॥ ७.२.१ ॥
श्री-नारद उवाच—
भ्रातर्य् एवं विनिहते हरिणा क्रोड-मूर्तिना ।
हिरण्यकशिपू राजन् पर्यतप्यद् रुषा शुचा ॥**
श्रीधरः :
द्वितीये विष्णु-रोषेण लोकं विप्लाव्य दानवैः ।
तद्-धत-भ्रातृ-पुत्रादीन् इतिहासैर् असान्त्वयत् ॥
भगवद्-द्वेष एव तद्-द्वेषेऽपि कारणम् इत्य् आशयेनाह—भ्रातरीत्य्-आदिना। एवं देव-पक्ष-पातेन ॥१॥
**क्रम-सन्दर्भः : **एवं पर्यतप्यतेति सम्बन्धः । मूर्तिनेत्य् अत्र रूपिणेति क्वचित् ॥१॥
विश्वनाथः :
द्वितीये भ्रातृ-शोकेन धर्म-नाशाय दानवान् ।
नियोज्य ज्ञानेतिहासैर् मित्रादीन् स ह्य् असान्त्वयत् ॥
भगवद्-द्वेष एव प्रह्लाद-द्वेषेऽपि कारणम् अभूद् इति वक्तुं प्रथमतो भगवद्-द्वेषम् एव स-हेतुकम् आह—भ्रातर्य् एवम् इत्य्-आदिना ॥१॥
—ओ)०(ओ—
॥ ७.२.२ ॥
आह चेदं रुषा पूर्णः सन्दष्ट-दशन-च्छदः ।
कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रम् अम्बरम् ॥**
**श्रीधरः : **कोपेन उत् अतिशयेन ज्वलद्भ्याम् कोपाग्नि-धूमेनैव धूम्रम् अम्बरं निरीक्षमाणः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अम्बरं निरीक्षन्न् इति हरेर् निवासं वैकुण्ठं हरिं च स्व-हस्तेनैव ध्वंसयामीति भावः । धूम्रम् इति चक्षुर्-अग्न्योर् धूम-व्याप्तत्वाद् इति भावः ॥२॥
—ओ)०(ओ—
॥ ७.२.३ ॥
कराल-दंष्ट्रोग्र-दृष्ट्या दुष्प्रेक्ष्य-भ्रुकुटी-मुखः ।
शूलम् उद्यम्य सदसि दानवान् इदम् अब्रवीत् ॥**
**श्रीधरः : **कराल-दंष्ट्राभिर् युक्त-योगया दृष्ट्या । दुष्प्रेक्ष्यं भ्रु-कुटी-युक्तं मुखं यस्य सः ॥३॥
**क्रम-सन्दर्भः : **आह चेदम् इति यद् उक्तं तद् एव विशिनष्टि—करालेति । भो भो इति युग्मकम् ॥३॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.४-५ ॥
भो भो दानव-दैतेया द्वि-मूर्धंस् त्र्यक्ष शम्बर ।
शतबाहो हयग्रीव नमुचे पाक इल्वल ॥**
विप्रचित्ते मम वचः पुलोमन् शकुनादयः ।
शृणुतानन्तरं सर्वे क्रियताम् आशु मा चिरम् ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.६ ॥
सपत्नैर् घातितः क्षुद्रैर् भ्राता मे दयितः सुहृत् ।
पार्ष्णि-ग्राहेण हरिणा समेनाप्य् उपधावनैः ॥**
**श्रीधरः : **समेनाप्य् उपधावनैर् भजनैर् निमित्त-भूतैः पार्ष्णि-ग्राहेण सता ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः :**समेनापीति । यद्यपि स हरिः सर्वत्र समस् तद् अपि उपधावनैर् उपासनैर् निमित्त-भूतैः पार्ष्णि-ग्राहेण लोभ-वशाद् देव-पक्ष-पाती वृत्त इत्य् अर्थः ॥६॥
—ओ)०(ओ—
॥ ७.२.७ ॥
तस्य त्यक्त-स्वभावस्य घृणेर् माया-वनौकसः ।
भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥**
**श्रीधरः : **एवं त्यक्तः स्वभावः समत्वं येन तस्य । घृणेः शुद्ध-तेजो-मयस्यापि मायया वनौकसो वराह-रूपस्य सतः । अस्थिरात्मनोऽव्यवस्थित-चित्तस्य। कुतः ? यो यो भजति तं तं भजमानस्यानुसरतः ॥७॥
**क्रम-सन्दर्भः : **तस्येति युग्मकम् । वास्तवोऽर्थस् त्व् अयं त्यक्तः, भक्तेभ्यो दत्तः स्वभावः सारूप्यादिकं येन “घृणि ग्रहणे” इत्य् अस्मात् घृणेः । कृपया स्वीकर्तुः माया कृपा मयिति छान्दस-तृतीया लुक् । ततः सर्वत्रान्वयः कृपयैव वनैकसः तल्-लीला-विस्तारयितुः कृपयैव बालस्येवास्थिरात्मनः भक्त-भावानुरूप-नाना-भाव-विस्तारयितुः मच्-छूलाद् भिन्ना तद्-अगोचर-भूता ग्रीवा तद्-उपलक्षितो विग्रहो यस्य तस्य मे रुधिरेण श्री-नृसिंहतयाविर्भावे तस्माद् भूत-मदीय-रुधिरेण रुधिर-प्रियं भ्रातरं तर्पयिष्ये, यथा तरोर् मूल-निषेचनेन [भा।पु। ४.३१.१४] इत्य्-आदेः ॥७॥
विश्वनाथः : वयम् अप्य् उपधावाम इति चेन् मैवं ब्रूध्वं यूयं तावन् मन्-नियुक्ते कर्मणि तिष्ठत अहम् एक एव तं हनिष्यामीत्य् आह—तस्येति द्वाभ्याम् ।
ननु हरिर् हि परमात्मोच्यते शास्त्रैः, अतस् तं कथं हनिष्यसि ? तत्राह—त्यक्त-स्वभावस्य सर्वत्रौदासीन्य-रूपः स्वभावो हि परमात्मनः प्रसिद्धः । स यदि तेन त्यक्तः, तदा कुतस् तस्य सम्प्रति परमात्मत्वम् इति भावः । प्रत्युत स परमात्मत्वं त्यक्त्वा पशुर् अभूद् इत्य् आह—घृणेः पूर्वं शुद्ध-तेजो-मयस्यापि सम्प्रति माया-पारतन्त्र्याद् वनौकसः मत्स्य-कच्छपादि-रूपस्य च ।
किं च, भजन्तं जन-मात्रम् एव भजमानस्य बालस्येव एकेनैव खण्ड-लड्डुकेन वशीकृतस्येत्य् अर्थः । वस्तुतस् तु तस्य भक्त-वात्सल्याद् एव त्यक्तेत्य्-आदि-विशेषण-पञ्चकं भवति । तच् च तस्य भूषणम् एव, न तु दूषणम् इति भावः । घृणेः शुद्ध-तेजो-मयस्यापि मायया कृपया इत्य्-आदि योज्यम् ॥७॥
—ओ)०(ओ—
॥ ७.२.८ ॥
मच्-छूल-भिन्न-ग्रीवस्य भूरिणा रुधिरेण वै ।
असृक्-प्रियं तर्पयिष्ये भ्रातरं मे गत-व्यथः ॥**
**श्रीधरः : **तस्य रुधिरेण यावत् तर्पयिष्यामि तावद् यूयं भुवं यातेति तृतीयेनान्वयः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मच्-छूलाद् भिन्ना पृथग्-भूता ग्रीवा यस्येति प्राकृतस्य मच्-छूलस्य तत्र प्रवेशोऽपि न सम्भवेद् इति भावः । कुङ्कुमं रुधिरं प्रोक्तम् इत्य् अभिधानात् रुधिरेण तद्-अङ्ग-राग-कुङ्कुमेन रुधिर-प्रियं तन्-निर्माल्य-कुङ्कुम-प्रिय-मद्-भ्रातुर् भक्तत्वाद् इति भावः ॥८॥
—ओ)०(ओ—
॥ ७.२.९ ॥
तस्मिन् कूटेऽहिते नष्टे कृत्त-मूले वनस्-पतौ ।
विटपा इव शुष्यन्ति विष्णु-प्राणा दिवौकसः ॥**
**श्रीधरः : **ननु देवैस् तद् वधः कारितोऽस्ते किं न हन्यन्ते ? तत्राह—तस्मिन् हरौ कूटे कपटे । अहिते प्रतिपक्षे । कूटम् ईहितं यस्येति वा । नष्टेऽदृष्टे सति देवाः शुष्यन्ति स्वयम् एव नाशं यास्यान्ति । कुतः ? विष्णुर् एव प्राणो येषां ते । यथा कृत्त-मूले वृक्षे शाखाः स्वयं शुष्यन्ति तद्वत् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कूटेऽहिते कपट-चेष्टिते वस्तुतस् तु कूटेषु कपटिष्व् अपि मद्-विधेषु ईहितं युद्ध-चेष्टा यस्य तस्मिन्न् इत्य् अहो मम भाग्यम् इति भावः । देवानां तु सौभाग्यं कियद् वर्णनीयम् । ते तु तद्-एक-प्राणा एवेत्य् आह—तस्मिन् नष्टे दैवात् कदाचिद् दृष्टे नशेर-दर्शनार्थत्वात् छिन्न-मूले वनस्पतौ यथा विटपाः शुष्यन्ति तथा शुष्यन्ति ते विष्णुर् एव प्राणं येषां ते, किं वा, विष्णोर् अपि प्राण-तुल्यास् ते परम-धन्या एवेति भावः ॥९॥
—ओ)०(ओ—
॥ ७.२.१० ॥
तावद् यात भुवं यूयं ब्रह्म-क्षत्र-समेधिताम् ।
सूदयध्वं तपो-यज्ञ-स्वाध्याय-व्रत-दानिनः ॥**
**श्रीधरः : **तपो-यज्ञादि-युक्तान् सूदयध्वं घातयत ॥१०॥
**क्रम-सन्दर्भः : **यतस् तस्मिन्न् इति । यद् वा, ननु, तस्य तद्-धस्त-मरणाद् दिव्या गतिर् जातैवास्ति किं तत्-तर्पणेन ? तत्राह—अस्मिन्न् इति । कूटे कूटस्थे एक-रूपतया सर्व-काल-व्यापिनि हिते भक्त-सुहृदि नष्टे अदर्शनं गते सति सर्वेऽपि प्राकृताप्राकृत-दिवौकसस् तद्-एक-प्राणत्वाच् छुष्यन्ति सुखद-नाना-सम्पद्यपि शोषं प्राप्नुवन्ति तस्मात् तद्-आराधनम् एव कार्यम् इति भावः । ततश् च यदि युष्माकम् इच्छा तर्हि यावत् तद्-दर्शनं तावद् एव यातेति ॥१०॥
विश्वनाथः : ब्रह्म-क्षत्राभ्याम् तपो-बल-प्रभावाभ्याम् सम्यग् एधितां वर्धितां भुवं यात । किम्-अर्थम् ? सूतयध्वं घाटयध्वम् ॥१०॥
—ओ)०(ओ—
॥ ७.२.११ ॥
विष्णुर् द्विज-क्रिया-मूलो यज्ञो धर्ममयः पुमान् ।
देवर्षि-पितृ-भूतानां धर्मस्य च परायणम् ॥**
**मध्वः : **विप्रयज्ञादि-मूलं तु हरिर् इत्य् आसुरं मतम् ।
हरिर् एव हि सर्वस्य मूलं सम्यङ् मतो नृप ॥ इति ब्राह्मे ॥११॥
**श्रीधरः : **ननु तैः किम् अपराद्धम् ? तत्राह—विष्णुर् इति । द्विजानां क्रिया अनुष्ठानं मूलं यस्य सः । यतोऽसौ यज्ञो धर्म-मयश् च । देवादीनां परायणं परम आश्रयः । अतो यज्ञ-रूपस्य विष्णोर् मूलत्वान् माम् अनादृत्य तद् आश्रयणाच् च ते वध्या इति भावः ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यतस् तेषां नाशे सति विष्णुः स्वयम् एव नङ्क्ष्यतीत्य् आह—विष्णुर् इति । द्विजानां नाशे सति तत्-क्रिया-लोपात् विष्णोर् मूलोत्खातः यज्ञस्य धर्मस्य च नाशः, तत्-स्वरूपस्य नाशो भावी । किं च, देव-र्ष्य्-आदीनां परायणं परम आश्रय इति देव-र्ष्य्-आदीनां वधे तच्-छोकाद् अपि मरिष्यतीति भावः ॥११॥
—ओ)०(ओ—
॥ ७.२.१२ ॥
यत्र यत्र द्विजा गावो वेदा वर्णाश्रम-क्रियाः ।
तं तं जनपदं यात सन्दीपयत वृश्चत ॥**
**श्रीधरः : **तस्मात् परमं मन्त्रं शृणुतेत्य् आह—यत्र यत्रेति । सन्दीपयत दहत। वृश्चत आजीव्यानां वृक्षाणां छेदं कुरुत ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सन्दीपयत दहतेति जनपदस्य दाहे तद्-वासिनां तेषां स्वत एव दाह-सिद्धेः । वृश्चत तद् उपजीव्य-वृक्षाणां छेदं कुरुत ॥१२॥
—ओ)०(ओ—
॥ ७.२.१३ ॥
इति ते भर्तृ-निर्देशम् आदाय शिरसादृताः ।
तथा प्रजानां कदनं विदधुः कदन-प्रियाः ॥**
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : कदनं कष्टम् ॥१३॥
—ओ)०(ओ—
॥ ७.२.१४ ॥
पुर-ग्राम-व्रजोद्यान- क्षेत्रारामाश्रमाकरान् ।
खेट-खर्वट-घोषांश् च ददहुः पत्तनानि च ॥**
**श्रीधरः : **पुरं हट्टादिमत् । ग्रामस् तद्-रहितः । व्रजो गवां वासः । उद्यानं कृत्रिमं वनम् । क्षेत्रं व्रीह्य्-आदेः । आरामोऽकृत्रिमं वनम् । आश्रमः ऋषीणां स्थानम् । आकरो रत्नादीनाम् । खेटः कृषीवलानां वासः । खर्वटो गिरि-द्रोण्य्-आश्रयो ग्रामः । घोष आभीराणां वासः । पत्तनं राज-धानी ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पुरं हट्टादिमत् । ग्रामस् तद्-रहितः । व्रजो गवां वासः । उद्यानं पुष्प-प्रधानम् वनम् । क्षेत्रं व्रीह्य्-आदेः । आरामः फल-प्रधानं वनम् । आश्रमः ऋषीणां स्थानम् । आकरो रत्नादीनाम् । खेटः कृषीवलानां वासः । खर्वटो गिरि-द्रोण्य्-आश्रयो ग्रामः । घोष आभीराणां वासः । पत्तनं राज-धानी ॥१४॥
—ओ)०(ओ—
॥ ७.२.१५ ॥
केचित् खनित्रैर् बिभिदुः सेतु-प्राकार-गोपुरान् ।
आजीव्यांश् चिच्छिदुर् वृक्षान् केचित् परशु-पाणयः ।
प्रादहन् शरणान्य् एके प्रजानां ज्वलितोल्मुकैः ॥**
**श्रीधरः : **खनित्रैः खनन-साधनैः । आजीव्यान् उपजीव्यान् जम्ब्व्-आम्रक-पित्थादीन् शरणानि गृहान् ॥१५॥
**क्रम-सन्दर्भः : **प्रादहन्न् इत्य् अर्धकम् ॥१५॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.१६ ॥
एवं विप्रकृते लोके दैत्येन्द्रानुचरैर् मुहुः ।
दिवं देवाः परित्यज्य भुवि चेरुर् अलक्षिताः ॥**
**श्रीधरः : **विप्रकृते उपद्रुते । यज्ञ-भागानाम् अभावाद् दिवं परिज्या-लक्षिताः सन्तो भुवि चेरुः ॥१६॥
**क्रम-सन्दर्भः : **दिवं विमान-स्वर्गं भुवं यथेति हिरण्यकशिपुना पूर्वम् उक्तत्वात् तस्य सुमेरु-स्थिति-प्राप्तेः ॥१६॥
**विश्वनाथः : **विप्रकृते उपद्रुते । यज्ञ-भागानाम् अभावाद् दिवं परिज्त्यज्य ॥१६॥
—ओ)०(ओ—
॥ ७.२.१७ ॥
हिरण्यकशिपुर् भ्रातुः सम्परेतस्य दुःखितः ।
कृत्वा कटोदकादीनि भ्रातृ-पुत्रान् असान्त्वयत् ॥**
**श्रीधरः : **तद् एवं प्रजानां कदनं दानवेषु कुर्वत्सु स्वयं स्वर्ग-राज्यादि साधयितुं तपस् तप्तु-कामः प्रथमं यत् कृतवांस् तद् आह—हिरण्यकशिपुर् इत्य्-आदिना । कटोदकं प्रेताय प्रदेयम् उदकम् । आदि-शब्दात् प्रेत-श्राद्धादिकम् ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कटोदकं प्रेताय प्रदेयम् उदकम् । आदि-शब्दात् प्रेत-श्राद्धां च ॥१७॥
—ओ)०(ओ—
॥ ७.२.१८-१९ ॥
शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् ।
कालनाभं महानाभं हरिश्मश्रुम् अथोत्कचम् ॥**
तन्-मातरं रुषाभानुं दितिं च जननीं गिरा ।
श्लक्ष्णया देश-काल-ज्ञ इदम् आह जनेश्वर ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.२० ॥
श्री-हिरण्यकशिपुर् उवाच—
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् ।
रिपोर् अभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥**
**श्रीधरः, विश्वनाथः : **हे वधूर् इति भ्रातुर् भार्यां संबोधयति ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.२१ ॥
भूतानाम् इह संवासः प्रपायाम् इव सुव्रते ।
दैवेनैकत्र नीतानाम् उन्नीतानां स्व-कर्मभिः ॥**
**श्रीधरः : **भवतु नाम तस्य श्लाघ्यो वधः । तथाप्य् अस्माकं तावद् बन्धुर् गत एव ? इति चेत्, तत्राह—भूतानाम् इति । दैवेन प्राचीन-कर्मणा एकत्र नीतानां संयोजितानां पुनश् च स्वैः स्वैः कर्मभिर् उन्नीतानां वियोजितानाम् ॥२१॥
**क्रम-सन्दर्भः : **रिपोर् अप्य् अभिमुखे किम् उत श्री-विष्णोर् इति च ॥२१॥
विश्वनाथः : बन्धु-विच्छेद-दुःखं चैवं भावनया निर्वाप्यताम् इत्य् आह—भूतानाम् इति । प्रपायां पाणीय-शालायाम् उन्नीतानां पुनर् वियोजितानाम् ॥२१॥
—ओ)०(ओ—
॥ ७.२.२२ ॥
नित्य आत्माव्ययः शुद्धः सर्वगः सर्व-वित् परः ।
धत्तेऽसाव् आत्मनो लिङ्गं मायया विसृजन् गुणान् ॥**
मध्वः : धत्तेऽसाव् आत्मनो लिङ्गं जीव मन-आदि नामाधारं ब्रह्म ॥२२॥
**श्रीधरः : **एवं लौकिक-दृष्ट्या शोकं निवार्य तत्त्व-दृष्ट्या वारयति—नित्य इति । आत्मा नित्यो मृत्यु-शून्यः । अव्ययोऽपक्षय-शून्यः । शुद्धो निर्मलः । सर्व-गतः सर्व-वित् सर्व-ज्ञश् च । सर्वत्र हेतुः, परो देहादि-व्यतिरिक्तः । अतो मृत इति कृश इति मलिन इति वियुक्त इत्य् अज्ञ इति च मत्वा शोको न कार्य इत्य् अर्थः । कथं तर्हि तस्य संसारः ? तत्राह—धत्त इति । आत्मनो मयया स्वाविद्यया लिङ्गं मूर्तीर् धत्ते । गुणान् उच्चा-वचान् देहान् सुख-दुःखादीन् वा विशेषेण सृजन् स्वी-कुर्वन् । लिङ्ग-शरीरोपाधिः संसार इत्य् अर्थः ॥२२॥
**क्रम-सन्दर्भः : **नित्य इत्य् अत्र जीवेऽपीश्वर-धर्मोक्तिर् असुरौचित्यात् सर्वज्ञस्याज्ञानम् इति युक्ति-विरुद्धं च तद् इति वास्तवार्थे तु सर्वं लोकं गच्छति सर्वगः सर्वं शरीरं विन्दति सर्ववित् ॥२२॥
**विश्वनाथः : **युष्मत्-प्रबोधार्थम् उक्तम् इदं लोक-दृष्ट्या, तद्-दृष्ट्या तु हिरण्याक्षः खल्व् आत्मैव, न तु देहः तस्यात्मनश् च स्वरूपं शृणुतेत्य् आह—नित्यो मृत्यु-रहितः । अव्ययोऽपक्षय-शून्यः । शुद्धो निर्मलः । सर्व-गत इतीश्वर-धर्मोक्ति-जीवेऽप्य् असुर-स्वभावात् । वस्तुतस् तु सर्वं लोकं गच्छतीति सः, सर्वं सुख-दुःखादिकं विन्दतीति सः । परो देहादि-व्यतिरिक्तः । असाव् आत्मा आत्मनः स्वस्य लिङ्गं देहं मयया स्वाविद्यया धत्ते । किम्-अर्थम् ? गुणान् उच्चा-वचान् स्थूल-देहान् विशेषेण सृजन् स्वीकुर्वन्, तथा तत्-पदावृत्त्या विसृजन् स्थूल-देहान् स्वीकर्तुं त्यक्तुं चेत्य् अर्थः ॥२२॥
—ओ)०(ओ—
॥ ७.२.२३ ॥
यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥**
**श्रीधरः : **एतत् स-दृष्टान्तः प्रपञ्चयति—यथेति चतुर्भिः । तरवः प्रतिबिम्बिताः । उपाधि-धर्मा उपहिते भवन्तीति दृष्टान्तम् उक्त्वा ग्राहक-धर्मा ग्राह्ये भवन्तीति दृष्टान्तम् आह—चक्षुषेति ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एवं यल्-लिङ्गं धत्ते तस्मात् सूक्ष्म-देहाद् अप्य् आत्मा भिन्न एवेति दृष्टान्ताभ्याम् आह—यथा अन्तस्य प्रचलता हेतुना अम्भःसु प्रतिबिम्बितान्तरवोऽपि चला इवेक्षन्ते, न तु चला अम्भोभ्यस् तेषां भिन्नत्वात् । एवम् एव लिङ्ग-धर्माः शोक-मोहादयस् तद्-उपहिते आत्मन्य् अपि प्रतीयन्ते, न त्व् आत्मा शोक-मोहाद् इमान् तस्माल् लिङ्गाद् भिन्नत्वाद् इत्य् अर्थः । एवम् उपाधि-धर्मा उपहिते भवन्तीग्ति दृष्टान्तम् उक्त्वा ग्राहक-धर्मा ग्राह्ये भवन्तीति दृष्टान्तम् आह—चक्षुषेति । भ्राम्यमाणेन भ्रमि-दोषाक्रम्यमाणेन चलती भ्रमतीव यथा भूताविष्टः पुरुषो भूत-ग्राह्ये उच्यते ॥२३॥
—ओ)०(ओ—
॥ ७.२.२४ ॥
एवं गुणैर् भ्राम्यमाणे मनस्य् अविकलः पुमान् ।
याति तत्-साम्यतां भद्रे ह्य् अलिङ्गो लिङ्गवान् इव ॥**
मध्वः : लिङ्गवान् इव जीव इव ।
असमं समताम् एति भ्रान्ति-दृष्ट्यैव केवलम् ।
जीवे न ब्रह्म न समं तत्त्व-दृष्ट्या कथञ्चन ॥ इति षाड्गुण्ये ।
यथोद-चलनाद् वृक्ष-प्रतिबिम्ब-प्रचालनात् ।
तटस्थ-वृक्ष-चलनं कल्पयेद् अबुधो नरः ॥
तथा मनसिजैर् दोषैर् आभासे दूषिते नरः ।
आभासिनो ब्रह्मणश् च दोषम् अज्ञः प्रकल्पयेत् ॥
आत्मनश् चक्षुषो भ्रान्त्या यथा पश्येद् भ्रमं भुवः ।
तथैष स्वात्मनो दोषाद् दोषवद् ब्रह्म पश्यति ॥ इति ब्रह्म-तर्के ॥२४॥
**श्रीधरः : **अविकलः परिपूर्ण एव । तत् साम्यताम्, मनः-समताम् इत्य् अर्थः ।
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एवं देहाविष्ट आत्मा देह-ग्राह्यो देह-धर्माक्रान्त उच्यते इत्य् अर्थः । एवम् अविकलः शुद्ध एवात्मा तत्-साम्यतां मनः-समतां मनो-धर्म-ग्राहित्वम् ॥२४॥
—ओ)०(ओ—
॥ ७.२.२५ ॥
एष आत्म-विपर्यासो ह्य् अलिङ्गे लिङ्ग-भावना ।
एष प्रियाप्रियैर् योगो वियोगः कर्म-संसृतिः ॥**
**श्रीधरः : **लिङ्ग-भावना देहाभिमानः । एष आत्मनो विपर्यषोऽन्यथा-भावः । तम् एवाह—प्रियैर् वियोगोऽप्रियैर् योगश् च । कर्म च संसृतिश् च नाना-गर्भेषु प्रवेषः ॥२५॥
**क्रम-सन्दर्भः : **एष इति युग्मकम् । अलिङ्गे देहातिरिक्ते आत्मनि ॥२५॥
विश्वनाथः : अलिङ्गेऽप्य् आत्मनि लिङ्ग-भावना देहाभिमानः । एष एवात्मनो विपर्यषो विपर्ययः, तस्माद् विपर्यासाद् एवात्मन एष प्रियाप्रियैर् योगो वियोगश् च । च-काराद् विपरीतश् च अप्रियैर् योगः प्रियैर् वियोगश् च । कर्म च संसृतिश् च नाना-गर्भेषु प्रवेषः ॥२४॥
—ओ)०(ओ—
॥ ७.२.२६ ॥
सम्भवश् च विनाशश् च शोकश् च विविधः स्मृतः ।
अविवेकश् च चिन्ता च विवेकास्मृतिर् एव च ॥**
**मध्वः :**विवेक-स्मृतिः अविवेक एव विवेकत्व-भ्रान्तिः ।
अन्तर् हिरण्यकादीनां भक्तिर् अस्त्य् एव केशवे ।
असुरावेशतस् त्व् अन्यान् हरि-स्तोतॄन् द्विषन्ति च ॥ इति पाद्मे ॥२६॥
**श्रीधरः : **ततश् च संभव उत्पत्तिः । विवेकस्यास्मृतिर् अननुसङ्घानम् ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विवेकस्य सतोऽप्य् अस्मृति-स्फूर्तिः ॥२६॥
—ओ)०(ओ—
॥ ७.२.२७ ॥
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् ।
यमस्य प्रेत-बन्धूनां संवादं तं निबोधत ॥**
**श्रीधरः : **अत्रापि शोक-हेतुं विना वृथैवायं शोक इत्य् अस्मिन्न् अर्थे । प्रेतस्य मृतस्य कस्यचिद् ये बन्धवस् तेषां च संवादं शृणुत ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अत्रापि अशोच्यस्यापि शोक इतिहासम् अपि । प्रेतस्य मृतस्य ये बन्धवः, तेषां च ॥२७॥
—ओ)०(ओ—
॥ ७.२.२८ ॥
उशीनरेष्व् अभूद् राजा सुयज्ञ इति विश्रुतः ।
सपत्नैर् निहतो युद्धे ज्ञातयस् तम् उपासत ॥**
**श्रीधरः : **उपासत तत्-समीपे आवृत्य स्थिताः ॥२८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.२९ ॥
विशीर्ण-रत्न-कवचं विभ्रष्टाभरण-स्रजम् ।
शर-निर्भिन्न-हृदयं शयानम् असृग्-आविलम् ॥**
**श्रीधरः : **विशीर्णं रत्न-मयं कवचं यस्य । विभ्रष्टान्य् आभरणानि स्रजश् च यस्य । शरेण निर्भिन्नं हृदयं यस्य । असृजा रक्तेनाविलं लिप्तम् ॥२९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.३० ॥
प्रकीर्ण-केशं ध्वस्ताक्षं रभसा दष्ट-दच्छदम् ।
रजः-कुण्ठ-मुखाम्भोजं छिन्नायुध-भुजं मृधे ॥**
**श्रीधरः : **प्रकीर्णाः केशा यस्य । ध्वस्ते अक्षिणी यस्य । रभसा संरम्भेण दष्टो दच्-छद ओष्ठो येन । रजसा कुण्ठम् आवृतं मुखाम्भोजं यस्य । छिन्नम् आयुधं भुजश् च यस्य ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **रभसा क्रोधेन दष्टो दच्छदोऽधरे येन तम् ॥३०॥
—ओ)०(ओ—
॥ ७.२.३१ ॥
उशीनरेन्द्रं विधिना तथा कृतं
पतिं महिष्यः प्रसमीक्ष्य दुःखिताः ।
हताः स्म नाथेति करैर् उरो भृशं
घ्नन्त्यो मुहुस् तत्-पदयोर् उपापतन् ॥
**श्रीधरः : **तस्य पदयोर् उप समीपे आसमन्ताद् अपतन् ॥३१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्-क्षण एव सपत्नैः शस्त्र-हतत्वात् तथाभूतत्वेनैव मृत्वापि स्थितम् इत्य् अर्थः ॥३१॥।
—ओ)०(ओ—
॥ ७.२.३२ ॥
रुदत्य उच्चैर् दयिताङ्घ्रि-पङ्कजं
सिञ्चन्त्य अस्रैः कुच-कुङ्कुमारुणैः ।
विस्रस्त-केशाभरणाः शुचं नृणां
सृजन्त्य आक्रन्दनया विलेपिरे ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.३३ ॥
अहो विधात्राकरुणेन नः प्रभो
भवान् प्रणीतो दृग्-अगोचरां दशाम् ।
उशीनराणाम् असि वृत्तिदः पुरा
कृतोऽधुना येन शुचां विवर्धनः ॥
**श्रीधरः : **विलापम् एवाह—अहो इति द्वाभ्याम् । अकरुणत्वम् एवाहुः, येन विधात्रा दृशाम् अगोचरां दशां भवान् प्रणीतो गमितः, तेन विधात्रा त्वम् अधुना शुचां विवर्धनः कृतोऽसीत्य् अन्वयः ॥३३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : विलापम् आह—अहो इति । प्रणीतो गमितो येन विधात्रा तेन अधुना उशीनराणां शुचां विवर्धनः कृतोऽसि ॥३३॥
—ओ)०(ओ—
॥ ७.२.३४ ॥
त्वया कृतज्ञेन वयं मही-पते
कथं विना स्याम सुहृत्तमेन ते ।
तत्रानुयानं तव वीर पादयोः
शुश्रूषतीनां दिश यत्र यास्यसि ॥
**श्रीधरः : **हे मही-पते ! त्वया सुहृत्तमेन विना वयं कथं स्याम भवेम ? जीवेमेत्य् अर्थः । अतो हे वीर ! यत्र त्वं यास्यसि, तत्र तेऽनुयानम् अनुगमनं तव पादयोः शुश्रूषां कुर्वतीनाम् अस्माकं दिश देहि ॥३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : यत्र त्वं यासि, तत्र तेऽनुयानम् अनुगमनं तव पादयोः शुश्रूषणार्थं दिश देहि, वयम् अपि म्रियामहे इत्य् अर्थः ॥३४॥
—ओ)०(ओ—
॥ ७.२.३५ ॥
एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।
अनिच्छतीनां निर्हारम् अर्कोऽस्तं सन्न्यवर्तत ॥**
**श्रीधरः : **निर्हारं दाहार्थं नयनम् अनिच्छन्तीनाम् । अस्तम् अस्ताचलं प्रति ॥३५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **निर्हारं दाहार्थं नयनम् । अस्तम् अस्ताचलं प्राप्तो न्यवर्तत चलनान् निवृत्तो विश्रान्तवान् इत्य् अर्थः ॥३५॥
—ओ)०(ओ—
॥ ७.२.३६ ॥
तत्र ह प्रेत-बन्धूनाम् आश्रुत्य परिदेवितम् ।
आह तान् बालको भूत्वा यमः स्वयम् उपागतः ॥**
**श्रीधरः : **परिदेवितं रोदनं स्व-पुर्याम् एव स्थित आश्रुत्य श्रुत्व तत्र स्वयम् एवोपागतो यमो बालको भूत्वा तान् आह—अहो इत्य्-आदिना ॥३६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : स्वयम् उपागत इति । पुण्यवज् जीवानां निर्हारान्त एव यम-पुर-गमनं प्रायः सम्भवतीति केचित् । तासाम् एव मध्ये कस्याश्चित् वैष्णव-स्त्रियस् तत्-समीपात् यम-दूतैर् नेतुम् अशक्यत्वात् तत्-सामीप्य-दूरीकरणार्थं स्वयं यम एवागत इत्य् अन्ये प्राहुः । बालको भूत्वेत्य् अन्येषां तत्र प्रवेशासामर्थ्यात् बाल-भाषितस्य मधुरत्वात् तत्-कर्तृक-तत्त्व-कथनस्यातिविस्मयावहत्वात् तत्त्व-जिघृक्षोत्पादन-समर्थत्वाच् च ॥३६॥
—ओ)०(ओ—
॥ ७.२.३७ ॥
श्री-यम उवाच—
अहो अमीषां वयसाधिकानां
विपश्यतां लोक-विधिं विमोहः ।
यत्रागतस् तत्र गतं मनुष्यं
स्वयं सधर्मा अपि शोचन्त्य् अपार्थम् ॥
**मध्वः :**यत्रोद्भवस् तत्र-गतम् अदर्शनं गतम् ।
अदर्शनाद् इहायातः1 पुनश् चादर्शनं गतः ॥ [म।भा। १२.१६८.१७] इति भारते ॥३७॥
**श्रीधरः : **अहो आश्चर्यम् । अस्मत्तो वयसाऽधिकानाम् अपि लोकस्य विधिं जन्म-मरणादि-प्रकारं विपश्यताम् अपि विमोहः । मोहम् एवाह—यत्र यस्माद् अव्यक्ताद् आगतस् तत्रैव गतम् अपार्थं शोचन्ति । तद् उक्तं गीतासु—
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥ [गीता २.२८] इति ।
किं च, स्वयम् अपि स-धर्माः मृतेन सह समानो मृत्यु-लक्षणो धर्मो येषां तथा-भूता अपि ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यत्र यस्माद् अव्यक्तात् । तद् उक्तम् गीतासु—
अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥ [गीता २.२८] इति ॥३७॥
—ओ)०(ओ—
॥ ७.२.३८ ॥
अहो वयं धन्यतमा यद् अत्र
त्यक्ताः पितृभ्यां न विचिन्तयामः ।
अभक्ष्यमाणा अबला वृकादिभिः
स रक्षिता रक्षति यो हि गर्भे ॥
**श्रीधरः : **अबला दुर्बला अपि वृकादिभिर् अभक्ष्यमाणा वयं न विचिन्तयामः । तत्र हेतुः, यो गर्भे रक्षति स एव सर्वत्र रक्षिता ॥३८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : अस्माकम् अत्यल्प-वयसाम् अपि यो विवेकः सोऽप्य् एषां नास्तीति साश्चर्यम् आह—अहो इति ॥३८॥
—ओ)०(ओ—
॥ ७.२.३९ ॥
य इच्छयेशः सृजतीदम् अव्ययो
य एव रक्षत्य् अवलुम्पते च यः ।
तस्याबलाः क्रीडनम् आहुर् ईशितुश्
चराचरं निग्रह-सङ्ग्रहे प्रभुः ॥
**श्रीधरः : **ननु तस्य रक्षणे किं प्रयोजनं न किञ्चिद् अपि, किन्तु क्रीडैव केवलम् इत्य् आह—य इति । य ईशः इदं विश्वं सृजति रक्षत्य् अवलुम्पते संहरति च । भो अबलाः ! तस्येशितुश् चराचरं क्रीडा-साधनम् आहुः—अतः स एव निग्रहे संहारे सङ्ग्रहे पालने च प्रभुः ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु त्वां गर्भ-वासे ररक्ष इमम् अस्मत्-पतिं सङ्ग्रामे न ररक्षेत्य् को हेतुस् तत्राह—य इति । इच्छया स्वेच्छयैव, न तु कस्याप्य् अनुरोधेनैवेति भावः ।
नन्व् ईदृशीच्छैव किं-हेतुका ? तत्राह—ईशोऽन्यानधीन-परमैश्वर्यवान् तत्-कारण-कल्पने तदैश्वर्यस्यैव तादृशत्वं न सिद्ध्येद् इति भावः ।
नन्व् एवं सृज्यादिकं किम्-अर्थं करोति ? तत्राह—अबलाः । चराचरं तस्य क्रीडनम् एवाहुः । निग्रहे संहारे, सङ्ग्रहे पालने च स एव प्रभव-शीलः ॥३९॥
—ओ)०(ओ—
॥ ७.२.४० ॥
पथि च्युतं तिष्ठति दिष्ट-रक्षितं
गृहे स्थितं तद्-विहतं विनश्यति ।
जीवत्य् अनाथोऽपि तद्-ईक्षितो वने
गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥
**श्रीधरः : **प्रभुत्वम् एवान्वय-व्यतिरेकाभ्यां दर्शयति—पथीति । दिष्टेन दैवेन ईश्वरेण रक्षितं तेनेश्वरेण विहतम् उपेक्षितम् । अस्य हतस् तेनोपेक्षितः ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रभुत्वम् एवान्वय-व्यतिरेकाभ्यां दर्शयति—पथीति । दिष्टेन दैवेन ईश्वरेणेत्य् अर्थः । तेनेश्वरेण विहतम्, तेन ईक्षितः अवेक्षितोऽन्येनापि रक्ष्यत इत्य् अर्थः । अस्य हतः अनेनोपेक्षितः, अन्येनापि हन्यत इत्य् अर्थः ॥४०॥
—ओ)०(ओ—
॥ ७.२.४१ ॥
भूतानि तैस् तैर् निज-योनि-कर्मभिर्
भवन्ति काले न भवन्ति सर्वशः ।
न तत्र हात्मा2** प्रकृताव् अपि स्थितस्**
तस्या गुणैर् अन्यतमो हि बध्यते ॥
**मध्वः : **अन्यतम आत्मानं परमात्मा, सुविरुद्ध-रूपताज् जीवाद् अन्यतमो हरिः इति वामने । भगवन्-माहात्म्य-कथनेन सर्वस्य तद्-वशत्वात् स एव । भजनीयो न शोकेन प्रयोजनम् इति फलितार्थः ॥४१॥
**श्रीधरः : **तद् एवम् आत्मनो जन्म-मरणादिकम् अङ्गी-कृत्येश्वराधीनत्वान् न शोकः कार्य इत्य् उक्तम्, इदानीं तु देहानाम् एव जन्मादि, न त्व् आत्मन इत्य् आह—भूतानीति त्रिभिः । भूतानि देहाः निज-योनिः स्व-कारण-भूतं लिङ्ग-शरीरं तन्-निमित्तैः कर्मभिर् भवन्ति जायन्ते, न भवन्ति नश्यन्ति च । सर्वशो देवादि-देहा अपि । तत्र ह तदा प्रकृतौ देहे स्थितोऽप्य् आत्मा तस्याः प्रकृतेर् गुणैर् देह-धर्मैर् जन्मादिभिर् न निबध्यते न युज्यते । यतोऽन्यतमो देहाद् अत्यन्त-विलक्षणः ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ननु तर्हि तस्मिन् ईश्वरे वैषम्यं प्रसक्तं कस्याप्य् अपेक्षणात् कस्याप्य् उपेक्षणाद् इति तत्राह—भूतानि मनुष्य-पश्व्-आदि-देहाः निज-निज-योनि-कारण-भूतैः कर्मभिस् तैस् तैर् अनेन कर्मणा गौर् भवत्य् अनेन कर्मणा शूकरो भवत्य् एवं शास्त्र-प्रसिद्धैर् भवन्ति उत्पद्यन्ते, न भवन्ति काले नश्यन्ति च । सर्वशः सर्वाण्य् एव तत्र ह स्पष्टं प्रकृतौ देहे स्थितोऽप्य् आत्मा परमात्मा अन्यतमः पृथग्-भूत एवातस् तस्या गुणैर् देह-धर्मैर् जन्मादिभिर् न निबध्यते, केवलं तत्-तत्-कृत-शुभाशुभ-कर्म-फलं स्व-सन्निधान-मात्रेण जीवयतीत्य् एतद् एव तस्यापेक्षणम् उपेक्षणं चेति भावः ॥४१॥
—ओ)०(ओ—
॥ ७.२.४२ ॥
इदं शरीरं पुरुषस्य मोहजं
यथा पृथग् भौतिकम् ईयते गृहम् ।
यथौदकैः पार्थिव-तैजसैर् जनः
कालेन जातो विकृतो विनश्यति ॥
**श्रीधरः : **नन्व् अहं कृशः स्थूल इत्य्-आदौ वैलक्षण्यं न प्रतीयते ? तत्राह—इदम् इति । इदं शरीरं मोह-जम् अविवेकाद् आत्मत्वेन जातम् । वस्तुतस् तु पृथग् एव । यत ईयते दृश्यते भौतिकं च यथा गृहम् इत्य् अन्वयः । अत्रैवं प्रयोगः, द्रष्टुर् अभौतिकाच् च पुरुषाच् छरीरं भिन्नम् । दृश्यत्वाद् भौतिकत्वाच् च । यथात्यन्ताविवेकिन आत्मत्वेनाभिमतम् अपि गृहं ततः पृथक् तद्वद् इति । भौतिकत्वानुमानं विवृण्वन्न् आत्मनो जन्माद्य्-अभवम् उपसंहरति । यथ औदकैः परमाणुभिर् जातो बुद्-बुदादिर् यथा च पार्थिवैर् जातो घटादिर् यथा च तैजसैर् जातः कुण्डलादिर् विनश्यति तथा तैर् एव त्रि-विधैः परमाणुभिर् जातो जनो देह एव विकृतः परिणतः सन्विनश्यति । न त्व् आत्मेत्य् अर्थः ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्यान्यतमत्वम् उपपादयति—इदम् इति । मोहजम् पुरुषस्य जीवस्य मोहाद् एव जातम्, अत्रस्थात् परमात्मनः पृथग् एव यथा भौतिकं भित्ति-द्वारादिमद्-गृहं गृहस्थ-पुरुषात् पृथग् ईयते । पार्थक्यं तद् एवोपपादयति—यथा औदकैः परमाणुभिर् बुद्बुदादिः पार्थैवैर् घटादिः तैजसैः कुण्डलादिर् जायते नश्यति च, तथा तैर् एव त्रिविधैः परमाणुभिर् जातो जनो देह एव विकृतः परिणतः सन् विनश्यति, न त्व् आत्मेत्य् अर्थः ॥४२॥
—ओ)०(ओ—
॥ ७.२.४३ ॥
यथानलो दारुषु भिन्न ईयते
यथानिलो देह-गतः पृथक् स्थितः ।
यथा नभः सर्व-गतं न सज्जते
तथा पुमान् सर्व-गुणाश्रयः परः ॥
**मध्वः :**देह-दारु-गतौ प्राण-वह्नी सर्व-गतं नभः ।
देहादिभ्यो यथा भिन्ना न लिप्यन्ते च तद्-गुणैः ।
तथा जीव-गतो विष्णुर् जीवाद् भिन्नो न तद्-गुणैः ॥ इति च ॥४३॥
**श्रीधरः : **पृथग् अवस्थानाभावेऽपि भिन्नत्वे दृष्टान्त-द्वयम् आह—यथेति । यथाऽनलो दारुष्व् अवस्थितोऽपि दाहकत्वेन प्रकाशकत्वेन भिन्न एव प्रतीयते । यथा च देह-गतोऽप्य् अनिलो मुख-नासिकादिषु पृथक् स्थित एव प्रतीयते । देह-स्थत्वेऽप्य् आत्मनस् तद्-धर्म-योगाभावे दृष्टान्तम् आह—यथा नभो न सज्जते क्वापि सङ्गं न प्राप्नोति तथा पुमान् अपि सर्वेषां गुणानां देहेन्द्रियादीनाम् आश्रयस् तेष्व् आश्रितो वा परः पृथग् एवेत्य् अर्थः ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पृथग् अवस्थानाभावेऽपि भिन्नत्वे दृष्टान्तम् आह—यथानलो दारुष्व् अवस्थितोऽपि दाहकत्वेन प्रकाशकत्वेन भिन्न एव प्रतीयते । यथा च देह-गतोऽनिलो नासिकादिषु पृथक् स्थितोऽपि प्रतीयते । देह-स्थत्वेऽप्य् आत्मनस् तद्-धर्म-योगाभावे दृष्टान्तम् आह—यथा नभो न सज्जते क्वापि सङ्गं न प्राप्नोति, तथा पुमान् अपि सर्वेषां गुणानां देहेन्द्रियादीनाम् आश्रयः, तेष्व् आश्रितो वा परः पृथग् एवेत्य् अर्थः। अतस् तेन परमेश्वरेणापेक्षितम् इमं स्व-कर्म-वशात् मृतं पतिं कथं नेक्षध्वे इति भावः॥४३॥
—ओ)०(ओ—
॥ ७.२.४४ ॥
सुयज्ञो नन्व् अयं शेते मूढा यम् अनुशोचथ ।
यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥**
**श्रीधरः : **किं च, हे मूढाः ! यम् अनुशोचथ, सोऽयं युष्मद्-भर्ता सुयज्ञः शेते । किम् इति शोचथ । नन्व् एताव् अन्तं कालम् असौ शृणोत्य् अनन्तरं प्रतिवक्ति च । इदानीं तस्यादर्शनान् मृत इति शोचामेति चेत्, स तु शोच्यो न भवति । प्राग् अपि तस्यादर्शनाद् इत्य् आह—यः श्रोतेति ॥४४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अयं राजा सङ्ग्राम-लब्ध-पराजयः सम्प्रति शेते कथम् इमम् उपेक्ष्य निःस्नेहा भवितुं शक्नुमः ? तत्राह—सुयज्ञ इति । नन्व् अस्मद्-विलापम् एतावन्तं कालम् असाव् अशृणोद् अन्ववोचच् च, तत्राह—य इति । कर्हिचित् प्राग् अपि सदृश्यो नासीद् एवेत्य् अर्थः । यस् तु दृश्यः स इदानीम् अपि दृश्यते देह इति भावः ॥४४॥
—ओ)०(ओ—
॥ ७.२.४५ ॥
न श्रोता नानुवक्तायं मुख्योऽप्य् अत्र महान् असुः ।
यस् त्व् इहेन्द्रियवान् आत्मा स चान्यः प्राण-देहयोः ॥**
मध्वः : इन्द्रियवान् जीवः ।
भजत्य् उत्सृजति ह्य् अन्यः परमात्मा स एव श्रोतानुवक्ता च ।
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता स योऽतो श्रुतः ॥ इत्य्-आदेः ।
मुख्य-प्राणोऽपि स्वतो न श्रोता किम् उ जीव ॥ इति ।
अयं ननु सुयज्ञ इत्य् आक्षेपः । यश् च सुयज्ञः, सोऽपि स्वतः श्रोतुं वक्तुं न च शक्तः । अतस् तस्यानुशोकेन किम् इत्य् अर्थः ।
अन्यो जीवोचितो देहात् तद्-वशो देह उच्यते ।
पश्यामीत्य् अभिमानोऽस्य चक्षुर्-आद्य्-अभिमानवान् ॥
न तद्-वशाश् चक्षुर्-आद्या न दृष्ट्यादौ स ईश्वरः ।
चक्षुर्-आद्या मनो जीवो दृष्ट्य्-आदिश् चापि यद्-वशे ॥
स प्राण इति विज्ञेयो ज्ञाता मन्ता स च प्रभुः ।
तस्यापि ज्ञातृ-मन्तृत्वं न स्वतः शक्यते क्वचित् ॥
यस् तस्य ज्ञातृ-मन्तृत्व-दाता स भगवान् हरिः ।
स्वतो ज्ञाता च मन्ता च द्रष्टा श्रोता च केशवः ॥
ज्ञानादिदो न तस्यान्यः सर्वस्य ज्ञानदो हरिः ।
स्व-देहाद् भजते विष्णुं स्वेच्छयैवोत्सृजत्य् अपि ॥
यावद् देह-स्थितो विष्णुस् तावज् जीवोऽविपर्ययः ।
तावत्-क्लेशादयश् चास्य वृथा चेन्द्रिय-वृत्तयः ॥
यदोत्सृज्यति देहं स हरिः सर्वात्मना विभुः ।
तदा तद्-अभिमानी तु जीवो मुच्येत संसृतेः ॥
अतिभिन्न-स्वरूपौ तौ जीवेशाव् एक-देहगौ ।
देहाभिमानी त्व् एकोऽत्र न मानी मानदः परः ॥ इति गारुडे ।
इन्द्रियाद्य्-अभिमानेन तद्वान् जीव उदीर्यते ।
अतन्-मानाद् धरिः प्रोक्तस् त्व् अदेहोऽनिन्द्रियस् तथा ॥
जीवान् अभिमते देहे न विष्णुर् जीवति स्थितः ।
अतश् चादेह उद्दिष्टः परमात्मा सनातनः ॥ इति प्रकाश-संहितायाम् ।
स चान्यः श्रोतुर् वक्तुश् चेति च-शब्दः । भूतेन्द्रिय-मनो-रूपान् । लिङ्गं स्वरूपम् उद्दिष्टं लिङ्गं ज्ञापकम् एव च ॥ इति शब्द-निर्णये ॥४५-४६॥
**श्रीधरः : **ननु मुख-नासिका-सञ्चारी प्राणः श्रोता वक्ता च दृष्ट एवेति चेन् नासौ श्रोता वक्ता वा अचेतनत्वाद् इत्य् आह—न श्रोतेति । महान् सर्वेन्द्रिय-चेष्टा-हेतुः, अत एव मुख्यः । प्राणो वै मुख्यः इति श्रुतेः । कस् तर्हि श्रोता वक्ता च ? तत्राह—यस् त्व् इह देहेन्द्रियैस् तत्-तद्-अर्थ-द्रष्टा आत्मा, स तु प्राण-देहाभ्याम् अचेतनाभ्याम् अन्य एव स-चेतनः ॥४५॥
**क्रम-सन्दर्भः : **भूतेन्द्रियेति । विविधं भवतीति विभूः स्व-तेजसा सर्व-स्वरूपत्वेनोपासितस्य भगवतस् तेजसा अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् स्वतो न सम्भवाद् अन्यस् तत्त्वज्ञो ज्ञानदो भवेत् [भा।पु। ११.२२.१०] इति श्री-भगवद्-वाक्यात् ॥४५॥
**विश्वनाथः : **ननु यावत् प्राणः स्थितस् तावद् एव श्रोतृत्व-वक्ट्र्त्वे दृष्टे, न तु प्राणे गते सतीत्य् अतः प्राण् एव श्रोता वक्तेति तत्राह—नेति । मुख्योऽपि प्राणः वै मुख्यः इति श्रुतेः । महान् सर्वेन्द्रिय-चेष्टा-हेतुर् अपि न श्रोता वक्ता, अचेतनत्वाद् इति भावः । कस् तर्हि श्रोता वक्ता च ? तत्राह—यस् त्व् इह इन्द्रियवान् देहेन्द्रियादिमत्त्वेन प्रतीत आत्मा जीवः, स च प्राण-देहयोः प्राण-देहेन्द्रियादिभ्योऽन्य एव स चेतनः ॥४५॥
—ओ)०(ओ—
॥ ७.२.४६ ॥
भूतेन्द्रिय-मनो-लिङ्गान् देहान् उच्चावचान् विभुः ।
भजत्य् उत्सृजति ह्य् अन्यस् तच् चापि स्वेन तेजसा ॥**
**श्रीधरः : **ननु चेतनत्वेऽन्यत्वे च तस्याहं कृशः स्थूलः काणो बधिर इत्य्-आदि-देह-धर्मोपलब्धिः कुतः ? तत्राह—भूतेन्द्रिय-मनोभिर् लिङ्ग्यन्ते लक्ष्यन्त इति तथा तान् देहांस् तेभ्योऽन्य एव भजत्य् अहम् इति मन्यते । तर्हि कथं मोक्षः ? तत्राह—तच् च भजनं स्वेन तेजसा विवेक-बलेनोत्सृजत्य् अपि । हीत्य् अनुभवं प्रमाणयति ॥४६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तर्हि स सम्प्रति कुत्र गत्वा किं करोति ? इति तत्राह—भूतं प्राप्तम् इन्द्रिय-मनो-रूपं लिङ्गं सूक्ष्म-देहो येषु तान् स्थूल-देहान् भजति प्राप्नोति त्यजति च यथेमं देहं प्राप्योदसृजद् इति भावः । किं च, स्वेन तेजसा भाग्य-लब्ध-ज्ञान-बलेन तच् चापि लिङ्ग-देहम् अपि कदाचिद् उत्सृजति ॥४६॥
—ओ)०(ओ—
॥ ७.२.४७ ॥
यावल् लिङ्गान्वितो ह्य् आत्मा तावत् कर्म-निबन्धनम् ।
ततो विपर्ययः क्लेशो माया-योगोऽनुवर्तते ॥**
मध्वः : आत्मा परमात्मा । कर्म-बन्धनो जीवः । ततः परमात्मनो विपरीतः ॥४७॥
**श्रीधरः : **ननु विवेकानन्तरम् अप्य् आहारादि-कर्मसु प्रवृत्तेर् बन्धः स्याद् एवेत्य् अत आह—यावद् इति । यावल् लिङ्ग-शरीरेणान्वितस् तद् अभिमानवान् आत्मा भवति तावद् एव तस्य तत् कर्म निबन्धनं बन्ध-हेतुर् भवति, ततो विपर्ययो देह-धर्म-भाक्त्वं, ततः क्लेशश् चानुवर्तते, न तु लिङ्गाभिमाने निवृत्तेऽपि । यतोऽयं माया-योगो विपर्ययादिः । मायया युज्यत इति तथा । न परमार्थ इत्य् अर्थः ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **लिङ्ग-देह-त्यागे सत्य् एव कर्म-बन्धान् मुच्यते नान्यथा इत्य् आह—यावद् इति ॥४७॥
—ओ)०(ओ—
॥ ७.२.४८ ॥
वितथाभिनिवेशोऽयं यद् गुणेष्व् अर्थ-दृग्-वचः ।
यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियकं मृषा ॥**
मध्वः : मृषा वृथा स्वप्न-दृष्ट-वित्तादिवत् । लोपाभिमानी जीवस् तु स्वरूपानुभवी न च ।
मुक्तेः प्राक्तेन मान्यु उक्तो न मानी विष्णुर् उच्यते ।
सर्वं ममेति पश्यन्न् अप्य् अलेपाभिमतिर् यतः ।
सम्यक् स्वरूपानुभवात् स्वतन्त्रत्वाद् अदोषतः ॥ इति ब्रह्म-तर्के ॥४८॥
**श्रीधरः : **ननु सुख-दुःखादीनां तत् साधनानां च सत्यत्व-प्रतीतेः कुतो माया-मयत्वम् । तथा च बहवो वादिनः सत्यत्वम् एव वदन्ति तत्राह—वितथेति । वितथो मिथ्याभूतोऽयम् अभिनिवेशः । कोऽसौ ? गुनेषु तत् कार्त्येषु सुख-दुःखादिष्व् अर्थः परमार्थः इति दृक् वचश् चेति यत् । स कुत इत्य् अत आह—यथेति ॥४८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथ नित्यं मीमांसकानां मते, अनित्यं नश्वरं सत्यम् इति साङ्ख्यानां मते । ननु तद् अपि न वयं प्रबुद्ध्यामहे इति तत्राह—नान्यथेति ॥४८॥
—ओ)०(ओ—
॥ ७.२.४९ ॥
अथ नित्यम् अनित्यं वा नेह शोचन्ति तद्-विदः ।
नान्यथा शक्यते कर्तुं स्व-भावः शोचताम् इति ॥**
**श्रीधरः : **उपसंहरति—अथेति । अथ तस्मात् । नित्यम् आत्मानम् अनित्यं देहं वा तद्-विदो नित्यम् अनित्यं च जानन्तो न शोचन्ति । नन्व् एवम् उपदेष्टारोऽपि शोचन्तो दृश्यन्ते ? तत्राह—नान्यथेति । ज्ञान-दार्ढ्याभावात् स्वभावो न निवर्तत इत्य् अर्थः ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथ नित्यं मीमांसकानां मते, अनित्यं नश्वरं सत्यम् इति साङ्ख्यानां मते । ननु तद् अपि न वयं प्रबुद्ध्यामहे इति तत्राह—नान्यथेति ॥४९॥
—ओ)०(ओ—
॥ ७.२.५० ॥
लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकः ।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥**
**श्रीधरः : **स्वयं स्व-धर्मा अपीति यद् उक्तं तत्रेतिहासम् आह—लुब्धक इत्य्-आदिना। पक्षिणाम् अन्तक ईश्वरेण निर्मितः सन् यत्र यत्र ते तत्र तत्र तान् कणादिभिः प्रलोभयन् जालं विस्तार्य विशेषेण धृतवान् । पाठान्तरे तेषाम् आमिषादिभिः प्रलोभनं कृतवान् इत्य् अर्थः ॥५०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शोक-स्वभाववत्त्वेऽनर्थ इत्य् अत्रेतिहासम् आह—लुब्धक इत्य्-आदिना । निर्मित ईश्वरेणेत्य् अर्थः । विदधे पक्षिणो विशेषेण दधार । प्रलोभनम् इति पाठे आमिषादिभिः प्रलोभनं कृतवान् इत्य् अर्थः ॥५०॥
—ओ)०(ओ—
॥ ७.२.५१ ॥
कुलिङ्ग-मिथुनं तत्र विचरत् समदृश्यत ।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥**
**श्रीधरः : **कुलिङ्गः कन्द-भक्षी पक्षि-विशेषः । कुलिङ्गयोर् मिथुनम् ॥५१॥
**क्रम-सन्दर्भः : **तयोर् इति । हे महिष्यः ॥५१॥
विश्वनाथः :न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.५२ ॥
आसज्जत सिचस् तन्त्र्यां महिष्यः काल-यन्त्रिता ।
कुलिङ्गस् तां तथापन्नां निरीक्ष्य भृश-दुःखितः ।
स्नेहाद् अकल्पः कृपणः कृपणां पर्यदेवयत् ॥**
**श्रीधरः : **शिचस् तन्त्र्यां जालस्य सूत्रेऽसज्जत बन्धं प्राप । ताम् आपन्नाम् आपदं प्राप्ताम् (दृष्ट्वा कुलिङ्गः पक्षि तां मोचयितुम् अकल्पः सन् पर्यदेव-यद्-वृक्ष-शाखाम् आश्रित्य विलापं चकार) ॥५२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : सिचस् तन्त्र्यां जालस्य सूत्रे । हे महिष्यः ! ॥५२॥
—ओ)०(ओ—
॥ ७.२.५३ ॥
अहो अकरुणो देवः स्त्रियाकरुणया विभुः ।
कृपणं माम् अनुशोचन्त्या दीनया किं करिष्यति ॥**
**श्रीधरः : **आकरुणया सर्वतोऽनुकम्प्यया स्त्रिया किं करिष्यति ? ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : देवो विधाता करुणया मयि कृपावत्या ॥५३॥
—ओ)०(ओ—
॥ ७.२.५४ ॥
कामं नयतु मां देवः किम् अर्धेनात्मनो हि मे ।
दीनेन जीवता दुःखम् अनेन विधुरायुषा ॥**
**श्रीधरः : **आत्मनो देहस्यार्धेन । अनेन विधुरायुषा भार्याशून्य-जीवितेन दुःखं यथा भवत्य् एवं जीवता किं मे प्रयोजनम् ? अतो माम् अपि कामं नयत्व् इत्य् अन्वयः ॥५४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.५५ ॥
कथं त्व् अजात-पक्षांस् तान् मातृ-हीनान् बिभर्म्य् अहम् ।
मन्द-भाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः ॥**
**श्रीधरः : **जाताः पक्षा येषां तान् बालकान् कथं बिभर्मि पुष्यामि । मन्द-भाग्या मे प्रजा मातरं प्रतीक्षन्ते ॥५५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.५६ ॥
एवं कुलिङ्गं विलपन्तम् आरात्
प्रिया-वियोगातुरम् अश्रु-कण्ठम् ।
स एव तं शाकुनिकः शरेण
विव्याध काल-प्रहितो विलीनः ॥
**श्रीधरः : **शाकुनिकः पक्षि-हन्ता । विलीनः सन् ॥५६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.५७ ॥
एवं यूयम् अपश्यन्त्य आत्मापायम् अबुद्धयः ।
नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्ष-शतैर् अपि ॥**
**श्रीधरः, विश्वनाथः : **आत्मापायं स्व-मृत्युम् ॥५७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.५८ ॥
श्री-हिरण्यकशिपुर् उवाच—
बाल एवं प्रवदति सर्वे विस्मित-चेतसः ।
ज्ञातयो मेनिरे सर्वम् अनित्यम् अयथोत्थितम् ॥**
**मध्वः-**अहं ममाभिमानादित्व-यथोत्थम् अनित्यकम् ।
महद्-आदि यथोत्थं च नित्या चापि यथोत्थिता ॥
अस्वतन्त्रैव प्रकृतिः स्वतन्त्रो नित्य एव च ।
याथार्थ्य-भूतश् च पर एक एव जनार्दनः ॥ इति च ॥५८॥
**श्रीधरः- **अयथोत्थितं मिथ्यैवाविर्भूतम् ॥५८॥
क्रम-सन्दर्भः- न व्याख्यातम्।
विश्वनाथः- सर्वं जगद् अनित्यं यतो यथोत्थितं येन प्रकारेणोत्थितं, तथा न तिष्ठतीत्य् अर्थः ॥५८॥
—ओ)०(ओ—
॥ ७.२.५९ ॥
यम एतद् उपाख्याय तत्रैवान्तरधीयत ।
ज्ञातयो हि सुयज्ञस्य चक्रुर् यत् साम्परायिकम् ॥**
**श्रीधरः- **साम्परायिकं पर-लोक-कृत्यम् ॥५९॥
क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।
—ओ)०(ओ—
॥ ७.२.६० ॥
अतः शोचत मा यूयं परं चात्मानम् एव वा ।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्व-पराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥**
**मध्वः-**क आत्मा कः पर इति देहाद्य्-अपेक्षया ।
न हि देहादिर् आत्मा स्यान् न च शत्रुर् उदीरितः ।
अतो दैहिक-वृद्धौ वा क्षये वा किं प्रयोजनम् ।
यस् तु देह-गतो जीवः स हि नाशं न गच्छति ॥
ततः शत्रु-विवृद्धौ च स्व-नाशे शोचनं कुतः ?
देहादि-व्यतिरिक्तौ तु जीवेशौ प्रतिजानता ।
तत आत्म-विवृद्धिस् तु वासुदेवे रतिः स्थिरा ।
शत्रु-नाशस् तथाज्ञान-नाशो नान्यः कथञ्चन ॥ इति ब्रह्म-वैवर्ते ॥६०॥
**श्रीधरः- **अशोचतेति पाठे अड्-आगम आर्षः । स्वः पर इत्य् अभिनिवेश एवाज्ञानं तेन विना ॥६०॥
क्रम-सन्दर्भः- न व्याख्यातम्।
विश्वनाथः- स्वश् च पर इत्य् अभिनिवेश एवाज्ञानं तेन विना ॥६०॥
—ओ)०(ओ—
॥ ७.२.६१ ॥
श्री-नारद उवाच—
इति दैत्य-पतेर् वाक्यं दितिर् आकर्ण्य सस्नुषा ।
पुत्र-शोकं क्षणात् त्यक्त्वा तत्त्वे चित्तम् अधारयत् ॥**
**श्रीधरः : **स-स्नुषा स्नुषा-सहिता ॥६१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
सप्तमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यां संहितायां वैयासिक्यां
सप्तम-स्कन्धे
युधिष्ठिर-नारद-संवादे
द्वितीयोऽध्यायः ॥
॥ ७.२ ॥
(७.३)