०४ युधिष्ठिर-नारद-संवादे

॥ ७.४.१ ॥

श्री-नारद उवाच—

एवं वृतः शत-धृतिर् हिरण्यकशिपोर् अथ ।

प्रादात् तत्-तपसा प्रीतो वरांस् तस्य सुदुर्लभान् ॥

श्रीधरः :

चतुर्थे तु वराल् लब्ध्वा विजित्याखिल-लोकपान् ।

विष्णु-द्वेषेण तान् सर्वान् दैत्येन्द्रः समपीडयत् ॥

शत-धृतिर् ब्रह्मा ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः :

वरान् लब्ध्वा द्विषन् विशेष्फल्सर्वुं दिवं देवान् निरास सः ।

प्रह्लादस्य गुणः प्रेम-भक्त्य्-उत्थस् तुर्य ईर्यते ॥

हिरण्यकशिपोर् हिरण्यकशिपुना तस्य तस्मै ॥१॥

—ओ)०(ओ—

॥ ७.४.२ ॥

श्री-ब्रह्मोवाच—

तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम ।

तथापि वितराम्य् अङ्ग वरान् यद्यपि दुर्लभान् ॥

**श्रीधरः : **मम मत्तः । यद् अपि यद्यपीमे दुर्लभाः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : यद्यपि यद्य् अपीमे दुर्लभास् तद् अपि इमान् दुर्लभान् वितरामीति व्यवहितान्वयः सोढव्यश् चेद् एवं व्याख्येयम् । वरान् कीदृशान् ? यतां प्रप्नुवताम् अपि दुर्लभान् यान् प्राप्यापि न प्राप्नुवन्ति तान् इत्य् अर्थः ॥२॥

—ओ)०(ओ—

॥ ७.४.३ ॥

ततो जगाम भगवान् अमोघानुग्रहो विभुः ।

पूजितोऽसुर-वर्येण स्तूयमानः प्रजेश्वरैः ॥

**श्रीधरः : **अमोघोऽनुग्रहो यस्य । प्रजेश्वरैर् मरीच्य्-आदिभिः ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.४ ॥

एवं लब्ध-वरो दैत्यो बिभ्रद् धेममयं वपुः ।

भगवत्य् अकरोद् द्वेषं भ्रातुर् वधम् अनुस्मरन् ॥

मध्वः : स्वतो भक्ता हिरण्याद्याः परावेशाद् धरौ द्विषः इति च ॥४॥

**श्रीधरः : **यद् अर्थं तपस् तप्तं तद् आह—एवम् इत्य्-आदिना ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.५-७ ॥

स विजित्य दिशः सर्वा लोकांश् च त्रीन् महासुरः ।

देवासुर-मनुष्येन्द्र- गन्धर्व-गरुडोरगान् ॥

सिद्ध-चारण-विद्याध्रान् ऋषीन् पितृ-पतीन् मनून् ।

यक्ष-रक्षः-पिशाचेशान् प्रेत-भूत-पतीन् अपि ॥

सर्व-सत्त्व-पतीन् जित्वा वशम् आनीय विश्व-जित् ।

जहार लोक-पालानां स्थानानि सह तेजसा ॥

**श्रीधरः : **सर्वेषां सत्त्वानां प्राणि-जातानां ये ये पतयस् तान् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गरुडाः गरुड-जातयः पक्षिणः ॥७॥

—ओ)०(ओ—

॥ ७.४.८ ॥

देवोद्यान-श्रिया जुष्टम् अध्यास्ते स्म त्रि-पिष्टपम् ।

महेन्द्र-भवनं साक्षान् निर्मितं विश्वकर्मणा ।

त्रैलोक्य-लक्ष्म्य्-आयतनम् अध्युवासाखिलर्द्धिमत् ॥

**श्रीधरः : **त्रिपिष्टपं स्वर्गम् अध्यास्ते स्माधिष्ठितवान् । तत्र स्वर्गेऽपि महेन्द्र-भवनम् अध्युवासाधिवसति स्म ॥८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.९-११ ॥

यत्र विद्रुम-सोपाना महा-मारकता भुवः ।

यत्र स्फाटिक-कुड्यानि वैदूर्य-स्तम्भ-पङ्क्तयः ॥

यत्र चित्र-वितानानि पद्मरागासनानि च ।

पयः-फेन-निभाः शय्या मुक्तादाम-परिच्छदाः ॥

कूजद्भिर् नूपुरैर् देव्यः शब्दयन्त्य इतस् ततः ।

रत्न-स्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥

**श्रीधरः : **अखिल-समृद्धि-युक्तत्वम् एवाह—यत्रेति त्रिभिः ॥९॥ मुक्ता-दामानि परिच्छदाः परिकरा यासाम् ॥१०॥ सुदतीः सुदत्यः ॥११॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.१२ ॥

तस्मिन् महेन्द्र-भवने महा-बलो

महा-मना निर्जित-लोक एक-राट् ।

रेमेऽभिवन्द्याङ्घ्रि-युगः सुरादिभिः

प्रतापितैर् ऊर्जित-चण्ड-शासनः ॥

**श्रीधरः : **ऊर्जितम् अधिकं चण्डं तीव्रं शासनं यस्य ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.१३ ॥

तम् अङ्ग मत्तं मधुनोरु-गन्धिना

विवृत्त-ताम्राक्षम् अशेष-धिष्ण्य-पाः ।

हुपासतोपायन-पाणिभिर् विना

त्रिभिस् तपो-योग-बलौजसां पदम् ॥

**मध्वः :**आदित्या वसवो रुद्रास् त्रिविधा हि सुरा यतः ।

मरुतश् चैव विश्वे च साध्यश् चैव च तद्-गताः ॥
अतस् त्रय इति प्रोक्ताश् चत्वारो मानुषाः स्मृताः ॥ इति स्कान्दे ।
उपायनं ददुः सर्वे विना देवान् हिरण्याक्षः ॥ इति च ।
अयज्ञ-भागेष्व् अपि तु सुर शब्दः प्रदृश्यते ।
यज्ञभाग् अभुजस् त्व् एवं त्रय इत्य् अभिशब्दितः ॥ इति च ॥१२-१३॥

**श्रीधरः : **अङ्ग हे राजन्, उरु-गन्धिनोग्र-गन्धेन मधुना सुरया मत्तम् । अत एव विवृत्ते विघूर्णिते ताम्रे अक्षिणी यस्य तम् । अशेष-धिष्ण्य-पाः सर्व-लोक-पाला उपायन-युक्तैः पाणिभिर् उपासत सेवन्ते । त्रिभिर् ब्रह्म-विष्णु-रुद्रैर् विना । पदम् आश्रय-भूतम् ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उपायन-युक्तैः पाणिभिर् उपासत त्रिभिर् ब्रह्म-विष्णु-रुद्रैर् विना, पदम् आश्रय-भूतम् । तस्य वेणवद् अधर्मिष्ठत्वेऽपि तस्य राज्ये मही-प्रभृतयोऽकृष्ट-पच्यत्वादि-गुण-युक्ता यद् बभूवुस् तद् अतिभयाद् एव, अन्यथा मह्यादीनां तत्-कर्तृको वधः सद्य एव सम्भवेत् । वेणस् तु न तादृक्-प्रभाव आसीत् यं भृग्व्-आदय एव भस्मीचक्रु अयं तु भृग्व्-आदीनां तेजः प्रथमम् एवाजहारेति विवेचनीयम् ॥१३॥

—ओ)०(ओ—

॥ ७.४.१४ ॥

जगुर् महेन्द्रासनम् ओजसा स्थितं

विश्वावसुस् तुम्बुरुर् अस्मद्-आदयः ।

गन्धर्व-सिद्धा ऋषयोऽस्तुवन् मुहुर्

विद्याधराश् चाप्सरसश् च पाण्डव ॥

**श्रीधरः : **उपासन-प्रकारम् आह—जगुर् इति ॥१४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.१५ ॥

स एव वर्णाश्रमिभिः क्रतुभिर् भूरि-दक्षिणैः ।

इज्यमानो हविर्-भागान् अग्रहीत् स्वेन तेजसा ॥

अकृष्ट-पच्या तस्यासीत् सप्त-द्वीपवती मही ।

तथा काम-दुघा गावो नानाश्चर्य-पदं नभः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.१७ ॥

रत्नाकराश् च रत्नौघांस् तत्-पत्न्यश् चोहुर् ऊर्मिभिः ।

क्षार-सीधु-घृत-क्षौद्र- दधि-क्षीरामृतोदकाः ॥

**श्रीधरः : **तत्-पत्न्यो नद्यः । ऊहुर् वहन्ति स्म । रत्नाकरान् एवाह—क्षारेति ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत्-पत्न्यो नद्यः । रत्नाकरान् एवाह—क्षारेति ॥१७॥

—ओ)०(ओ—

॥ ७.४.१८ ॥

शैला द्रोणीभिर् आक्रीडं सर्वर्तुषु गुणान् द्रुमाः ।

दधार लोक-पालानाम् एक एव पृथग् गुणान् ॥

**श्रीधरः : **आक्रीडं क्रीडा-स्थानम् । द्रुमाः सर्वेषु ऋतुषु गुणान् पुष्प-फलादीन् । स च लोक-पालानां पृथग् विधान् गुणान् वर्षण-दहन-शोषणादीन् एक एव दधार॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आक्रीडं क्रीडा-स्थानम् ॥१८॥

—ओ)०(ओ—

॥ ७.४.१९ ॥

स इत्थं निर्जित-ककुब् एक-राड् विषयान् प्रियान् ।

यथोपजोषं भुञ्जानो नातृप्यद् अजितेन्द्रियः ॥

**श्रीधरः : **निर्जिताः ककुभो येन । यथोपजोषं यथा-प्रीति ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.२० ॥

एवम् ऐश्वर्य-मत्तस्य दृप्तस्योच्छास्त्र-वर्तिनः ।

कालो महान् व्यतीयाय ब्रह्म-शापम् उपेयुषः ॥

**श्रीधरः : **महान् कालः एक-सप्तति-युगानि किञ्चिद् अधिकानि ॥२०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.२१ ॥

तस्योग्र-दण्ड-संविग्नाः सर्वे लोकाः सपालकाः ।

अन्यत्रालब्ध-शरणाः शरणं ययुर् अच्युतम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.२२-२३ ॥

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिर् ईश्वरः ।

यद् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनोऽमलाः ॥

इति ते संयतात्मानः समाहित-धियोऽमलाः ।

उपतस्थुर् हृषीकेशं विनिद्रा वायु-भोजनाः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : काष्ठायै दिशे । यत्र दिशि हरिर् अस्तीति सर्व-देशस्यासुर-तेजो-ग्रस्तत्वात् वयं क्वचित् पुण्य-तीर्थे गत्वा तं स्तुमहे इति भावः । यद् वा, तस्मै उत्कर्षाय नमः । यस्मिन्न् उत्कर्षे हरिर् इति अन्ये सर्व एवोत्कर्षा अनेनासुरेण जिता इति भावः । काष्ठोत्कर्षे स्थितौ दिशि इत्य् अमरः ॥२२-२३॥

—ओ)०(ओ—

॥ ७.४.२४ ॥

तेषाम् आविरभूद् वाणी अरूपा मेघ-निःस्वना ।

सन्नादयन्ती ककुभः साधूनाम् अभयङ्करी ॥

**श्रीधरः : **अरूपा वक्तृ-रहिता ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.२५ ॥

मा भैष्ट विबुध-श्रेष्ठाः सर्वेषां भद्रम् अस्तु वः ।

मद्-दर्शनं हि भूतानां सर्व-श्रेयोपपत्तये ॥

ज्ञातम् एतस्य दौरात्म्यं दैतेयापसदस्य यत् ।

तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥

**श्रीधरः : **मम दर्शनं श्रवणं सर्वेषां श्रेयसाम् उपपत्तये भवति ॥२५॥

**क्रम-सन्दर्भः : **मद्-दर्शनं श्रवण-द्वारापि मद्-अनुभवः ॥२५॥

विश्वनाथः : मद्-दर्शनं हीति स्तम्भान् मद्-दर्शनं यावद् एव न भवति, तावद् एव युष्माकं दुःखम् इति भावः ॥२५॥

—ओ)०(ओ—

॥ ७.४.२७ ॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।

धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **यदा यस्य देवादिषु विद्वेषः स्यात्, तदा स वै प्रसिद्धौ आश्व् एव नश्यति ।_।_२७॥

—ओ)०(ओ—

॥ ७.४.२८ ॥

निर्वैराय प्रशान्ताय स्व-सुताय महात्मने ।

प्रह्रादाय यदा द्रुह्येद् धनिष्येऽपि वरोर्जितम् ॥

**श्रीधरः : **ननु देवादि-विद्वेषेऽप्य् अस्य विनाशो नास्ति, ब्रह्म-वरेणोर्जितत्वात् तत्राह—निर्वैरायेति । सर्वम् अहं सहे न मद्-भक्त-द्रोहम् इति भावः ॥२८॥

**क्रम-सन्दर्भः : **तथाप्य् अमृतत्वाद् आश्चर्य-प्रभावम् अपि सम्प्रति वरोर्जितम् अपि तं स्वयम् अहम् एव हनिष्यामि । किन्त्व् अहम् अपि तत्-प्रभाव-लोपक-च्छिद्र-विशेषं प्रतीक्षमाणोऽस्मीत्य् आह—निर्वैरायेति ॥२८॥

विश्वनाथः : ननु ब्रह्म-वरोर्जितोऽयं बहु-कालत एव देवादीन् द्विषन्न् अपि नैव नश्यति, तत्राह—निर्वैरायेति । सर्वम् अहं सहे न भक्त-द्रोहम् इति भावः ॥२८॥

—ओ)०(ओ—

॥ ७.४.२९ ॥

श्री-नारद उवाच—

इत्य् उक्ता लोक-गुरुणा तं प्रणम्य दिवौकसः ।

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥

**मध्वः-**यत्र क्व च यशः-स्थानम् अन्येषाम् इति केशवः ।

सर्वत्रापि तु देवानाम् इत्य् अन्यान् पूजयेत् क्वचित् ॥ इति च ॥२९॥

**श्रीधरः : **असुरं च हतं मेनिरे । तदानीं तद्-द्वेषे प्रवृत्तत्वाद् इति भावः ॥२९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.३० ॥

तस्य दैत्य-पतेः पुत्राश् चत्वारः परमाद्भुताः ।

प्रह्रादोऽभून् महांस् तेषां गुणैर् महद्-उपासकः ॥

**श्रीधरः : **तम् एव द्वेषं वक्तुम् आदौ सुतस्य महत्त्वम् आह—तस्येति । गुणैर् महान् अभूत् । गुणान् एवाह—महद्-उपासक इत्य्-आदिना ॥३०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.३१ ॥

ब्रह्मण्यः शील-सम्पन्नः सत्य-सन्धो जितेन्द्रियः ।

आत्मवत् सर्व-भूतानाम् एक-प्रिय-सुहृत्तमः ॥

**श्रीधरः : **सत्या सन्धा प्रतिज्ञा यस्य । एक एव प्रियश् च सुहृत्-तमश् च ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.३२ ॥

दासवत् सन्नतार्याङ्घ्रिः पितृवद् दीन-वत्सलः ।

भ्रातृवत् सदृशे स्निग्धो गुरुष्व् ईश्वर-भावनः ।

विद्यार्थ-रूप-जन्माढ्यो मान-स्तम्भ-विवर्जितः ॥

**श्रीधरः : **दासवत् सम्यङ् नता आर्याणाम् अङ्घ्रयो येन । गुरुषु ईश्वर इति भावना यस्य ॥३२॥

**क्रम-सन्दर्भः : **त्वत्त इत्य् अस्य टीकायां वेदोपवेदादीत्य्-आदि व्याख्यानात् । विद्याः कला इति द्वन्द्व-समासः, अतो विद्याः कलाशेति पाठो न सभ्यः ॥३२॥

**विश्वनाथः : **सम्यक् नता आर्य्ण् अङ्घ्रयो येन सः । गुरुष्व् इति बहु-वचन्ंगौरवेणैव, श्री-भगवन्-मन्त्रोपदेशके गुराव् इत्य् अर्थः ॥३२॥

—ओ)०(ओ—

॥ ७.४.३३ ॥

नोद्विग्न-चित्तो व्यसनेषु निःस्पृहः

श्रुतेषु दृष्टेषु गुणेष्व् अवस्तु-दृक् ।

दान्तेन्द्रिय-प्राण-शरीर-धीः सदा

प्रशान्त-कामो रहितासुरोऽसुरः ॥

**श्रीधरः : **व्यसनेषु प्राप्तेष्व् अपि नोद्विग्न-चित्तः । दृष्टेषु श्रुतेषु गुणेषु विषयेषु निस्पृहः । यन्तस् तेष्व् अवस्तु-दृक् । दान्ता इन्द्रियादयो यस्य । रहित आसुरो भावो मत्सरादिर् यस्य सः । असुरोऽपि सन् प्रशान्त-कामः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : रहित आसुरो भावो मत्सरादिर् यस्य सः ॥३३॥

—ओ)०(ओ—

॥ ७.४.३४ ॥

यस्मिन् महद्-गुणा राजन् गृह्यन्ते कविभिर् मुहुः ।

न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥

**श्रीधरः : **अधुनापि ते गुणा नापिधीयन्ते तिरोहिता न भवन्ति ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : महतो भगवतो गुणा अप्राकृता धैर्या गाम्भीर्यादयः स्वभावेनैव स्थिताः कविभिर् विवेकिभिर् गृह्यन्ते । एते गुणा जीव-निष्ठा न भवन्ति, किन्तु भगवदीया एवेति शुद्धैर् मन-आदीन्द्रियैर् विषयीक्रियन्ते इत्य् अर्थः । गुणानां नित्यत्वम् आह—ते गुणा अधुनापि एतत्-काल-पर्यन्तं नापिधीयन्ते काल-कर्मादिभिर् नाच्छाद्यन्ते, एतावत्सु कालेषु गतेष्व् अपि प्रह्लादस् तादृग्-गुण-विशिष्ट एव सुतले तथा वैकुण्ठे महा-वैकुण्ठे च विराजत एवेति भावः ॥३४॥

—ओ)०(ओ—

॥ ७.४.३५ ॥

यं साधु-गाथा-सदसि रिपवोऽपि सुरा नृप ।

प्रतिमानं प्रकुर्वन्ति किम् उतान्ये भवादृशाः ॥

**मध्वः-**अन्येषां हरि-साम्यस् तु किञ्चित् साम्यम् उदीरितम् ।

सम्यक्-साम्यस् तु मत्स्यादेर् इति शास्त्रस्य निर्णयः ॥ इति च ॥३५॥

**श्रीधरः : **साधु-गाथा-सदसि साधु-कथ-प्रसङ्गवत्यां सभायाम् । यं प्रह्रादम् । प्रतिमानं दृष्टान्तम् । रिपवोऽपि सुराः कुर्वन्ति, किं वक्तव्यं भवादृशा विष्णु-भक्ताः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रतिमानं दृष्टान्तं प्रह्लाद-तुल्योऽयं भक्त् इत्य् एवम् ॥३५॥

—ओ)०(ओ—

॥ ७.४.३६ ॥

गुणैर् अलम् असङ्ख्येयैर् माहात्म्यं तस्य सूच्यते ।

वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥

श्रीधरः : सूच्यते मया केवलं द्योत्यते । सुष्ठु कथ्यत इति वा ॥३६॥

क्रम-सन्दर्भः : असङ्ख्येयैर् गुणैर् अलम् इति ते वक्तुं न शक्यम् इत्य् अर्थः । अतस् तस्य माहात्म्यं सूच्यते द्योत्यते मात्रम् । यद् वा, असङ्ख्येयैर् एव वालम् अत्यर्थं तस्य माहात्म्यं संसूच्यते, वक्तुं शक्यत इत्य् अर्थः । उभयत्र च हेतुः—वासुदेव इति ॥३६॥

विश्वनाथः : असङ्ख्येयैः सङ्ख्यातुम् अशक्यैर् एवं गुणैस् तस्य अलं कः खलूत्कर्ष इत्य् अर्थः । अन्ये पुरुषा गुणैर् उत्कर्ष्यन्तां नाम, न तु प्रह्लादस् तस्य तूत्कर्ष-हेतुर् अन्यद् वस्त्व्-अनन्तरं वर्तत इति भावः । तद् एव किम् ? तत्राह—माहात्म्यं सूच्यते सुष्ठु उच्यते । किं तत् ? वासुदेव इत्य्-आदि । यद् वा, तस्य माहात्म्यं सूच्यते तद् अभिधातुम् अशक्यत्वाद् व्यज्यते मात्रं कृष्ण-ग्रह-गृहीतात्म्याद्य्-उत्तर-ग्रन्थे ग्रहादि-शब्देनेति भावः । तस्य कीदृशस्य ? इत्य् अपेक्षायाम् आह—वासुदेव इति । नृसिंहाकारे इति केचित् । प्रह्लाद-स्तुत्य्-अनन्तरम् आविर्बभूव भगवान् पीताम्बर-धरो हरिर् इति वैष्णवोक्तेः, कृष्ण-ग्रह-गृहीतात्मेति गोविन्द-परिरम्भित इत्य् अग्रिमोक्तेश् च, वासुदेवे वसुदेव-नन्दनाकारे एवेत्य् अन्ये, प्रह्लादस्य पूर्वोत्तर-दशयोः क्रमेण वासुदेव-नृसिंह-निष्ठत्वम् इत्य् अपरे । नैसर्गिकी, न त्व् अन्येषाम् इव पूर्व-ज्नम-कृतैः साधनैः सिद्धेद् इत्य् अर्थः ॥३६॥

—ओ)०(ओ—

॥ ७.४.३७ ॥

न्यस्त-क्रीडनको बालो जडवत् तन्-मनस्तया ।

कृष्ण-ग्रह-गृहीतात्मा न वेद जगद् ईदृशम् ॥

**श्रीधरः : **नैसर्गिक-रतेर् लिङ्गान्य् आह—न्यस्त-क्रीडनक इति षड्भिः । तन्-मनस्तया तद्-एक-चित्तत्वेन ॥३७॥

**क्रम-सन्दर्भः : **तन्-मनस्तया कृष्ण-मनस्तयान्यस्त-क्रीडनकः । तद्-अनन्तरं तयैव जडवत् तत्-तुल्यः । ततः पश्चात् कृष्ण-ग्रह-गृहीतात्मा ग्रहेणेव कृष्णेनाविष्टः सन् जगद् ईदृशं न वेद न ददर्श, यथा लोकाः पश्यन्ति न तथा, किन्तु तत्-स्फुर्तिकरत्वेनैव ददर्शेत्य् अर्थः । गोविन्देन परिस्फुरता परिरम्भित इवेत्य् अर्थः ।_।_३७॥

मुकुन्द-दासः [भक्ति-रसामृत-सिन्धु ३.२.१०८]: कृष्ण एव ग्रहस् तेन गृहीतात्मा आविष्ट-स्वरूपः, अतस् तन्-मनस्तया जडवत् तत्-तुल्यः । ईदृशं नाना-वैचित्रीमद् अपि जगत् न ददर्श ॥३७॥

**विश्वनाथः : **नैसर्गिक-रतेर् लिङ्गान्य् आह—न्यस्त-क्रीडनक इति षड्भिः । बालोऽपि त्यक्त-बाल्य-लीलः । तन्-मनस्तया कृष्णैकाग्र-मनस्कत्वेन जड इवान्यैर् लक्ष्यमाणः, न चान्य-भक्तैर् इव तेन स्व-मनः कृष्ण-विषयकं कृतं, किन्तु कश्चिद् ग्रहो लोभ्यं द्रव्यम् इव कृष्ण एव यन्-मनो गृहीतवान् इत्य् आह—कृष्णेति । अत एव जगत् ईदृशं व्यवहार-मयं न वेद किन्तु कृष्णमयम् एवेत्य् अर्थः ॥३७॥

एष अयोगस्य जडता-नाम-व्यभिचारि-भाव-रूपेण भक्ति-रसामृत-सिन्धौ ३.२.१०८-साङ्ख्यक-श्लोक उदाह्रियते।

—ओ)०(ओ—

॥ ७.४.३८ ॥

आसीनः पर्यटन्न् अश्नन् शयानः प्रपिबन् ब्रुवन् ।

नानुसन्धत्त एतानि गोविन्द-परिरम्भितः ॥

**श्रीधरः : **एतान्य् आसनादीनि गोविन्देन परिरम्भित आत्मना एकी-कृतः ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : एतानि आसन-वर्त्म-भक्ष्य-शयनीय-पेय-वक्तव्यानि नानुसन्धत्ते न जानाति । कुतः ? गोविन्देन परिरम्भितः अतिवत्सलेन पित्रा मात्रा वा एकाब्दिको बालो यथा प्रतिक्षणम् एव परिरभ्य क्रोडस्थी-क्रियन्ते तथैव प्रह्लादो भोजन-शयनादि-समयेऽपि भगवता आलिङ्ग्यते इति प्रह्लाद एव पश्यति नान्य इति भावः ॥३८॥

—ओ)०(ओ—

॥ ७.४.३९ ॥

क्वचिद् रुदति वैकुण्ठ-चिन्ता-शबल-चेतनः ।

क्वचिद् धसति तच्-चिन्ता-ह्लाद उद्गायति क्वचित् ॥

**श्रीधरः : **रुदति रोदिति रौति । वैकुण्ठस्य चिन्तया शबला व्यामिश्रा क्षुभिता चेतना यस्य । तस्य चिन्तयाह्लादो यस्य ॥३९॥

**क्रम-सन्दर्भः : **प्रथमा चिन्ता वियोगे स्फुरति, द्वितीया संयोगे एवं वियोगे क्वचिद् रुदति । संयोगे हसति । वियोगे नदति उच्चैर् आहूयते । संयोगे वियोगे क्वचित् तद्-भावना इति ॥३९-४०॥

विश्वनाथः : ततश् च क्वचिद् इति स्व-बालकं स्व-क्रोड-स्थलाद् भूमौ निधाय गृह-कृत्यथार्थम् अन्यत्र गतायां मातरि ताम् अनालोच्य स बालो यथा रोदिति, तथैव माम् अधुनैव परित्यज्य मत्-प्रभुः क्व गत इति तच्-चिन्तया शबला व्यामिश्रा विह्वला चेतना यस्य सः । रुदति रोदिति क्वचिद् धसतीति तदैव पुनः-स्फूर्ति-प्राप्तेन भगवता भो प्रह्लाद वत्स क्षण-मात्रम् एव माम् अनालोक्य कथम् एवं रोदिषीत्य् उक्ते सति हसति चिरात् प्राप्ताम् आलिङ्गन्तीं मातरम् अवलोक्य मुग्ध-बाल इवेत्य् अर्थः । तच्-चिन्तेति मत्-प्रभुर् माम् एव कृपया स्व-दर्शन-दानेन सुखयतीति चिन्तया आह्लादो यस्य सः ॥३९॥

—ओ)०(ओ—

॥ ७.४.४० ॥

नदति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् ।

क्वचित् तद्-भावना-युक्तस् तन्-मयोऽनुचकार ह ॥

**श्रीधरः : **क्वचिद् उत्कण्ठो मुक्त-कण्ठः सन् अनुचकार, तच् चेष्टादिकं स्वयं कृतवान् ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नदतीति । स्फूर्ति-प्राप्तं हरिम् अतिदूरे दृष्ट्वा उत्कण्ठ उच्चीकृत-कण्ठः । “भो प्रह्लाद ! वत्स, त्वाम् अनालोक्याहं नैव निर्वृणोमि, यतस् त्वम् एव ममातिप्रियः” इत्य् उक्तः सन्, आनन्दातिशयेन विक्षिप्त एव विलज्जो नृत्यति । तदैव स्फूर्ति-भङ्गे सति तद्-विरह-खेदाधिक्येन तद्-भावनातिशय-युक्त उन्माद-सञ्चारि-प्राबल्येन “अहम् एव हरिः” इति तन्-मयः सन्, तल्-लीलां राम-कृष्णाद्य्-अवतार-गताम् अपि अनुचकार अनुकृतवान् ॥४०॥

एष अयोगस्य उन्माद-नाम-व्यभिचारिनो भक्ति-रसामृत-सिन्धौ ३.२.१०८-साङ्ख्यक-श्लोक उदाह्रियते।

—ओ)०(ओ—

॥ ७.४.४१ ॥

क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः ।

अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥

**श्रीधरः : **संस्पर्शस् तद् भावापत्तिः, तेन निर्वृतः । अस्पन्दः स्थिरो यः प्रणयः, तेन य आनन्दः, तेन यत् सलिलं, तेन युक्ते आमीलिते ईषन् निमीलिते ईक्षणे यस्य सः ॥४१॥

**क्रम-सन्दर्भः : **संयोगे क्वचिद् उत्पुलक इति । संस्पर्शः कृपा-मय-तत्-कर्तृकालिङ्गन-स्फूर्तिः ।_।_४१॥

विश्वनाथः : क्वचिद् उत्पलक इति क्व यामि कुत्र प्रभुं प्राप्स्यामीति कदाचित् तद्-विच्छेद-दुःखेन मुद्रित-नेत्रोऽकस्मात् स्व-हृदय एव तम् आलोक्य तत्-पाणि-स्पर्शेन निर्वृत उत्पुलको न विद्यते स्पन्दनो यस्य सः । प्रणयेनानन्द-सलिलं ययोस् तथाभूते ईषन्-मुद्रिते ईक्षणे यस्य स च स च सः ॥४१॥

—ओ)०(ओ—

॥ ७.४.४२ ॥

स उत्तम-श्लोक-पदारविन्दयोर्

निषेवयाकिञ्चन-सङ्ग-लब्धया ।

तन्वन् परां निर्वृतिम् आत्मनो मुहुर्

दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥

**श्रीधरः : **आत्मनः परां निर्वृतिं तन्वन् दुःसङ्गेन दीनस्यान्यस्यापि मनः शमं शान्तं व्यधात् ॥४२॥

**क्रम-सन्दर्भः : **दन्त्य-पाठे स्व-समं स्वान्तः-करण-तुल्यं व्यधात् ॥४२॥

विश्वनाथः : ननु तस्य हिरण्यकशिपु-प्रभृति-दुःसङ्गवत्त्वे कथं स्थिरा भक्तिस् तत्र प्रह्लादस्य तस्य सङ्गेनान्येऽपि दुःसङ्गिनः तत्-सहचर-बालाः कृतार्थआ बभूवुः कथं तस्यैव दुःसङ्गाशङ्केत्य् आह—स इति दुःसङ्ग-दीनस्यान्यस्यापि मनः शमं, शमो मन्-निष्ठता बुद्धेः इति भगवद्-वचनात् भगवन्-निष्ठम् अकरोत् ॥४२॥

—ओ)०(ओ—

॥ ७.४.४३ ॥

तस्मिन् महा-भागवते महा-भागे महात्मनि ।

हिरण्यकशिपू राजन्न् अकरोद् अघम् आत्मजे ॥

**श्रीधरः : **अघं द्रोहम् अकरोत् ॥४३॥

**क्रम-सन्दर्भः : **महा-भागवत्त्व-लक्षणं पूर्वम् एव दर्शितम्, महान् भागो भाग्यं श्री-नारद-कृपा-रूपं यस्य महान् पूज्य आत्मा धैर्य-गाम्भीर्यादि-युक्तः स्वभावो यस्य ॥४३॥

विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.४.४४ ॥

श्री-युधिष्ठिर उवाच—

देवर्ष एतद् इच्छामो वेदितुं तव सुव्रत ।

यद् आत्मजाय शुद्धाय पितादात् साधवे ह्य् अघम् ॥

**श्रीधरः : प्रथमाध्यायान्ते पृष्टम् एवार्थम् अति-विस्मयेन पुनः पृच्छति—**देवर्ष इति । तव त्वत्तस् तव वाक्यम् इति वा । साधवेऽघम् अदात् साधोर् द्रोहं कृतवान् इति यद् एतद् वेदितुं ज्ञातुम् इच्छामः ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रथमाध्यायान्ते पृष्टाम् एवार्थम् अतिविस्मयेन पृच्छति—देवर्षे इति । तव त्वत्तः, अघं दुःखम् ॥४४॥

—ओ)०(ओ—

॥ ७.४.४५ ॥

पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्र-वत्सलाः ।

उपालभन्ते शिक्षार्थं नैवाघम् अपरो यथा ॥

श्रीधरः : उपालभन्ते आक्षिपन्ति । अघं तु नैव कुर्वन्ति । अपरः शत्रुर् इव ॥४५॥

**क्रम-सन्दर्भः : **पुत्रान् इति सार्धकम् ॥४५॥

विश्वनाथः :नैव अघं प्रापयन्ति । अपरः शत्रुः ॥४५॥

—ओ)०(ओ—

॥ ७.४.४६ ॥

किम् उतानुवशान् साधूंस् तादृशान् गुरु-देवतान् ।

एतत् कौतूहलं ब्रह्मन्न् अस्माकं विधम प्रभो ।

पितुः पुत्राय यद् द्वेषो मरणाय प्रयोजितः ॥

**श्रीधरः : **अनुवशान् अनुकूलान् । साधून् अराग-रोषान् । गुरुः पितैव देवता येषां तान् उद्दिश्याघं न कुर्वन्तीति किम् उ वक्तव्यम् इत्य् अर्थः । पुत्राय पुत्रम् उद्दिश्य पितुर् द्वेषः । पित्रा कृतो द्वेषः पुत्रस्य मरणार्थं प्रयोजितः प्रवर्तित इति यद् एतत् कौतूहलं विधमापाकुरु । यद् वा, यद्यस्मात् पुत्राय यो द्वेषः स पितुर् मरणाय प्रयोजितोऽत एतत् कौतूहलं विधमेत्य् अर्थः ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अनुवशान् अनुकूलान् । कुतूहले भवं कौतूहलं सन्देहं, विधम अपाकुरु । सन्देहः कः ? पुत्राय पुत्रम् हन्तुं पितुर् द्वेषः । मरणाय स्वस्य मरणार्थम् एव प्रकर्षेण योजितः ॥४६॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमस्य चतुर्थोऽयं सङ्गतः सङ्गतः सताम् ॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यं संहितायां वैयासिक्यां सप्तम-स्कन्धे

युधिष्ठिर-नारद-संवादे

चतुर्थोऽध्यायः ।

॥ ७.४ ॥

(७.५)