति-मात्रे काल-देशादि-नियमस्य निषिद्धत्वात् । तस्मात् सर्वत्रैव युगे श्रीमत्-कीर्तनस्य समानम् एवसामर्थ्यम् कलौ श्री-भगवता कृपया तद् ग्राह्यम् इत्य् अपेक्षयैव तत्-तत्-प्रशंसेति स्थितम् । अत एव यद्यपि अन्य-भक्तिः कलौ कर्तव्या, तदा तत्-संयोगेनैवेत्य् उक्तम्—यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः [भा।पु। ११.५.२९] इति । अत्र च स्वतन्त्रम् एव नाम-कीर्तनम् अत्यन्त-प्रशस्तम्—

हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ इत्य् आदौ ।

तस्मात् साधूक्तं कलिं सभाजयन्त्य् आर्याः [भा।पु। ११.५.३] इत्य्-आदि-त्रयम् ॥ [भक्ति-सं। २७३]

अत्र पाद्मोक्ताः दशापराधाः त्याज्याः । यथा सनत्-कुमार-वाक्ये—

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ इति ।

**अपराधाश् **चैते—

सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥
गुरोर् अवज्ञा श्रुति शास्त्र निन्दनम्
तथार्थ वादो हरि नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥
धर्म व्रत त्याग हुतादि सर्व
शुभ क्रिया साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्य् अशृण्वति
यश् चोपदेशः शिव नामापराधः ॥
श्रुत्वापि नाम माहात्म्ये
यः प्रीति रहितोऽधमः ।
अहं ममादि परमो
नाम्नि सोऽप्य् अपराध कृत् ॥ इति ।

एतेषाम् अपराधानाम् अनन्य-प्रायश्चित्तं चोक्तम् तत्रैव—

नामापराधयुक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।

सत्स्व् अप्य् अपराधेषु तत्-सन्तोषणार्थम् एव सन्तत-नाम-कीर्तनादिकं समुचितम् अम्बरीष-चरितादौ तद्-एक-क्षम्यत्वे । नामापराधानां दर्शनात् उक्तं च नाम-कौमुद्याम् महद्-अपराधस्य भोग एव निवर्तकस् तद्-अनुग्रहो वेति । अत एवोक्तं श्री-शिवं प्रति दक्षेण—योऽसौ मया विदित-तत्त्व-दृशा सभायाम्[भा।पु। ४.७.१५] इत्य्-आदि ।

अस्मिन् कीर्तने निज-दैन्य-निजाभीष्ट-विज्ञप्ति-स्तव-पाठाव् अप्य् अन्तर्-भावौ । तथात्र श्री-भागवत-स्थित-नामादि-कीर्तनं तु पूर्ववद् अन्यदीय-नामादि-कीर्तनाद् अधिकं ज्ञेयम् ।

अथ कीर्तनादिभिः5शुद्धान्तः-करणश् चेत् एतन्निर्विध्यमानानाम् इच्छताम् अकुतो-भयम् [भा।पु। २.१.११] इत्य्-आद्य्-उक्तत्वान् नाम-कीर्तनापरित्यागेन स्मरणं कुर्यात् । तच् च मनसानुसन्धानम्6 । यद् एव नामादि-सम्बन्धित्वेन बहु-विधं भवति।

तच् च पञ्च-विधं यत्-किञ्चिद्-अनुसन्धानं स्मरणम् । सर्वतश् चित्तम् आकृष्य सामान्याकारेण मनो-धारणं धारणा । विशेषतो रूपादि-विचिन्तनं ध्यानम् । अमृत-धारावद् अनवच्छिन्नं7 तद् ध्रुवानुस्मृतिः । ध्येय-मात्र-स्फुरणं समाधिर् इति ।क्वचिल् लीलादि-युक्ते च तस्मिन् अन्यास्फुर्तिः समाधिः स्यात् । एतद्-रूपो दासादि-भक्तानां पूर्वस् तु प्रायः शान्त-भक्तानाम् ।

अथ रुचिः शक्तिश् च चेत् तद्-अपरित्यागेन पाद-सेवा च कर्तव्या । सेवा स्मरण-सिद्ध्य्-अर्थं सा कैश्चित् क्रियते पाद-सेवायां पाद-शब्दो भक्त्यैव निर्दिष्टः । ततः सेवायाः सादरत्वं विधीयते । अस्य श्री-मूर्ति-दर्शन-स्पर्शन-परिक्रमानुव्रजन-भगवन्-मन्दिर-गङ्गा-पुरुषोत्तम-द्वारका-मथुरादि-तदीय-तीर्थ-स्थान-गमनादयोऽप्य् अन्तर्भाव्याः तत्-परिकर-प्रायत्वात् गङ्गादीनां परम-भागवतत्व-पक्षे तु तत्-सेवादिकं महत्-सेवादाव् एव पर्यवस्यति । तुलसी-सेवा च तस्याश् चैवान्तर्-भाव्या । ततो महताम् इव गङ्गादीनां भक्ति-निदानत्वम् ।

अथार्चनम् तन्-मार्गे श्रद्धा चेद् आश्रित-मन्त्र-गुरुस् तं विशेषतः पृच्छेत् । यद्यपि श्री-भागवत-मते पञ्चरात्रादिवद् अर्चन-मार्गस्यावश्यकत्वं नास्ति, तद् विनापि श्रवणादीनाम् एकतरेणापि पुरुषार्थ-सिद्धेर् अभिहितत्वात् । तथोक्तं प्राचीनैर् अपि—

श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ [पद्यावली ५३]

तथापि श्री-नारदादि-वर्त्मानुसरद्भिः श्री-भगवता सह सम्बन्ध-विशेषं दीक्षा-विधानेन श्री-गुरु-चरण-सम्पादितं चिकीर्षद्भिः कृतायां दीक्षायाम् अर्चनम् अवश्यं क्रियेतैव । ये तु सम्पत्तिमन्तो गृह-स्थास् तेषां त्व् अर्चन-मार्ग एव मुख्यः । तद् अकृत्वापि निष्किञ्चनवत् केवल-स्मरणादि-निष्ठत्वे वित्त-शाठ्य-प्रतिपत्तिः स्यात्, पर-द्वारा सम्पादनं व्यवहार-निष्ठत्वस्यालसत्वस्य वा प्रतिपादकम् ।

ततोऽश्रद्धामयत्वाद् धिनम् एव तत् । ततश् च योऽमायया सततयानुवृत्त्या [भा।पु। १.३.३८]इत्य्-आद्य्-उपदेशाद् भ्रश्येत् ।

किं च, गृहस्थानां परिचर्या-मार्गे द्रव्य-साध्यतया तद्-अर्चन-मार्गाद् अविशेषेण प्राप्तेऽप्य् अर्चन-मार्गस्य प्राधान्यम् अत्यन्त-विधि-सापेक्षत्वात् तेषाम् । तथा गार्हस्थ्य-धर्मस्य देवता-याग-रूपस्य शाखा-पल्लवादि-सेक-स्थानीयस्य मूल-सेक-रूपं तद्-अर्चनम् इत्य् अपि तद्-अकरणे महान् दोषः ।

दीक्षितानां च सर्वेषां तद्-अकरणे नरक-पातः श्रूयते । अशक्तम् अयोग्यं प्रति चाग्नेये—

पूजितं पूज्यमानं वा यः पश्येद् भक्तिमतो हरिम् ।
श्रद्धया मोदयेद् यस् तु सोऽपि योग-फलं लभेत् ॥ इति ।

योगोऽत्र पञ्चरात्राद्य्-उक्तः क्रिया-योगः ।

किं च, अस्मिन्न् अर्चन-मार्गेऽवश्यं विधिर् अपेक्षणीयः । ततः पूर्वं दीक्षा कर्तव्या । अथ शास्त्रीयं विधानं च शिक्षणीयम् । तत्र वैष्णव-सम्प्रदाय एव प्रमाणम् ।

ननु भगवन्-नामात्मका एव मन्त्राः । तत्र विशेषेण नमः-शब्दाद्य्-अलंकृताः श्री-भगवता श्री-महर्षिभिश् चाहित-शक्ति-विशेषाः श्री-भगवता समम् आत्म-सम्बन्ध-विशेष-प्रतिपादकाश् च । तत्र केवलानि श्री-भगवन्-नामान्य् अपि निरपेक्षाण्य् एव परम-पुरुषार्थ-फल-पर्यन्त-दान-समर्थानि । ततो मन्त्रेषु नामतोऽप्य् अधिक-सामर्थ्ये लब्धे कथं दीक्षाद्य्-अपेक्षा ?

उच्यते, यद्यपि स्वरूपतो नास्ति, तथापि प्रायो देहादि-सम्बन्धेन कदर्य-शीलानां विक्षिप्त-चित्तानां जनानां तत्-तत्-सङ्कोचीकरणाय श्री-महर्षि-प्रभृतिभिर् अत्रार्चन-मार्गे क्वचित् क्वचित् काचित् काचिन् मर्यादा स्थापितास्ति । ततस् तद्-उल्लङ्घने शास्त्रं प्रायश्चित्तम् उद्भावयति ।

तत उभयम् अपि समञ्जसम्8 इति ।

तद् एतद् अर्चनं द्विविधम्—केवलं, कर्म-मिश्रं च । तयोः पूर्वं निरपेक्षाणां श्रद्धावतां दर्शितम् । उत्तरं व्यवहार-चेष्टातिशयवत्ता यादृच्छिक-भक्त्य्-अनुष्ठानवत्तादि-लक्षण-लक्षित-श्रद्धानां, तथा तद्-वैपरीत्य-लक्षित-श्रद्धानाम् अपि प्रतिष्ठितानां भक्ति-वार्तानभिज्ञ-बुद्धिषु साधारण-वैदिक-कर्मानुष्ठान-लोपोऽपि मा भूद् इति लोक-सङ्ग्रह-पराणां गृहस्थानां दर्शितम् ।

अस्याङ्गानि चागमादौ ज्ञेयानि । तथा श्री-कृष्ण-जन्माष्टमी-कार्तिकादि-व्रतैकादशी-व्रतादिकम् अत्रैवान्तर्-भाव्यम् ।

अथास्मिन् पाद-सेवनार्चन-मार्गे अपराधास् त्याज्या अत्रागमोक्तानुसारेण लिख्यन्ते—

यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे ।
देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥
उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् ।
एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥
पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् ।
शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥
उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥
कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः ।
अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥
शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ।
तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥
विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके ।
पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥
गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ।
अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥[ह।भ।वि। ८.४४१-८]

वाराहे च येऽन्येऽपराधास्ते सङ्क्षिप्य लिख्यन्ते । राजान्नभक्षणम् ध्वान्तागारे हरेः स्पर्शः विधिं विना हर्यूपसर्पणं वाद्यं विना तद्द्वारोद्धाटनं कुक्कुरदृष्टे भक्ष्यसङ्ग्रहः अर्चने मौनभङ्गः पूजाकाले विडुत्सर्गाय गमनम् । गन्धमाल्यादिकमदत्वा धूपनम् अनर्हम्पुष्पेण पूजनं तथा,

अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥
रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् ।
परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥
क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् ।
भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥
तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥ [ह।भ।वि। ८.४५६-९]

तथा तत्रैवान्यत्र—भगवच्-छास्त्रानादरेण तत्-प्रतिपत्तिः अन्य-शास्त्र-प्रवर्तनं तद्-अग्रतस् ताम्बूल-चर्वणम् एरण्ड-पत्र-स्थ-पुष्पैर् अर्चनम् आसुर-काले पूजा पीठे भूमौ चोपविश्य पूजनं स्नपन-काले वाम-हस्तेन तत्-स्पर्शः पर्युषितैर् याचितैर् वा पुष्पैर् अर्चनं पूजायां ष्ठीवनं तस्यां स्व-गर्व-प्रतिपादनं तिर्यक्-पुण्ड्र-धृतिः अधौत-पदत्वेऽपि तन्-मन्दिर-प्रवेशः अवैष्णव-पद-निवेदनम् अवैष्णव-दृष्टौ पूजनं विघ्नेशम् अपूजयित्वा कपालिनं दृष्ट्वा वा पूजनं न स्वाम्भसा स्नपनं घर्माम्बु-लिप्तत्वेऽपि पूजनम् इत्य् आदयः । अन्यत्र निर्माल्य-लङ्घनं भगवच्-छपथादयोऽन्ये च बहवः ।

अथ तथापि प्रामादिके भगवद्-अपराधे पुनर् भगवत्-प्रसादनानि कर्तव्यानि । यथा स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ—

अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।
द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ इति ।

तत्रैव द्वारका-माहात्म्ये—

सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि ।
अपराध-सहस्रेण न स लिप्येत् कदाचन ॥ इति ।

तत्रैव रेवा-खण्डे—

द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् ।
द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ इति ।

तत्रैवान्यत्र—

तुलस्य्-आरोपणं कार्यं श्रावणेषु विशेषतः ।
अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ इति ।

तत्र वान्यत्र कार्तिक-माहात्म्ये—

तुलस्या कुरुते यस् तु शाग्राम-शिलार्चनम् ।
द्वात्रिंशद्-अपराधांश् च क्षमते तस्य केशवः ॥ इति ।

ब्रह्म-पुराणे—

यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः ।
अपराध-सहस्राणि नित्यं हरति केशवः ॥इति ।

आदि-वाराहे—

संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥
मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ।
अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥
सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥इति ।

शौकरके शूकर-क्षेत्राख्ये ।

अथार्चन-मार्गे क्वचिन् मानस-पूजा च विहितास्ति । तथा च पाद्मोत्तर-खण्डे—साधारणं हि सर्वेषां मानसेज्या नॄणां प्रिया इति ।

गौतमीये—संन्यासिनां मुमुक्षूणां मानसोपहृतिः परा इति ।

तन्-महिमा यथा श्री-नारद-पञ्चरात्रे श्री-नारायण-वाक्ये—अयं यो मानसो योगो जरा-व्याधि-भयापहः इत्य्-आदौ,

यश् चैतत् परया भक्त्या सकृत् कुर्यान् महा-मते ।
क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ इति ।

एषा क्वचित् स्वतन्त्रापि भवति । मनो-मय्या मूर्तेर् अष्टमतया स्वातन्त्र्येण विधानात्—अर्चादौ हृदये वापि यथोपलब्धोपचारकैः [भा।पु। ११.३.५१] इत्य् आविर्होत्र-वचनेन वा-शब्दात् ।

अत्र ब्रह्म-वैवर्ते कथा च—प्रतिष्ठान-पुरे कश्चिद् विप्र आसीत् । स च दरिद्रोऽपि कम्राधीनम् आत्मानं मन्यमानः शान्त एवासीत् । स तु सरल-बुद्धिः कदाचित् विप्रेन्द्राणां सदसि वैष्णवान् धर्मान् शुश्राव । ते च धर्मा मनसापि सिद्ध्यन्तीति श्रुत्वा दरिद्रः स्वयं तथैवाचरितुम् आरब्धवान् । ततश् च गोदावरी-स्नान-पूर्वकं नित्य-कर्म समाप्य शान्त-मतिर् भूत्वा विविक्तासनः प्राणायामादि-कर्म-पूर्वकं स्थिरीभूय मनसैवाभिमतां हरि-मूर्तिं स्थापयित्वा स्वयं दुकूलादिकं परिधाय दृढं परिकरं बद्ध्वा तत्-सदनं सम्मार्ज्य तां प्रणम्य राजत-सौवर्ण-घटैः सर्वेषां गङ्गादि-तीर्थानां जलम् आहृत्य तथा नाना-परिचर्या-द्रव्याण्य् उपानीय तदीयं स्नपनादिकम् आरात्रिकान्तं महाराजोपचारं समाप्य, दिनं दिनं सुखातिशयम् आप्नुवन्न् आसीत् । तद् एवं बहुषु कालेषु गतेषु कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितः, तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन् हन्त तद् इदं दुष्टं जातम् इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव । तद् अवधाय वैकुण्ठे समुपविष्टेन श्री-वैकुण्ठ-नाथेन हसता श्री-प्रभृतिभिस् तत्-कारणं पृष्टेन च सतां तं स्व-निकटं विमानेन आनयामासे । तथाविधतया दर्शयामासे स्व-निकटे योग्यतया स्थापयामासेति ॥

अथ वन्दनम् । तच् च यद्यप्य् अर्चनाङ्गत्वेनापि वर्तते, तथापि कीर्तन-स्मरणवत् स्वातन्त्र्येणादीत्य् अभिप्रेत्य पृथग् विधीयते । एवम् अन्यत्रापि ज्ञेयम् । वन्दनस्य पृथग्-विधानं चानन्त-गुणैश्वर्य-श्रवणात् तद्-गुणानुसन्धान-पाद-सेवादौ विधृत-दैन्यानां नमस्कार-मात्रे कृताध्यवसायानाम् अर्थे ।

स एष नमस्कारस् तस्यार्चनत्वेनाप्य् अतिदिष्टः । नमस्कारेऽप्य् अपराधाश् चैते परिहर्तव्याः विष्णु-स्मृत्य्-आदि-दृष्ट्या । ये खलु एक-हस्त-कृतत्व-वस्त्रावृत-देहत्व-भगवद्-अग्र-पृष्ठ-वाम-भागांश-तन्-निकट-गर्भ-मन्दिर-गतत्वादि-मयाः ।

अथ दास्यम्

जन्मान्तर-सहस्रेषु यस्य स्यान् मतिर् ईदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ इतीतिहास-समुच्चयोक्त-लक्षणम् ।

अस्तु तावत् तत्-तद्-भजन-प्रयासः । केवल-तादृशत्वाभिमानेनापि सिद्धिर् भवतीत्य् अभिप्रेत्यैवोत्तरत्र निर्देशश् च तस्य । एतस्य कार्य-भूतं परिचर्यादिकं केवल-परिचर्यादिकं केवल-परिचर्या-रूपत्वे भेदो न स्यात् ।

अथ सख्यम् । यथा अगस्त्य-संहितायाम्—

परिचर्यापराः केचित् प्रासादेषु च शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ इति ।

अत एव, यन्-मित्रं परमानन्दम्[भा।पु। १०.१४.३१] इत्य् अत्र मित्र-पद-विन्यासः कृतः ।

अस्य चोत्तरत्र पाठः प्रेम-विश्रम्भ-भावना-मयत्वेन दास्याद् अप्य् उत्तमत्वापेक्षया। किं च, परमेश्वरेऽपि यत् सख्यं शास्त्रे विधीयते, तन् नाश्चर्यम्,नादेवो देवम् अर्चयेत् इति तद्-भावस्यापि विधान-श्रवणात् । किन्तु तद्-भावस् तत्-सेवा-विरुद्ध इति शुद्ध-भक्तैर् उपेक्ष्यते । सख्यं तु परम-सेवानुकूलम् इत्य् उपादीयत इति । तद् एतत् साक्षाद्-भजनात्मकं दास्यं सख्यं च टीकायाम् अपि दर्शितम् अस्ति—

तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात् । [भा।पु। १०.८१.२९] इत्य् अत्र श्रीदाम-विप्र-वाक्ये ।

यथा,

श्री-कृष्णस्य भक्त-वात्सल्यं दृष्ट्वा तद् भक्तिं प्रार्थयते—तस्येति । सौहृदं प्रेम । सख्यं हिताशंसनं च । मैत्री उपकारिकत्वं च । दास्यं सेवकत्वम् । तत्-समाहार एक-वचनम् । तस्य तत्-सम्बन्धिनो मे मम स्यात्, न तु विभूतिः इत्य् एतत् ॥

अत्र दास्यसख्याभ्यां कर्मार्पण-विश्वासौ न स्यातां, साक्षाद्-भक्तित्वाभावात् कर्मार्पणस्य फलं भक्तिः विश्वासश् च भक्त्य्-अभिनिवेश-हेतुः श्रवण-कीर्तनम् इत्य्-आदौ, विष्णोः श्रवणं विष्णोः कीर्तनम् इति ।

अथ **आत्म-निवेदनम् ।**तत्-कार्यं चात्मार्थ-चेष्टा-शून्यत्वं तन्-न्यस्तात्म-साधन-साध्यत्वं तद्-अर्थैक-चेष्टामयत्वं च । इदं ह्य् आत्मार्पणं गो-विक्रयवतो विक्रीतस्य गोर् वर्तनार्थं विक्रीतवता चेष्टा न क्रियते । तस्य च श्रेयः-साधकस् तत्-क्रीतवान् एव स्यात् । स च गौस् तस्यैव कर्म कुर्यात् । न पुनर् विक्रीतवतोऽपीति ।

अत्र केचिद् देहार्पणम् एवार्पणम् इति मन्यन्ते, यथा भक्ति-विवेके—

चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षणात् ॥ इति ।

केचिच् छुद्ध-क्षेत्रज्ञार्पणम् एव । यथा श्रीमद्-आलबन्दारु-स्तोत्रे**—**

वपुर्-आदिषु योऽपि कोऽपि वा
गुणतोऽसानि यथा-तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥ [स्तोत्र-रत्नम् ४९] इति ।

अत्र “योऽपि कोऽपि वा” इति वादि-भेदान् स्वरूपतः । अथवा “गुणतो यथा तथा-विधो” देव-मनुष्यादि-रूपः असानि भवानि काम-चारे लोट् तद् अयम् इति, स चासाव् अयं चेति विग्रहात् सोऽयम् इत्य् अर्थः । तत्र केवलम् आत्म-निवेदनं दान-समये बलि-राजे दृश्यते । भावेषु मिश्रेषु दास्येनात्म-निवेदनं श्रीमद्-अम्बरीषे प्रेयसी-भावेन श्री-रुक्मिणी-देव्याम् । एवं सख्यादिनापि ज्ञेयम् ॥२३-२४॥

**विश्वनाथः :**विप्राधमयोर् अनयोर् गुरुत्वं नास्तीति गुरोः श्री-नारदात् सकाशात् केवलात् भक्तिम् एवाहम् अशिक्षम् अतस् ताम् एव ब्रवीमि इति मनसि कृत्वाह—चरणारविन्दम् इति । पाद-सेवनं परिचर्या । अर्चनं पूजा । दास्यं स्वस्य दासत्व-भावना । सख्यं स्वस्य तन्-मित्रत्व-भावना । दृढ-विश्वासश् च । आत्म-निवेदनम् आत्म-समर्पणम् देह-समर्पणं च । तच् च भाव-विशेषेण सहितं रहितं च, यथा रुक्मिण्यादीनां वैरोचन्यादीनां च पुंसा पुं-मात्रेणेति नात्र वर्णाश्रमादि-नियम इति भावः । पुं-शब्दस्य जीव-मात्र-वाचकत्वात् स्त्रियापि, नव-लक्षणानि यस्या इत्य् एषां मध्ये किम् अपि कृतम् चेत् तदा भक्तिर् इत्य् अर्थः । अद्धा साक्षाद् एव, न तु ज्ञान-कर्मादेर् व्यवधानेनेत्य् अर्थः । सा च अर्पितैव सती यदि क्रियेत, न तु कृत्वा पश्चाद् अर्प्येतेति श्री-स्वामि-चरणाः । यद् वा, सा यदि विष्णौ अर्पिता क्रियेत विष्णु-सुखोद्देशेनैव, न तु तत्-फलस्य स्वस्मिन् विनियोगेन त्व् अन्याभिलाष-शून्यत्वं, तदा उत्तमम् अधीतं मन्ये इति उत्तमा भक्तिर् इति भावः ॥२३-२४॥

—ओ)०(ओ—

॥ ७.५.२५ ॥

निशम्यैतत् सुत-वचो हिरण्यकशिपुस् तदा ।
गुरु-पुत्रम् उवाचेदं रुषा प्रस्फुरिताधरः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.२६ ॥

ब्रह्म-बन्धो किम् एतत् ते विपक्षं श्रयतासता ।
असारं ग्राहितो बालो माम् अनादृत्य दुर्मते ॥**

**श्रीधरः : **न विद्यते सारं यत्र तद् असारम् । न विद्यते सारं यस्माद् इति वास्तवोऽर्थः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हे त्वया, वस्तुतस् तु न विद्यते सारो यतस् तत् ॥२६॥

—ओ)०(ओ—

॥ ७.५.२७ ॥

सन्ति ह्य् असाधवो लोके दुर्मैत्राश् छद्म-वेषिणः ।
तेषाम् उदेत्य् अघं काले रोगः पातकिनाम् इव ॥**

**श्रीधरः : **मित्रत्वेन प्रवर्तमानस्यापि तव विरोध-शरणं नासंभावितम् इत्य् आह—सन्ति हीति । दुष्टं मैत्रं मित्रत्वं येषां ते दुर्मैत्राः । रोग इति ।

ब्रह्म-हा क्षय-रोगी स्यात् सुरापः श्याव-दन्तकः ।
स्वर्ण-हारी तु कुनखि दुश्चर्मा गुरु-तल्पगः ॥

इत्य्-आदि स्मृत्य्-उक्त-पातकिनां काले नरक-भोगानन्तरं रोगो यथोदेति, तथा तेषां दुर्जनानां सुजनत्वेन वर्तमानानाम् अप्य् अघं विद्वेषादिकम् उदेतीत्य् अर्थः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यद् वैरि-पक्षवर्ती त्वम् एतावद् दिनान्ते भद्रेणैव व्यक्तोऽभूस् तद् अद्यैव ते समुचितां दक्षिणां दास्यामीत्य् अर्थान्तर-न्यासेनाह—सन्तीति । दुष्टं मैत्रं मित्रत्वं येषां ते अघं द्वेसादिकम् उदेति दैवात् प्रकटीभवति । रोग इति—

ब्रह्म-हा क्षय-रोगी स्यात् सुरापः श्याव-दन्तकः ।
स्वर्ण-हारी तु कुनखि दुश्चर्मा गुरु-तल्पगः ॥

इत्य्-आदि स्मृत्य्-उक्तः पातकिनां रोगो यथोदेति, तथेति शेषः ॥२७॥

—ओ)०(ओ—

॥ ७.५.२८ ॥

श्री-गुरु-पुत्र उवाच—

न मत्-प्रणीतं न पर-प्रणीतं

सुतो वदत्य् एष तवेन्द्र-शत्रो ।

नैसर्गिकीयं मतिर् अस्य राजन्

नियच्छ मन्युं कद् अदाः स्म मा नः ॥

मध्वः : क्व तदात्म-मानो मम ॥२८॥

**श्रीधरः : **मत्-प्रणीतं मया पाठितम् । नोऽस्मभ्यं कत् कुत्सितं दोषं मा स्म अदाः । अडागम आर्षः । मयि दोषारोपं म कृथा इत्य् अर्थः । इन्द्र-शत्रो इति नहि ब्राह्मणेषु तव कोप उचित इति भावः ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : हे इन्द्रशत्रो इति मयि दीने ब्राह्मणे कोपस् ते नोचित इति भावः । नोऽस्मभ्यं कत् कुत्सितं दोषं मा स्म अदाः । अड्-आगम आर्षः । मयि दोषारोपणं मा कृथा इत्य् अर्थः ॥२८॥

—ओ)०(ओ—

॥ ७.५.२९ ॥

श्री-नारद उवाच—

गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् ।
न चेद् गुरु-मुखीयं ते कुतोऽभद्रासती मतिः ॥**

**श्रीधरः : **गुरु-मुखी गुरु-वाक्य-जनिता । हे अभद्र ! ॥२९॥

**क्रम-सन्दर्भः : **गुरुर् एव मुखं द्वारं यस्याः सा गुरु-मुखी ॥२९॥

विश्वनाथः : हे अभद्र ! असती वस्तुतस् तु भद्रा सती सर्वोत्तमा ॥२९॥

—ओ)०(ओ—

॥ ७.५.३० ॥

श्री-प्रह्राद उवाच—

मतिर् न कृष्णे परतः स्वतो वा

मिथोऽभिपद्येत गृह-व्रतानाम् ।

अदान्त-गोभिर् विशतां तमिस्रं

पुनः पुनश् चर्वित-चर्वणानाम् ॥

**श्रीधरः : **आस्ताम् इयं वार्ता भवादृशानां विषयासक्तानाम् अत्रानधिकाराद् इत्य् आशयेनाह—मतिर् इति । परतो गुरोः, स्वतो वा, मिथो वाऽन्योन्यतो नाभिपद्येत न सम्पद्येत । केषाम् ? गृह-व्रतानां गृह एव व्रतं सङ्कल्प इति कृत्य-चिन्ता येषाम् । अत एवादान्तैर् अनुपरतैर् गोभिर् इन्द्रियैर् हेतु-भूतैस् तमिस्रं संसारं विशताम् । तत्र चर्वितस्यैव चर्वणं येषाम् ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सत्याम् इयं कृष्ण-विषया मतिर् भवन्-मते असत्य् एव । किं चैषा मतिर् भवादृशानां कुतोऽपि कदाचिद् अपि नोत्पद्यते इति वक्रोक्त्या उपहसन्न् आह—मतिर् इति । परत ईदृशाद् गुरोर् अन्यतो वा स्वतो मिथोऽन्योऽन्यतो वा नाभिपद्येत न सम्पद्येत, किं तूत्तर-ग्रन्थ-दृष्ट्या महच्-चरण-रजोऽभिषेक-लिप्सा-रहितानाम् इति तदीय-स्वगतोक्तिर् अत्र श्लोकेऽपि ज्ञेया । केषाम् ? गृह-व्रतानां गृहासक्तानाम् ।

गृह-व्रतत्वम् एवाह—अदान्तैर् अवशीकृतैर् गोभिर् इन्द्रियैस् तमिस्रं नरकम् । ननु गृहव्रताः कदाचित् स्वर्गिणोऽपि भवन्ति ? तत्राह—स्व-पराभ्याम् चर्वितस्यैव पुनश् चर्वणं येषां, तेषां वेश्यालयः स्वर्गो वा तुल्य एवेति भावः ॥३०॥

—ओ)०(ओ—

॥ ७.५.३१ ]।

न ते विदुः स्वार्थ-गतिं हि विष्णुं

दुराशया ये बहिर्-अर्थ-मानिनः ।

अन्धा यथान्धैर् उपनीयमानास्

तेऽपीश-तन्त्र्याम् उरु-दाम्नि बद्धाः ॥

**श्रीधरः : **ननु श्री-कृष्णस्य परमानन्द-स्वरूपत्वात् तेऽपि तन् निष्ठा एव किं न स्युर् इति चेत् तद् अज्ञानाद् इत्य् आह—नेति । ये दुराशया विषय-वासितान्तः-करणास् ते हि विष्णुं न विदुः । तत्र हेतुः—स्वस्मिन्न् एवार्थः पुरुषार्थो येषां, तेषां गतिं गम्यम् ।

ननु तेऽपि गुरूपदेशाद् विष्णुं ज्ञास्यन्ति ? तत्राह—बहिर् विषयेष्व् अर्थो येषां, ते बहिर्-अर्थास् तान् एव गुरुत्वेन मन्तुं शीलं येषां ते । अतोऽन्धैर् उपनीयमानाः, अन्ध यथा पन्थानं न विदुः किन्तु गर्ते पतन्ति, तथा तेऽपीशस्य तन्त्र्यां दीर्घ-रज्ज्वां वेद-लक्षणायाम् उरूणि दामानि ब्राह्मणादि-नामानि यस्यां, तस्याम् । काम्यैः कर्मभिर् बद्धा एव भवन्तीत्य् अर्थः । तद् उक्तम्—

विषयाविष्ट चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन् नैन्द्रीं किम् आप्नुयात् ॥इति ॥३१॥

**क्रम-सन्दर्भः : **स्वस्मिन् श्री-विष्णोर् एवार्थः प्रेम-रूपः पुरुषार्थो येषां, तेषाम् ॥३१॥

**विश्वनाथः **: ननु रे मूढ ! माम् इन्द्रादि-वन्दित-पाद-पीठं पितरम् अपि वक्रोक्ति-विषयी-कुरुषे । शृणु रे कुमते शृणु । शुक्राचार्यस्य शिष्या महा-विद्वांसस् तद्-गुरवः किं सर्व-शास्त्र-तात्पर्यं न जानन्ति, यतस् तेभ्योऽधीतम् अर्थं न त्वं साधु मन्यसे इत्य् अत आह—नेति । ते स्वस्य अर्थ-रूपां गतिं विष्णुं न विदुः । किन्त्व् अनर्थ-रूपां गतिं स्वर्गादिम् एव जानन्तीति भावः । यतो दुराशया दुष्टान्तः-करणा बहिर् विषय-सुखम् अनर्थम् एव अर्थं मन्तुं शीलं येषां ते ।

अतस् त एव यदि विष्णुं न विदुस् तदा कथं तच्-छिष्या ज्ञास्यन्तीति स-दृष्टान्तम् आह—अन्धैर् उपनीयमानाः उपदिष्ट-मार्गाः सन्दोऽन्धो यथा गर्ते पतति, तथैव वाचि वेद-लक्षणायां तन्त्र्यां दीर्घ-रज्ज्वाम् ऊरूणि दामानि ब्राह्मणादि-नामानि यस्यां, तस्यां कर्मभिर् बद्धा एव भवन्तीत्य् अर्थः ॥३१॥

—ओ)०(ओ—

॥ ७.५.३२ ॥

नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं

स्पृशत्य् अनर्थापगमो यद्-अर्थः ।

महीयसां पाद-रजो-भिषेकं

निष्किञ्चनानां न वृणीत यावत् ॥

**श्रीधरः : **ननु च, एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा [श्वे।उ। ६.११] इत्य्-आदि-श्रुति-प्रतिपादितं विष्णुं कथं न विदुः ? कुतो वा तेषां तमिस्र-प्रवेशः ? तत्राह—नैषाम् इति ।

निष्किञ्चनानां निरस्त-विषयाभिमानानां महत्तमानां पाद-रजसाभिषेकं यावन् न वृणीत, तावच् छ्रुति-वाक्यतो जाताप्य् एषां मतिर् उरुक्रमस्याङ्घ्रिं न स्पृशति न प्राप्नोति, असम्भावनादिभिर् विहन्यत इत्य् अर्थः । अनर्थस्य संसारस्यापगमो यद्-अर्थो यस्याङ्घ्रि-स्पर्शिन्या मतेर् अर्थः प्रयोजनम् । महद्-अनुग्रहाभावान् न तत्त्व-निश्चयो नापि मोक्षस् तेषाम् इत्य् अर्थः ॥३२॥

**सनातनः **[ह।भ।वि। १०.१९१]: निष्किञ्चनानां निरस्त-विषयाभिमानानां भगवत्-प्रीत्या त्यक्ताशेष-परिग्रहाणां वा, अत एव महत्तमानां पाद-रजोऽभिषेकं यावन् न वृणीत, प्रीत्या न भजेत्, तावच् छ्रुति-वाक्यादिना ज्ञातम् अपि एषां दुराशयानां मतिर् उरुक्रमस्य भगवतः श्री-कृष्णस्याङ्घ्रिं न स्पृशति न प्राप्नोति, असंभावनादिभिर् विहन्यत इत्य् अर्थः ।

अनर्थस्य संसारस्यापगमो यस्या अङ्घ्रि-स्पर्शिन्या मतेर् अर्थः प्रयोजनम् । महद्-अनुग्रहाभावान् न तत्त्व-निश्चयः, नापि मोक्षस् तेषाम् इत्य् अर्थः ।

यद् वा, अनर्थस्य अर्थतया भासमानस्य विचारेणानर्थ-रूपस्य । यद् वा, वेदान्तादौ न विद्यते अर्थो यस्मात् यस्य मोक्षस्यापगमो यस्य पादरजोऽभिषेकस्यार्थः । भगवद्-भक्त-कृपा-विशेषम् अन्तरेण न मोक्षेच्छा-निवृत्तिः, न च तां विना मतेर् भगवच्-चरणारविन्द-स्पर्शनम् अपीति ॥३२॥

**क्रम-सन्दर्भः : **अनर्थस्य तत्-स्पर्श-विघ्नस्यापगमः ॥३२॥

**विश्वनाथः **: ननु च यदि विष्णुर् एव स्वार्थ-रूपा गतिः शास्त्रैर् उच्यते, तदा त्व-गुरूणां सर्व-शास्त्र-ज्ञानां मतिर् विष्णु-निष्टेवोत्पद्येतेत्य् अतस् तेषां विष्णु-निष्ठ-मतित्वाभावाद् एव विष्णु-भक्तिर् अशास्त्रीयेत्य् अनुमीयते इत्य् अत आह नैषाम् इति । निष्किञ्चनानां मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः [भा।पु। ३.२.२२] इति भगवद्-वाक्य-विश्वासात् त्यक्त-व्यवहारिक-वित्त-पुत्र-कलत्राभिलाष-कर्म-ज्ञानादीनां भक्ति-मात्रैक-वासनत्वेन महीयसां पाद-रजसो स्वस्य वैष्णवत्वेनाभिषेकं यावन् न वृणीत, तावन् मतिर् उरुक्रमाङ्घ्रिं न स्पृशति—

यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वे।उ। ६.२३] इति ।
यम् एवैष वृणुते तेन लभ्यस्
तस्यैव आत्मा विवृणुते तनुं स्वाम् ॥ [क।उ। १.२.२३] इत्य्-आदि-श्रुतिभ्यः ।

अनर्थस्य संसारस्य अपगमो यद् अर्थो यस्याङ्घ्रि-स्पर्शिन्या मतेर् अर्थः प्रयोजनम् आनुषङ्गिकम् एव फलं, मुख्यं तूरुक्रमाङ्घ्रि-स्पर्शः स एव ॥३२॥

—ओ)०(ओ—

॥ ७.५.३३ ॥

इत्य् उक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा ।
अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत मही-तले ॥**

**श्रीधरः : **निरस्यत चिक्षेप ॥३३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.३४ ॥

आहामर्ष-रुषाविष्टः कषायी-भूत-लोचनः ।
वध्यताम् आश्व् अयं वध्यो निःसारयत नैरृताः ॥**

**श्रीधरः : **अमर्षोऽसहनं तेन सहितया रुषाविष्टो व्यप्तः । कषायी-भूते आताम्रे लोचने यस्य । हे नैरृता राक्षसाः ! ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अमर्षोऽसहनम् । तेन सहितया रुषा आविष्टः । हे नैरृता राक्षसाः ! ॥३४॥

—ओ)०(ओ—

॥ ७.५.३५ ॥

अयं मे भ्रातृ-हा सोऽयं हित्वा स्वान् सुहृदोऽधमः ।
पितृव्य-हन्तुः पादौ यो विष्णोर् दासवद् अर्चति ॥**

**श्रीधरः : **वध्यत्वे हेतुः, यतोऽयं मे भ्रातृ-हा । कुतः ? यो विष्णोः पादौ दास-वद् अर्चति । तत् पक्ष-पातीत्य् अर्थः । अतः स एवायम् इत्य् अन्वयः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अयं मे भ्रातृहा । ननु विष्णुस् ते भ्रातृहा प्रसिद्धस् तत्राह—स विष्णुर् अयम् एवेत्य् अर्थः । कुतः ? हित्वेत्य्-आदि । दासवद् इति असुर-महाराज-नन्दनोऽपि भूत्वेत्य् अर्थः । विष्णुना स्व-दासेषु स्व-सारूप्य्-अर्पणात् विष्णुर् एवायम् इति वध्यताम् ॥३५॥

—ओ)०(ओ—

॥ ७.५.३६ ॥

विष्णोर् वा साध्व् असौ किं नु करिष्यत्य् असमञ्जसः ।
सौहृदं दुस्त्यजं पित्रोर् अहाद् यः पञ्च-हायनः ॥**

**श्रीधरः : **अहो विष्णुर् अप्य् अविश्व-सनीयं किम् इति स्वी-कृतवान् इत्य् आह—विष्णोर् वेति । अहाज् जहौ ॥३६॥

**क्रम-सन्दर्भः : **पञ्च-हायन इति । गर्भे चिर-काल-स्थितत्वात् ॥३६॥

विश्वनाथः : विष्णुर् अप्य् अविश्वसनीयः कथम् इमं बुद्धिमान् भूत्वा कथं विश्वसेद् इत्य् आह—विष्णोर् वेति ॥३६॥

—ओ)०(ओ—

॥ ७.५.३७ ॥

परोऽप्य् अपत्यं हित-कृद् यथौषधं

स्व-देहजोऽप्य् आमयवत् सुतोऽहितः ।

छिन्द्यात् तद् अङ्गं यद् उतात्मनोऽहितं

शेषं सुखं जीवति यद्-विवर्जनात् ॥

**श्रीधरः : **ननु तवायम् अपत्यं कथं वध्यस् तत्राह—परोऽप्य् औषधम् इव हित-कृच् चेत् तर्ह्य् अपत्यम् एव ज्ञेयः । सुतः स्व-देह-जोऽप्य् अहितश् चेद् आमय इव ज्ञेयः । आस्तां ममतास्पदस्य कथा, अङ्गम् अपि च यत् कर-चरणादि तद् अप्य् आत्मनोऽहितं चेच् छिन्द्याद् एवेत्य् अर्थः ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ननु त्वद्-अपत्यम् अयम् अस्माभिः कथं हन्तुम् अर्हस् तत्राह—परोऽप्य् औषधम् इव हितकृच् चेत् तर्ह्य् असत्यम् इव ज्ञेयः । आस्तां ममतास्पदस्य कथा अङ्गम् अपि यत् कर-चरणादि तद् अप्य् आत्मनोऽहितं चेत् छिन्द्याद् एवेत्य् अर्थः ॥३७॥

—ओ)०(ओ—

॥ ७.५.३८ ॥

सर्वैर् उपायैर् हन्तव्यः सम्भोज-शयनासनैः ।
सुहृल्-लिङ्ग-धरः शत्रुर् मुनेर् दुष्टम् इवेन्द्रियम् ॥**

**श्रीधरः : **अतः सर्वैर् उपायैर् हन्तव्यः । संभोजो भोजनम् । भोजनादिषु विषादि-प्रयोगैर् इत्य् अर्थः । यथा दुष्टम् इन्द्रियं मुनेः शत्रुः ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भोज्यादि-वस्तुषु विषाद्य्-अर्पणैर् अपि हन्यताम् इत्य् आह—सर्वैर् इति ॥३८॥

—ओ)०(ओ—

॥ ७.५.३९-४० ॥

नैरृतास् ते समादिष्टा भर्त्रा वै शूल-पाणयः ।
तिग्म-दंष्ट्र-करालास्यास् ताम्र-श्मश्रु-शिरोरुहाः ॥**

नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः ।
आसीनं चाहनन् शूलैः प्रह्रादं सर्व-मर्मसु ॥**

**श्रीधरः : **तिग्मास् तीक्ष्णा दंष्ट्रा येषाम् । करालान्य् आस्यानि भयङ्कराणि मुखानि येषां ते च ते च । ताम्राणि श्मश्रूणि शिरोरुहाश् च येषाम् ॥३९॥

**क्रम-सन्दर्भः : **नैरृता इति युग्मकम् । दंष्ट्रा इति क्वचित् । किन्तु स्वाम्य्-असम्मतः ॥३९॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.४१ ॥

परे ब्रह्मण्य् अनिर्देश्ये भगवत्य् अखिलात्मनि ।
युक्तात्मन्य् अफला आसन्न् अपुण्यस्येव सत्-क्रियाः ॥**

**श्रीधरः : **परे ईश्वरे युक्तः समाहित आत्मा मनो यस्य तस्मिन् प्रह्रादे तेषां नैरृतादीनां प्रहारा निष्फला आसन् जाताः । तत्र हेतवः—ब्रह्मणि निर्विकारेऽनिर्देश्येऽविषये भगवति निरतिशयैश्वर्येऽखिलात्मनि शस्त्रादीनाम् अपि नियन्तर्य् एवं-भुते परे । अपुण्यस्य निर्दैवस्य सत्-क्रिया महोद्यमा इव ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भगवति हरौ युक्तः संयुक्त आत्मा देहो यस्य तस्मिन्, गोविन्द-परिरम्भितः [भा।पु। ७.४.३८] इत्य्-आदि पूर्वोक्तेः । पित्रा स्वाङ्के गुप्ते पुत्रे इवेति भावः । ननु तर्हि किं भगवद्-अङ्गोपरि शस्त्र-परिहारा अभूवंस् तत्र, न हि न ह्य् असम्भवाद् एवेत्य् आह—परे इत्य् आदि । ब्रह्मणि व्यापके निर्विकारेऽनिर्देश्ये भगवति अतर्कैश्वर्ये । अखिलात्मनि शस्त्रादीनाम् अपि न्यन्तरि शस्त्रादीनाम् अपि नियन्तरि शस्त्राघातः कथं सम्भवतीति भावः । अपुण्यस्य दुर्भाग्यस्य ॥४१॥

—ओ)०(ओ—

॥ ७.५.४२ ॥

प्रयासेऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः ।
चकार तद्-वधोपायान् निर्बन्धेन युधिष्ठिर ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.४३ ॥

दिग्-गजैर् दन्दशूकेन्द्रैर् अभिचारावपातनैः ।
मायाभिः सन्निरोधैश् च गर-दानैर् अभोजनैः ॥**

**श्रीधरः : **दन्दशूकैः सर्पैः । अभिचाराः कृत्यादयः । अवपातनानि गिरि-शृङ्गाद् अधः पातनानि तैः । मायाभिः शम्बर-निर्मिताभिः अवटादिषु सन्निरोधैश् च ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अभिचारैः कृत्यादिभिः । अवपातनैर् अत्युच्च-देशाद् अधः-पातनैः । गर्तादि-संनिरोधैर् बहु-वचनैर् अभिचाराद्य्-आवृत्तयः सूचिताः । तत् हननं कर्तुं नाभ्यपद्यत न प्राप नाशक्नोद् इत्य् अर्थः ॥४३॥

—ओ)०(ओ—

॥ ७.५.४४ ॥

हिम-वाय्व्-अग्नि-सलिलैः पर्वताक्रमणैर् अपि ।

न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ।
चिन्तां दीर्घतमां प्राप्तस् तत्-कर्तुं नाभ्यपद्यत ॥**

**श्रीधरः : **पर्वताक्रमणैः पर्वतानां तद्-उपरि-क्षेपैः । बहु-वचनैर् अभिचाराद्य्-आवृत्तिं दर्शयति । तद् धननं कर्तुं नाभ्यपद्यत न प्राप । नाशक्नोद् इत्य् अर्थः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अभिचारैः कृत्यादिभिः । अवपातनैर् अत्युच्च-देशाद् अधः-पातनैः, गर्तादि-संनिरोधैर् बहु-वचनैर् अभिचाराद्य्-आवृत्तयः सूचिताः । तत् हननं कर्तुं नाभ्यपद्यत न प्राप नाशक्नोद् इत्य् अर्थः ॥४४॥

—ओ)०(ओ—

॥ ७.५.४५ ॥

एष मे बह्व्-असाधूक्तो वधोपायाश् च निर्मिताः ।
तैस् तैर् द्रोहैर् असद्-धर्मैर् मुक्तः स्वेनैव तेजसा ॥**

**श्रीधरः : **चिन्ताम् एवाह—एष इति त्रिभिः । मे मया असाधु परुषं यथा भवति तथोक्तः । असद्-धर्मैर् अपकारैर् अभिचारैर् वा ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **चिन्ताम् आह—एष इति त्रिभिः । असतां धर्मैर् अभिचारैश् च ॥४५॥

—ओ)०(ओ—

॥ ७.५.४६ ॥

वर्तमानोऽविदूरे वै बालोऽप्य् अजड-धीर् अयम् ।
न विस्मरति मेऽनार्यं शुनः शेप इव प्रभुः॥**

**श्रीधरः : **अविदूरे समीपे वर्तमानेऽपि बालोऽप्य् अयम् अजड-धीर् निर्भय-चित्तो मेऽनार्यमन्याय्यं शत्रुत्वं वा न विस्मरति । अजीगर्तस्य मध्यम-पुत्रः शुनः शेपो नाम पितृभ्यां हरिश् चन्द्राय विक्रीतः सन् यथा तयोर् अपकारम् अविस्मरंस् तद् विपक्षं विश्वामित्रम् आश्रित्य गोत्रान्तरम् आपन्नस् तद्वत् । यद् वा, स्वभावापरित्यागे दृष्टान्तः, शुनः शेपः पुच्छम् इवेति ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अविदूरे वर्तमानोऽपि मे अनार्यं शत्रुं विष्णुं न विस्मरति । स्वभावापरित्यागे दृष्टान्तः—शुनः शेफः पुच्छम् इव, वस्तुतस् तु शुनः-शेफो नाम पितृभ्यां हरिश्चन्द्राय विक्रीतो अजीगर्तस्य मध्यमः पुत्रः, स यथा तयोर् अपकारम् अविस्मरंस् तद्-विपक्षं विश्वामित्रम् आश्रित्य गोत्रान्तरम् आपन्नः, तद्वत् ॥४६॥

—ओ)०(ओ—

॥ ७.५.४७ ॥

अप्रमेयानुभावोऽयम् अकुतश्चिद्-भयोऽमरः ।
नूनम् एतद्-विरोधेन मृत्युर् मे भविता न वा ॥**

**श्रीधरः : **अप्रमेयोऽपरिमेयोऽनुभावो यस्य । न कुतश्चिद् भयं यस्य । अमरो मृत्यु-शून्यश् च । न वा भविता । अन्यथा मृत्युर् नैव भविष्यतीत्य् अर्थः ॥४७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.४८ ॥

इति तच्-चिन्तया किञ्चिन् म्लान-श्रियम् अधो-मुखम् ।
शण्डामर्काव् औशनसौ विविक्त इति होचतुः ॥**

**श्रीधरः : **औशनसौ उशनसः पुत्रौ नीति-ज्ञौ । विविक्ते एकान्ते ॥४८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.४९ ॥

जितं त्वयैकेन जगत्-त्रयं भ्रुवोर्

विजृम्भण-त्रस्त-समस्त-धिष्ण्यपम् ।

न तस्य चिन्त्यं तव नाथ चक्ष्वहे

न वै शिशूनां गुण-दोषयोः पदम् ॥

**श्रीधरः : **भ्रुवोर् विजृम्भणेनैव त्रस्ताः समस्ता धिष्ण्य-पा लोक-पाला यस्मिन् । तस्य तव चिन्त्यं न चक्ष्महे न पश्यामः । पदम् आलम्बनं नैवास्ति । यद् वा, शिशूनां वृत्तं गुण-दोषयोः पदं विषयो न भवतीत्य् अर्थः ॥४९॥

**क्रम-सन्दर्भः : **शिशूनां गुण-दोषयोः पदम् आलम्बनं नास्ति । यद् आलम्ब्य तौ प्रावर्तत, तद् एव तेषां नास्ति सारासार-विचाराभावात् ॥४९॥

विश्वनाथः : तस्य तव चिन्त्यं स्वाभिलाषणीय-वस्तुनोऽप्राप्त्या चिन्तनीयं, किम् अपि न चक्ष्वहे न पश्याव इत्य् अर्थः । पुत्रोऽयं मे मद्-विरुद्ध-स्वभाव इति चेत् तत्राह—नेति । शिशूनां पदं व्यवसायं गुण-दोषयोर् मध्ये न चक्ष्वहे न किम् अपि पश्यावः । शैशवास् ते सति बुद्धेर् भद्राभद्रत्वं ज्ञास्याव इति भावः । वै इति चार्थए । चक्ष्वहे इत्य् उभयत्रान्वयः ॥४९॥

—ओ)०(ओ—

॥ ७.५.५० ॥

इमं तु पाशैर् वरुणस्य बद्ध्वा

निधेहि भीतो न पलायते यथा ।

बुद्धिश् च पुंसो वयसार्य-सेवया

यावद् गुरुर् भार्गव आगमिष्यति ॥

**श्रीधरः : **तथापि तु बन्धनम् अस्योचितम् इत्य् आहतुः—इमं त्व् इति । यावद् उरुर् भार्गव आगमिष्यति, तावद् बद्ध्वा निधेहि । ततः किम् अत ऊचतुः ? यतः पुंसो बुद्धिश् च वयसा तथा आर्य-सेवया समीचीना भवति ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : भवतु, सम्प्रति किं करोमि ? तत्राहतुः—इमं त्व् इति । यतः पुं-मात्रस्यैव बुद्धिर् वयसा बाल्यात् परेणैव तथा आचार्यस्य२ सेवया च । क आर्यः ? कदा वा अनेन सेव्यः ? तत्राह—यावत् यदेत्य् अर्थः । भार्गवः शक्र एवाचार्य इत्य् अर्थः ॥५०॥

—ओ)०(ओ—

॥ ७.५.५१ ॥

तथेति गुरु-पुत्रोक्तम् अनुज्ञायेदम् अब्रवीत् ।
धर्मो ह्य् अस्योपदेष्टव्यो राज्ञां यो गृह-मेधिनाम् ॥**

**श्रीधरः : **अनुज्ञाय तथेत्य् अङ्गी-कृत्य ॥५१॥

**क्रम-सन्दर्भः : **गृह-मेधिनां तत्रापि राज्ञाम् ॥५१॥

**विश्वनाथः : **अनुज्ञाय अङ्गीकृत्य ॥५१॥

—ओ)०(ओ—

॥ ७.५.५२ ॥

धर्मम् अर्थं च कामं च नितरां चानुपूर्वशः ।
प्रह्रादायोचतू राजन् प्रश्रितावनताय च ॥**

**श्रीधरः : **ततश् च तौ प्रह्रादाय धर्मादिकम् ऊचतुः, प्रश्रितश् चासाव् अवनतश् च तस्मै ॥५२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.५.५३ ॥

यथा त्रि-वर्गं गुरुभिर् आत्मने उपशिक्षितम् ।
न साधु मेने तच्-छिक्षां द्वन्द्वारामोपवर्णिताम् ॥**

**श्रीधरः : **यथा यथावत् त्रिवर्गम् उपशिक्षितम् अपि न साधु मेने, तत् तां शिक्षां च । कुतः ? द्वन्द्वो राग-द्वेषादिभिर् विषयेष्व् आरमणं येषां, तैर् उपवर्णिताम् ॥५३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यथावत् त्रिवर्गम् अशिक्षितम् अपि साधु न मेने, तां शिक्षां च, यतो द्वन्द्वाराम-सांसारिक-लोक-विषये एव उपवर्णितां, न तु पारमार्थैके ॥५३॥

—ओ)०(ओ—

॥ ७.५.५४ ॥

यदाचार्यः परावृत्तो गृहमेधीय-कर्मसु ।
वयस्यैर् बालकैस् तत्र सोपहूतः कृत-क्षणैः ॥**

**श्रीधरः : **परावृत्तोऽन्यत्र गतः । स उपहूतः । सन्धिः पाद-पूरणार्थम् । क्रीडार्थं कृत-क्षणैः कृतोत्सवैर् लब्धावसरैर् इति वा ॥५४॥

**क्रम-सन्दर्भः : **यदेति तत्र तदा ॥५४॥

**विश्वनाथः : **परावृत्तोऽध्यापन-स्थानात् परावृत्त्य स्व-गृहं गतः कर्मसु प्रावर्तत । तदा स प्रह्लादः कृत-क्षणैः क्रीडार्थं कृतोत्सवैः । यद् वा, भक्ति-शिक्षार्थ-मयं निभृतः समय इति कृतावसरैः ॥५४॥

—ओ)०(ओ—

॥ ७.५.५५ ॥

अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महा-बुधः ।
उवाच विद्वांस् तन्-निष्ठां कृपया प्रहसन्न् इव ॥**

**श्रीधरः : **तन्-निष्ठां तेषां निष्ठां जन्म-मरणादि-लक्षणां विद्वान् ॥५५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : तेषां बालकानां स्वस्मिन् गुरुत्व-निष्ठां विद्वान् जानन् प्रहसन्न् इव । अहो इमे अपि भगवद्-अनुकम्पा-जाले पैताः इति स्मयमानः ॥५५॥

—ओ)०(ओ—

॥ ७.५.५६ ॥

ते तु तद्-गौरवात् सर्वे त्यक्त-क्रीडा-परिच्छदाः ।
बाला अदूषित-धियो द्वन्द्वारामेरितेहितैः ॥**

**श्रीधरः : **द्वन्द्वारामाणाम् ईरितैर् ईहितैश् च न दूपिता धीर् येषाम् । यतो बालाः ॥५६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्मिन्न् एव न्यस्तं हृदयम् ईक्षणं च यैः ॥५६॥

—ओ)०(ओ—

॥ ७.५.५७ ॥

पर्युपासत राजेन्द्र तन्-न्यस्त-हृदयेक्षणाः ।
तान् आह करुणो मैत्रो महा-भागवतोऽसुरः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे पञ्चमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे

प्रह्लादानुचरिते

पञ्चमोऽध्यायः ॥

॥ ७.५ ॥

(७.६)


  1. अत एव (भक्ति-सन्दर्भे) ↩︎

  2. तन्-माहात्म्यं ↩︎

  3. एवं ↩︎

  4. यत एव कलौ ↩︎

  5. शरणापत्त्य्-आदिभिः इति भक्ति-सन्दर्भे। ↩︎

  6. क्रम-सन्दर्भे नास्ति। ↩︎

  7. अविच्छिन्नं (भक्ति-सं) ↩︎

  8. नासमञ्जसम् इति भक्ति-सन्दर्भे। ↩︎