॥ ६.१९.१ ॥
श्री-राजोवाच—
व्रतं पुंसवनं ब्रह्मन् भवता यद् उदीरितम् ।
तस्य वेदितुम् इच्छामि येन विष्णुः प्रसीदति ॥
**श्रीधरः : **
ऊनविंशे तु यत् प्रोक्तं कश्यपेन दितेर् व्रतम् ।
तद् एव विवृतं लोक-हिताय हरि-तोषणम् ॥
तस्य प्रकारम् इति शेषः ॥१॥
**क्रम-सन्दर्भः : **ते तुभ्यमलं त्वद्-अर्थं नान्येन प्रयोजनमस्तीत्यर्थः ॥१॥
**विश्वनाथः : **
विष्णु-प्रसादनं चेतः क्रौर्य-विध्वंसनं व्रतम् ।
नृपेण पृष्टो व्यवृणोद् ऊनविंशे मुनिः पुनः ॥
तस्य प्रकारम् इति शेषः ॥१॥
—ओ)०(ओ—
॥ ६.१९.२-३ ॥
श्री-शुक उवाच—
शुक्ले मार्गशिरे पक्षे योषिद् भर्तुर् अनुज्ञया ।
आरभेत व्रतम् इदं सार्व-कामिकम् आदितः ॥
निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च ।
स्नात्वा शुक्ल-दती शुक्ले वसीतालङ्कृताम्बरे ।
पूजयेत् प्रातर्-आशात् प्राग् भगवन्तं श्रिया सह ॥
**श्रीधरः : **मार्गशिरे मासि शुक्ल-पक्षे । आदितः प्रतिपदि ॥२॥ अनुमन्त्र्य पृष्ट्वा । शुक्ला दन्ता यस्याः सा शुक्ल-दन्ती धौत-दन्ता । अलंकृता सती पूजयेत् ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मार्गशिरे मार्गशीर्षे मासि । आदितः प्रतिपदि ॥२-३॥
—ओ)०(ओ—
॥ ६.१९.४ ॥
अलं ते निरपेक्षाय पूर्ण-काम नमोऽस्तु ते ।
महा-विभूति-पतये नमः सकल-सिद्धये ॥
**श्रीधरः : **आदौ तावन् नमस्कार-मन्त्रान् आह त्रिभिः । तुभ्यम् अलं पर्याप्तम् एव सर्वं न किञ्चिद् अन्यैः कृत्यम् अस्ति । अतः केवलं ते तुभ्यं नमोऽस्तु । पर्याप्तौ हेतवः—निरपेक्षाय, हे पूर्ण-काम महा-विभूति-पतये लक्ष्मी-पतये । सकलाः सिद्धयोऽणिमाद्या यस्मिंस् तस्मै ॥४॥
क्रम-सन्दर्भः : ते तुभ्यम् अलं त्आवद्-अर्थं नान्येन प्रयोजनम् अस्तीत्य् अर्थः ॥४॥
**विश्वनाथः : **अलम् अतिशयेन तुभ्यं नम एवास्तु । देवान्तरं यथा निजैश्वर्य-सिद्ध्य्-अर्थं सेवकान् अपेक्षते तथा न त्वम् इत्य् आह—निरपेक्षाय स्वाभाविक-महैश्वर्यवत्त्वाद् इत्य् अर्थः । एवं पूर्ण-कामायते केन नैवेद्यादिना प्रीणयामि ? महा-विभूति-पतये तुभ्यं । कैः ? गृहोद्यान-गज-दासी-नृत्य-गीत-दुन्दुभि-घोष-वाद्यैः । एवं सकल-सिद्धये स्वर्गापवर्ग-प्रेमादि-सिद्धि-दात्रे तुभ्यं कर्म-ज्ञान-योग-भक्त्य्-आदि-साधन-गणैः कथं प्रीणयामि ? इति भावः ॥४॥
—ओ)०(ओ—
॥ ६.१९.५ ॥
यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।
जुष्ट ईश गुणैः सर्वैस् ततोऽसि भगवान् प्रभुः ॥
**श्रीधरः : **भो ईश ! यथा यथावत् । त्वं कृपादिभिर् जुष्टः । अन्यैश् च सत्य-सङ्कल्पत्वादिभिः सर्वैर् गुणैः । ततस् तस्मात् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद् अपि त्वत्-कृपया सर्वं घटत इत्य् आह—यथा त्वं कृपया जुष्टः, तथैव भूत्य्-आदिभिश् च । ततो हेतोस् त्वम् एव **भगवान् असि **इत्य् अन्वयः । अयम् अर्थः—कृपया शक्त्या जुष्टः सेवितः सन् भक्त-दत्त-तुलसी-पत्र-मात्रम् अप्य् अपेक्ष्यमाणः । “अहम् अद्य क्षुधार्तोऽस्मि किञ्चिद् देहि” इति भक्ताय याचमानोऽपूर्ण-कामोऽपि भवसि, “मम गृहोद्यानादिकं सम्प्रति जीर्णं, क्व विलसामि ?” इत्य्-आदि स्वप्नान्तरे कुर्वन् विभूति-शून्योऽपि भवसि, अणिमादि-सिद्धि-युक्तोऽपि भक्त-प्रेम-रसनया बद्धः क्वापि गन्तुम् अपि न शक्नोषि । तथैव भूत्या महा-लक्ष्म्या शक्त्या, तेजसा सर्वानधीनतया शक्त्या, महिम्ना विभूत्या च, ओजसा बलेन, सर्वैर् अन्यैश् च सत्य-सङ्कल्पत्वादिभिश् च सर्वत्र जगति निरपेक्षत्व-पूर्ण-कामत्वादिमांश् च भवसीति, त्वम् एव भगवान् त्वम् एव प्रभुर् भजनीय इति भावः ॥५॥
—ओ)०(ओ—
॥ ६.१९.६ ॥
विष्णु-पत्नि महा-माये महा-पुरुष-लक्षणे ।
प्रीयेथा मे महा-भागे लोक-मातर् नमोऽस्तु ते ॥
**श्रीधरः : **महा-पुरुषस्य परमेश्वरस्य लक्षणानि निरपेक्षत्वादीनि यस्यास् तस्याः सम्बोधनम् ॥६॥
क्रम-सन्दर्भः : विष्णु-पत्नीति । महा-माये पराख्य-शक्ति-रूपे । अत एव महा-पुरुष-लक्षणे तद्-एक-स्वरूपे ॥६॥
**विश्वनाथः : **इत्थं भगवन्तं प्रणम्य लक्ष्मीं प्रणमेद् इत्य् आह—विष्णु-पत्नीति । महा-माये माया-शब्दस्य शक्ति-वाचित्वात् पराख्य-शक्ति-रूपे । अत एव महा-पुरुषस्य विष्णोर् इव लक्षणानि निरपेक्षत्वादीनि यस्याः ॥६॥
—ओ)०(ओ—
॥ ६.१९.७ ॥
**“ॐ नमो भगवते महा-पुरुषाय **
**महानुभावाय महा-विभूति-पतये **
सह महा-विभूतिभिर् बलिम् उपहरामि” इति,
अनेनाहर्-अहर् मन्त्रेण विष्णोर् आवाहनार्घ्य-पाद्योपस्पर्शन-
स्नान-वास-उपवीत-विभूषण-गन्ध-पुष्प-धूप-
दीपोपहाराद्य्-उपचारान् सुसमाहितोपाहरेत्।
**श्रीधरः : **पूजा-मन्त्रम् आह—ॐ नम इति ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पूजा-मन्त्रम् आह—ॐ नम इति ॥७॥
—ओ)०(ओ—
॥ ६.१९.८ ॥
हविः-शेषं च जुहुयाद् अनले द्वादशाहुतीः ।
ॐ नमो भगवते महा-पुरुषाय महा-विभूति-पतये स्वाहेति ॥
**श्रीधरः : **हविः-शेषम् उपहारावशिष्टम् । होम-मन्त्रं दर्शयति—ॐ इति ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हविः-शेषम् उपहारावशिष्टम् ॥८॥
—ओ)०(ओ—
॥ ६.१९.९-११ ॥
श्रियं विष्णुं च वरदाव् आशिषां प्रभवाव् उभौ ।
भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्व-सम्पदः ॥
प्रणमेद् दण्डवद् भूमौ भक्ति-प्रह्वेण चेतसा ।
दश-वारं जपेन् मन्त्रं ततः स्तोत्रम् उदीरयेत् ॥
**श्रीधरः : **प्रकर्षेण भवन्त्याभ्याम् इति प्रभवौ ॥९-११॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.११-१३ ॥
युवां तु विश्वस्य विभू जगतः कारणं परम् ।
इयं हि प्रकृतिः सूक्ष्मा माया-शक्तिर् दुरत्यया ॥
तस्या अधीश्वरः साक्षात् त्वम् एव पुरुषः परः ।
त्वं सर्व-यज्ञ इज्येयं क्रियेयं फल-भुग् भवान् ॥
गुण-व्यक्तिर् इयं देवी व्यञ्जको गुण-भुग् भवान् ।
त्वं हि सर्व-शरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः ।
नाम-रूपे भगवती प्रत्ययस् त्वम् अपाश्रयः ॥
**मध्वः : **अन्तर्यामी तु यज्ञादेर् विष्णुर् इज्यादिना रमा ।
तत्-तच्-छब्दैस् ततो वाच्यैर् न तु सर्व-स्वरूपतः ॥
अन्तर्यामी श्रियश् चापि विष्णुर् एव न संशयः ।
नान्तर्यामी कश्चिद् अस्ति विष्णोः क्वापि कुतश्चन ॥ इति ब्रह्म-तर्के ॥१२-१३॥
**श्रीधरः, विश्वनाथः : **इज्या यज्ञाभिनिवर्तकः पुरुष-व्यापारो भावनाख्यः । क्रिया लौकिकी ॥१२॥ प्रत्ययो नाम-रूपयोः प्रकाशकः । अपाश्रयस् तयोर् आधारः ॥१३॥
क्रम-सन्दर्भः : युवाम् इति सार्धकम् । परात्परयोर् अपि तयोर् जगत्-कारणत्वे हेतुम् आह—इयं हीति । प्रकृतिर् निजांशाभासेनेति भावः ॥११॥तस्या इति । सात्वत-तन्त्रे—विष्णोस् तु त्रीणि रूपाणि इत्य् आदेः । तथैवाह—त्वम् इत्य्-आदि ॥१२-१३॥
—ओ)०(ओ—
॥ ६.१९.१४ ॥
यथा युवां त्रि-लोकस्य वरदौ परमेष्ठिनौ ।
तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **परमेष्ठिनौ परमेश्वरौ ॥१४॥
—ओ)०(ओ—
॥ ६.१९.१५ ॥
इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह ।
तन् निःसार्योपहरणं दत्त्वाचमनम् अर्चयेत् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तन् निःसार्य मिर्माल्यापसारणं कृत्वा ॥१५॥
—ओ)०(ओ—
॥ ६.१९.१६ ॥
ततः स्तुवीत स्तोत्रेण भक्ति-प्रह्वेण चेतसा ।
यज्ञोच्छिष्टम् अवघ्राय पुनर् अभ्यर्चयेद् धरिम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.१७ ॥
पतिं च परया भक्त्या महापुरुष-चेतसा ।
प्रियैस् तैस् तैर् उपनमेत् प्रेम-शीलः स्वयं पतिः ।
बिभृयात् सर्व-कर्माणि पत्न्या उच्चावचानि च ॥
**श्रीधरः : **महा-पुरुष-चेतसा ईश्वर-बुद्ध्योपनमेद् भजेत् । पतिश् च स्वयं प्रेम-शीलः सन् पत्न्याः कर्माणि बिभृयात्, तद्-अनुकूलो भवेद् इत्य् अर्थः ॥१७॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.१८ ॥
कृतम् एकतरेणापि दम्-पत्योर् उभयोर् अपि ।
पत्न्यां कुर्याद् अनर्हायां पतिर् एतत् समाहितः ॥
**श्रीधरः, विश्वनाथः : **यतो दम्-पत्योर् मध्ये एकतरेण कृतम् उभयोर् अपि भवति ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.१९ ॥
विष्णोर् व्रतम् इदं बिभ्रन् न विहन्यात् कथञ्चन ।
विप्रान् स्त्रियो वीरवतीः स्रग्-गन्ध-बलि-मण्डनैः ।
अर्चेद् अहर्-अहर् भक्त्या देवं नियमम् आस्थिता ॥
**श्रीधरः : **न विहन्यान् न विच्छिन्द्यात् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न विहन्यान् न विच्छिन्द्यात् । अग्रत इति ल्यब्-लोपे पञ्चमी अग्र-भागं यथोचितं विभज्येत्य् अर्थः ॥१९॥
—ओ)०(ओ—
॥ ६.१९.२० ॥
उद्वास्य देवं स्वे धाम्नि तन्-निवेदितम् अग्रतः ।
अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-काम-समृद्धये1** ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.२१ ॥
एतेन पूजा-विधिना मासान् द्वादश हायनम् ।
नीत्वाथोपरमेत् साध्वी कार्त्तिके चरमेऽहनि ॥
**श्रीधरः : **द्वादश-मासान् इत्य् उक्ते कदाचित् तन्-मध्ये मल-मासे सति, तेन सह द्वादश सङ्ख्यायां सत्यां शुद्धस्यैकस्य त्यागः स्यात् । हायनम् इत्य् उक्ते तन् मध्य-पतितस्य तस्यापि प्रसङ्गः स्यात् । तद् उभयं वारयितुम् उभयम् उक्तम् । उपचरेद् उपवसेत् ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **चरमेऽहनि पौर्णमास्याम् ॥२१॥
—ओ)०(ओ—
॥ ६.१९.२२ ॥
श्वो-भूतेऽप उपस्पृश्य कृष्णम् अभ्यर्च्य पूर्ववत् ।
पयः-शृतेन जुहुयाच् चरुणा सह सर्पिषा ॥
पाक-यज्ञ-विधानेन द्वादशैवाहुतीः पतिः ॥
**श्रीधरः, विश्वनाथः : **श्वो-भूते प्रभाते सति । पयसि शृतेन पक्वेन । पाक-यज्ञ-विधानेन पार्वण-स्थाली-पाक-विधानेन ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.२३ ॥
आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः ।
प्रणम्य शिरसा भक्त्या भुञ्जीत तद्-अनुज्ञया ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१९.२४ ॥
आचार्यम् अग्रतः कृत्वा वाग्-यतः सह बन्धुभिः ।
दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥
**श्रीधरः : **सुप्रजास्त्वं सत्-पुत्रत्वम् इत्य् अर्थः । तद् यतस् तं शेषम् ॥२४॥
**क्रम-सन्दर्भः : **अग्रत इति तद्-अग्रिम-देशं त्यक्त्वा तद्-अग्रे भोजन-निषेधात् ॥२४॥
**विश्वनाथः : **शेषं सुप्रजास्त्वं सुप्रजस्त्व-करं सुसौभग-करं च । यद् वा, ततस् तस्य सुप्रजास्व्तं स्याद् इति वाक्यान्तरम् ॥२४॥
—ओ)०(ओ—
॥ ६.१९.२५ ॥
एतच् चरित्वा विधिवद् व्रतं विभोर्
अभीप्सितार्थं लभते पुमान् इह ।
स्त्री चैतद् आस्थाय लभेत सौभगं
श्रियं प्रजां जीव-पतिं यशो गृहम् ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **जीवतीति जीवः । स चासौ पतिश् चेति तम् ॥२५॥
—ओ)०(ओ—
॥ ६.१९.२६ ॥
कन्या च विन्देत समग्र-लक्षणं
पतिं त्व् अवीरा हत-किल्बिषां गतिम् ।
मृत-प्रजा जीव-सुता धनेश्वरी
सुदुर्भगा सुभगा रूपम् अग्र्यम् ॥
**श्रीधरः : **अवीरा विधवा । धनेश्वरी सत्य् अपि या सुदुर्भगा सा सुभगा भवति ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अवीरा पति-पुत्र-शून्या । या मृत-प्रजा सा जीव-सुता धनेश्वरी न भवति ॥२६॥
—ओ)०(ओ—
॥ ६.१९.२७ ॥
विन्देद् विरूपा विरुजा विमुच्यते
य आमयावीन्द्रिय-कल्य-देहम् ।
एतत् पठन्न् अभ्युदये च कर्मण्य्
अनन्त-तृप्तिः पितृ-देवतानाम् ॥
**श्रीधरः : **य आमयावी रोगी स विरुजा विशिष्टया रुजा विमुच्यते । इन्द्रियैः सहितं कल्यं देहं च विन्देदिति शेषः । पठन्यो वर्तेत तस्य पितॄणां देवतानां चानन्ता तृप्तिर् भवतीत्य् अर्थः ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **य आमयावी, स विशिष्टया रुजा विमुच्यते । इन्द्रियैः सहितं कल्यं समर्थं देहं च विन्देत् । अभ्युदये आभ्युदयिक-श्राद्धादौ ॥२७॥
—ओ)०(ओ—
॥ ६.१९.२८ ॥
तुष्टाः प्रयच्छन्ति समस्त-कामान्
होमावसाने हुत-भुक् श्री-हरिश् च ।
राजन् महन् मरुतां जन्म पुण्यं
दितेर् व्रतं चाभिहितं महत् ते ॥
**श्रीधरः : **उपसंहरति—राजन्न् इति । महत्पुण्यं जन्म महद्व्रतं च ॥२८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तुष्टा हुत-भुक् श्री-हरिश् च ॥२८॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठ एकोनविंशोऽयं सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
पुंसवन-व्रत-कथनं नाम
एकोनविंशोऽध्यायः ।
॥ ६.१९ ॥
-
सर्व-काम-र्द्धये तथा। ↩︎