०१ युधिष्ठिर-नारद-संवादे

॥ ७.१.१ ॥

श्री-राजोवाच

समः प्रियः सुहृद् ब्रह्मन् भूतानां भगवान् स्वयम् ।

इन्द्रस्यार्थे कथं दैत्यान् अवधीद् विषमो यथा ॥

श्रीधरः : श्री-गणेशाय नमः।

स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् ।

नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥

ऊतिः पञ्चदशाध्यायैः सप्तमे वर्ण्यतेऽधुना ।

ऊतिश् च वासना प्रोक्ता तत् तत् कर्मानुसारिणी ।

अशुभा च शुभा चेति द्विधा सा हेतु-भेदतः ॥

अशुभा महतां कोपाच् छुभा महद्-अनुग्रहात् ।

हरेर् द्वारपयोर् यद्वद् वैकुण्ठे वसतोर् अपि ॥

चतुःसन-रुषा विष्णु-द्वेषाद्य्-अशुभ-वासना ।

यथा च दैत्य-गर्भेऽपि प्रह्रादस्य सतः स्थिरा ॥

नारदानुग्रहाद् आस विष्णौ सद्-भक्ति-वासना ।

स्व-भक्तं च सदा विष्णुर् द्विषन्तम् अपि रक्षति ॥

तृतीयेऽथ भवे द्वास्थावकरोद् आत्म-सात्-पुनः ।

अतो मनीषिणा यत्नः कार्यो महद् अनुग्रहे ॥

इत्य् एतद् अर्थम् ऊतीनाम् अत्र लक्षणम् उच्यते ।

तत्रादौ दशभिर् दैत्य- तत्-पुत्रमति-भेदतः ॥

महत्-कोपानुकम्पोत्थ- वासना भेद उच्यते ।

सद्-वासना च युज्येत कर्मभिः शुद्ध-चेतसः ॥

परैस् तु पञ्चभिस् तस्मात् क्रियते धर्म-निर्णयः ।

तत्र तु प्रथमेऽध्याये हिरण्यकशिपोः सुते ॥

विष्णु-भक्ते विरोधस् तु विप्र-शाप-ज ईर्यते ॥

यद् उक्तम् पूर्व-स्कन्धान्ते—

हत-पुत्रा दितिः शक्र-पार्ष्णि-ग्राहेण विष्णुना ।
मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ इति

तच् छ्रुत्वा विस्मितः परीक्षित् पृच्छति—सम इति त्रिभिः । न हि समस्य सुहृदश् च वैषम्यं नामास्ति । न च प्रियस्य प्रीति-कर्तृषु वैषम्यं युक्तम् इत्य् अर्थः ॥१॥

**क्रम-सन्दर्भः : **श्री-कृष्णो जयति ।

सप्तम-क्रम-सन्दर्भे सन्दर्भाणां समाहृतिः ।

क्रियते यन्-निदेशेन स मेऽनन्य-गतेर् गतिः ॥

परमात्मत्वेन समः सुहृत् हित-कारी, प्रियः प्रीति-विषयो भगवान् । एवं सति साम्येनैवोपकर्तव्यत्वेन प्रीति-विषयत्वेन, न च सर्वेष्व् एव प्राप्तेषु कथं विषम इव दैत्यान् अवधीत् ? विषमत्वम् उपलक्षणम् । असुहृदि वा प्रिय इव चेति ॥१॥1 (परमात्म-सन्दर्भः ९३)

भक्ति-सन्दर्भः १३४- स-गुणे देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्-प्रह्लादादिष्व् एवेति प्रतिपादनान् महतां निर्गुणत्वाभिव्यक्त्या तत्-सङ्गस्यापि निर्गुणत्वं व्यक्तम् ॥

**विश्वनाथः- **श्री-कृष्णाय नमः ।

प्रणम्य श्री-गुरुं भूयः श्री-कृष्णं करुणार्णवम् ।

लोकनाथं जगच्-चक्षुः श्री-शुकं तम् उपाश्रये ॥

गोप-रामाजन-प्राण-प्रेयसेऽतिप्रभुष्णवे ।

तदीय-प्रिय-दास्याय मां मदीयम् अहं ददे ॥

ऊतिः स्याद् वासना सात्र सप्तमे कथ्यते द्विधा ।

अशुभा च शुभा चापि किपतोऽनुग्रहात् सताम् ॥

सन्तश् च त्रिविधाः शुद्ध-भक्ता ज्ञानादि-मिश्रिताम् ।

भक्तिं दधानास् तन्-मिश्र-ज्ञानवन्तश् च कीर्तिताः ॥

हिरण्यकशिपोः स्वाभाविकी या वासनाशुभा ।

तत्र हेतुः सनन्दादि-कोपः प्राचीन एव सः ॥

तस्यापि पुत्रो यस् तस्य प्रह्लादस्य शोभोत्तमा ।

शुद्ध-भक्तौ वासना श्री-नारदाङ्घ्रि-कृपा-भरात् ॥

तत् संरक्ष्य सताम् आगः कुञ्जरात् सत्-प्रसादजा ।

दीनता-मानदत्वादि-शिला-कॢप्त-महावृतिः ॥

भक्ति-वल्ली नृभिः पाल्या श्रवणाद्य्-अम्बु-सेचनैः ।

एवं कथा दशाध्याय्यां भक्तेः कैवल्यम् ईक्षयेत् ॥

पञ्चाध्याय्यां कथा भक्तेः प्राधान्यं गुण-भूतताम् ।

तादृग्-भक्त-गुरोर् लभ्यं दर्शयेत् तादृग्-आस्पदे ॥

स्युस् त्रिषु क्रमतः प्रेम-शान्त-भक्तत्वम् उक्तता ।

एवं पञ्चदशाध्यायः सप्तमः साधु सेव्यते ॥

तत्र तु प्रथमे विष्णोर् वैषम्यं वारयन् मुनिः ।

तस्य पार्षदयोर् आह सङ्क्षेपात् त्रि-जनोः कथाम् ॥

पूर्व-स्कन्धान्ते—

हत-पुत्रा दितिः शक्र-पार्ष्णि-ग्राहेण विष्णुना ।
मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ [भा।पु। ६.१८.२३]

इतीन्द्र-पक्षपात-लक्षणं विष्णोर् वैषम्यम् असहमान इव स्वयम् अवगत-सिद्धान्तोऽपि महा-मुनेस् तस्य मुखाद् अपि समाधानामृतम् आस्वादयितुम् आह—सम इति त्रिभिः । समस्य कथं वैषम्यं ? प्रियस्य कथम् असुरेषु प्रीत्य्-अभावः ? सुहृदश् च कथं तेष्व् असौहार्दम् ? ॥१॥

—ओ)०(ओ—

॥ ७.१.२ ॥

न ह्य् अस्यार्थः सुर-गणैः साक्षान् निःश्रेयसात्मनः ।

नैवासुरेभ्यो विद्वेषो नोद्वेगश् चागुणस्य हि ॥

**श्रीधरः- **किं च, यस्य यैः प्रयोजनं सिद्ध्यति स तत् पक्ष-पाती भवति, येभ्यो बिभेति तान् द्वेषेण हन्ति न तु तद् अत्रास्तीत्य् आह—न हीति । निःश्रेयसं परमानन्द एव आत्मा स्वरूपं यस्य । असुरेभ्यश् चोद्वेगो भयं नास्ति । अतो विद्वेषोऽपि नास्त्य् एव । तत्र हेतुः—अगुणस्येति । गुणाधीनौ प्रीति-द्वेषाव् इत्य् अर्थः ॥२॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**परमात्म-सन्दर्भः ९४- **किं च, यस्य यैः प्रयोजनं सिद्ध्यति, स तत्-पक्षपाती भवति। येभ्यो बिभेति, तान् द्वेषेण हन्ति, न तु तद् अत्रास्तीत्य् आह—नेति । निःश्रेयसं परमानन्दः ॥२॥

**विश्वनाथः- **न चेन्द्रादिभिस् तस्य सुखं सिद्ध्यतीत्य् अतस् तत्-पक्षपात इति वाच्यम् इत्य् आह—नेति । निःश्रेयसं परमानन्द एव आत्मा स्वरूपं यस्य, न हि सुख-स्वरूपस्य तस्य कश्चिद् अन्यः सुखं साधयेद् इति भावः । न चासुरादिभिर् उद्वेजकैस् तस्य दुःखं भवेद् यतस् तेषु विद्वेषः इत्य् आह—नैवेति । असुरेभ्य उद्वेगो नास्त्य् अतो न विद्वेषः । तत्र हेतुः—**अगुणस्य **इति ॥२॥

—ओ)०(ओ—

॥ ७.१.३ ॥

इति नः सुमहा-भाग नारायण-गुणान् प्रति ।

संशयः सुमहान् जातस् तद् भवांश् छेत्तुम् अर्हति ॥

**श्रीधरः- **श्री-नारायणस्य गुणान् अनुग्रह-निग्रहादीन् प्रति, तत् तं संषयम् ॥३॥

क्रम-सन्दर्भः :न व्याख्यातम्।

**परमात्म-सन्दर्भः ९५- **अतः—इति न इति । गुणान् अनुग्रह-निग्रहादीन् प्रति तत्-तत्-संशयम् ॥३॥

विश्वनाथः- गुणान् अनुग्रह-निग्रहादीन् प्रति ॥३॥

—ओ)०(ओ—

॥ ७.१.४-५ ॥

श्री-ऋषिर् उवाच—

साधु पृष्टं महाराज हरेश् चरितम् अद्भुतम् ।

यद् भागवत-माहात्म्यं भगवद्-भक्ति-वर्धनम् ॥

गीयते परमं पुण्यम् ऋषिभिर् नारदादिभिः ।

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥2

**श्रीधरः : **भागवतस्य प्रह्रादस्य माहात्म्यं गीयत इति संबन्धः । कृष्णाय व्यासाय । कृष्णं मुनिं नत्वेत्य् अर्थः ॥४-५॥


तस्माद् गोविन्द-माहात्म्यम् आनन्द-रस-सुन्दरम् ।

शृणुयात् कीर्तयेन् नित्यं स कृतार्थो न संशयः ॥

तस्माद् धीमन् कथां पुण्यां गोविन्द-चरिताञ्चिताम् ।

महा-पुण्य-प्रदां यस्माच् छृणुष्व नृप-सत्तम ॥

**क्रम-सन्दर्भः :**साधु पृष्टम् इति सार्धम् एवान्वितम् । हे महाराज ! इदं यत् पृष्टं तत् साधु सुविचारितम् एव । किन्तु हरेश् चरितम् अद्भुतम् अपूर्वम्, अवैषम्येऽपि विषमतया प्रतीयमानत्वेन विचारातीतत्वात् । यद् यत्र हरेश् चरित्रे भगवद्-भक्ति-वर्धनंभागवत-माहात्म्यं भागवतानां प्रह्लादोपलक्षित-भक्त-वृन्दानां माहात्म्यं वर्तते । अनेन भागवतार्थम् एव सर्वं करोति भगवान्, न त्व् अन्यार्थम् इत्य् अस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च—

स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् ।
नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥ इत्य् एषा ।

अतो गीयत इति । परमं पुण्यं यथा स्यात् तथा या गीयते तां कथाम् इति यत्-तदोर् अध्याहारेणान्वयः । अत्र च तैर् गीयमानत्वेन भक्तैक-सुख-प्रयोजनत्वम् एव व्यञ्जितम् ॥ नत्वेत्य् अर्धकम् ॥४-५॥ [परमात्म-सन्दर्भः ९६-९७]

**विश्वनाथः- **यत् यतः प्रश्नात् हरेश् चरितं तद्-उत्तरत्वेनावश्य-वाच्यं गीयते । कृष्णाय व्यासाय ॥४-५॥

—ओ)०(ओ—

॥ ७.१.६ ॥

निर्गुणोऽपि ह्य् अजोऽव्यक्तो भगवान् प्रकृतेः परः ।

स्व-माया-गुणम् आविश्य बाध्य-बाधकतां गतः ॥

मध्वः : श्री-गुरुभ्यो नमः ।

बाध्यादि-स्थो हरिर् नित्यं बाध्यतादि-गतेत्य् अपि ।
गीयते न तु बाध्यत्वाद् यद् अदोष-युतत्वतः ॥ इति भविष्यत्-पर्वणि ॥६॥

श्रीधरः : यस्मात् प्रकृतेः परः । अतो निर्गुणः । अत एवाजः । अत एवाव्यक्तो राग-द्वेषादि-निमित्त-भूत-देहेन्द्रियादि-रहितः । सोऽपि स्व-माया-गुणं सत्त्वादिकम् आविश्याधिष्ठाय बाध्यान् प्रति । यद् वा, देवासुराणां परस्परं या बाध्य-बाधकता तां गतः प्राप्तः । तत्र हेतुर् जात इत्य् अर्थः ॥६॥

**क्रम-सन्दर्भः : **तत्र तावद् व्यञ्जितार्थानुरूपम् एव प्रश्नोत्तरम् आह—निर्गुणोऽपीति । कदाचिद् असुरैर् बाध्यतां पराजयं, कदाचित् तु तेषां बाधकतां जयं प्राप्त इत्य् अर्थः ।

यस्मात् प्रकृतेः परः, तस्मान् निर्गुणः प्राकृत-गुण-रहितः । तत एव अजो नित्य-सिद्धः। तत एव च अव्यक्तः, प्राकृत-देहेन्द्रियादि-रहितत्वान् नान्येन व्यज्यते इति स्वयं-प्रकाश-देहादिर् इत्य् अर्थः । ततश् च प्रकृति-गुणोत्थ-राग-द्वेषादि-रहितश् चेति भावः । एवम् एवम्-भूतोऽपि स्वेषु भक्तेषु या माया कृपा, तत्रोचितो यो गुणो लीला-कौतुक-मय-विशुद्धोर्जित-सत्त्वाख्यः, तम् आविश्य आलम्ब्य भगवान् नित्यम् एव प्रकाशित-षड्-गुणैश्वर्यः सन्, एतद् अप्य् उपलक्षणं कदाचिद् इत्य् आदौ जातः सन्, लोकेन्द्रियेषु व्यक्तोऽपि सन्, बाध्य-बाधकतां गतः,3 कदाचित् तु तस्मान् नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्य् अर्थः ।4

अत्र सत्य् अप्य् अर्थान्तरे भागवतानुग्रह-प्रयोजनत्वेनैवोपक्रान्तत्वाद् उपसंहरिष्यमाणत्वाद् गति-सामान्याच् छल-मय-मायया तत्-कर्तृत्वेऽप्य् अधिक-दोषापाताच् च, तन् नापेक्ष्यते, तस्माद् भक्त-विनोदैक-प्रयोजनक-स्वैर-लीला-कैवल्येनान्यत्र राग-द्वेषाभावान् नात्र वैषम्यम् इति भावः । अत एव बाध्यताम् अपि यातीति बाधकतया सहैवोक्तम्, तथा निज-स्वरूप-शक्ति-विलास-लक्षण-लीलाविष्कारेण सर्वेषाम् एव हितं पर्यवस्यतीति सुहृत्त्वादिकं च नापयातीति ध्वनितम् ॥६॥ [परमात्म-सन्दर्भः ९८]

**विश्वनाथः- **स्व-माया-गुणं सत्त्वादिकं प्रविश्य अधिष्ठाय बाध्यत्वं बाधकत्वं च गतः प्राप्तः गुणानां परस्पर-बाध्यत्व-बाधकत्व-लक्षणं वैषम्य-गुणाधिष्ठातरि भगवत्य्-आरोपितम् इत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ७.१.७ ॥

सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः ।

न तेषां युगपद् राजन् ह्रास उल्लास एव वा ॥

**श्रीधरः : **तत्र गुणानां स्वीयत्वे सति प्राकृत-पुरुष-वद्-विषमः स्यात् तत् तु नास्तीत्य् आह—सत्त्वम् इति । ननु स्वेच्छया गुणाछिष्ठानेनापि पक्ष-पात-वैषम्यं स्याद् एव, न । तस्य काल-कृतत्वाद् इत्य् आह—न तेषाम् इति सार्धेन । उल्लासो वृद्धेः ॥७॥

**क्रम-सन्दर्भः : **अथ कथं सोऽपि विशुद्ध-सत्त्वाख्यो गुणः प्राकृतो न भवति ? कदा वा कुत्र तं वीर्यातिशयं सञ्चारयति ? कथं वा कृत-हान्य-कृताभ्यागम-प्रसङ्गो न भवति ? इत्य्-आदिकम् आशङ्क्य तस्य बाध्य-बाधकतां व्यवस्थापयति द्वाभ्याम् ।

ये तु तत् त्रयः सत्त्वादयो गुणास् तेषु न तदीयत्वं, न तद्-आवेशः, न च सदैकावस्थात्वं, यतः पूर्वत्र पद्ये तस्य गुणस्यान्यतमत्व-दर्शनाय स्वेति आविश्येति च विशिष्य स्व-माया-गुणम् आविश्येत्य् उक्तम्, न तु माया-गुनम् उपाधायेत्य् आह—सत्त्वम् इत्य् अर्धकेन ।

सत्त्वादयो गुणाः प्रकृतेर् एव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु ये सर्वेऽपि नित्यम् एवोल्लासिनो गुणाः, ते तु ते न भवन्तीत्य् अर्थः । तद् उक्तम्—

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। १.९.४४] इति ।
ह्लादिनी सन्धिनी सम्वित् त्वय्य् एका सर्व-संस्थितौ ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥[वि।पु। १.१२.६९] इति च5

इत्य्-आदि-वचनानि भगवत्-सन्दर्भे दर्शितानि ।

न तेषाम् इति सार्धकम् । यस्मान् नात्मनस् ते, तस्माद् एव युगपत् ह्रासएव वा उल्लास एव वा नास्ति, किन्तु विकारित्वेन परस्परम् उपमर्द्य्-उपमर्द्यत्वात्6 कस्यचित् कदाचित् ह्रासः, कस्यचित् कदाचिद् उल्लासो भवतीत्य् अर्थः ॥७॥

**विश्वनाथः- **स्वरूपतस् तु भगवान् सर्वत्र सम एवेत्य् आह—सत्त्वम् इति । प्रकृतेर् एव गुणा न त्व् आत्मनो भगवतः, प्रकृतेः स्व-शक्तित्वेऽपि स्वरूप-भूतत्वाभावाद् इति भावः । तस्मात् सर्वत्र दृश्यमानं भगवतो वैषम्यं गुण-वैषम्य-मूलकम् एव। तच् च गुणानां ह्रासाधिक्य-रूपं, तच् च ह्रासाधिक्यं न यौगपद्येन भवति, किन्तु क्रमेणैवेत्य् आह—न तेषाम् इति । ह्रासो बाध्यत्व-हेतुः, उल्लास आधिक्यं बाधकत्व-हेतुः । ते च सत्त्वादीनां ह्रासाधिक्ये तद्-उद्भवानां देवासुर-रक्षसां ह्रासाधिक्याभ्याम् अनुमेये ॥७॥

—ओ)०(ओ—

॥ ७.१.८ ॥

जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।

तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् ॥

**श्रीधरः : **सत्त्वस्य जय-काले देवादीन् ऋषींश् चाभजत् । तत्-तद्-देहं प्रविश्य वर्धयतीत्य् अर्थः । रजसो जय-कालेऽसुरान् । तमसो जय-काले यक्ष-रक्षांसि । तस्य कालस्यानुगुणः सन्॥८॥

**क्रम-सन्दर्भः :**ततश् च देवादीनां तत्-साहाय्ये असुरादीनां तद्-युद्धे योग्यतां दर्शयति, तथा सत्त्वाद्य्-उल्लास-काले तल्-लीलायास् तद्-अधीनत्वम् एव यत् प्रतीयते, न तद् अनुवदन् परिहरति—जय-काले तु सत्त्वस्येति ।

सत्त्वस्य जय-काले देवादीन् ऋषींश्अभजत् भजति भगवान्, तत्-तद्-देहेषु सत्त्वोपाधिकं निज-तेजः सञ्चारयति, येन च तान् सहायमानान् करोतीत्य् अर्थः । एवं रजसो जय-काले असुरेषु रज-उपाधिकं,तमसो जय-काले यक्ष-रक्षःसु तम-उपाधिकम् इति योजनीयम्, ततश् च येन तान् यक्षादीन्प्रतियोद्धॄन् कुर्वन्देवादीन् पराजितान् करोति, स्वम् अपि तथा दर्शयतीत्य् अर्थः । तद् एवं भक्त-रस-पोष-लीला-वैचित्र्याय बाध्य-बाधकतां यातीति दर्शितम् । यच् च क्षीरोद-मथने श्रूयते—

तथासुरान् आविशद् आसुरेण
रूपेण तेषां बल-वीर्यम् ईरयन् ।
उद्दीपयन् देव-गणांश् च विष्णुर्
दैवेन नागेन्द्रम् अबोध-रूपः ॥ [भा।पु। ८.७.१२]इति ।

अत्रापि तद्-वैचित्र्यार्थम् एव तथा तत्-तद्-आवेशस् तस्येति लभ्यते ।

नन्व् आयाता तस्य तत्-तद्-गुणोद्बोधक-काल-पारवश्येन स्वैर-लीला-हानिः । ततश् च गुण-सम्बन्धातिशये वैषम्यादिकं च स्पष्टम् एवेत्य् आशङ्क्याह—तत्-कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः, भगवच्-छरण इतिवत् समासः । स्वैरम् एव क्रीडति तस्मिन् नित्यम् एव तद्-अनुगतिकया मायया यया तद्-अनुसारेणैवानादि-सिद्ध-प्रवाहं तं तं जगत्-कर्म-समुदायं प्रेर्य, स्व-वृत्ति-विशेष-रूपत्वेन प्रवर्त्यमानः सत्त्वादि-गुणानां काल एव तद्-अधीनो भवतीत्य् अर्थः ।

कालस्य माया-वृत्तित्वम् उदाहृतं, कालो दैवम् [भा।पु। १०.६३.२६] इत्य्-आदौ त्वन्-मायैषा इति । यद् वा, तेषां कालोऽपि सदानुगतो भक्तानुग्रह-मात्रार्थ-स्वैर-चेष्टात्मक-प्रभाव-लक्षणो गुणो यस्य स इत्य् अर्थः । ततोऽपि तच्-चेष्टानुसारेणैव मायया तत्-तत्-प्रवर्तनम् इति भावः । तद् उक्तम्—योऽयं कालस् तस्य ते व्यक्त-बन्धोश् चेष्टाम् आहुश् चेष्टते येन विश्वम् [भा।पु। १०.३.२६] इति । तथा चोभयथापि न पारवश्यम् इत्य् आयातम् । इत्थम् एव श्री-कपिल-देवेनापि—यः कालः पञ्चविंशकः [भा।पु। ३.२६.१५] इति । प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् [भा।पु। ३.२६.१६] इति च ।

तत्र माया-व्यङ्ग्यत्व-पुरुष-गुणत्व-लक्षण-मत-द्वयम् उपन्यस्तवान् । अत्र चास्य चेष्टा प्रभावस्य भक्त-विनोदायैव मुख्या वृत्तिः, गुणोद्बोधादि-कार्यं तु तत्र स्वत एव भवतीति तत्र प्रवृत्त्य्-आभास एव । ततश् च पूर्वांशः स्वयम् एवेति स्वरूप-शक्तेर् एव विलासः । परस् तु तद्-आभास-रूप एवेत्य् आभास-शक्तेर् मायाया एवान्तर्-गतः । योऽयं काल [भा।पु। १०.३.२६] इत्य्-आदौ निमेषादिर् इत्य्-उक्तिस् तु द्वयोर् अभेद-विवक्षयैवेति ज्ञेयम् ।

अत एवं व्याख्येयं यथा भृत्यस्यानुगतो भृत्यः अनुभृत्यः, तथा तत्र तत्-प्रभाव-लक्षणस्य गुणस्याऽनुगत आभास-रूपो गुणः अनुगुणः । तथा च तेषां कालोऽपि अनुगुणो न तु साक्षाद्-गुणोऽपि यस्येति ॥७॥

**विश्वनाथः- **तत्र गुणानां स्वतो जाड्याद् एव ह्रासाधिक्ययोर् अप्य् अकिञ्चित्करत्वात् तत्र तत्राधिष्ठाट्र्त्वेन भगवत्-प्रवेशम् आह—जयेति । सत्त्वस्य जय-काले आधिक्य-समये देवान् ऋषींश् चाभजत् । तदा सत्त्वं यथा अधिकम् अभूत्, तथा तत्राधिष्ठानम् अपि तस्याधिकम् अभूद् इति स तत्-तद्-देहं प्रविश्य, तत्-तद्-बलम् अधिकयन् असुर-राक्षसादीन् बाधत इत्य् अर्थः । एवं रजसो जय-काले असुरान्, तमसो जय-काले यक्ष-रक्षांसि तस्य कालस्य अनुगुणः अनुरूपः सन्न् इति गुणाधिकस्यापि कारणं काल एव, न तु स इत्य् अर्थः ॥८॥

—ओ)०(ओ—

॥ ७.१.९ ॥

ज्योतिर्-आदिर् इवाभाति सङ्घातान् न विविच्यते ।

विदन्त्य् आत्मानम् आत्म-स्थं मथित्वा कवयोऽन्ततः ॥

**मध्वः : **दधि-स्थ-घृतवत् कोष्ठे वह्निवच् च जनार्दनः ।

देहेन्द्रियासु जीवेभ्यो विविच्य ज्ञायते न तु ॥ इति च ॥९॥

**श्रीधरः : **समस्यापि निमित्त-भेदेन वैषम्ये दृष्टान्तः—ज्योतिर्-आदिर् इव । ज्योतिर् अग्निर् यथा काष्ठादिषु । जलं यथा पात्रेषु । आकाशो यथा घटादिषु । तथा भगवान् नाना-रूप आभाति

ननु तर्हि तद्वद् एव विवेकेन किं न प्रतीयते ? तत्राह—सङ्घातात् सुरादि-देहान् न विविच्यते, न पृथक् प्रतीयते । तर्हि तान् भजतीति कुतो ज्ञायते ? तत्राह—विदन्ति इति, आत्म-स्थं परमात्मानं कवयो निपुणाः मथित्वा कार्य-दर्शन-लिङ्गेन विचार्य जानन्ति । अन्ततः स्वभाव-काल-कर्मादि-वाद-निषेधेन ।

विन्दन्तीति पाठे लाभोऽपि ज्ञानम् एव । अत्रापि ज्योतिर्-आदिर् इवेति द्रष्टव्यम् । यथा सूर्य-कान्तादौ दाह-दर्शनाज् ज्योतिर् ज्ञायते । यथा च गन्ध-दर्शनाद् वायुर् इत्य्-आदि ॥९॥

**क्रम-सन्दर्भः : **ननु, तेषु तेषु तेनाविश्यमानं तेजः कथं न लक्ष्यते? तत्राह—ज्योतिर् इति । यद्यपि तेषु तेषु निज-तेजोऽंशेनाविष्टोऽसौ सङ्घातात् सम्मिश्रत्वात् न विविच्यते लोकैर् विवेक्तुं न शक्यते, तथापि कवयो विवेक-निपुणा अन्ततो मथित्वा, तस्यापि साहाय्यं तेनापि युद्धम् इत्य्-आदिकासम्भवार्थ-निषेधेन विविच्य, तद्-अंशेन आत्मस्थं7 तत्-तद्-आत्मनि प्रविष्टम् आत्मानम् ईश्वरं विदन्ति जानन्ति । तत्र हेतु-गर्भो दृष्टान्तः—यस्मात् तत्-तेजः ज्योतिर्-आदि-पदार्थ इवाभाति द्रष्टृष्व् इति विशेषः । तत्र हेतु-गर्भो दृष्टान्तः—यस्मात् तत्-तेजः ज्योतिर्-आदि-पदार्थ इवाभाति द्रष्टृष्व् इति शेषः ।

अयम् अर्थः—यथा नेदं मणेस् तेजः, पूर्वम् अदर्शनात्, किन्तु तद्-आतप-संयोगेन सौरं [तेज] एवात्र प्रविष्टम् इति सूर्यकान्तादौ तूलादि-दाहेन तद्-अनुभवेषु तद् आभाति । यथा च पूर्ववद् एव वायाव् अयं गन्धः पार्थिव एव प्रविष्ट इति तेष्व् आभाति, तथात्रापीति ।

अथवा, नन्व् एवं तत्र तत्रावेशितैः स्व-तेजोभिर् एव क्रीडतीत्य् आगतम् ? कथं तर्हि तैर् अपि क्रीडतीति दृश्यते ? तत्राह—ज्योतिर् इति । यथा चक्षुर्-आदि-ज्योतिर्भिः स्वांशे रूप-मात्रेऽपि प्रकाश्यमाने गन्धादि-गुण-पञ्चका मृद् एवासौ प्रकाशत इति प्रतीयते, यथा च कर्णादि-नभसा स्वांशे शब्द-मात्रेऽपि गृह्यमाने दुन्दुभिर् एवासाव् इति प्रतीयते, तच् च तत्-तद्-गुणानां संमिश्रत्वाद् एव भवति, न वस्तुतः । तथा कवयः आत्मानम् ईश्वरं तत्-तत्-सङ्घात-स्थत्वेनान्यैव विविक्तम्8 अपि आत्म-स्थं स्वांश-तेजोभिर्9 एव क्रीडन्तं जानन्तीत्य् अर्थः ॥

तथा कवय आत्मानम् ईश्वरं तत्-तत्-सङ्घातस्थत्वेनान्यैर् अजानन्ति विविक्तम् अपि आत्म-स्थं स्वांश-तेजोभिर् एव क्रीडन्तं जानन्तीत्य् अर्थः ॥९॥ [परमात्म-सन्दर्भः १०१]

**विश्वनाथः- **सत्त्वादीनाम् आधिक्य-न्यूनताभ्याम् एव तद्-अधिष्ठानस्याप्य् आधिक्य-न्यूनते इत्य् अत्र दृष्टान्तम् आह—ज्योतिर् यथा काष्ठेषु, जलं यथा पात्रेषु, आकाशं यथा घटेषु अधिकेष्व् अधिक-रूपं न्यूनेषु न्यून-रूपं तिष्ठद् अपि न विषमम् उच्यते । तथैव देव-निष्ठ-सत्त्वेऽधिके सति सोऽपि देवेष्व् अधिक-रूपः, तदैवासुर-निष्ठे रजसि न्यूने तत्र न्यून-रूप इत्य् असुराणां देव-बाध्यत्वे देवानाम् असुर-बाधकत्वे सति, सोऽपि देव-पक्षपाती असुर-बाधक इत्य् उच्यते । एवम् असुर-निष्ठ-रजस्य् अधिके, सोऽप्य् असुर-पक्षपाती देव-बाधक इति लोक-प्रतीत्या विषमोऽप्य् अविषम एवेत्य् अर्थः । जय-काले तु सत्त्वस्य देवर्षीन् अभजद् [भा।पु। ७.१.८] इत्य् अधिक-भजनम् एव तत्र विवक्षितम् । तद् एव देव-पक्षपातित्व-व्यञ्जकं, न त्व् अजय-काले केवलम् अभजनम् एवेति ज्ञेयम् ।

ननु काष्ठादिषु ज्योतिर्-आदिर् यथास्मिन् काष्ठेऽयं वह्निर् इत्य् एवं विवेकेन प्रतीयते ? तत्राह—संघातात् देवादि-देहात् न विविच्यते, स त्व् अन्य इव न पृथक् प्रतीयते भवतीत्य् अर्थः । तर्हि स तान् भजतीति कुतो ज्ञायते ? तत्राह—विदन्तीति । आत्म-स्थं परम्आत्मानं कवयो निपुणा मथित्वा कार्य-दर्शन-लिङ्गेनानुमानाज् जानन्ति, अन्ततः स्वभाव-कर्मादि-वाद-निषेधेन । विन्दन्तीति पाठेऽपि लभन्ते जानन्तीत्य् एवार्थः ।

नन्व् इन्द्रादि-पक्षपाती भगवान् कदाचित् सर्वैः प्रत्यक्षीभूत एवासुरान् हन्ति । तथैव रजस्-तमसोर् अपि वृद्धौ सत्यां कदाचिद् असुरादीनाम् अपि पक्षपाती भवन् देवादीन् हिनस्तु, तदैवोक्त-युक्त्या तस्य साम्यं सिद्ध्येद् इत्य् अत आह—ज्योतिर्-आदिर् इवेति । तम् एव श्लोकं तन्त्रेणार्थान्तराभिधायकं ज्योतिर्-आदिर् इव ज्योतिर्-आदि-गतं रूप-रस-गन्ध-स्पर्शं यथा सङ्घाते तद्वति वस्तुनि आभाति स्पष्टतया भासते, किञ्चित् तथा किञ्चित् सङ्घातात् तस्मान् न विविच्यते न पृथक् स्पष्टम् आभाति च, किन्तु तद्-अन्तर्गततयैव भाति ।

एवम् एव जगत्य् अस्मिन् देवासुरादिषु मध्ये भगवान् क्वचित् स्पष्टं भासते, क्वचित् तद्-अन्तर्गतश् च तिष्ठतीत्य् अर्थः । तत्र ज्योतिषः सत्त्व-प्राधान्याद् अनावरकत्वात् तद्-गतं रूपं यथा किञ्चिद् दूरेऽपि शुक्लम् इदं क्षीरम् इति सुदूरे लक्ष-योजन-द्वयेऽपि चन्द्रोऽयं शुक्ल इति, तत्र तत्र नयनेन्द्रियेण गृहीतं स्पष्टम् आभाति । तथैव देवादेः सत्त्व-प्राधान्यात् सत्त्वेनानावरणात् तद्-गतो भगवांस् तत्-पक्षपाती स्पष्टम् एवोपेन्द्रादि-रूप आभाति । यथा च जलादेस् तमो-रजः-प्राधान्यात् तेनावरणात् तद्-गतं शब्द-रस-गन्ध-स्पर्शं न स्पष्टम् आभाति, किन्तु तद्वतः पदार्थस्य योग एवेन्द्रिय-गोलकेषु तमो-रजसोर् अपि किञ्चित् सत्त्व-सत्त्वात् सर्वथा आवरणाभावाद् एव । तथा हि रसनायां रसवतो योग एव रसः । श्रोत्रे शब्दवत्-आकाशस्य योगे सत्य् एव शब्दः । त्वचि शैत्यादिमद्-वस्तु-योग एव स्पर्शः । नासायां गन्धवतो वायोर् योग एव गन्ध इति । तथैवासुर-राक्षसादे रजस्-तमः-प्राधान्यात् तेनावरणात् तदृग् अतो भगवांस् तत्-पक्षपाती न स्पष्टम् आभाति । अत्र मेघातपाभ्याम् आवरणानावरणे सूर्यस्य यथा तथैव तमः-सत्त्वाभ्याम् भगवतो ज्ञेये ।

ननु तर्हि स्पष्ट-भानाभावे असुरादि-पक्षपातित्वं तस्य कथं प्रतीमः ? तत्राह—विदन्ति इति देव-पराभवादि-कार्यादर्शन-लिङ्गेन जानन्तीत्य् अर्थः ॥९॥

—ओ)०(ओ—

॥ ७.१.१० ॥

यदा सिसृक्षुः पुर आत्मनः परो

रजः सृजत्य् एष पृथक् स्व-मायया ।

सत्त्वं विचित्रासु रिरंसुर् ईश्वरः

शयिष्यमाणस् तम ईरयत्य् असौ ॥

**श्रीधरः : **तद् एवं माया-गुण-वशेनैतद् वैषम्यं न स्वाभाविकम् इत्य् उक्तम्, तर्हि गुण-पारतन्त्र्याद् अनीश्वरत्वम् आशङ्क्याह—यदात्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर् भवति, तदा साम्येन स्थितः रजः पृथक् सृजतिविचित्रासु तासु पूर्षु रिरंसुः क्रीडितुम् इच्छुर् यदा सत्त्वं, तदा पृथक् सृजति । शयिष्यमाणः संहरिष्यन् यदा, तदा तमः पृथग् ईरयति प्रेरयति, आधिक्यं नयतीत्य् अर्थः ॥१०॥

**क्रम-सन्दर्भः : **तद् एवं युद्धादि-निज-लीलाभिर् भक्त-विनोदनम् एव प्रयोजनं, विश्व-पालनं तु ततः स्वत एव सिद्ध्यतीत्य् उक्त्वा, सृष्टि-प्रलययोः प्रकृतीक्षणादाव् अपि सर्वाशङ्क-निरासार्थम् अतिदिशन् त्रिष्व् अप्य् अविशेषम् आह—यदेति ।

यदा यत्र स्व-चेष्टा-लक्षणे काले एषपरः परमेश्वरः स्व-मायया भक्त-कृपया आत्मनः पुरः प्राचीन-सृष्टि-गत-साधक-भक्त-रूपाणि स्वस्याधिष्ठानानि सिसृक्षुर् भवति, प्रकृत्या सह तेषु लीनेषु आविर्भावनार्थाम् ईक्षां करोति, तदा पृथक् स्वरूप-शक्तेर् इतरासौ जीव-मायाख्या शक्तिः पूर्ववत् तच्-चेष्टात्मक-प्रभावाभासोद्दीप्ता रजः सृजति, स्वांश-भूताद् गुण-त्रय-साम्याद् अव्यक्तात् तद् विक्षिपति, उद्बोधयतीति वा । यथा वा, पृथङ्-मायानुगत एष काल एव सृजति तथा असौ-पदेन च काल एवोच्यते ।

अथ विचित्रासु नाना-गुण-वैचित्र्यवतीषु तल्-लक्षणासु पूर्षु यदा [रिरंसुः] रन्तुम् इच्छुर् भवति, तदा सत्त्वं सृजति । यदा पुनस् ताभिर् एव मिलित्वा शयिष्यमाणः, शयितुम् इच्छुर् भवतीत्य् अर्थः, तदासौ तमः सृजतीति । ततो भक्त-निमित्तम् एव सर्वा एव सृष्ट्य्-आदि-क्रियाः प्रवर्तन्ते इति भावः । यथाङ्गीकृतम् एकादशस्य तृतीये, ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये [भा।पु। ११.३.३] इत्य् अत्र टीका-कृद्भिर् अपि—

किम्-अर्थं ससर्ज ? स्व-मात्रात्म-प्रसिद्धये । स्वं मिमीते प्रमिमीते य उपास्ते स स्व-माता । तस्यात्मनो जीवस्य प्रकृष्टायै सिद्धये ॥ इत्य् एषा ।

शयनम् अत्र पुरुषावतारस्य कदाचित् प्रलयोदधौ योग-निद्रा, कदाचिद् भगवत्-प्रवेशो वा । यद्यपि सर्वेष्व् अपि जीवेषु अन्तर्यामितया परमेश्वरस् तिष्ठति, तथापि तत्रासंसक्तत्वाद् अस्थित एव भवति, स्व-भक्तेषु तु समासक्तत्वान् न तथेति । न च तत्-सङ्गादौ तस्येच्छेति यथोक्त-व्याख्यानम् एव बलवत् । तथा च श्री-गीतासु—

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ।
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गीता ९.४-५] इति
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता ९.२९] इति च ।

उक्तं च हरि-भक्ति-सुधोदये—

भक्तानां हृदयं शान्तं स-श्रियो मे प्रियं गृहम् ।
वसामि तत्र शोभैव वैकुण्ठाख्यादि-वर्णना ॥10 [ह।भ।सु। १४.५७] इति ॥१०॥

**विश्वनाथः- **न चैवं गुण-तारतम्येन तस्याधिष्ठातृत्व-तारतम्य-लक्षण-यन्त्रेण गुणाधीनत्वम् आशङ्क्यं, किन्तु गुणानाम् अपि स्रष्टुस् तस्य तत् तत् सर्वं स्वैर-लीला-मयम् एवेत्य् आह—यदाआत् मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर् भवति, तदा साम्येन स्थितं रजः पृथक् सृजतिविचित्रासु तासु पूर्षु रिरंसुः शिष्ट-पालन-लक्षणं रमणं चिकीर्षुः सत्त्वं पृथक् सृजति, शयिष्यमाणः संहरिष्यन् तमः पृथग् ईरयति प्रेरयति ॥१०॥

—ओ)०(ओ—

॥ ७.१.११ ॥

कालं चरन्तं सृजतीश आश्रयं

प्रधान-पुम्भ्यां नर-देव सत्य-कृत् ॥11

य एष राजन्न् अपि काल ईशिता

सत्त्वं सुरानीकम् इवैधयत्य् अतः ।

तत्-प्रत्यनीकान् असुरान् सुर-प्रियो

रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः ॥

मध्वः : प्रधान-पुंभ्यां सह ॥११॥ काले काल-विषयेऽपीशित्या । देहादि-कारणत्वात् सुरानीकम् इव स्थितं सत्त्वम् ।

स्वभावतः प्रियत्वात् तु सदा देव-प्रियो हरिः ।
अप्रियश् चासुराणं स-स्वभावात् तूभयं नृणाम् ॥
देश-कालो गुणांश् चैव भक्त्यादीन् अक्षयेऽप्यतु ।
योग्यतां च तथा कर्म सम इत्य् अभिधीयते ॥
स्वतः प्रियोऽपि देवानाम् उत्पाद्यैव गुणान् इमान् ।
इतरेषां तथा दोषाण् सुख-दुःखे ददात्य् अजः ॥
उभयं तु मनुषाणाम् अतः सम इतीरितः ।
अनादि-नियताश् चैव गुण-दोषाः सुरादिषु ॥
यथा-क्रमं पुनश् चैव नियमाद् वर्धितास् तथा ।
विष्णुनैव ततो नित्यं विषमश् च जनार्दनः ॥ इति ब्रह्म-तर्के ।
न विष्णोर् विषमत्वं तु योग्यतापेक्षया क्वचित् ।
योग्यतायास् तन् नियत्या विषमत्वं भवेत् तव ॥ इति स्कान्दे ।
विषमत्वं तु दोषाय शुभाशुभ-विपर्यये ।
अतस् तादृश-वैषम्यं ब्रह्म-सूत्रे निराकृतम् ॥
शुभाशुभ-नियन्तृत्वं न दोषो गुण एव सः ।
अतस् तद् इष्टं कृष्णस्य ब्रह्म-सूत्र-कृतो विभोः ॥ इति तन्त्र-निर्णये ॥१२॥

**श्रीधरः : **यदा सिसृक्षुर् इत्य्-आदि-निर्देशात् प्रतीतं काल-पारतन्त्र्यं वारयन् प्रधान-पुरुष-पारतन्त्र्यम् अपि वारयति—कालम् इति । हे नर-देव, प्रधान-पुंभ्यां निमित्त-भूताभ्यां सत्य-कृद् अमोघ-कर्ता ईशस् तयोः सह-कारित्वेनाश्रय-भूतं चरन्तं वर्तमानं कालं स्वयम् एव सृजति । स्व-चेष्टारूपत्वात् कालस्य न तत् पारतन्त्र्यम् इत्य् अर्थः ॥

तथापि प्रस्तुते किम् आयातम् ? तत्राह—य एष कालः सत्त्वम् एधयति वर्धयत्य् अतो हेतोर् ईशिताऽपीश्वरोऽपि सत्त्व-प्रधानं सुरानीकं देव-समूहम् एधयतीव । तत्-प्रत्यनीकान् असुरान् सुर-प्रति-पक्षान् प्रमिणोति हिनस्ति चेत्य् अन्वयः । उरु प्रभूतं श्रवः कीर्तिर् यस्य सः । काल-शक्ति-क्षुभित-गुण-गत-वैषम्यम् इह सन्निधि-मात्रेण तद् अधिष्ठातरि स्फुरतीति प्रकरणार्थः ॥११॥

**क्रम-सन्दर्भः : **एवं प्रसङ्गेन सृष्टि-प्रलयाव् अपि व्याख्याय पुनः पालनम् एव व्याचक्षाणः प्रकरणम् उपसंहरति सार्धेन—कालम् इति ।

सत्य-कृत् स्वरूप-शक्ति-विलासेनैव स्वयं परमार्थ-सत्य-क्रियाविर्भावक एव सन्, स्व-चेष्टा-रूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं ? प्रधान-पुंभ्यां तत्-तत्-सम्बन्धानां साधक-भक्तानां देवादि-प्रविष्टं निज-तेजोऽंशानां च साहाय्य-हेतोर् एव सृज्यमानतया उत्पत्त्यैवाव्यक्त-जीव-सङ्घाताभ्यां चरन्तम्, अत एव सन्निधानेनैव तयोस् तत्-तद्-अवस्थानाम् आश्रयम् उद्भव-हेतुं च । नर-देव इति सम्बोधनेन यथा निजेहया मुख्यम् एव कार्यं कुर्वतस् तव तयैवान्यद् अपि क्षुद्रतरं स्वयम् एव सिद्ध्यति, तद्वद् इहापीति बोधितम् ।

ततो य एष चेष्टा-रूपः कालः स **सत्त्वं **सत्त्व-प्रधानं सुरानीकमेधयतीव, तत एव तत्-प्रत्यनीकान् रजस्-तमः-प्रधानान् असुरान्प्रमिणोति इव हिनस्तीव । ये तु देवेषु भक्ता असुरेषु भक्त-द्वेषिणस् तान् स्वयं पालयति हिनस्ति चैवेति पूर्वम् एवोक्तम् । यस्मात् तच्-चेष्टा-लक्षणस्य कालस्यैवं वार्ता, तस्माद् ईशितापि एधयतीव प्रमिणोतीव चेति । हे राजन्न् इति पूर्वाभिप्रायम् एव ।

ननु यदि चेशितुः प्रयोजनं न भवति, तर्हि कथं कदाप्य् असुरान् अपि स्व-पक्षान् विधाय देवैर् न युध्येत ? इति तत्राह—**सुर-प्रियः,**सुरेषु वर्तमानाः प्रिया भक्ता यस्य सः । सत्त्व-प्रधानेषु सुरेषु प्रायशस् तेषां सर्वेषाम् अनुगमनेनैव तस्यानुगमनम् । कदाचिद् बृहस्पत्य्-आदिषु महत्स्व् अपराधे तु येषां मालिन्येन सुरत्वाच्छादनात्, तेषां तस्य चैतेष्व् अननुगमनं स्याद् इति, जय-काले तु सत्त्वस्य [भा।पु। ७.१.८] इत्य्-आद्य् उक्तम् इति भावः ।

ननु कथं तेऽपि तान् नानुगच्छन्ति ? तत्राह—रजस्-तमस्कान् इति । अत्यन्त-भगवद्-बहिर्मुखता-करयोस् तयोर् गुणयोर् अरोचकत्वाद् एवेति भावः । तर्ह्य् असौ सदैवासुराणां निग्रहम् एव करोतीत्य् अथाप्य् असामञ्जस्यम् एवेत्य् आशङ्क्याह—**उरुश्रवाः,**वैरेण यं नृपतयः12 [भा।पु। ११.५.४८] इति, अहो बकी यं स्तन-काल-कूटं13 [भा।पु। ३.२.२३] इत्य्-आदिभिर् उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर् यस्य, स तेषाम् अप्य् अनुग्रहं करोतीति भावः ॥११-१२॥ [परमात्म-सन्दर्भ १०३]

**विश्वनाथः- **यदा सिसृक्षुर् इत्य्-आदि-निर्देशात् प्रतीतं काल-पारतन्त्र्यम् अपि वारयति—कालम् इति। हे नर-देव, सहकारित्वेनाश्रय-भूतं चरन्तं वर्तमानं स्वयम् एव सृजति कालस्य तच्-चेष्टा-रूपत्वात् ।

अयम् अर्थः—जगत्-सृष्ट्य्-आदिकं हि तस्य लीलयैव, सा च स्वेच्छाधीनैव । तत्र यदा सिसृक्षा भवति, तदा रजो-वृद्धि-सृष्टि-कालो जायते, यदा पिपालयिषा, तदा सत्त्व-वृद्धि-पालन-कालः । यदा संजिहीर्षा, तदा तमो-वृद्धि-नाश-काल इति काल-विशेषस् तेनैव सृज्यते । तत्र यदा सृष्ट्य्-आदि-कालस् तदैव सिसृक्षादिकं स्याद् इति । यदा-शब्द-वाच्यः काल-विशेष एव, स तु सृज्य एव इति । जय-काले तु सत्त्वस्येत्य्-आदिनापि प्रतीतं काल-पारतन्त्र्यं वारितम् इति प्रधानेन माया-शक्त्या पुरुषेण स्वांशेन च सह वर्तमानः । एवं स सर्व-कारणत्वात् तस्यैव स्वातन्त्र्यं तत्-कार्यत्वाज् जगतस् तद्-अधीनत्वम् ।

ननु तत्-कार्यं जगद् अवस्त्व् एव । अवस्तुनः किम् अधीनत्वानधीनत्व-विचारेणेति केचिद् आहुः, तत्राह—सत्य-कृत् भगवच्-छक्ति-कार्यस्य विश्वस्य मिथ्यात्वानर्हत्वात् । कार्य-मात्रस्यैव मिथ्यात्वे तद्-अनुमेये भगवत्य् अपि प्रामाण्याभावः प्रसज्जेद् इति भावः । सत्यं ह्य् एवेदं विश्वम् असृजत इति माध्व-भाष्य-प्रमाणिता श्रुतिश् च ॥

अतः कालस्य तत्-कार्यत्वात् कार्य-धर्मः कारणेऽप्य् अपचरित इत्य् आह—य एष इति । अत एव ईशः परमेश्वरोऽपि सत्त्वं सत्त्व-प्रधानं सुरानीकम् एधयतीवेत्य् अर्थः । तत्-प्रत्यनीकान् सुर-प्रतिपक्षान् प्रमिणोति हिनस्तीवेत्य् अर्थः । तद् एवं वैषम्यं गुणस्यैव नान्यस्य, तत्र काल एव निमित्तं यथा पुरुष-सृज्यत्वाधीनत्वाधिष्ठेयत्वेऽपि गृहाणाम् उञ्चत्व-शैत्यादिकं गृहाणाम् एव, न पुरुषस्य तथा ।

किं च, सुर-प्रिय इति, अथवा सुराणां भक्तत्वाद् वैषम्यम् अपि भूषणम् एव, न तु दूषणम् एवेति पृथग् एव सिद्धान्तः । यद् उक्तं—समोऽहं सर्व-भूतेषु [गीता९.२९]इति । कदाचित् सुराणाम् असुर-पराभूतत्वं तु हितैषिणा भगवतैव तन्-मत्तता-निवारणार्थं क्रियते इति ज्ञेयम् ।

ननु तस्य सर्व-प्रियत्वं सर्व-सुहृत्त्वं च कथम् ? इत्य् अत आह—उरु-श्रवाः । अहो बकीयं यं स्तन-काल-कूटं [भा।पु। ३.२.२३] इत्य्-आदि-वाक्य-प्रकाशितानि महा-दुश्चेष्टित-पूतनादि-गति-प्रदत्व-लक्षण-यशांस्य् एव सर्व-प्रियत्वं सर्व-सुहृत्त्वं च विख्यापयन्तीति भावः ॥११॥

—ओ)०(ओ—

॥ ७.१.१२ ॥

अत्रैवोदाहृतः पूर्वम् इतिहासः सुरर्षिणा ।

प्रीत्या महा-क्रतौ राजन् पृच्छतेऽजात-शत्रवे ॥

**श्रीधरः : **तदानीं तयोर् न सुर-पक्ष-पातेन वधः, किन्तु ब्रह्म-शापेनाषुरीं योनिं प्राप्तयोर् अनुग्रहार्थ एवेति वक्तुम् इतिहासम् उपक्षिपति—अत्रैवेति । अत्र द्वेषादि-रहितस्यापि दैत्य-वधे नारदेन इतिहासः प्रस्तावितः ॥१२॥

**क्रम-सन्दर्भः : **तद् एवं सिद्धान्तं प्रदर्श्य, तत्र स्व-भक्तानुग्रह-मात्र-प्रयोजनस् तत् तत् करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लाद-जय-विजयादि-कृपायाः सूचकम् इतिहास-विशेषम् आह—अत्रैवेति । अत्र विद्वेषादि-राहित्येन भक्तानन्दनार्थं स्वैर-लीला-मात्रत्वे असुराणाम् अपि परम-हित-पर्यवसायक-स्वभावत्वे च । एव-कारेण सिद्धान्तान्तरं व्यावर्त्यते ॥१२॥

**विश्वनाथः- **उक्तम् एवार्थं स्पष्टम् एव बोधयितुम् इतिहासम् उपक्षिपति । अत्रैव साम्य-सौहार्द-प्रियत्वेष्व् अर्थेषु ॥१२॥

—ओ)०(ओ—

॥ ७.१.१३-१४ ॥

दृष्ट्वा महाद्भुतं राजा राजसूये महा-क्रतौ ।

वासुदेवे भगवति सायुज्यं चेदि-भूभुजः ॥

तत्रासीनं सुर-ऋषिं राजा पाण्डु-सुतः क्रतौ ।

पप्रच्छ विस्मित-मना मुनीनां शृण्वताम् इदम् ॥

**श्रीधरः : **चेदि-भूभुजः शिशुपालस्य ॥१४-१५॥

क्रम-सन्दर्भः : दृष्ट्वेति युग्मकम् ॥१३॥

चैतन्य-मत-मञ्जुषा, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१.१५ ॥

श्री-युधिष्ठिर उवाच

अहो अत्यद्भुतं ह्य् एतद् दुर्लभैकान्तिनाम् अपि ।

वासुदेवे परे तत्त्वे प्राप्तिश् चैद्यस्य विद्विषः ॥

श्रीधरः- एकान्त-भक्तानाम् अपि दुर्लभा प्राप्तिर् विद्विषो जातेत्य् एतद् अत्यद्भुतं हि ॥१५॥

**चैतन्य-मत-मञ्जुषा : **वासुदेवे परे तत्त्वे इत्य्-आदि, वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् [भा।पु। १.२.११] इत्य्-आदि यद् उक्तं परं तत्त्वं तत् तु वासुदेवः श्री-वसुदेव-पुत्र एव । एतेन वासुदेव-शब्दस्य व्युत्पत्त्य्-अन्तरम् असम्यग् असङ्गतं च ॥१५॥

क्रम-सन्दर्भः- अथ भगवद्-भक्तिर् द्विधा—वैधी रागानुगा चेति । तत्र रागानुगा समीचीना, वैधीतोऽप्य् अतिशयवती च । तत्र राग आवेश एव । स पुनर् आवेशो यथा रुचि-विशेष-लक्षण-मानस-भावेन स्यात्, न तथा विधि-प्रेरणया, स्वारसिक-मनो-धर्मत्वात् तस्य । तत्र चास्तां तावद्-अनुकूल-भावः । यदि तु परम-निषिद्धेन प्रतिकूल-भावेनाप्य् आवेशः स्यात्, तद्-आवेश-सामर्थ्येन झटिति प्रातिकूल्य-दोष-हानिः सर्वानर्थ-निवृत्तिश् च स्याद् इति भाव-मार्गस्य बलवत्त्वे दृष्टान्तोऽपि दृश्यते । तत्र यद्य् अनुकूल-भावः स्यात्, तदा तु परमैकान्तिक-साध्य एवासौ ।

अथ भाव-मार्ग-सामान्यस्य बलवत्त्वं प्रकरणम् उत्थाप्यते—अहो इति । एकान्तिनाम्—एकान्त-मतिर् उन्निद्रे गूढो मूढ इवेयते [भा।पु। १.४.४] इतिवत् परम-ज्ञानिनाम् इत्य् अर्थः। यतस् तेषाम् अपि सा प्राप्तिर् न सम्भवति ॥१६॥

**विश्वनाथः- **एकान्तिनां निष्परिग्रहाणाम् अपि ॥१६॥

—ओ)०(ओ—

॥ ७.१.१६ ॥

एतद् वेदितुम् इच्छामः सर्व एव वयं मुने ।

भगवन्-निन्दया वेनो द्विजैस् तमसि पातितः ॥

श्रीधरः- तस्य तु वेनवन् नरक-पात एवोचित इत्य् आह—भगवन्-निन्दयेति । तस्मसि नरके ॥१७॥

क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

भक्ति-सन्दर्भः ३१३: यतस् तस्य सा न सम्भवति—तमसि नरके । बहु-नरकादि-भोगानन्तरम् एव पृथु-जन्म-प्रभावोदयेन तस्य वामन-पुराणे14सद्-गति-श्रवणात् ॥

—ओ)०(ओ—

॥ ७.१.१७ ॥

दमघोष-सुतः पाप आरभ्य कल-भाषणात् ।

सम्प्रत्य् अमर्षी गोविन्दे दन्तवक्रश् च दुर्मतिः ॥

श्रीधरः-दमघोषस्य सुतः शिशुपालः । कल-भाषणाद् बाल्य-कोमल-भासणम् आरभ्य । सम्प्रत्य् अधुनाप्य् अमर्षी क्रोधी मत्सरी वा ॥१८॥

क्रम-सन्दर्भः-न व्याख्यातम्।

भक्ति-सन्दर्भः ३१४: एष दामघोष-सुत इति । स्पष्टम् ॥१८॥

विश्वनाथः- कल-भाषणात् बाल्य-कोमल-भाषणम् आरभ्य ॥१८॥

—ओ)०(ओ—

॥ ७.१.१९ ॥

शपतोर् असकृद् विष्णुं यद् ब्रह्म परम् अव्ययम् ।

श्वित्रो न जातो जिह्वायां नान्धं विविशतुस् तमः ॥

श्रीधरः : श्वित्रः श्वेत-कुष्ठम् ॥१९॥

**चैतन्य-मत-मञ्जुषा : **शपतोर् इत्य्-आदि । विष्णुम् इति किं जगत्-पालकम् ? नेत्य् आह—परं ब्रह्म । यद् यद् ब्रह्मणोऽपि परम् अव्ययं नित्य-कैशोराद् वयसो न व्येतीत्य् अव्ययं श्री-कृष्णम् असकृत् शपतोर् इत्य् अन्वयः । यद् वा, रसं रासं करोतीति रसकृत्, स चासौ विष्णुश् चेति स तथा रसकृत्त्वेन विशेषः, तेन विष्णु-शब्देन श्री-कृष्णम् एवेह बोद्धव्यम् ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- यत् परं ब्रह्म तं विष्णुं कृष्णम् ॥१९॥

—ओ)०(ओ—

॥ ७.१.२० ॥

कथं तस्मिन् भगवति दुरवग्राह्य-धामनि ।

पश्यतां सर्व-लोकानां लयम् ईयतुर् अञ्जसा ॥

श्रीधरः : दुरवग्राहं दुष्प्रापं धाम स्वरूपं यस्य, तस्मिन् लयं सायुज्यम् ईयतुर् जग्मतुः । अभूतस्यापि दन्तवक्त्र-लयस्य तज् जातक-प्रामाण्येन सिद्धवन्-निर्देशः ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **प्रत्युत लयं तात्कालिक-लोक-प्रतीत्या सायुज्यं कञ्चित्-कालम् एव सह-योगं सह युज्यत इति सयुक्तस्य भावः सायुज्यं, ततः परं सारूप्यम् ईयतुः । भाविनम् अपि दन्तवक्र-लयं नारद-मुखाद् एव श्रुत्वा तस्य जात-प्रायत्व-मननात् भूत-निर्देशः । पश्यताम् इत्य् असम्भवे वस्तुनि प्रामाण्य-सिद्ध्य्-अर्थम् इत्य् अर्थः ॥२०॥

॥ ७.१.२१ ॥

एतद् भ्राम्यति मे बुद्धिर् दीपार्चिर् इव वायुना ।

ब्रूह्य् एतद् अद्भुततमं भगवान् ह्य् अत्र कारणम् ॥

**श्रीधरः : **एतद् अद्भुततमम् अत एतत् प्रति मे धीर् भ्राम्यतिभगवान् सर्व-ज्ञस् त्वं ब्रूहि ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **एतत् फलं प्रति भ्राम्यति । अत एतद् अद्भुततमं ब्रूहि, यतो भगवान् सर्वज्ञः । नन्व् एतत्-पद-वाच्यम् एव किम् ? तत्राह—तत्र लये कारणम् ॥२१॥

—ओ)०(ओ—

॥ ७.१.२१ ॥

श्री-बादरायणिर् उवाच—

राज्ञस् तद् वच आकर्ण्य नारदो भगवान् ऋषिः ।

तुष्टः प्राह तम् आभाष्य शृण्वत्यास् तत्-सदः कथाः ॥

श्रीधरः : आभाष्य संबोध्य । सीदन्ति निषीदन्त्य् अस्याम् इति सत् सभा, तस्याः सदः सदसः शृण्वत्याः सत्याः कथाःप्राह इत्य् अन्वयः ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **सीदन्ति विषीदन्त्य् अपविशन्त्य् अस्याम् इति सत् सभा, तस्याः शृण्वन्त्याः तस्यां कथाः शृण्वन्त्याम् इत्य् अर्थः । आभाष्य हे राजन्न् अवधेहि इति सम्बोध्य ॥२१॥

—ओ)०(ओ—

॥ ७.१.२२ ॥

श्री-नारद उवाच

निन्दन-स्तव-सत्कार-न्यक्कारार्थं कलेवरम् ।

प्रधान-परयो राजन्न् अविवेकेन कल्पितम् ॥

**मध्वः-**नियमाद् भुज्यते पुम्भिर् धर्माधर्म-फलं मृतौ ।

कैश्चिद् अत्रापि भुज्येत तस्मान् नाधर्मम् आचरेत् ॥ इति भारते॥२३॥

**श्रीधरः : **अहो भगवन्-निन्दकस्य नरक-पातेन भाव्यम् इति वदतस् तव कोऽभिप्रायः ? भगवत्-पीडा-करत्वेन वा तद्-अभावेऽपि सुरापानादि-वन् निषिद्ध-निन्द्याचरणाद् वा तत्र तावद् देहाभिमान-कृत-निन्दादि-निमित्तत्वात् पीडादीनां भगवतश् च तद्-अभावान् न पीडा-शङ्कास्तीत्य् आह—निन्दनेति सार्धैस् त्रिभिः । निन्दनं दोष-कीर्तनम् । न्यक्-कारस् तिरस्कारः। निन्दा-स्तुत्य्-आदि-ज्ञानार्थं प्रधान-पुरुषयोर् अविवेकेन कलेवरं कल्पितं रचितम् ॥२३॥

**क्रम-सन्दर्भः : **तत्रोत्तरं श्री-नारद उवाच—निन्दन इति । तत्र विमूढैर् जनैर् निन्दादिकं प्राकृतान् तम-आदि-गुणान् उद्दिश्यैव प्रवर्त्यते । ततः प्रकृति-पर्यन्ताश्रयस्य तत्-कृत-निन्दादेः अप्राकृत-गुण-विग्रहादौ तस्मिन् प्रवृत्तिर् नास्त्य् एव न च जीववत् प्रकृति-पर्यन्ते वस्तु-जाते भगवद्-अभिमानोऽस्ति । ततश् च तेन तस्य पीडा नास्त्य् एवेति भगवतस् तन्-निन्दाद्य्-अस्पर्शतया सिद्धान्तश् च पूर्ववत् ॥२२॥

**भक्ति-सन्दर्भः ३१५- **तत्रोत्तरं श्री-नारद उवाच—अहो भगवन्-निन्दकस्य नरक-पातेन भाव्यम् इति वदतस् तव कोऽभिप्रायः ? भगवत्-पीडा-करत्वाद् वा, तद्-अभावेऽपि सुरा-पानादिवन् निषिद्ध-निन्दा-श्रवणाद् वा । तत्र तावद् विमूढैर् जनैर् निन्दादिकं प्राकृतान् तम-आदि-गुणान् उद्दिश्यैव प्रवर्त्यते । ततः प्रकृति-पर्यन्ताश्रयस्य तत्-कृत-निन्दादेर् अप्राकृत-गुण-विग्रहादौ तस्मिन् प्रवृत्तिर् नास्त्य् एव । न च जीववत् प्रकृति-पर्यन्ते वस्तु-जाते भगवद्-अभिमानोऽस्ति । ततश् च तेन तस्य पीडापि नास्त्य् एव । तद् एतद् आह सार्धैस् त्रिभिः—निन्दन-स्तव-सत्कार- इत्य्-आदि । निन्दनं दोष-कीर्तनम् । न्यक्-कारस् तिरस्कारः। निन्दा-स्तुत्य्-आदि-ज्ञानार्थं प्रधान-पुरुषयोर् अविवेकेन कलेवरं जीवानां कल्पितं रचितम् ॥२३॥

**विश्वनाथः- **शिशुपाल-कृत-निन्दादिकं न भगवत्-पीडा-करम् इति वक्तुं प्रथमं निन्दा-स्तुत्य्-आदिकं ज्ञानिनां न दुःख-सुखदं, किन्तु देहाभिमानिनाम् एवेत्य् आह—निन्दन-स्तवौ वाचिकौ दोष-गुणौ सत्कार-न्यक्कारौ कायिकौ मानसौ च संमाननासंमानने । तद्-अर्थं तत्-सिद्ध्य्-अर्थं प्रकृति-पुरुषयोर् अविवेकेन आत्मानात्म-विवेकाभावेन कल्पितं विरचितम् ॥२२॥

—ओ)०(ओ—

॥ ७.१.२३-२४ ॥

हिंसा तद्-अभिमानेन दण्ड-पारुष्ययोर् यथा ।

वैषम्यम् इह भूतानां ममाहम् इति पार्थिव ॥

श्रीधरः : तद्-अभिमानेन भूतानांयथा ममाहम् इति वैषम्यं तत्-कृतं हिंसादिकं च भवति, तथा न यस्येत्य् उत्तरेणान्वयः । दण्डस् ताडनं, पारुष्यं निन्दा, तयोर् हेतु-भूतयोर् हिंसा पीडा च भवति ॥२३॥

क्रम-सन्दर्भः : पर-पद्यस्य टीका द्रष्टव्या

विश्वनाथः- तद्-अभिमानेन देहाभिमानेन “माम् अयं निन्दति स्तौति” इत्य्-आदिभिर् यथा दुःख-सुखे भवतः, तथैव माम् अयं हिनस्तीति हिंसापि भवति । कस्मिन् सति **दण्डस् **ताडनं पारुष्यं“त्वाम् अहं घातयिष्यामि” इति तर्जनं तयोः सतोः । एवं च **भूतानामिह **संसारे **वैषम्यं **सिद्धं “ममइते शत्रवो ममैते बन्धवश् च । अहम् एतान् हन्मि एतान् पालयामि च” इति प्रकारकम् ॥२३॥

—ओ)०(ओ—

॥ ७.१.२४ ॥

यन्-निबद्धोऽभिमानोऽयं तद्-वधात् प्राणिनां वधः ।

तथा न यस्य कैवल्याद् अभिमानोऽखिलात्मनः ।

परस्य दम-कर्तुर् हि हिंसा केनास्य कल्प्यते ॥

मध्वः-कैवल्याद् देहाद्य्-अभावाद् एव । अकर्तुस् तस्यान्यः कर्ता न विद्यते । इदं हिंसा-व्यत्ययोऽतिशय-कुत्सन-भेदेष्व् इति सूत्रात् ॥२४॥

श्रीधरः : यस्मिन् निबद्धोऽयम् अभिमानः, तस्य देहस्य वधाद्वधश् च यथा, तथा यस्याभिमानो नास्ति । अतोऽस्य परमेश्वरस्य** हिंसा केन** हेतुना कल्प्यते ? न केनापीति । अभिमानाभावे हेतुः—कैवल्याद् अद्वितीयत्वेनाभिमन्तव्याभावात् । वैषम्याभावे हेतुः—अखिलात्मनः सर्वात्मन इति । तर्हि किम् इति हन्ति दैत्यान् ? तत्राह—**परस्य दम-कर्तुः **हितार्थं दण्डं करोतीत्य् अर्थः ॥२४॥

**क्रम-सन्दर्भः : **ततश् च हिंसेति सार्ध-युग्मकम् । इह प्राकृते लोके यथा तत्-कलेवर्आभिमानेन, न तथेति कैवल्यात्देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् [भा।पु। ७.१.३४] इति कैवल्यादि-प्राप्त-शुद्धत्वात् तादृश-निन्दाद्य्-अगम्य-शुद्ध-सच्चिदानन्द-विग्रहाद् इत्य् अर्थः । तस्य तद्-अगम्यत्वं च । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] श्री-भगवद्-गीतादिभ्यः । तादृश-वैलक्षण्ये हेतुः—अखिलानाम् आत्म-भूतः । तत्र हेतुः—परस्य प्रकृति-वैभवासङ्ग-रहितस्य । हिंसायाम् हेत्व्-अन्तरम् । दम-कर्तुः परमाश्चर्यानन्त-शक्तित्वात् सर्वेषाम् एव शिक्षा-कर्तुर् इति ॥२३-२४॥

भक्ति-सन्दर्भ ३१६: इह प्राकृते लोके । यथा तत्-कलेवराभिमानेन भूतानां ममाहम् इति वैषम्यं भवति, यथा तत्-कृताभ्यां दण्ड-पारुष्याभ्यां ताडन-निन्दाभ्यां निमित्त-भूताभ्यां हिंसा च भवति, यथा यस्मिन् निबद्धोऽभिमानस् तस्य देहस्य वधात् प्राणिनां वधश् च भवति, तथा यस्याभिमानो नास्तीत्य् अर्थः । अस्य परमेश्वरस्य हिंसा केन हेतुना कल्प्यते ? अपि तु न केनापीत्य् अर्थः ।

तथाभिमानाभावे हेतुः—**कैवल्यात्,**देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् [भा।पु। ७.१.३५] इति कैमुत्यादि-प्राप्त-शुद्धत्वात्, तादृश-निन्दाद्य्-अगम्य-शुद्ध-सच्-चिद्-आनन्द-विग्रहादित्वाद् इत्य् अर्थः । तस्य तद्-अगम्यत्वं च नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति श्री-भगवद्-गीतातः ।

तादृश-वैलक्षण्येन हेतुः—अखिलानाम् आत्म-भूतस्य । तत्र हेतुः—परस्य प्रकृति-वैभव-सङ्ग-रहितस्य । हिंसाया अविषयत्वे हेत्व्-अन्तरं—दम-कर्तुः परमाश्चर्यानन्त-शक्तित्वात् सर्वेषाम् एव शिक्षा-कर्तुर् इति ॥

विश्वनाथः-यस्मिन् निबद्धोऽयम् अभिमानस् तस्य देहस्य वधाद् वधश् च यथा अज्ञानिनाम्, तथायस्य कृष्णस्य अभिमानः प्राकृतो नास्ति, अस्य परमेश्वरस्य हिंसा केन कल्प्यते ? न केनापीत्य् अर्थः । अभिमानाभावे हेतुः—कैवल्यात् केवलं परमात्मत्वात् । अयं भावः—यथा सर्व-जीवानाम् अनात्मा देह आत्मा जीवश् चेत्य् उभयं वर्तते । तथा यदि कृष्णस्याप्य् अस्थास्यत्, तदा कृष्णस्यापि जीवानाम् इव आविद्यकोऽभिमानोऽभविष्यद् एव । कृष्णस्य तु देहस् तद्-अभिन्नः । परमात्मैव तस्मिन् स्वरूप-भूते कृष्णोऽहम् इत्य् अभिमानोऽपि तन्-मय एव । अखिलात्मनः इति तद्-अंशस्यान्तर्यामिनोऽप्य् अस्वरूप-भूते जीवे जीव-देहे वाभिमानो नास्तीति भावः । अत एव परस्य माया-मायिक-वस्तु-जीवेभ्यो भिन्नस्यातस् तेष्व् अस्वरूप-भूतेष्व् अभिमानाभावात् कस् तस्य द्वेष्यः को वा द्वेष्टा ? परमात्म-भूते देहे यस् तस्याभिमानः परमात्मैवाहम् इत्य् आत्मकस् तेन स कं वा द्वेष्टुः परमात्मानं जानन् तं वा को द्वेष्टा ? तर्हि किम् इति स्व-द्वेषिणः शिशुपालादीन् हिनस्ति ? तत्राह—दमकर्तुस् तेषां हितार्थम् एव दण्डं कुर्वतः, तस्य सर्व-सुहृत्त्वाद् इति भावः ॥२४॥

—ओ)०(ओ—

॥ ७.१.२५ ॥

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।

स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥

**मध्वः- **कथञ्चिन् नेक्षते पृथक् । तथैव मनसोऽभिनिवेशेन तद् अन्यं नेक्षते । वैरादीनाम् एकतमेनापि यो युञ्ज्यात् । स नेक्षत इति स्वभाव-कथनं न विधिः ।

कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम् ।
मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः ॥
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
यद् अनिन्दत् पिता मे त्वाम् अविद्वांस् तेज ऐश्वरम् ।
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तराद् अधात् ॥
हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः ।
विवक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥
वरतोऽपि न मुच्यन्ते द्वेषिणः शापतोऽपि तु ।
भक्ता नैव निपात्यन्ते धर्मा धर्मैस् तथोत्तरे ॥
अन्यावेश-कृतं यत् तु तद्-वराद्यैर् अपोह्यते ।
तद्-विरुद्ध-स्वभावानाम् अन्यथा न कथञ्चन ॥ इत्य्-आदेः ।

यस्माद् एव कोऽप्य् उपद्रवो नास्ति भगवतस् तस्माद् एव द्वेषादिनापि मनो योक्तुं शक्यते तत्-प्रेरणया । तादृशानां तद् एव चिन्तयन्ति च । अन्यथा आत्मनो दुःख-कारण-द्वेषादिकं कथम् ? सर्व-नियामको हरिर् उत्पादयेत् ॥२५॥

**श्रीधरः :**यस्माद् भगवतो निन्दादि-कृत-वैषम्यं नास्ति, तस्माद् येन केनाप्य् उपायेन ध्यायतस् तेनैव ध्यानेन निन्दादि-कृत-पापस्यापि नाशात् सायुज्यं युक्तम् इत्य् आशयेनाह—तस्माद् इति सप्तभिः । निर्वैरेण नास्ति वैरं केनापि यस्मिन्, तेन भक्ति-योगेनेत्य् अर्थः । युञ्ज्यान् मन इति शेषः । यस्माद् एतैर् उपायैः पृथङ् नेक्षते ॥२५॥

**चैतन्य-मत-मञ्जुषा : **तस्माद् इत्य्-आदि । ननु यदि वैराद् एकतरेणापि भगवत्-प्राप्तिस् तदा कथं बहु-प्रयासेन भक्त्य्-आदि-साधनेन ? सत्यं, वैरानुबन्धेन भयं भवति, भयेन सर्वदा स्फूर्तिः, स्फूर्तौ वस्तु-महिम्ना कृतार्थता, अतः स्फूर्तेर् एव कृतार्थतायां हेतुत्वम् ॥२६॥

**क्रम-सन्दर्भः : **तद् एवं यस्माद् भगवतो निन्दादि-कृत-वैषम्यं नास्ति, तस्मात् केनाप्य् उपायेन [भा।पु। ७.१.३२], सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता [भा।पु। १०.१२.३९] इत्य्-आदिवत् तद्-आभासम् अपि ध्यायतस् तद्-आवेशात् तत्र वैरेणापि ध्यायतस् तद्-आवेशेनैव निन्दादि-कृत-पापस्यापि नाशात् तत्-सायुज्यादिकं युक्तम् इत्य् आशयेनाह—तस्माद् इत्य्-आदिभिः ।

**युञ्ज्याद् **इति स्नेह-कामादीनां विधातुम् अशक्यत्वात् सम्भावनायाम् एव लिङ् । वैरानुबन्धादीनाम् एकतरेणापि युञ्ज्याद् ध्यायेच् चेत्, तदा भगवतः पृथग् नेक्षते तद्-आविष्टो भवतीत्य् अर्थः ।

वैरानुबन्धो वैर-भावाविच्छेदः । निर्वैरं वैराभाव-मात्रम् औदासीन्यम् उच्यते । तेन कामादि-राहित्यम् अप्य् आयाति । वैरादि-भाव-राहित्यम् इत्य् अर्थः । तेन वा वैरादि-भाव-राहित्येन युञ्ज्यात् । विहितत्व-मात्र-बुद्ध्या ध्यायेत् । ध्यानोपलक्षितं भक्ति-योगं कुर्याच् चेत्य् अर्थः । स्नेहः कामातिरिक्तः परस्परम् अकृत्रिमः प्रेम-विशेषः। स तु साधके तद्-अभिरुचिर् एव ॥२५॥ [भक्ति-सन्दर्भ ३१७]

विश्वनाथः- ननु नास्तु निन्दादेर् भगवत्-पीडा-करत्वं निन्दकस्य दुरदृष्ट-जनकत्वं तु स्याद् एव । यद् उक्तं कैमुत्येनापि—

निन्दां भगवतः शृण्वन् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥[भा।१०.७६.२६] इति सत्यम्।

निन्दा हि द्विविधा—आनुकूल्य-मयी प्रातिकूल्य-मयी च । तत्र प्रथमा प्रेम-विलास-रूपैव ।

मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा
स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् ।
बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्षवद् यस्
तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ [भा।१०.४७.१७]इति ।

या सा तु पुरुषार्थ-चूडामणि-मरीचि-मञ्जरीव व्रज-देवीभिर् विना न कैर् अपि लभ्या ।

द्वितीया द्विविधा—भगवद्-अभिनिवेशोत्था च भगवद्-अनभिनिवेशोत्था च । तत्र प्रथमया शिशुपालादि-कृत-निन्दया जन्यमानम् एव दुरदृष्टं तत्-कारणेनैव भगवत्य् अभिनिवेशेन सद्य एव विनष्टीकृत्य भक्ति-योगेनापि सम-कक्षतां प्राप्य विधि-योग्यत्वम् अपि प्राप्यते इत्य् आह—तस्माद् इति सप्तभिः ।

यस्मान् निन्दाया भगवत्-पीडा-करत्वं नास्ति, निन्दकस्य च पाप-क्षयः सम्भवेत्, तस्माद् अभिनिवेशात् **वैरानुबन्धादिनायुञ्ज्यात्,**भगवति मन इति शेषः । निर्वैरेण नास्ति वैरं केनापि यस्मिन्, तेन भक्ति-योगेनेत्य् अर्थः । यद् वा, वैरः प्रतिपक्षत्वं, निर्वैरं तत्-प्रतियोगि स्वपक्षत्वं पुत्रादि-भावो यः खल्व् अग्रिम-श्लोके सम्बन्ध-शब्द-वाच्यत्वेन स्पष्टीभविष्यति, तेन स्नेहात् । यः कामः, तेन प्रीति-जन्येन कामनेत्य् एव व्याख्येयम् । न तु स्नेहस्य पृथक्-साधनत्वं तृतीयान्तत्व-प्रक्रम-भङ्गापत्तेः । फलम् आह—कथञ्चिद् अपि तं भगवन्तं पृथक् नेक्षते, किन्तु स्वीय-भावानुरूपम् एव तं साक्षात् पश्यतीत्य् अर्थः । भय-वैर-भाववन्ताव् अधिकारिणौ प्रति तु पृथक् नेक्षते, किन्तु सायुज्य-प्राप्त्या तं स्वाभिन्नम् एवेक्षते इत्य् एवार्थः । एकस्यापि वाक्यस्य पात्र-भेदाद् अर्थ-भेदः श्वेतो धावतीतिवद् इति न्यायात् । अत्र युञ्ज्याद् इति लिङा वैरानुबन्धादिना भगवति मनोऽभिनिवेशं कुर्याद् इति विधिर् अवगम्यते । स च शिशुपालादिषु न सम्भवति, तेषां राग-प्राप्तत्वात् । शिशुपालादि-दृष्ट्यान्येष्व् एवैष विधिर् इत्य् अपि न शक्यते व्याख्यातुं भगवत्-प्रातिकूल्यस्य विधानानर्हत्वात् । यद् उक्तं— आनुकूल्यस्य ग्रहणं प्रतिकूल्य-विवर्जनम् इति । न च शिशुपालादिभ्योऽन्येषु जनेषु विहितोऽपि वैरानुबन्धो भगवद्-अभिनिवेशं जनयति—

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥[गीता १६.२०]

इत्य् आदि पर-सहस्र-वचन-विरोधात् । न च राग-प्राप्त एव वैरानुबन्धो नरकं जनयेन् न तु विहित इति वाच्यम् । शिशुपालादिषु व्यभिचारात् । न च शिशुपालादि-भिन्नेष्व् एवेयं व्यवस्थिति वाच्यम् । विधि-दृष्ट्या वैरानुबन्धस्य शिष्टानुष्ठानादर्शनात् । तस्यैव वैरानुबन्धो भगवद्-अभिनिवेशं जनयति यस्य हन्तृत्वेनाभिज्ञातः श्रुतो दृष्टो वा भगवान् सम्भावितो भवति, यथा लोके स्व-हन्तृत्वेन निर्धारितेष्व् एव वैर्-व्याघ्र-सर्पादिषु भीतस्य चित्ताभिनिवेशो नान्येष्व् इति ।

तस्माद् एतत् पद्यम् एवं केचिद् व्याचक्षते—यस्मात् स वैर-भाववताम् अपि हितं करोति तस्मात् तत्र वैरस्यानौचित्याद् वैर-भाव-व्यतिरिक्तेनैव भावेन मनोऽभिनिवेशयेद् इत्य् आह—तस्माद् इति । निःशब्दस्य नञ्-अर्थत्वान् निर्वैरेण वैर-भाव-भिन्नेन बन्धु-मित्र-पुत्रादि-भावेन मनो युञ्ज्यात् । कीदृशेन वैरानुबन्धेन ? वैर इव अनुबन्धश् चित्ताभिनिवेशो यत्र तेन, यो यस्मिन्न् अनुबद्धः स तस्मिन्न् अभिनिविष्ट एवेति ताटस्थ्य-भावो वारितः । तथा स्नेहात् कामेन स्नेहैक-हेतुको यः कामः, तेन कीदृशेन ? भयेन स्वजनार्य-पथ-त्यागोत्थ-भयवता व्रज-युवतिकानुगामिना कामेनेत्य् अर्थः । भयेन वेति वा शब्दात् निर्भयेन कामेन च रुकिण्यादिकामानुगामिना कामेनेत्य् अर्थः । औपपत्य-दाम्पत्योर् द्वयोर् अप्य् अस्ति प्रमाणम् । तथा हि—जार-भावेन सुस्नेहं सुदृढं सर्वतोऽधिकम् इति बृहद्-वामनम् ।

अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ॥२५॥

—ओ)०(ओ—

॥ ७.१.२६ ॥

यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् ।

न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥

मध्वः- तत्रैव हेतुः—यथा वैरानुबन्धेनेति । यथा वैराभिनिवेशिनस् तथाभक्त्याभिनिवेशिनो न सन्ति, तत् कथम् अन्यथा भक्तान् एव बहून् हरिः कुर्याद् इति भावः ॥२६॥

**श्रीधरः :**तेष्व् अपि वैरानुबन्धः श्रेष्ठ इत्य् आह—यथेति । न तथा भक्ति-योगेन अपि ॥२६॥

**चैतन्य-मत-मञ्जुषा : **ननु वैरेण स्फूर्त्य्-आधिक्यं जायत इत्य् आह—यथा वैरानुबन्धेनेत्य्-आदि ॥२६॥

**क्रम-सन्दर्भः : **तद् एवं सर्वेषां तद्-आवेश एव फलम् इति स्थिते झटिति तद्-आवेश-सिद्धये तेषु भाव-मय-मार्गेषु निन्दितेनापि वैरानुबन्धेन विधि-मय्या भक्तेर् न साम्यम् इत्य् आह—यथेति । वैरानुबन्धेन इति भयस्याप्य् उपलक्षणम् । यथा शैघ्र्येण तन्-मयतां तद्-आविष्टताम्, भक्ति-योगेन विहितत्व-[विधि-प्रवर्तितत्व]-मात्र-बुद्ध्या क्रियमाणेन तु न तथा ॥२६॥

विश्वनाथः- परम-निन्द्यस्यापि वैर-भावस्य चित्ताभिनिवेशांशत्वांशेनैव महिमा अपार एवेत्य् आह—यथेति । वैरे वैर-भावे योऽनुबन्धः सातत्यं तेन मर्त्यः पूर्वोक्त-युक्ते स्वस्य भगवद्-वध्यत्व-ज्ञान-विशिष्ट एव नान्यः तन्-मयतां स्त्री-मयः कामुक इतिवत् तद्-एकाभिनिवेशवत्त्वम् । न तथेति सद्य इति शेषः । निश्चिता मतिर् इति ममायं निश्चय एव कृत इत्य् अतोऽत्र प्रमाणं न प्रष्टव्यम् । यदि भक्ति-योगाद् अपि वैर-भावो मनोऽभिनिवेशकत्वांशेनाधिकस् तदा किम् उत वक्तव्यं, तादृशाभिनिवेशवान् स भक्ति-योग इति भावः । तेन श्वित्रो न जातो जिह्वायां नान्धं विविशतुस् तमः [भा।पु। ७.१.१८] इति त्वया शिशुपालादीनाम् अनिष्ट-साधनत्व-बुद्ध्या वैरानुबन्धो निन्द्यते, मया त्व् इष्ट-साधन-शिरो-मणेर् भक्ति-योगाद् अपि स्तूयते इति । कुतः ? शिशुपालादीनां दुर्गति-सम्भावनापीति ध्वनिः । तेन भाव-मार्गेष्व् अतिनिन्द्योऽपि वैर-भावो भगवद्-अभिनिवेश-शीघ्र-सम्पादकत्वांशेनैव भक्ति-योगात् शुद्धात् यदि स्तूयते, तदा भाव-मार्गेष्व् अतिवन्द्यो वसुदेवादीनां वात्सल्य-सख्यादिः किम् उततरां नन्दादीनाम् आत्यन्तिक-तद्-अभिनिवेशं प्रतीक्षणातिभूम-सम्पादकः स स इत्य् अनुध्वनिः । तेनार्वाचीनानाम् अपि श्री-नन्दादि-भावानुसारेण वात्सल्यादि-भावेप्सूनां रागानुगा भक्तिर् वैध-भक्तेः सकाशाद् उत्कर्षवतीति पर्यनुध्वनिः ॥२६॥

—ओ)०(ओ—

॥ ७.१.२७-२८ ॥

कीटः पेशस्कृता रुद्धः कुड्यायां तम् अनुस्मरन् ।

संरम्भ-भय-योगेन विन्दते तत्-स्वरूपताम् ॥

एवं कृष्णे भगवति माया-मनुज ईश्वरे ।

वैरेण पूत-पाप्मानस् तम् आपुर् अनुचिन्तया ॥

मध्वः-कीटः पेशस्कृतेत्य्-आदि चैद्यादीनां भक्ति-युक्तत्व-प्रतिपादनम् । स्नेहाद्य्-आयतन-नाशादिनाप्य् उपद्रवोऽस्य नास्तीति निर्वैरेणेत्य्-आद्य् उक्तम् । ततः कनीयांस एव देवा ज्यायांस असुराः इति श्रुतिः । तन्-मयतां मनसस् तत्राभिनिवेशनम् ।

मागधाद्या यथा नित्यं द्वेषाद्य-ग्राहिणो हरौ ।
न तथाग्राहिणो भक्ता ऋते ब्रह्माणम् अव्ययम् ॥ इति हरि-वंशेषु ।

योगः स्नेहः संरम्भ-भय-युक्त-स्नेहेन । प्रीतिः स्नेहस् तथा योगः प्रेम-बन्ध इतीर्यते इति शब्द-निर्णये । वैर-युक्तयाप्य् अनुचिन्तया तम् आपुः । अनुचिन्तेति तम् आहुर् भक्ति-पूर्वा तु या स्मृतिः इति च ॥२७-२८॥

**श्रीधरः :**अत्र दृष्टान्तः—कीटः पेशस्कृता भ्रमरेण । संरम्भो द्वेषो भयं च स एव योगः, तेन । वैरेणयानुचिन्ता चिन्तनं, तयैव पूतःपाप्मा येषां, ते तं प्रापुः ॥२७-२८॥

**चैतन्य-मत-मञ्जुषा : **तत्र दृष्टान्तः—कीटः पेशस्कृता इत्य्-आदि । ननु तथापि भक्ति-योगं विहाय सर्वे वैरानुबन्ध एव यतेरन् ? मैवं, वैरानुबन्धे हि विधिर् नास्ति, नापि वैरं कार्यम् । भगवति सर्वात्मनि सर्व-सुहृदि परम-प्रेयसि प्रेम विना वैरानुपपत्तेः, तेषां तु स्वभाविकासुरतया तथाभूतेऽपि भगवति वैरं विना रतिर् न जायत एव ? न जायतां नाम । को विशेषो रतिमतां द्वेष्टॄणां वा ? मैवम्, अस्ति विशेषः । यत् खलु रतिमन्तः केवलं प्रिय-परिजनत्वं प्राप्नुवन्ति, द्वेष्टारस् तु स्फूर्ति-वशात् मोक्षम् एव, भगवान् अपि वैरिणः प्रति वैरतया मोक्षम् एव प्रयच्छति, पुनर् नैषां मुखम् ईक्षितव्यम् इति कृत्वा ॥२७॥ एवम् इत्य्-आदि । माया-मनुजे कापट्येनापि अमनुजे अमनुष्य-भावे ॥२८॥

क्रम-सन्दर्भः : आस्तां तादृश-वस्तु-शक्ति-युक्तस्य तेषु प्रकाशमानस्य भगवद्-विग्रहाभासस्य वा वार्ता । प्राकृतेऽपि तद्-भाव-मात्रस्य भावावेश-फलं महद् दृश्यत इति स-दृष्टान्तं तद् एव प्रतिपादयति—कीट इति । संरम्भो द्वेषो भयं च, ताभ्यां योगस् तद्-आवेशः**, तेन तत्-स्वरूपतां तस्य स्वम् आत्मीयं रूपम् आकृतिर् यत्र तत्, ताम् तत्-सारूप्यम् इत्य् अर्थः ।एवम् इति एव अपीत्य्अर्थः । नराकृति-पर-ब्रह्मत्वाद् मायय् एव कृपयैव प्राकृत-मनुजतया प्रतीयमाने । **

ननु कीटस्य पेशस्कृद्-द्वेषे पापं न भवति । तत्र तु तत् स्याद् इत्य् आशङ्क्याह—वैरेण यानुचिन्ता तद्-आवेशः, तयैव पूत-पाप्मानस् तद्-ध्यानावेशस्य तादृक्-शक्तित्वाद् इति भावः ॥२७-२८॥

विश्वनाथः: तत्र वैर-भाववतां मध्ये केचित् शिशुपालादयः सारूप्यम् आपुर् इति स-दृष्टान्तम् आह—कीट इति द्वाभ्याम् । पेशस्कृता भ्रमर-विशेषेण संरम्भो द्वेषः भयं च तयोर् योगेन । मायाकृपा सद्-गति-प्रापणी मनुजेषु स्व-द्वेष्टृष्व् अपि यस्य तस्मिन् । यद् वा, मायया स्वरूपेणैव मनुजेषु, स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः इति श्रुतेः । वैर-जनित-ध्यानावेशेन पूतो नष्ट-पाप्मा तन्-निन्दन-तिरस्कारादिर् येषां ते ॥२७-२८॥

—ओ)०(ओ—

॥ ७.१.२९ ॥

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।

आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥

मध्वः- स्नेहाद् अन्नं ददातीति स्वाकर्षण-भयेऽपि च ।

विद्यमानेऽप्य् अल्प-कोपे सङ्गति स्नेहतस् तथा ॥
पेशस्कृद्-रूपतां कीटो यथा याति तथैव तु ।
चैद्यादयोऽसुरावेशाद् धरौ द्वेष-युता अपि ॥
निज-स्वभावया भक्त्या नीता हरि-स्वरूपताम् ।
तथा हि करुणो विष्णुर् अन्यावेशाद् यदि द्विषन् ॥
हीयते किं समानेन नित्यानन्द-स्वरूपिणः ।
देह-बन्ध-युतानां हि द्वेषिणा यत् कृतं भवेत् ॥
मम कोऽपराद्येत निर्दोष-सुख-रूपिणः ।
ततो मय्य् अपराधस् तु स्वस्मिन्न् एव न मे भवेत् ॥
अतो यच् चासुरावेशात् कृतम् एतेन दुष्कृतम् ।
अनादि-भक्तो यस्मान् मे मोचयैष्ये ततस् त्व् अहम् ।
इति मत्वा मोचयति चैद्यादीन् अपि केशवः ॥ इति ब्रह्माण्डे ।

कामादिभिर् अपि यथावद् भक्त्या सहैव मन आवेश्य तद् अघं यत् तु द्वेषादि-कृतम् अघं यथा-भूतया भक्त्या हित्वा ॥२९॥

**श्रीधरः :**तद् अघं कामादि-निमित्तं पापं हित्वा ॥२९॥

**चैतन्य-मत-मञ्जुषा :**कामाद् इत्य्-आदिना । यथा भक्त्या ईश्वरे श्री-कृष्णे मन आवेश्य तद्-गतिं गच्छन्ति, तथा कामादीनाम् एकतरेणापि बहवस् तद्-गतिं गताः । तद्-अघं द्वेषादि-कृत-दोषं तेषु कामादिषु अघं तद्-अघं द्वेष-क्रोधादि-कृतं पापम् इत्य् अर्थः । काम-कृत-दोषस् तु श्री-कृष्णे नास्त्य् एव । तत्रेयं युक्तिः—कामस् तु रतिं विना नोत्पाद्यते, रतिस् तु—मनोऽनुकूलेष्व् अर्थेषु सुख-संवेदनं रतिः [सरस्वती-कण्ठाभरण ५.१३८] इयि श्री-कृष्णे मनोऽनुकूलत्वेन सुख-संवेदनं चेत् वस्तु-सम्भावना कामः॥। कामः स्पृहा तथा च—मत्-कामः शनकैः साधुः सर्वान् मुञ्चति हृच्-छयाम् [भा।पु। १.६.२३] इत्य्-आदि-भगवतोक्तेः । तुष्यतु दुर्जनः, तथापि कामः पूर्वं नश्यन्न् एव प्रेमाणं जनयति, यथा पानीय-संस्कारादि द्रव्यं स्वयं दग्धं सत् पानीय-सौरभ्यं जनयति । अतोऽत्र लाघव-सम्भवेनापि तान् एवोदाहरति—गोप्य इत्य्-आदि । गोप्यः कामाद् इत्य्-आदि यथा-योग्यम् अन्वयः ।

अयं भावः—सर्वेषां कामादीनां श्री-कृष्ण एव विषयः, अवतारान्तरस् तु मैवम् । तत्र भक्त्यैव केवलं कृतार्थता । तथा हि अन्यस्मिन् काम एव नास्ति, गोपादीनां तद्-आश्रयणाभावात् । भयं च द्वेषश् च हिरण्याक्षादीनाम् आसीत् । वराहादि-कृत-वधेप्य् आमुक्तिर् एव तेषां, पुनः कुम्भकर्णादि-जन्म-लाभात् । एवं कालनेमेर् अपि विष्णु-कृत-वधात् ।

सम्बन्धः—वामनादौ देवानां स्नेहः, कश्यपादेर् अपि तत्र तत्रैव । एतेन कामादयो हि श्री-कृष्ण-विषया एव कृतार्थतायां हेतवः । भयादिभ्यः सरसत्वात् रति-जनकत्वाच् च । कामाद् इति प्राङ्-निर्देशः । तेनानेन श्लोकेन सर्वतः परात्परत्वं श्री-कृष्णस्य मनो-निवेश-प्राधान्यं च तत्र गोपीनाम् एवेति प्रतिपादितम् । वस्तुतस् तु गोपीनां भगवति काम एव नासौ । स्त्रियाः पुरुष-विषयकं भाव-मात्रम् एव काम इति लोकः कथयति । न त्व् असौ कामः, केवलेन हि भावेन गोप्यो गावो नगा मृगाः [भा।पु। ११.१२.८] इति स्वयम् एव वक्ष्यति ॥२९-३०॥

**क्रम-सन्दर्भः [भक्ति-सन्दर्भ ३२०] :**न च शास्त्र-विहितेनैव भगवद्-धर्मेण सिद्धिः स्यान् न च तद्-विहितेन कामादिनेति वाच्यम् ।

यथा विहितया भक्त्य ईश्वरे मन आविश्य तद्-गतिं गच्छन्ति तथैवाविहितेनापि कामादिना बहवो गता इत्य् अर्थः । तद्-अघं तेषु कामादिषु मध्ये यद्-द्वेष-भययोर् अघं भवति तद् धित्वैव । भयस्यापि द्वेष-संवलितत्वाद् अघोत्पादकत्वं ज्ञेयम् ।

अत्र केचित् कामम् अप्य् अघं मन्यन्ते । तत्रेदं विचार्यते भगवति केवलं काम एव केवल-पापावहः । किं वा पति-भाव-युक्तः, अथवा उपपति-भाव-युक्त इति । स एव केवल इति चेत् स किं द्वेषादि-गणपतित्वात् तद्वत् स्वरूपेणैव वा । परम-शुद्धे भगवति यद्-अधर-पानादिकं यच् च कामुकाद्य्-आरोपणं तेनातिक्रमेण वा पाप-श्रवणेन वा । नाद्येन—

उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ [भा।पु। १०.२९.१३]

इत्य् अत्र द्वेषादेर् न्यक्कृतत्वात् तस्य तु स्तुतत्वात् । अतश् च प्रिया इति स्नेहवत् कामस्यापि प्रीत्यात्मकत्वेन तद्वद् एव न दोषः । तादृशीनां कामो हि प्रेमैक-रूपः, यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु [भा।पु। १०.३१.१९] इत्य् आदाव् अतिक्रम्यापि स्व-सुखं तदानुकूल्य एव तात्पर्य-दर्शनात् । सैरिन्ध्र्यास् तु भावो रिरंसा-प्रायत्वेन श्री-गोपिकानाम् इव केवल-तत्-तात्पर्याभावात् तद्-अपेक्षयैव निन्द्यते न तु स्वरूपतः । सानङ्ग-तप्त-कुचयोः [भा।पु। १०.४८.६] इत्य् आदौ, अनन्त-चरणेन रुजो मृजन्ति इति परिरभ्य कान्तम् आनन्द-मूर्तिम् इति कार्य-द्वारा तत्-स्तुतैः । तत्रापि सहोष्यताम् इह प्रेष्ठ [भा।पु। १०.४८.८] इत्य् अत्र प्रीत्य्-अभिव्यक्तिश् च ।

अत एव—

सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [भा।पु। १०.४८.८]
दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ [भा।पु। १०.४८.११]

इति चैवं योजयन्ति । कैवल्यम् एकान्तित्वम् । तेन यो नाथः सेवनीयस् तम् । पुरा तादृश-त्रिवक्रत्वादि-लक्षण-दौर्भाग्यवत्य् अपि । अहो आश्चर्यम् अङ्ग-रागार्पण-लक्षणेन भगवद्-धर्मांशेन कारणेन सम्प्रतीदं सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया रमस्व [भा।पु। १०.४८.८] इत्य्-आदि-लक्षणं सौभाग्यम् अयाचत इति । अतः—

किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भा।पु। १०.८०.२५]

इति श्रीदाम-विप्रम् उद्दिश्य पुरजन-वचनवद् एव तथोक्तिः । ननु कामुकी सा किम् इति श्लाघ्यते । तत्राह दुराराध्यम् इति । यो मनो-ग्राह्यं प्राकृतम् एव विषयं वृणीते कामयत असाव् एव कुमनीषी । सा तु भगवन्तकेव कामयत इति परम-सुमनीषिण्य् एवेति भावः । तद् एवं तस्य कामस्य द्वेषादि-गणान्तःपातित्वं परिहृत्य तेन पापावहत्वं परिहृतम् ।

अथ कामुकत्वाद्य्-आरोपणाद्य्-अधर-पानादि-रूपस् तत्र व्यवहारोऽपि नातिक्रम-हेतुः । यतो लोकवत् तु लीला-कैवल्यम् इति न्यायेन लीला तत्र स्वभावत एव सिद्धा । अत्र च श्री-भूर्-लीलादीभिस् तस्य तादृश-लीलायाः श्री-वैकुण्ठादिषु नित्य-सिद्धत्वेन स्वतन्त्र-लीला-विनोदस्य तस्याभिरुचि-तत्त्वेनैवावगम्यते । तथा तत्-प्रेयसी-जनानाम् अपि तत्-स्वरूप-शक्ति-विग्रहत्वेन परम्-शुद्ध-रूपत्वात् ततो न्यानताभावाच् च तद्-अधर-पानादिकम् अपि नानुरूपं पूर्व-युक्त्या तद्-अभिरुचितम् एव च । न च प्राकृत-रामा-जने दोषः प्रसञ्जनीयः, तद्-योग्यं तादृशं भावं स्वरूप-शक्ति-विग्रहत्वं च प्राप्यैव तद्-इच्छयैव तत्-प्राप्तेः।

अथ पाप-श्रवणेन च न पापावहोऽसौ कामः । तद्-अश्रवणाद् एव । अतः पति-भाव-युक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते ।

याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भा।पु। १०.९.२७] इति ।

महानुभाव-मुनीनाम् अपि तद्-भावः श्रूयते । यथा श्री-माध्वाचार्य-धृतं कौर्म-वचनम्—

अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ।

अत एव वन्दितं पति-पुत्र-सुहृद्-भ्रातृ इत्य्-आदिना ।

अथोपपति-भावेन न च पापावहोऽसौ यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा।पु। १०.२९.१९] इत्य् आदिना ताभिर् एवोत्तरितत्वात् । गोपीनां तत्-पतीनां च [भा।पु। १०.३३.३५] इत्य् आदिना श्री-शुक-वचनेन च ।

न पारयेऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः [भा।पु। १०.३२.२२]

इत्य् अत्र निरवद्य-संयुजाम् इत्य् अनेन स्वयं श्री-भगवता च । तादृशानाम् अन्येषाम् अपि तद्-भावो दृश्यते । यथा पाद्मोत्तर-खण्ड-वचनम्—

पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छत् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूतास् तु गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [प।पु। ६.२४५.१६४] इति ।

अतः पुरुषेष्व् अपि स्त्री-भावेनोद्भवाद् भगवद्-विषयत्वान् न प्राकृत-काम-देवोद्भावितः प्राकृतः कामोऽसौ किन्तु साक्षान् मन्मथ-मन्मथः [भा।पु। १०.३२.२] इति श्रवणात् । आगमादौ तस्य कामत्वेनोपासनाच् च भगवतैवोद्भावितोऽप्राकृत एवासौ काम इति ज्ञेयम् । श्रीमद्-उद्धवादीनां परम-भक्तानाम् अपि च तच्-छ्लाघा श्रूयते—एताः परं तनु-भृतो भुवि गोप-वध्वः [भा।पु। १०.४७.५१] इत्य् आदौ । किं बहुना श्रुतीनाम् अपि तद्-भावो बृहद्-वामने प्रसिद्धः । यतस् तत्र श्रुतयोऽपि नित्य-सिद्ध-गोपिका-भावाभिलाषिण्यस् तद्-रूपेणैव तद्-गणान्तः-पातिन्यो बभूवुर् इति प्रसिद्धिः । एतत् प्रसिद्धि-सूचकम् एवैतद् उक्त ताभिर् एव—

निभृत-मरुन्-मनो-ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भा।पु। १०.८७.२३] इति ।

विस्पष्टश् चायम् अर्थः । यद् ब्रह्माख्यं तत्त्वं शास्त्र-दृष्ट्या प्रयास-बाहुल्येन मुनय उपासते तद् अरयोऽपि यस्य स्मरणात् तद्-उपासनं विनैव ययुः । तथा स्त्रियः श्री-गोप-सुभ्रुवस् ते तव श्री-नन्दनन्दन-रूपस्य उरुगेन्द्र-देह-तुल्यौ यौ भुज-दण्डौ तव विषक्त-धियः सत्यस् तवैवाङ्घ्रि-सरोज-सुधास् तदीय-स्पर्श-विशेष-जाति-प्रेम-माधुर्याणि ययुः । वयं श्रुतयोऽपि समदृशस् तत्-तुल्य-भावाः सत्यः समास् तादृश-गोपिकात्व-प्राप्त्या तत्-साम्यम् आप्तास् ता एवाङ्घ्रि-रजो-सुधां यातवत्य इत्य् अर्थः ।

अर्थ-वशाद् विभक्ति-परिणामः । अङ्घ्रीति सादरोक्तिः । अत्र तद्-अरयोऽपि ययुः स्मरणाद् इत्य् अनेन भाव-मार्गस्य झटित्य् अर्थ-साधनत्वं दर्शितम् । सम-दृश इत्य् अनेन रागानुगाया एव तत्र साधकतमत्वं व्यञ्जितम् । अन्यथा सर्व-साधन-साध्य-विदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् । तथा स्मरण-पर-युग्म-द्वयेऽस्मिन् स्व-स्व-युग्मे प्रथमस्य मुख्यत्वं द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्य् अपि-शब्द-साहित्येनोत्तरत्र पाठाद् एकार्थता-प्राप्तेः । अतः स्त्रिय इति नित्याः श्री-गोपिका एव ता ज्ञेयाः । तथैव श्रुतिभिर् इति श्री-कृष्ण-नित्य-धाम्नि ता दृष्टा इति बृहद्-वामन एव प्रसिद्धम् ।

तद् एवं साधु व्याख्यातम् कामाद् द्वेषात् इत्य् आदौ तद्-अघं हित्वा इत्य् अत्र तेषु मध्ये द्वेष-भययोर् यद्-अघम् इत्य् आदि ॥२९॥

विश्वनाथः- भद्राभद्र-भाववन्तः सर्व एव तं प्राप्नुवन्ति साधन-तारतम्यात् फल-तारतम्यं तु युक्त्या स्वयं विवेचनीयम् इत्य् आह—कामाद् इति । तद् एवं द्वेष-जन्यम् अघं हित्वा द्वेष-जन्येनैवावेशेन विनष्टीकृतेत्य् अर्थः । न चात्र कामेऽप्य् अघं व्याख्येयम् । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रिया इति तद्वतीनां प्रियात्वेनाख्या-समानत्वात् । तद्-गतिं तदीयां गतिं प्रेमाणं मोक्षं च ॥२९

—ओ)०(ओ—

॥ ७.१.३० ॥

गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।

सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥

**मध्वः- **गोप्यः काम-युता भक्ताः कंसाविष्टः स्वयं भृगुः ।

ज्ञेयो भय-युतो भक्तश् चैद्यादिस्था जयादयाः ॥
विद्वेष-संयुता भक्ता वृष्णयो बन्धु-संयुताः ।
बहुमान-स्नेह-साम्याद् देवा भक्ताः प्रकीर्तिताः ॥
स्नेहोपसर्जनाद् एव बहुमानन् मुनीश्वराः ।
बहुमानोऽपि देवानाम् ऋषिभ्योऽप्य् अधिको मतः ।
ब्रह्मवीन्द्रेन्द्र-कामादेर् इतरेषां यथा-क्रमम् ॥ इति ब्रह्म-तर्के ॥३०॥

**श्रीधरः : **तान् आह—गोप्य इति ॥३०॥

**क्रम-सन्दर्भः : **अथ बहवस् तद्-गतिं गता [७.१.२९] इत्य् अत्र निदर्शयम् आह—गोप्य इति । गोप्य इति साधक-चरीणां गोपी-विशेषाणां पूर्वावस्थाम् एवावलम्ब्योच्यते । वयम् इति यथा श्री-नारदस्य हि प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् [भा।पु। १.६.२८] इत्य्-आद्य्-उक्त-रीत्या पार्षद-देहत्वे सिद्धे तेन स्वयं वयम् इति पूर्वावस्थाम् अवलम्ब्योच्यते । तत्रैव वैधी भक्तिः । अधुना लब्ध-रागस्य तस्य न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः [भा।पु। ११.२०.३६] इति न्यायेन विध्य्-अनधीना रागात्मिकैव विराजत इति । अत एव तद्-गतिं गताः इति तेषां फल-प्राप्तेर् अप्य् अतीतत्व-निर्देशः । अत्र ता गोप्य इवाधुनिक्यश् च तद्-गुणादि-श्रवणेनैव तद्-भावा भवेयुः । यथोक्तम्—

श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [भा।पु। १०.९०.१७] इति ।

अथवा पार्षद-चरस्यापि चैद्यस्यागन्तुकोपद्रवाभास-नाश-दर्शनेनैव साधकत्व-निर्देशः । सम्बन्धाद् यः स्नेहो रागस् तस्माद् वृष्णयो यूयं च इत्य् एकम् । तस्माद् वैरानुबन्धेन इत्य्-आदौ कामात् इत्य् आदौ चोक्तस्यैवार्थस्यो-दाहरण-वाक्येऽस्मिन् तद्-ऐकार्त्याकश्यमत्वात् । पञ्चानाम् इति वक्ष्यमाणानुरोधात् । उभयत्रापिसम्बन्ध-स्नेहयोर् द्वयोर् अपि विद्यमानत्वाच् च सम्बन्ध-ग्रहणं रागस्यैव विशेषत्व-ज्ञापनार्थम् । गोपीवद् अत्रापि साधक-चरा वृष्णि-विशेषाः पाण्डव-सम्बन्धि-विशेषाश् च पूर्वावस्थाम् अवलम्ब्य साधकत्वेन निर्दिष्टाः । अतः सम्बन्धज-स्नेहेऽपि तद्-अभिरुचि-मात्रं ज्ञेयम् । भक्त्या विहितया । अस्या एव प्रतिलब्धत्वेन भाव-मार्गं निर्देष्टुम् उपक्रान्तत्वात् ॥३१॥ [भक्ति-सन्दर्भ ३२१]

**विश्वनाथः- **भावानाम् आस्पदानि नाम-ग्राहम् आह—गोप्यः कामात् पूर्व-व्याख्या-युक्तैव स्नेहोत्ताद् एव, न तु सामान्यतः । तादृग्-अभिप्रायत्वे कुब्जाद्या इति प्रयुज्यते । भयात् स्वस्य कृष्ण-वध्यत्व-ज्ञानत उद्भूतात्, वृष्णयो यादवाः यूयं पाण्डवाश् च सम्बन्धात् पुत्र-भ्रात्र्-आदि-भावात् मातुलेय-भ्रातृ-स्वस्रेयादि-भावाच् च कीदृशात् स्नेहात् स्नेह-मयाद् इति सत्राजित्-प्रसेन-शतधन्व-कर्ण-दुर्योधनादयो व्यावृत्ताः । न चात्र स्नेहस्य पृथक् तत्-प्राप्ति-साधनत्वं व्याख्येयम् । उत्तर-वाक्ये पञ्च-सङ्ख्यत्वेनैव भावानां निरूपणात् । वयं नारदादयो भक्त्या तद्-गतिं गता इति पूर्वस्यैवानुषङ्गः । तत्र गोप्यः प्रेमवत् प्रेयसी-भावम् । कंसः सायुज्यम् । चैत्य-दन्तवक्र-पौण्ड्रकाः सारूप्यम् । अन्ये चारयो यथायोग्यं सायुज्यं सालोक्यादिकम् । वृष्णयो पाण्डवाश् च सख्यादि-भाववत्-पार्षदत्वम् । नारदादय ऐश्वर्य-ज्ञानवत्-पार्षदत्वम् । यथा-साधनं तत्-तत्-प्राकरणिक-वाक्य-दृष्ट्या निर्धारितां गतिं तदीयां गताः । अत्र—यादवानां हितार्थाय धृतो गिरिवरो मया इति हरिवंश-वाक्यात् नन्दादि-गोपानाम् अपि वृष्णि-वंशत्वाद् ऐश्वर्य-ज्ञान-शून्यत्वेन स्नेहवत्त्वाधिक्यात् पुत्रादि-सम्बन्धस्यातिदार्ढ्यम् एषाम् एव प्राधान्य-द्योतकं ज्ञेयम् ॥३१॥

—ओ)०(ओ—

॥ ७.१.३१ ॥

कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति ।

तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥

मध्वः- कतमोऽपि भक्ति-योगो न वेणस्य, तस्मात् केनापि प्रकारेणोपायेनैव मनो निवेशयेत् नानुपायेन । उपायो भक्तिर् उद्दिष्टो द्वेषाद्या अनुपायकाः इति शब्द-निर्णये ॥३२॥

**श्रीधरः : **तर्हि वेनः किम् इति नरके पातितः ? तीव्र-ध्यानाभावात् पापम् एव तस्य फलितम् इत्य् आह—कतमोऽपीति । पुरुषं श्री-हरिं प्रति । पुरुषे पुरुषस्य कामासंभवाद् भयादिभिश् चिन्तयतां पञ्चानां मध्ये वेनो न कतमोऽपीत्य् उक्तम् ॥३२॥

**चैतन्य-मत-मञ्जुषा :**कतमोऽपीत्य्-आदि । पञ्चानां भयादि-कर्तॄणां मध्ये द्वेषः कतमोऽपि न भवति, केवलम् अहम् ईश्वर इति तस्याभिमान एव केवलं न भगवति तस्य द्वेषादिः, अतोऽसौ द्वेषादि-कर्तॄणां चैत्यादीनाम् अपि सौभाग्यं न प्राप, ते यतो द्वेषादिनैव तं प्रापुः, अतो हरौ मतिं निवेश्य इति दर्शयति—तस्माद् इत्य्-आदि । केनाप्य् उपायेनेत्य्-आदि—यस्य येनोपायेन तस्मिन् मनो विशति, तेनैवेति किं-शब्दार्थः ॥३२॥

**क्रम-सन्दर्भः : **यदि द्वेषेणापि सिद्धिः, तर्हि वेनः किम् इति नरके पातितः ? इत्य् आशङ्क्याह—कतम इति । पुरुषं भगवन्तं प्रति लक्ष्यीकृत्य पञ्चानांवैरानुबन्धादीनां मध्ये वेणः कतमोऽपि न स्यात् । तस्य तं प्रति प्रासङ्गिक-निन्दा-मात्रात्मकं वैरं, न तु वैरानुबन्धः । ततस् तीव्र-ध्यानाभावात् पापम् एव तत्र प्रतिफलितम् इति भावः । ततोऽसुर-तुल्य-स्वभावैर् अपितस्मिन् स्व-मोक्षार्थं वैर-भावानुष्ठान-साहसं न कर्तव्यम् इत्य् अभिप्रेतम् । अत एव ये वै भगवता प्रोक्ताः [भा।पु। ११.२.३२] इत्य्-आदेर् अप्य् अतिव्याप्तिर् व्याहन्यते अनभिप्रेतत्वेनाप्रोक्तत्वात् ।

यस्माद् एवं तस्माद् इति । अत्रापि पूर्ववन् निवेशयेद् इति सम्मति-मात्रं, न विधिः केनापि तेष्व् अप्य् उपायेषु युक्ततमेनैकेनेत्य् अर्थः । अहो यस् तादृश-बहु-प्रयत्न-साध्य-भक्ति-मार्गेण चिरात् साध्यते, साध्यते स एव चिराद् भाव-विशेष-मात्रेण तत्र च द्वेषादीनाम् अपि तस्माद् एवं-भूते परम-सद्-गुण-सद्भावे तस्मिन् दूरेस् तु पामर-जन-भाव्यस्य वैरस्य वार्ता को वाधमः औदास्यम् अवलम्ब्य प्रीतिम् अपि न कुर्याद् इति रागानुगायाम् एव तच् च युक्ततमत्वम् अङ्गीकृतं भवति ॥३२॥ [भक्ति-सन्दर्भ ३२२]

विश्वनाथः- ननु तर्हि शिशुपालवद्-भगवन्-निन्दा-न्यक्कारादि-कर्ता वेणः किम् इति नरके पातितस् तत्राह—पुरुषं भगवन्तं प्रति पञ्चानां पूर्वश्लोकोक्तानां भावानां मध्ये कस्याप्य् अनास्पदत्वात् कतमोऽपि न भवति । न तावद् गोपीव स्नेहवत् कामवान्, न च कंसवद् भीतः, न च मां हनिष्यतीति बुद्ध्या भगवद्-अत्यन्तावेश-मय्या शिशुपालवत् द्वेष्टा, नापि वृष्ण्य्-आदिर् इव तत्र कम् अपि सम्बन्धं दधानो, नापि नारदादिर् इव भक्त इत्य् अर्थः । तेन शिशुपालादि-भिन्नः प्रतिकूल-भावं दिधीषुर् वेण इव नरकं यातीति भावः । यस्माद् एवं तस्मात् केनाप्य् अप्रतिकूलेनैव उपायेन कृष्णे मनो निवेशयेद् इति विधेस् तस्माद् वैरानुबन्धेनेति श्लोकोक्त-विधिना सहैकार्थ्यं ज्ञेयम् ॥३२॥

—ओ)०(ओ—

॥ ७.१.३३ ॥

मातृ-ष्वस्रेयो वश् चैद्यो दन्तवक्रश् च पाण्डव ।

पार्षद-प्रवरौ विष्णोर् विप्र-शापात् पद-च्युतौ ॥

मध्वः- स्वतो भक्त्याश् चैद्यादयोऽपि परावेशाद् द्वेषिणः इत्य् अत्र हेतु-मातृ-ष्वस्रेय इत्य् आदि ॥३३॥

**श्रीधरः : **तद् एवम् इतिहास-प्रस्ताव-कथाम् उक्त्वा श्री-कृष्णे शिशुपालस्य वैरानुबन्धे को हेतुर् इत्य् अपेक्षायां तम् एवेतिहासं वक्तुम् आह—मातृ-ष्वस्रेय इति । पदाद् वैकुण्ठाच् च्युतौ ॥३३॥

**क्रम-सन्दर्भः : **चैद्य-दन्तवक्त्रौ तु नासुरौ, किन्तु हरेः स्व-भक्ति-प्रवर्तक-विप्र-कुल-दाक्षिण्य-मय-स्वैर-लीलेच्छया तद्-अनुकारिणाव् एवेत्य् अभिप्रायं प्रश्नोत्तराभ्यां दर्शयितुम् आह—मातृ-ष्वसेय इति । तत्र तयोर् अन्यथा-भावः सर्वथा न सम्भवत्य् एवेति प्रश्नस्यार्थः, न च पुनर् आवर्तते[छा।उ। ८.१५.१] इति श्रुतेः, अनावृत्तिः शब्दात्[वे।सू। ४.४.२२] इति न्यायात्, माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते[गीता ८.१६] इति श्री-गीताभ्यः । स-न्यायश् चैवासौ सिद्धान्तस् तु तत्रेतिहास-मात्रम् तच् च पूर्व-युक्त्यैव सम्भवतीति तद्-अभिप्रायः । वक्ष्यते च स्वयम् विष्णु-चक्र-हतांहसौ [भा।पु। ७.१.४३] इति व्याख्यास्यते च तैः—तयोः पापम् एव हतं, न तु ताव् इत्य् एषा ॥३३॥

विश्वनाथः- तद् एवं शिशुपाल-प्रस्तावाद् अयं भाव-मार्ग-सिद्धान्तः । तम् समाप्य श्री-कृष्णे शिशुपालस्य वैरानुबन्धे को हेतुर् इत्य् अपेक्षायाम् आह—मातृ-ष्वस्रेय इति पदाद् वैकुण्ठात् च्युतौ ॥३३॥

—ओ)०(ओ—

॥ ७.१.३४ ॥

श्री-युधिष्ठिर उवाच

कीदृशः कस्य वा शापो हरि-दासाभिमर्शनः ।

अश्रद्धेय इवाभाति हरेर् एकान्तिनां भवः ॥

**श्रीधरः : **हरि-दासाव् अभिमृशत्य् अभिभवतीति तथा । कस्य शापः, कीदृशो वा ? अश्रद्धेयोऽनादरणीय इव असंभवात् । भवो जन्म ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः- **हरिदासाव् अप्य् अभिमृशति अश्रद्धेयः शाप-वाक्ये विश्वासो नोत्पद्यते असम्भवाद् इति भावः ॥३४॥

—ओ)०(ओ—

॥ ७.१.३५ ॥

देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् ।

देह-सम्बन्ध-सम्बद्धम् एतद् आख्यातुम् अर्हसि ॥

**श्रीधरः : **असंभवम् एवाह—जन्म-हेतु-भूतैः प्राकृतैर् देहेन्द्रियासुभिर् हीनानाम्, शुद्ध-सत्त्व-मय-देहानाम् इत्य् अर्थः । प्राकृत-देह-संबन्धेन संबद्धमेतद् आख्यानम् आख्यातुम् अर्हसि ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**भगवत्-सन्दर्भः (६४): **तद् एवं श्री-वैकुण्ठस्य स्वरूप-भूतत्वे सिद्धे तद्-अङ्ग-भूतानां श्री-पार्षदानां तादृशत्वं सुतरां सिद्धम् एव । युक्तं चैव तत्-सेवकानां—नादेवो देवम् अर्चयेत् इति तत्-सादृशता-भावनाम् अन्तरेणोद्देशेनापि तत्-सेवायाम् अनधिकारात्, साक्षात् तु साक्षाद् एव तत्-सादृशत्वम् इति । तद् एवं नित्य-पार्षदानां कैमुत्यम् एवापतितम् । अत एवाह—देहेन्द्रियासु-हीनानाम् इत्य्-आदि । जन्म-हेतु-भूतैः प्राकृतैर् देहेन्द्रियासुभिर् हीनानां शुद्ध-सत्त्व-मय-देहानाम् इत्य् अर्थः ॥३५॥

विश्वनाथः- असम्भवम् एवाह—देह इति । जन्म-हेतु-भूतैः प्राकृतैर् देहेन्द्रियासूभिर् हीनानां शुद्ध-सत्त्व-मय-देहानाम् इत्य् अर्थः । प्राकृत-देह-सम्बन्धेन सम्बन्धम् एतद् आख्यानम् आख्यातुम् अर्हसीतिश्री-स्वामि-चरणानां व्याख्या ॥३५॥

—ओ)०(ओ—

॥ ७.१.३६ ॥

श्री-नारद उवाच

एकदा ब्रह्मणः पुत्रा विष्णु-लोकं यदृच्छया ।

सनन्दनादयो जग्मुश् चरन्तो भुवन-त्रयम् ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **एकदेति युग्मकम् । यदृच्छया केनापि भाग्योदयेन विष्णोर् लोकं जग्मुः ॥३६॥

—ओ)०(ओ—

॥ ७.१.३७ ॥

पञ्च-षड्-ढायनार्भाभाः पूर्वेषाम् अपि पूर्वजाः ।

दिग्-वाससः शिशून् मत्वा द्वाः-स्थौ तान् प्रत्यषेधताम् ॥

**मध्वः-**द्वाः-स्थाव् इत्य् अनेनाधिकार-स्थत्वम् उक्तम् ।

अधिकार-स्थिताश् चैव विमुक्ताश् च द्विधा जनाः ॥
विष्णु-लोक-स्थितास् तेषां वर-शापादि-योगिनः ।
अधिकार-स्थितां मुकित्ं नियतं प्राप्नुवन्ति च ॥
विमुक्तानन्तरं तेषां वर-शापादयो ननु ॥
देहेन्द्रियासु युक्तश् च पूर्वं पश्चान् न तैर् युताः ।
अप्य् अभिमानिभिस् तेषां देवैः स्वात्मात्तमैर् युताः ॥ इति तन्त्र-सारे॥३७॥

**श्रीधरः : **कथं-भूताः ? पञ्च वा षड् वा हायनानि वर्षाणि येषां, ते अर्भा बालास् तद्वद् आभा येषां ते । पूर्वेषां मरीच्य्-आदीनाम् अपि पूर्वजास् तेभ्यः प्रथमं जाताः । दिग्-वाससो दिग्-अम्बराः, अतः शिशून् मत्वा ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः-पञ्च वा षट् वा हायनानि येषां ते अर्भा बालास् तद्वद् आभा येषां ते च पूर्वेषां मरीच्य्-आदीनाम् अपि । दिग्-वाससः शिशून् मत्वा पुंवद् भाव आर्षः ॥३७॥

**[अत्र एकदा ब्रह्मणः पुत्राः इत्य्-आदाव् अत्रानुरूप-वर्णनकं भा। ३.१५.१२, १६, ३०, ३१, ३४-पद्य-जातं द्रष्टव्यम्। ] **

—ओ)०(ओ—

॥ ७.१.३८-३९ ॥

अशपन् कुपिता एवं युवां वासं न चार्हथः ।

रजस्-तमोभ्यां रहिते पाद-मूले मधुद्विषः ॥

पापिष्ठाम् आसुरीं योनिं बालिशौ यातम् आश्व् अतः ।

एवं शप्तौ स्व-भवनात् पतन्तौ तौ कृपालुभिः ॥

**श्रीधरः : **वासम् अपि नार्हथः—कुतः पुनस् तत् सेवाम् ? इति च-कारार्थः । हे बालिशौ । अतो हेतोर् आशु यातम् ॥३८-३९॥

**क्रम-सन्दर्भः : **अशपन्न् इति सार्धकम् । रजस्-तमोभ्यां रहिते प्राकृत-सत्त्वादि-राहित्येऽपि तन्-मात्र-राहित्यस्य विवक्षितत्वात्, प्राकृत-सात्त्विकत्वेनैतादृशो दोषः सम्भवतीति॥३८-३९॥

विश्वनाथः- वां युवयोस् त्रिभिर् जन्मभिर् वां युवां लोकाय वैकुण्ठं प्रापयितुं कल्पतां समर्थो भवतु शाप इति शेषः ॥३८-३९॥

[एवं शप्तौ इत्य् आदाव् अत्रानुरूपार्थकं भा। ३.१६.३४-३६-पद्य-जातं द्रष्टव्यम्।]

—ओ)०(ओ—

॥ ७.१.४० ॥

प्रोक्तौ पुनर् जन्मभिर् वां त्रिभिर् लोकाय कल्पताम् ।

जज्ञाते तौ दितेः पुत्रौ दैत्य-दानव-वन्दितौ ।

हिरण्यकशिपुर् ज्येष्ठो हिरण्याक्षोऽनुजस् ततः ॥

**श्रीधरः : **वां युवयोस् त्रिभिर् जन्मभिः । लोकाय स्व-स्थान-प्राप्तये कल्पतां तावतायं शापः समाप्यताम् इति पुनः प्रोक्ताव् इत्य् अर्थः ॥४०॥

क्रम-सन्दर्भः,विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१.४१ ॥

हतो हिरण्यकशिपुर् हरिणा सिंह-रूपिणा ।

हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥

**श्रीधरः : **धरोद्धार-निमित्ते तत् प्रतिघाती हतः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः- धरोद्धारे कर्तव्ये सति ॥४१॥

—ओ)०(ओ—

॥ ७.१.४२ ॥

हिरण्यकशिपुः पुत्रं प्रह्लादं केशव-प्रियम् ।

जिघांसुर् अकरोन् नाना यातना मृत्यु-हेतवे ॥

**श्रीधरः : **हिरण्यकशिपोर् वधे कारणं सूचयति—हिरण्यकशिपुः पुत्रम् इति ॥४२॥

क्रम-सन्दर्भः, विश्वनाथः-न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१.४३ ॥

तं सर्व-भूतात्म-भूतं प्रशान्तं सम-दर्शनम् ।

भगवत्-तेजसा स्पृष्टं नाशक्नोद् धन्तुम् उद्यमैः ॥

मध्वः- सर्व-भूतात्मनि भूतम् ।

हिरण्यकशिपुर् भूतम् अमन्यत मृतौ हरिम् ।
अतो भयानको जातस् तत्र राजानम् एव च ॥
मत्वा राजैव सञ्जातः कृष्णं चक्रादि-लक्षणैः ।
मृति-काले हरिं चैव मत्वा भक्त्यैव केवलम् ॥
द्वाःस्थत्वं हरिम् आविश्य प्राप्यैव मनुजोऽपि तु ॥ इति गारुडे ।
विष्णु-भक्तेश् च तज्-ज्ञानाद् अन्यतो मुक्ति-वाचकाः ।
विष्णोर् गुण-ह्रास-वाचः श्री-ब्रह्मादेस् तथा क्रमात् ॥
विष्ण्व्-आदि-द्वेषतश् चैव सुख-वाचस् तथाखिलाः ।
मोहनार्थाः समुद्दिष्टा यथार्थ-द्योतकास् तथा ॥ इति प्रकाश-संहितायाम् ॥४३॥

**श्रीधरः : **सर्व-भूतानाम् आत्म-भूतम् । कुतः ? समं ब्रह्मैव पश्यतीति तथा तम् । अतः प्रशान्तं द्वेषादि-रहितम् । अत एव भगवत्-तेजसा स्पृष्टं व्याप्तम् । उद्यमैः शस्त्रास्त्र-प्रहारादिभिः ॥४३॥

**क्रम-सन्दर्भः : **तम् इति । यस्माद् भगवत्-तेजसा स्पृष्टं नित्य-तद्-आविष्टत्वात्, तस्मात् सर्वेषां भूतानाम् आत्म-भूतं परम-प्रेमास्पदं, तस्माद् एव प्रशान्तं विक्षेप-रहितम् अन्यत्र सम-दर्शनं राग-द्वेष-रहितं च, तस्माद् एव च नाशक्नोद् इति ॥४३॥

विश्वनाथः- सर्वेषां भूतानाम् आत्म-भूतम् आत्मवत् प्रेष्ठं तद्-द्वेष्टर्य् अपि पितरि द्वेषाभावात् प्रशान्तं स्व-पर-सुख-दुःखादीनां तुल्य-दर्शनात् सम-दर्शनम् ॥४३॥

—ओ)०(ओ—

॥ ७.१.४४ ॥

ततस् तौ राक्षसौ जातौ केशिन्यां विश्रवः-सुतौ ।

रावणः कुम्भकर्णश् च सर्व-लोकोपतापनौ ॥

**श्रीधरः : **विश्रवसः सुतौ ॥४४॥

क्रम-सन्दर्भः, विश्वनाथः-न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१.४५ ॥

तत्रापि राघवो भूत्वा न्यहनच् छाप-मुक्तये ।

राम-वीर्यं श्रोष्यसि त्वं मार्कण्डेय-मुखात् प्रभो ॥

**श्रीधरः : **न्यहनत्, हतवान् इत्य् अर्थः । तर्हि तद् एव कथनीयम् इत्य् उत्सुकं प्रत्याह—राम-वीर्यम् इति ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः- न व्याख्यातम्।

—ओ)०(ओ—

॥ ७.१.४६ ॥

ताव् अत्र क्षत्रियौ जातौ मातृ-ष्वस्रात्मजौ तव ।

अधुना शाप-निर्मुक्तौ कृष्ण-चक्र-हतांहसौ ॥

**श्रीधरः : **कृष्ण-चक्रेण हतम् अंहो ययोस् तौ । तयोः पापम् एव हतं न तु ताव् इत्य् अर्थः ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : विष्णु-चक्रेण हतम् अंहो ययोस् तौ । तयोर् अपराध एव बहिः शिशुपाल-दन्तवक्राकारतया परिणतो, न तु ताव् इत्य् अर्थः । इति स्वामि-चरणाः । यथा वह्निना कनकस्य मालिन्यम् एव हन्यते, न तु कनकं, तथैव जय-विजययोर् एव तेजः-पुञ्जाकारौ श्री-कृष्णं प्रविष्टौ जनैर् दृष्टाव् इति भावः ॥४६॥

—ओ)०(ओ—

॥ ७.१.४७ ॥

वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् ।

नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥

मध्वः : वैरानुबन्धः वैरम् उक्ता भक्तिः । अनुबन्धस् तु भक्तिः स्याद् बन्धः स्नेह उदाहृतः इति प्रकाश-संहितायाम् ॥४७॥

श्रीधरः :न व्याख्यातम्।

**क्रम-सन्दर्भः : **वैरानुबन्धेति । तद् एवं ब्रह्म-शाप-वर्णनेन ब्राह्मण-दाक्षिण्यं मुहुर् युद्ध-वर्णनेन युद्धेच्छां च कारणत्वेनोपन्यस्तवान् । युद्धेच्छैव तु मुख्या ज्ञेया, यया पार्षदयोः मुनीनाम् अपि मतिर् विपरीता जाता । यथोक्तं तृतीये श्री-भगवतैव, मतं तु मे [भा।पु। ३.१६.२९] इति । तथाप्य् अत्यन्त-शापाद्य्-असम्भवात् तद्-आभास एव तत्-कार्यत्वेन दर्शितः, विष्णु-चक्र-हतांहसाव्[भा।पु। ७.१.४६] इत्य् अनेन पूर्वोक्त-सिद्धान्त एव विवेचनीयः ॥४७॥

**विश्वनाथः : **अच्युतेन सह स्थितौ आत्मनौ आकारौ ययोस् तस्य भावस् तत्ता तां ध्यानेनैव नीतौ पुनर् मौषल-लीलान्ते हरेर् नारायणस्य पार्श्वं जग्मतुर् इति मौषल-लीलातः पूर्वं श्री-कृष्ण-शरीर एव नारायणस्यापि प्रविष्टत्वात् तत्-पार्षदौ जय-विजयाव् अपि तत्रैव प्रविश्य स्थिताव् इति तत्त्वम् । शिशुपाल-दन्तवक्रौ कृष्णे सायुज्यं प्रापतुर् इति तु लोक-प्रतीतिः ॥४७॥

—ओ)०(ओ—

॥ ७.१.४८ ॥

श्री-युधिष्ठिर उवाच—

विद्वेषो दयिते पुत्रे कथम् आसीन् महात्मनि ।

ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥

**श्रीधरः : **येन कारणेन प्रह्रादस्याच्युतात्मताच्युतैक-चित्तत्वं तद् अपि ब्रूहीति शेषः ॥४८॥


क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : अच्युतात्मता अच्युते अच्युतैक-चित्तत्वं येन तद् अपि ब्रूहीति शेषः ॥४८॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

सप्तमे प्रथमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये

पारमहंस्यां संहितायां वैयासिक्यां सप्तम-स्कन्धे

युधिष्ठिर-नारद-संवादे

प्रथमोऽध्यायः ॥

॥ ७.१ ॥

(७.२)


  1. अत्र प्रसङ्गे परमात्म-सन्दर्भे अतीव-विस्तृता भूमिका श्री-जीवेन लिखितास्ति। तत्र (§९३) द्रष्टव्यम् ॥ ↩︎

  2. थ्रेए एxत्र वेर्सेस् अरे सोमेतिमेस् रेअद् हेरे- जिह्वां लब्ध्वापि यो विष्णुं कीर्तनीयं न कीर्तयेत् । लब्ध्वापि मोक्ष-निःश्रेणीं स नारोहति दुर्मतिः ॥ ↩︎

  3. अत्र परमात्म-सन्दर्भे “निज-दृष्टि-पथेऽपि स्थातुम् असमर्थेषु अतिक्षुद्रेषु देवासुरादिषु स्व-साहाय्य-प्रतियोद्धृत्व-सम्पादनाय स्वयं सञ्चारितं किञ्चित् तद्-अंश-लक्षणम् एव तेजः समाश्रित्य बाध्यतां बाधकतां च गतः । युद्ध-लीला-वैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन् प्रकाश्यमानाद् अपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं” इत्य् अधिकः पाठः। ↩︎

  4. अत्रापि परमात्म-सन्दर्भे “स्यात् कृपा-दम्भयोर् माया इति विश्व-प्रकाशः” इत्य् अधिकः पाठो दृश्यते। ↩︎

  5. मूले एतौ श्लोकौ प्रतीक-रूपेण उदाहृतौ, अत्र पाठक-सुविधार्थं पूर्ण-रूपत्वेन सन्निविष्टौ। ↩︎

  6. उपमर्द्यत्वात् (झ, यादवपूर), अभ्युपमर्दित्वात् (पुरी-दासः) ↩︎

  7. तद्-अंशम् आत्म-स्थम् इति ङ। ↩︎

  8. तत्-तत्-सङ्घातस्थत्वेनान्यैर् अजानन्ति विविक्तम् इति क्रम-सन्दर्भ-पाठो लब्धः। ↩︎

  9. -ज्योतिर्भिर् इति ङ। ↩︎

  10. वस्तुना (ह।भ।सु।) ↩︎

  11. थिस् अन्द् थे नेxत् वेर्से अरे जोइनेद् इन् मन्य् एदितिओन्स् (क्रम-सन्दर्भ), wइथ् थे रेसुल्तन्त् नुम्बेरिन्ग् दिफ़्फ़ेरेन्चेस्। Wए अरे फ़ोल्लोwइन्ग् थे नुम्बेरिन्ग् फ़्रोम् थे गित प्रेस्स् मुल-मत्रम् एदितिओन्। ↩︎

  12. वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ ↩︎

  13. अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ ↩︎

  14. वामन-पुराणे इत्य् अधिक-पदं ग-च-करलिप्योः प्राप्तम्। ↩︎