०३ युधिष्ठिर-नारद-संवादे

७.३.१ ॥

श्री-नारद उवाच—

हिरण्यकशिपू राजन्न् अजेयम् अजरामरम् ।
आत्मानम् अप्रतिद्वन्द्वम् एक-राजं व्यधित्सत ॥**

श्रीधरः :

तृतीये तस्य तपसा तप्तं वीक्ष्य जगद्-विधिः ।

आगत्य विस्मितस् तेन संस्तुतश् च वरान् अदात् ॥

तद् एवं साधूनां कदने दानवान् आदिश्य बन्धूनां शोकं तत्त्व-निरूपणेनापनीय यत् कृतवांस् तद् आह—हिरण्यकशिपुर् इत्य्-आदिना । अप्रति-द्वन्द्वं प्रतिपक्ष-हीनम् एक-राजम् एकम् एव राजानं व्यधित्सत कर्तुम् ऐच्छत् ॥१॥

चैतन्य-मत-मञ्जुषा : अस्मिन् अध्याये न कापि व्याख्या।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

तृतीये स तपस् तप्त्वा देवान् सुस्थित-दुःस्थितान् ।

कृत्वा धातुः सम्ञातात् स्तुतात् प्राप वरान् वरान् ॥

आत्मानं सुत्रक एव राजत इत्य् एक-राजः तं वक्ष्यमाणाभिप्राप्येण ब्रह्म-लोक-पर्यन्तं स्वस्यैवैकादिपत्यं कामयमानोऽभूद् इत्य् अर्थः ॥१॥

—ओ)०(ओ—

॥ ७.३.२ ॥

स तेपे मन्दर-द्रोण्यां तपः परम-दारुणम् ।
ऊर्ध्व-बाहुर् नभो-दृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥**

**श्रीधरः : **ऊर्ध्वौ बाहू यस्य । नभसि दृष्टिर् यस्य । पादाङ्गुष्ठेनाश्रिताऽवनिर् येन ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अत एव स तेपा इति ॥२॥

—ओ)०(ओ—

॥७.३.३ ॥

जटा-दीधितिभी रेजे संवर्तार्क इवांशुभिः

तस्मिंस् तपस् तप्यमाने देवाः स्थानानि भेजिरे ॥

**श्रीधरः : **जटानां दीधितिभिः कान्तिभिः अंशुभी रश्मिभिः प्रलय-कर्त अर्क इव रेजे । पूर्वं येऽलक्षिताः सन्तो भुवि विचेरुस् ते देवाः पुनः स्वानि स्थानानि भेजिरे ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्थानानि स्व-स्व-गृहान् । शत्रोस् तस्य शात्रवम् अनालक्ष्येत्य् अर्थः ॥३॥

—ओ)०(ओ—

॥७.३.४ ॥

तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस् तपोमयः

तीर्यग् ऊर्ध्वम् अधो लोकान् प्रातपद् विष्वग् ईरितः ॥

**श्रीधरः : **विष्वग् ईरितः सर्वतः प्रसृतं सन् ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.३.५ ॥

चुक्षुभुर् नद्य्-उदन्वन्तः सद्वीपाद्रिश् चचाल भूः ।
निपेतुः सग्रहास् तारा जज्वलुश् च दिशो दश ॥**

**श्रीधरः :**द्वीपैर् अद्रिभिश् च सहिता भूश् चलिता ॥५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.३.६ ॥

तेन तप्ता दिवं त्यक्त्वा ब्रह्म-लोकं ययुः सुराः ।
धात्रे विज्ञापयाम् आसुर् देव-देव जगत्-पते ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ७.३.७ ॥

दैत्येन्द्र-तपसा तप्ता दिवि स्थातुं न शक्नुमः ।

तस्य चोपशमं भूमन् विधेहि यदि मन्यसे ।
लोका न यावन् नङ्क्ष्यन्ति बलि-हारास् तवाभिभूः ॥**

**श्रीधरः : **तव बलि-हाराः कर-प्रदाः पूजा-कारिण इति वा । अभितो भवतीत्य् अभिभूः । हे अभिभूः ! हे सर्वाधिपते ! पाठान्तरे, भो इति संबोधनम् । अभितो यावन् न नङ्क्ष्यन्तीति संबन्धः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अभितो भवतीत्य् अभिभो ! हे सर्वाधिपते ! स-विसर्ग-पाठे भो इति संबोधनम् । अभि अभितः ॥७॥

—ओ)०(ओ—

॥ ७.३.८ ॥

तस्यायं किल सङ्कल्पश् चरतो दुश्चरं तपः

श्रूयतां किं न विदितस् तवाथापि निवेदितम् ॥

**माध्वः :**जानताम् अपि कर्तव्यं कर्मात्म-सदृशं सदा ।

तत्रात्म-सदृशाज्ञानाद् रागाद्यैर् वा विमोहिताः ॥
जानन्तोऽपि ह्य् असदृशं कर्म कुर्यू ऋते विभुम् ।
चतुरास्यं स् अनायोग्यं कर्म कुर्यात् कथञ्चन ॥ इति नारदीये ॥८॥

**श्रीधरः : **ब्रह्मणस् तस्मिन् द्वेषम् उत्पादयितुं तत् सङ्कल्पम् आहुः, तस्येति चतुर्भिः । तस्य सङ्कल्पस् तव किं न विदितोऽथाप्य् अस्माभिर् निवेदितस् त्वया श्रूयताम् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तथाप्य् अस्माभिर् निवेदितं श्रूयताम् ॥८॥

—ओ)०(ओ—

॥ ७.३.९-१० ॥

सृष्ट्वा चराचरम् इदं तपो-योग-समाधिना ।
अध्यास्ते सर्व-धिष्ण्येभ्यः परमेष्ठी निजासनम् ॥**

तद् अहं वर्धमानेन तपो-योग-समाधिना ।
कालात्मनोश् च नित्यत्वात् साधयिष्ये तथात्मनः ॥**

**मध्वः-**तपसा विद्यया वापि ज्ञान-ध्यानादिनाथवा ।

व्यस्तैः समस्तैर् अपि वा कुर्वतां यत्नम् उत्तमम् ॥
संहार-विक्षेप-शतैर् बहु-कोटिभिर् एव वा ।
न शक्यन्ते समारोढुं स्वात्मायोग्या पदानि तु ॥
तथाप्य् आचरतां कुर्युर् दैत्यानां सुर-नायकाः ।
विन्नन्तु तप-आदीनां वैयर्थ्यस्यानुपत्तये ॥ इति प्रकाश-संहितायाम् ॥९-१०॥

**श्रीधरः : **तपो-योगयोः समाधिना निष्ठया सर्व-धिष्ण्येभ्यः श्रेष्ठं निजासनं सत्य-लोकं यथा अध्यास्तेऽधितिष्ठति ॥९॥ तत् तथैवात्मनः साधायिष्यामि । ननु ब्रह्मणाऽतिदीर्घायुषा तपस् तप्त्वा तत् साधितम् अन्यः कुतस् तत् साधयेत् तत्राहुः, कालात्मनोर् इति । यद्य् अप्य् आयुषोऽल्पत्वेन देहो वारं वारं म्रियेत तथापि कालस्यात्मनश् च नित्यत्वाद् बहुभिर् जन्मभिस् तपस् तप्त्वा तत् पदं साधयिष्याम्य् एवेति ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सर्व-धिष्ण्येभ्यः । वर्धमानेनेति । साम्प्रतिकाद् अपि परमेष्ठितो मम प्रभावोऽधिको भविष्यतीति भावः ॥९॥ ननु ब्रह्मणा अतिदीर्घायुषा तपस् तप्त्वा तत्-साधितं, त्वम् एतावद् आयुष्कं कथं तत् साधयिष्यसीति तत्राह—कालेति, यद्यप्य् आयुषोऽल्पत्वेन मदीयः स्थूलो देहो वा वारं वारं नङ्क्ष्यति, तद् अपि कालस्यात्मनश् च नित्यत्वात् बहुभिर् जन्मभिस् तपस् तप्त्वा तदात्मनः परमेष्ठ्य्-आसनं साधयिष्याम्य् एवेति ॥१०॥

—ओ)०(ओ—

॥ ७.३.११ ॥

अन्यथेदं विधास्येऽहम् अयथा पूर्वम् ओजसा ।
किम् अन्यैः काल-निर्धूतैः कल्पान्ते वैष्णवादिभिः ॥**

**श्रीधरः : **वर्धमाणेनेति यद् उक्तं, तद्-अभिप्रायम् आह—अन्यथेति । अन्यथा सुरासुरादि-व्यत्ययेन । अयथापूर्वं पुण्य-पापादि-व्यत्ययेन । इदं जगद् विधास्यामि । अन्यैर् वैष्णवादिभिर् ध्रुवादि-पदैः किं प्रयोजनम् अतस् तद् एव साधयिष्यामि ॥११॥

**क्रम-सन्दर्भः :**किम् अन्यैर् इत्य् आसुर-दृष्ट्या ॥११॥

विश्वनाथः : ततश् च इदं जगद् अन्यथा विधास्ये इति ये ब्रह्मचर्य-तपो-व्रतादिभिर् इह-लोके दुःखिनस् ते पर-लोकेऽपि नरक-भाजो दुःखिनः कर्तव्याः । ये इह-लोके वैषयिक-सुख-भोग-मात्र-निरताः, त एव पर-लोके स्वर्गिणः वैषयिक-सुख-भोगोन्मुख्यम् एव पुण्यम् इष्ट-साधनं च तत् सङ्कोच एव पापम् अनिष्ट-साधनम् इत्य्-आदिकं प्रवर्तनीयम् ।

नन्व् एवं पूर्व-पूर्व-महा-कल्पेषु न प्रवृत्तं तत्राह—अयथा पूर्वम् अपि ओजसा स्व-तेजसा विधास्ये ।

ननु येन सिषाधयिषितं परमेष्ठ्यासनम् एव किं सर्व-धिष्णेभ्यः श्रेष्ठं मन्यसे ? तत्राह—किम् अन्यैर् इति वैष्णव-वादिभिर् ध्रुवादि-पदैः किं प्रयोजनं काल-निर्धूतैर् इति ध्रुव-पदस्यानित्यत्व-मननम् असुर-स्वभावत्वात् ॥११॥

—ओ)०(ओ—

॥ ७.३.१२ ॥

इति शुश्रुम निर्बन्धं तपः परमम् आस्थितः ।
विधत्स्वानन्तरं युक्तं स्वयं त्रि-भुवनेश्वर ॥**

**श्रीधरः : **इति त्वत्-पदापहरणे तस्य निर्बन्धं शुश्रुम । अत एवासौ तपः परमम् आस्थितो वर्तते । यद् अत्र युक्तं तद् अनन्तरम् एव विधत्स्व ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **इति त्वत्-पदापहरणे तस्य निर्बन्धं शुश्रुम । अत एवायं तपः परमम् आस्थितः ॥१२॥

—ओ)०(ओ—

॥ ७.३.१३ ॥

तवासनं द्विज-गवां पारमेष्ठ्यं जगत्-पते ।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥**

**मध्वः-**भवाय श्रेयसे चैव न कश्चित् तद् अवेक्षते ।

मधुकैटभयोश् चैव हिरण्यादेस् तथैव च ॥
नान्यो ब्रह्म-पदं वाञ्छत्य् ऋजून् योग्यान् विना क्वचित् ।
ततः श्रेयांसि वाञ्छन्ति न तु तत्-पदम् आप्तये ॥ इति ब्रह्माण्डे ।
भवो वृद्धिः समुद्दिष्टः श्रेयो मोक्ष उदाहृतः ।
वृद्धस्य न पुनर् हासो भूतिर् इत्य् एव कथ्यते ॥ इति शब्द-निर्णये ॥१३॥

**श्रीधरः : **अन्यथा तव स्थान-भ्रंशे सति साधूनाम् अनिष्टं स्याद् इति शोचन्त आहुः, तव पारमेष्ठ्यम् इदम् आसनम् । द्विजानां गवां च भवायोद्भवाय । श्रेयसे सुखाय । भूत्यै ऐश्वर्याय । क्षेमाय लब्ध-पालनाय । विजयायोत्कर्षाय ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ययाव् इति तर्ह्य् अधुनैव वर-दानैस् तत्-तपसो निवर्तयामीत्य् आशयेन ॥१३॥

—ओ)०(ओ—

॥ ७.३.१४-१५ ॥

इति विज्ञापितो देवैर् भगवान् आत्मभूर् नृप ।
परितो भृगु-दक्षाद्यैर् ययौ दैत्येश्वराश्रमम् ॥**

न ददर्श प्रतिच्छन्नं वल्मीक-तृण-कीचकैः ।
पिपीलिकाभिर् आचीर्णं मेदस्-त्वङ्-मांस-शोणितम् ॥**

**श्रीधरः : **वल्मीकादिभिः प्रतिच्छन्नं प्रथमं न ददर्श । पश्चात् कथञ्चिद् विलक्ष्य तं प्राहेति द्वयोर् अन्वयः । पिपीलिकाभिर् आचीर्णं समन्ताद् भक्षितं मेदश् च त्वक् च मांसं च शोणितं च यस्य ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**प्रथमं वल्मीकादिभिः प्रतिच्छन्नं तं न ददर्श । ततः कथञ्चिद् तं विलक्ष्य प्राहेति द्वयोर् अन्वयः । आचीर्णं समन्ताद् भक्षितम् ॥१५॥

—ओ)०(ओ—

॥ ७.३.१६ ॥

तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् ।
विलक्ष्य विस्मितः प्राह हसंस् तं हंस-वाहनः ॥**

**मध्वः-**सकामस् तु ततः क्रूरं लोकानां भय-कृद् भवेत् ।

इतरच्-छान्तये सर्व-लोकानां भवति ध्रुवम् ॥ इति प्रकाशिकायाम् ॥१६॥

**श्रीधरः : **अभ्रैर् अपिहितं छन्नं रविम् इव विलक्ष्य विस्मितः प्राह ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः :**मेघाच्छादितं रविम् इव ॥१६॥

—ओ)०(ओ—

॥ ७.३.१७ ॥

श्री-ब्रह्मोवाच—

उत्तिष्ठोत्तिष्ठ भद्रं ते तपः-सिद्धोऽसि काश्यप

वरदोऽहम् अनुप्राप्तो व्रियताम् ईप्सितो वरः ॥

मध्वः- ब्रह्माणम् अभजद् ब्रह्म-पदार्थं स हिरण्यकः इति स्कान्धे ॥१७॥

श्रीधरः, विश्वनाथः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **उत्तिष्ठेत्य् अनेन पूर्वम् ऊर्ध्व-स्थितस्य तस्य पश्चाद् उपवेशः सूचितः ॥१७॥

—ओ)०(ओ—

॥ ७.३.१८ ॥

अद्राक्षम् अहम् एतं ते हृत्-सारं महद्-अद्भुतम्

दंश-भक्षित-देहस्य प्राणा ह्य् अस्थिषु शेरते ॥

**श्रीधरः : **हृत्-सारं धैर्यम् । दंशैर् मक्षिकादि-विशेषैर् भक्षितो देहो यस्य ॥१८॥

**क्रम-सन्दर्भः : **दंश-भक्षितत्वं पूर्वं, पिपीलिका-भक्षितत्वं पश्चाद् इति ज्ञेयम् ॥१८॥

**विश्वनाथः : **हृत्-सारं धैर्यम् ॥१८॥

—ओ)०(ओ—

॥ ७.३.१९ ॥

नैतत् पूर्वर्षयश् चक्रुर् न करिष्यन्ति चापरे ।
निरम्बुर् धारयेत् प्राणान् को वै दिव्य-समाः शतम् ॥**

**श्रीधरः : **निरम्बुर् निषिद्धम् अम्बु येन सः । त्यक्तोदक इत्य् अर्थः ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.३.२० ॥

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ।
तपो-निष्ठेन भवताजितोऽहं दिति-नन्दन ॥**

मध्वः- जितः वशीकृतः । पराभूतं वशस्थं च जितभिद् उच्यते बुधैः इति शब्द-निर्णये ॥२०॥

**श्रीधरः : **ते त्वया अनेन व्यवसायेनैव तावज् जितोऽहम् । तपो-निष्ठेन भवता तु सुतरां जितः ॥२०॥

क्रम-सन्दर्भः, विश्वनाथः :न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.३.२१ ॥

ततस् त आशिषः सर्वा ददाम्य् असुर-पुङ्गव

मर्तस्य ते ह्य् अमर्तस्य दर्शनं नाफलं मम ॥

**श्रीधरः : **मर्त्यस्य तवामर्त्यस्य मम दर्शनम् अफलं निष्फलं न भवति ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : असुर-जातित्वेऽपि मरण-धर्मवत्त्वान् मर्त्यस्य ते मर्त्येन त्वया ॥२१॥

—ओ)०(ओ—

॥ ७.३.२२ ॥

श्री-नारद उवाच—

इत्य् उक्त्वादि-भवो देवो भक्षिताङ्गं पिपीलिकैः

कमण्डलु-जलेनौक्षद् दिव्येनामोघ-राधसा ॥

**श्रीधरः : **आदौ भवतीत्य्-अदि-भवो ब्रह्मा । औक्षत् प्रोक्षितवान् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : पिपीलिकैर् इति पिपीलिकाद् अंशादिभिर् इत्य् अर्थः । आदि-भवो ब्रह्मा अमोघम् अव्यर्थं राधः संसिद्धिर् यतस् तेन । औक्षत् प्रोक्षितवान् ॥२२॥

—ओ)०(ओ—

॥ ७.३.२३ ॥

स तत् कीचक-वल्मीकात् सह-ओजो-बलान्वितः ।

सर्वावयव-सम्पन्नो वज्र-संहननो युवा ।
उत्थितस् तप्त-हेमाभो विभावसुर् इवैधसः ॥**

**श्रीधरः : **वज्रवत् संहननम् अङ्ग-दार्ढ्यं यस्य । तप्तस्य हेम्न इवाभा देह-कान्तिर् यस्य ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वज्रस्येव संहननम् अङ्गस्य दार्ढ्यं यस्य सः ॥२३॥

—ओ)०(ओ—

॥ ७.३.२४ ॥

स निरीक्ष्याम्बरे देवं हंस-वाहम् उपस्थितम् ।
ननाम शिरसा भूमौ तद्-दर्शन-महोत्सवः ॥**

**मध्वः :**प्रायस् तु स्तुति-शब्देषु मिश्रा वाचो हरिं विना ।

केचिज् जीव-गुणास् तत्र तन्-नियन्तर् हरेः परे ॥
एक-स्थानैक-कार्यत्वाद् विष्णोः प्राधान्यतस् तथा ।
जीवस्य तद्-अधीनत्वान् न भिन्नाधिकृतं वचः ॥ इति ब्रह्म-तर्के ॥२४॥

**श्रीधरः : **तस्य दर्शनेन महान् उत्सवो यस्य ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ—

॥ ७.३.२५ ॥

उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् ।
हर्षाश्रु-पुलकोद्भेदो गिरा गद्गदयागृणात् ॥**

**श्रीधरः : **हर्षेणाश्रूणि पुलकोद्भेदश् च यस्य सः ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः :_ न व्याख्यातम्।_

—ओ)०(ओ—

॥ ७.३.२६ ॥

श्री-हिरण्यकशिपुर् उवाच—

कल्पान्ते काल-सृष्टेन योऽन्धेन तमसावृतम् ।
अभिव्यनग् जगद् इदं स्वयञ्ज्योतिः स्व-रोचिषा ॥**

आत्मना त्रि-वृता चेदं सृजत्य् अवति लुम्पति ।
रजः-सत्त्व-तमो-धाम्ने पराय महते नमः ॥**

मध्वः : त्रिवृता प्रकृत्या ॥२७॥

**श्रीधरः : अन्धेन निबिडेन । तत्र हेतुः—**काल-सृष्टेन प्रकृति-गुण-रूपेण न तु ध्वान्तेन । तमसावृतम् इदं जगद्योऽभिव्यक्तम् अकरोत् । यश् च त्रि-गुणेनात्मना इदं जगत् सृजत्य् अवति पालयति लुम्पति संहरति च तस्मै रजः-सत्त्व-तमसां धाम्ने आश्रयाय महते पराय परमेश्वराय नम इति द्वयोर् अन्वयः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अभिव्यनक् योऽभिव्यक्तम् अकरोत् त्रीन् गुणान् वृणोति स्वीकरोतीति त्रिवृत् आत्मा तेन ॥२६-२७॥

—ओ)०(ओ—

॥ ७.३.२८ ॥

नम आद्याय बीजाय ज्ञान-विज्ञान-मूर्तये ।
प्राणेन्द्रिय-मनो-बुद्धि-विकारैर् व्यक्तिम् ईयुषे ॥**

**श्रीधरः : **अत्र च स्व-प्रकाशत्वं, जगत्-प्रकाशकत्वं, तत्-कारणत्वं, तत् मृष्ट्य्-आदि-कर्तृत्वं, महत्त्वं, परमेश्वरत्वं, चेति षड्-विधत्वम् उक्तं तद् एव प्रपञ्चयन् नमस्करोति—नम इति चतुर्भिः ।

बीजाय कारणाय । तत्र हेतुः—आद्याय । ज्ञानं ज्ञप्तिर् विज्ञानं विषयाकारं ज्ञानं मूर्तिर् यस्य तस्मै । अनेन स्व-प्रकाशत्वं जगत्-प्रकाशकत्वं च दर्शितं बीजायेति निमित्तत्वम् उक्तम् । उपादानत्वम् आह—प्राणादयो ये विकारास् तै रूपैर् व्यक्तिं कार्याकारम् ईयुषे प्राप्तवते ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्राणादयो ये विकारास् तैर् व्यक्तिं कार्याकारम् ईयुषे ॥२८॥

—ओ)०(ओ—

॥ ७.३.२९ ॥

त्वम् ईशिषे जगतस् तस्थुषश् च

प्राणेन मुख्येन पतिः प्रजानाम् ।

चित्तस्य चित्तैर् मन-इन्द्रियाणां

पतिर् महान् भूत-गुणाशयेशः ॥

**श्रीधरः : **एवम् आत्मना त्रि-वृता चेत्य् अनेनोक्तं कारणत्वं द्वेधा दर्शितम्, महत्त्वम् ईश्वरत्वं चाह—त्वम् इति । त्वम् एव जगतो जङ्गमस्य तस्थुषः स्थावरस्य च ईशिषे नियन्ता भवसि । केन ? मुख्येन प्राणेन सूत्रात्म-रूपेण । अतस् त्वं प्रजानां पतिः । तासां चित्तस्य चित्तैश् च तत्-परिणाम-भूतायाश् चेतनाया मनसश् च तन्-नियम्यानाम् इन्द्रियाणां च पतिः । अतस् त्वम् एव महान् । भूतानाम् आकाशादीनां तद्-गुणानां शब्दादि-विषयाणाम् आशयानां तद्-वासनानाम् ईशश् च । एतेनैव स्रष्टृत्वं दर्शितम् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : ईशिषे नियन्ता भवसि । केन ? मुख्येन प्राणेन सूत्रात्म-रूपेण । अतस् त्वं प्रजानां पतिः, तासां चित्तस्य चित्तैश् च तत्-परिणाम-भूतायाश् चेतनाया मनसश् च तन्-नियम्यानाम् इन्द्रियाणां च पतिः । महा-भूतानाम् तद्-गुणानाम् आशयानां तद्-वासनानाम् ईशश् च ॥२९॥

—ओ)०(ओ—

॥ ७.३.३० ॥

त्वं सप्त-तन्तून् वितनोषि तन्वा

त्रय्या चतुर्-होत्रक-विद्यया च ।

त्वम् एक आत्मात्मवताम् अनादिर्

अनन्त-पारः कविर् अन्तरात्मा ॥

मध्वः : प्राणेन सह सप्त-तन्तून् सप्त-क्रतून् ॥३०॥

**श्रीधरः : **इदानीं यज्ञ-प्रवर्तकत्वेनान्तर्यामित्वेन जगत्-पालकत्वम् आह । त्वम् एव सप्त-तन्तून् अग्निष्टोमादि-यज्ञान् विस्तारयसि । कथम् ? त्रय्या तन्वा वेद-त्रय-रूपेण । कथं-भूतया ? चत्वारो होतारो यत्र तच् चातुर्-होत्रकं कर्म तद् विषयया विद्यया । आत्म-वतां प्राणिनाम् आत्म-भूतस् त्वम् एवान्तर्-आत्मा चान्तर्यामी । कुतः ? यतः कविः सर्व-ज्ञः । तत् कुतः ? एकोऽखण्डः । तत्र हेतुः—अनादिर् अनन्त-पारश् चेति । नास्त्य् अन्तः कालतः पारश् च देशतो यस्य सः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : त्वम् एव सप्त-तन्तून् अग्निष्टोमादि-यज्ञान् त्रयी वेद-त्रयं तद्-रूपया तन्वा होता उद्गाता अध्वर्युर् ब्रह्मेति यत्र तच् चतुर्होत्रकं कर्म तद्-विषयया विद्यया च । आत्मवतां देहिनाम् आत्मा जीवः अन्तरात्मा अन्तर्यामी ॥३०॥

—ओ)०(ओ—

॥ ७.३.३१ ॥

त्वम् एव कालोऽनिमिषो जनानाम्

आयुर् लवाद्य्-अवयवैः क्षिणोषि ।

कूट-स्थ आत्मा परमेष्ठ्य् अजो महांस्

त्वं जीव-लोकस्य च जीव आत्मा ॥

मध्वः : जीवानां प्राण-धारकः ॥३१॥

**श्रीधरः : **काल-रूपेण संहर्तृत्वम् आह—त्वम् एवेति । लवाद्यैः कालावयवैः क्षिणोषि क्षपयसि । तद् एवं सृष्ट्यादि-कर्तृत्वेऽपि निर्विकारत्वम् एवाह—कूट-स्थ इति । तत्र हेतवः—आत्मा ज्ञान-रूपः । परमेष्ठी परमेश्वरः । अजो जन्म-शून्यः । महान् अपरिच्छिन्नः । किं च, जीव-लोक एव कर्म-वशाज् जन्मादिभिर् विक्रियते त्वं तु तस्य जीवो जीवन-हेतुः, यतस् तस्यात्मा नियन्ता ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कूटस्थः निर्विकारत्वेन काल-व्यापी । आत्मा अन्तर्यामी । जीव-लोकस्य जीववच् छरीरस्य जीवाख्य आत्मा पूर्व-श्लोके कर्म-प्रयोज्यत्व-प्रयोजकत्वाभ्याम् कर्मिणाम् आत्मत्वे उक्ते अत्र त्व् अन्येषां सर्वेषाम् अपि ॥३१॥

—ओ)०(ओ—

॥ ७.३.३२ ॥

त्वत्तः परं नापरम् अप्य् अनेजद्

एजच् च किञ्चिद् व्यतिरिक्तम् अस्ति ।

विद्याः कलास् ते तनवश् च सर्वा

हिरण्यगर्भोऽसि बृहत् त्रि-पृष्ठः ॥

**मध्वः :**परावरेषु यस्मात् त्वं व्याप्तो विष्णुः सनातनः ।

तस्मान् न व्यतिरिक्तत्वम् इत्य् आहुर् वेद-वेदिनः ॥ इति पाद्मे ।

विद्याश् च कलाश् च विद्या-कलाः ।

महा-विद्याः कलाश् चैव त्वप्तनावाश्रिता यतः ।
विद्या तनुर् इति प्राहुर् अतस् त्वां तत्त्व-वेदिः ॥ इति ।

त्रिपृष्ठः तुरीयः ॥३२॥

**श्रीधरः : **तत् कुतस् तत्राह—त्वत्त इति । त्वत्तो व्यतिरिक्तं यदि किञ्चिद् भवेत् तर्हि तस्मात् तव जन्मादि-विकारो नियम्यत्वादिकं वा भवेत् तत् तु नास्तीत्य् आह—परं कारणम् अपरं कार्यम् । तत्र चैजज् जङ्गमम्, अनेजत् स्थावरं च तद् व्यतिरिक्तं नास्ति ।

ननु मद्-बोधक-शास्त्रं व्यतिरिक्तम् अस्तीति चेत्, न, यतो विद्या वेदोपवेदादि-विद्या-स्थानानि कलाश् च तद् अङ्गानि तवैव तनवो न तु त्वद् व्यतिरिक्ताः । तत् कुतः ? यतस् त्वं बृहद्-ब्रह्मैवासि । तद् अपि कुतस् तत्राह—हिरण्य-रूपं ब्रह्माण्डं गर्भे यस्य सः । त्रि-पृष्ठस् त्रि-गुणात्मकस्य प्रधानस्य पृष्ठे परतः स्थितः । अक्षरात् परतः परः इत्य्-आदि-श्रुतेः ॥३२॥

**क्रम-सन्दर्भः : **त्वत्त इत्य् अस्य टीकायां—विद्या वेदोपवेदादि इत्य्-आदि-व्याख्यानाद् विद्या कला इति द्वन्द्व-समासोऽतो विद्याः कलाश् चेति पाठो न सभ्यः ॥३२॥

विश्वनाथः : परं कारणम् अपरं कार्यम् अनेजत् स्थावरम् एजत् जङ्गमं, विद्या वेदोपवेदादि-विद्या-स्थानानि कलाश् च तद्-अङ्गानि ते तवैव तनवः हिरण्य-रूपं ब्रह्माण्डं गर्भे यस्य सः । बृहद्-ब्रह्म-वासि त्रयाणां गुणानां पृष्ठे परतः स्थितत्वात् त्रिपृष्टः ॥३२॥

—ओ)०(ओ—

॥ ७.३.३३ ॥

व्यक्तं विभो स्थूलम् इदं शरीरं

येनेन्द्रिय-प्राण-मनो-गुणांस् त्वम् ।

भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये

अव्यक्त आत्मा पुरुषः पुराणः ॥

**श्रीधरः : **ननु ब्रह्माण्ड-शरीरस्य जीवस्य मम कुतो ब्रह्मत्वं, कुतो वा ब्रह्माण्ड-गर्भत्वादि ? तत्राह—व्यक्तं कार्यम् इदं तव शरीरम् । व्यक्तं सत्यम् इति वा । येन शरीरेण त्वम् इन्द्रिय-प्राण-मनसां गुणान् विषयान् भुङ्क्षे । किं च, पारमेष्ठ्ये पारमैश्वर्ये धामनि स्वरूपे स्थित एव भूङ्क्षे, न त्व् अस्मद् आदिवत् स्वरूप-तिरो-धानेन । अतस् त्वम् अव्यक्त आत्मा निरुपाधिर् ब्रह्मैव पुराणः पुरुषश् चेत्य् अर्थः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : व्यक्तं वैराज-रूपम् इदं तव स्थूलं शरीरं येन शरीरेण त्वम् इन्द्रिय-प्राण-मनसां गुणान् विषयान् भुङ्क्ते, किन्तु पारमेष्ठ्ये परमैश्वर्ये धामनि स्वरूपे स्थित एव भुङ्क्ते, न तु स्वरूप-तिरोधानेन, अतस् त्वम् अव्यक्तो ब्रह्म आत्मा अन्तर्यामी पुराण-पुरुषो भगवांश् च ॥३३॥

—ओ)०(ओ—

॥ ७.३.३४ ॥

अनन्ताव्यक्त-रूपेण येनेदम् अखिलं ततम् ।
चिद्-अचिच्-छक्ति-युक्ताय तस्मै भगवते नमः ॥**

**मध्वः :**ब्रह्मणोऽप्य् अधिकं विष्णुं जानन्न् अपि हिरण्यकः ।

ब्रह्माणं तद्-गुणैः स्तौति तद्-विष्णु-विवक्षया ॥ इति च ॥३४॥

**श्रीधरः : **ननु ब्रह्मत्वं पुराण-पुरुषत्वं कथम् एकस्य ? तत्राह—अनन्त इति । हे अनन्त, येन त्वयाऽव्यक्तेन मनो-वचनागोचरेण रूपेणेदं विश्वं ततं व्याप्तं, तस्मै तुभ्यं भगवतेऽचिन्त्यैश्वर्याय नमः । भगवत्त्वे हेतुः—चिद्-अचिच्-छक्ति-युक्ताय, चिच्-छक्तिर् विद्या, अचिच्-छक्तिर् माया, ताभ्यां युक्तायेति ॥३४॥

**क्रम-सन्दर्भः : **अनन्तेत्य् अस्य टीका—वैष्णव-सिद्धान्तानुगता । तत्र चिच्-छक्तिः स्वरूप-भूता, अचिच्-छक्तिर् मायेति ज्ञेयम् ॥३४॥

**भगवत्-सन्दर्भः (१४): **चिद्-वस्तुनश् चिद्-वस्त्व्-अन्तराश्रयत्वं, रश्म्य्-आभासादि-ज्योतिषो ज्योतिर्-मण्डलाश्रयत्वम् इव ॥३४॥

विश्वनाथः : चिच्-छक्तिर् अन्तरङ्गा स्वरूप-भूता अचिच्-छक्तिर् माया गुण-मयी बहिरङ्गा ताभ्याम् गुणातीत-गुण-मय-लीलार्थं युक्ताय ॥३४॥

—ओ)०(ओ—

॥ ७.३.३५ ॥

यदि दास्यस्य् अभिमतान् वरान् मे वरदोत्तम ।
भूतेभ्यस् त्वद्-विसृष्टेभ्यो मृत्युर् मा भून् मम प्रभो ॥**

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **अमरत्व-वरो न प्राप्य इति छलेन तं वृणुते—यदीति । त्वद्-विसृष्टेभ्यः साक्षात् त्वत्-सृष्टेभ्यः _॥_३५॥

**विश्वनाथः : **नन्व् अलम् एतावत्या स्तुत्या वरांस् तावद् गृहाण, तत्राह—यदीति । हिरण्यकशिपोर् अत्रायम् आशयः । यद्य् अहम् अमृत्युर् भूयासम् इति वरं याचिष्ये तदा वरोऽयम् असम्भव एव, यतः कल्पान्ते वयं ब्रह्मादयोऽपि मरिष्याम एवेति मद्-वरं प्रख्यास्यते एव तस्माद् एव युक्त्या वरं वृणोमि यत् फलतोऽमरत्वम् एव प्राप्तं भविष्यतीति, त्वद्-विसृष्टेभ्य इति सर्वेषां भूतानां ब्रह्म-सृष्ट्यत्वाद् अपरः कोऽवशिष्ट इति भावः ॥३५॥

—ओ)०(ओ—

॥ ७.३.३६ ॥

नान्तर् बहिर् दिवा नक्तम् अन्यस्माद् अपि चायुधैः ।
न भूमौ नाम्बरे मृत्युर् न नरैर् न मृगैर् अपि ॥**

**श्रीधरः : **अन्यस्मात् त्वत्-मृष्ट-व्यतिरिक्ताद् अपि । आयुधैर् मृत्युर् मा भूत् ॥३६॥

**क्रम-सन्दर्भः : **अन्यस्मात् रुद्र-प्रजापत्य्-आदि-सृष्टाद् इत्य् अर्थः । ब्रह्मत उपर्य् अन्यामननात् ॥३६॥

विश्वनाथः : मृत्युः स्वतोऽपि सम्भवेत्, अत आह—नान्तर् बहिर् दिवा नक्तम् इति । सर्व-देश-काल-निषेधेन स्वाभाविको मृत्युर् वारितः साकारो वराहादि-विष्णुर् ब्रह्म-सृष्ट एव, स तु निराकारः सन्, यदि चक्राद्य्-अस्त्रं चालयेत् तर्ह्य् अनर्थ इत्य् आशङ्क्याह—अन्यस्माद् अपि आयुधैर् न मृत्युः । अन्तर्-बहिः-शब्दाभ्याम् सर्व-देशस्य प्राप्तत्वेऽपि तयोः सम्बन्धि-शब्दत्वेन प्रतियोगि-विशेषोपस्थापकत्वेऽनर्थ इत्य् आशङ्क्य पुनर् देशं निषिद्ध्यति । न भूमाव् इत्य् अनेन सप्त-पातालानां, नाम्बरे इत्य् अनेन सप्त-स्वर्गाणां च निषेधः । पुनर् दक्षादि-सृष्ट-भूतेभ्यो भयम् आशङ्क्याह—न नरैर् इति ॥३६॥

—ओ)०(ओ—

॥ ७.३.३७ ॥

व्यसुभिर् वासुमद्भिर् वा सुरासुर-महोरगैः ।
अप्रतिद्वन्द्वतां युद्धे ऐक-पत्यं च देहिनाम् ॥**

**श्रीधरः : **व्यसुभिर् अप्राणैः । असुमद्भिः सप्राणैः । यथा आत्मनस् तवास्ति महिमा तथाऽप्रतिद्वन्द्वतादिकं देहीति शेषः ॥३७॥

**क्रम-सन्दर्भः : **पुनः कर्तृ-गणं निषेधति—न नरैर् इति पाद-त्रयेण । भगवतोऽप्राकृत-प्राणत्वाद् व्यसुभिर् वासुमद्भिर् वेति तत्रैव सङ्ँस्यते कर्तृ-प्रकरणात् । न चैतत् क्रिय-निषेध-परम्—अप्राणिभिः प्राणिभिर् वेत्य् उक्ते तस्यैव प्राप्तत्वात् । हन्तुर् जीव-देह-साम्येऽपि स प्राण-भागान् निष्क्रान्तस्य कर्तनीय-नखाग्र-भागस्य त्यक्त-प्राणत्वाच् च, श्री-भगवति तु तन्-निषेधितं श्री-रुक्मिणी-देव्या—त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धमन्तः [भा।पु। १०.६०.४५] इत्य्-आदिना । प्राकृतानां निन्दयाप्राकृतानां तेषाम् आनन्द-रूपत्वं साधितम् । अत उक्तं वाराहे—न तस्य प्राकृता मूर्तिर् मेदो-मज्जास्थि-सम्भवाः इत्य्-आदि ॥३७॥

विश्वनाथः : सर्व-जीव-जातीनाम् उल्लेख-नाशक्यत्वाद् आह—वासुभिः प्राण-हीनैः असुमद्भिः प्राण-सहितैः । एवं वस्तुतोऽहम् अमर एवाभूवम् इति मत्वा वरान्तरं वृणोति—अप्रतीति ॥३७॥

—ओ)०(ओ—

॥ ७.३.३८ ॥

सर्वेषां लोक-पालानां महिमानं यथात्मनः ।
तपो-योग-प्रभावाणां यन् न रिष्यति कर्हिचित् ॥**

**श्रीधरः : **तपसा योगेन च प्रभावो येषां तेषाम् । यद् अणिमाद्य्-ऐश्वर्यं न रिष्यति न नश्यति तच् च देहीत्य् अर्थः ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यथा आत्मनस् तवास्ति, तथा तपो-योगाभ्याम् प्रभावो येषां तेषाम् अणिमाद्य्-ऐश्वर्यं न रिष्यति न नश्यति, तच् च देहीति ॥३८॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमस्य तृतीयोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे

युधिष्ठिर-नारद-संवादे

तृतीयोऽध्यायः ॥

॥ ७.३ ॥

(७.४)