॥ ६.१८.१ ॥
श्री-शुक उवाच—
पृश्निस् तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् ।
अग्निहोत्रं पशुं सोमं चातुर्मास्यं महा-मखान् ॥
**श्रीधरः : **
आदित्यानां चतुर्थस्य त्वष्टुर् वंश-प्रसङ्गतः।
प्रोक्तम् इन्द्र-कृतं विश्व- रूप-वृत्र-वधादिकम् ॥
अदितेः पञ्चमादीनं पुत्राणाम् अन्वयोक्तिभिः ।
अष्टादशे दितेर् गर्भे शक्रेण मरुतां भिदा ॥
त्वष्टुर् वंशम् अनुक्रम्य स-प्रसङ्गं यथाक्रमम् ।
आदित्यानाम् अथान्येषां वंशान् आह मुनीश्वरः ॥
दक्ष-कन्यान्वयानुकथने अदित्या द्वादश पुत्राः प्रोक्ताः—
विवस्वान् अर्यमा पूषा त्वष्टाऽथ सविता भगः ।
धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ॥ इति ।
तत्र षष्ठाध्यायान् तम् आरभ्य विश्वरूप-वृत्र-चित्रकेतूपाख्यानैस् त्वष्टुर् वंशम् अनुवर्ण्येदानीं सवितुर् वंशम् आह—पृश्निस् त्व् अति । सावित्रीम् इत्य्-आदिषु प्रासूतेत्य् उत्तरस्यानुषङ्गः । पशुं पशु-यागम् । महा-मखान् पञ्च-यज्ञान् ॥१॥
**क्रम-सन्दर्भः : **पृश्निस् त्व् इति त्रिकम् ॥१॥
**विश्वनाथः : **
अष्टादशे हत-सुता दितिः कृत्वा व्रतं दधौ ।
यं तस्माच् छत्रु-सञ्छिन्नाद् गर्भाज् जज्ञे मरुद्-गणः ॥
तुर्यस्यादिति-पुत्राणां त्वष्टुर् अन्वय-कीर्तनैः ।
प्रसङ्गतः समायाताः विश्वरूप-वधादिकम् ॥
चित्रकेत्व्-अभिशापान्तां समाप्यैव कथा-सुधाम् ।
अदितेः पञ्चमादीनां सुतानां वंच उच्यते ॥
पशुं पशु-यागं महा-मखान् पञ्च-यज्ञान् ॥१॥
—ओ)०(ओ—
॥ ६.१८.२ ॥
सिद्धिर् भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् ।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.३ ॥
धातुः कुहूः सिनीवाली राका चानुमतिस् तथा ।
सायं दर्शम् अथ प्रातः पूर्णमासम् अनुक्रमात् ॥
**श्रीधरः : **धातुर् भार्या कुहूः सायं पुत्रं प्रासूत । एवं सिनीवाली दर्शम् इत्य् अनुक्रमात् ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
—ओ)०(ओ—
॥ ६.१८.४ ॥
अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः ।
चर्षणी वरुणस्यासीद् यस्यां जातो भृगुः पुनः ॥
**श्रीधरः : **समनन्तरो विधाता क्रियायां भार्यायां पुरीष्यान् अग्नीन् पञ्च चितान्,पुरीष्यासो अग्नयः इति,पञ्च वा एतेऽग्नयो यच् चित्तयःइति श्रुतेः । चर्षणी वरुणस्य भार्यासीत् । पूर्वं ब्रह्मणः पुत्रो भृगुर् यस्यां पुनर् जातः ॥४॥
**क्रम-सन्दर्भः : **अग्नीनित्यर्द्धकम् ।
**विश्वनाथः : **समनतरो विधाता क्रियायां भार्यायां पुरीष्यन् पुरीष्य-संज्ञान् अग्नीन्, पञ्च-चितीः पुरीष्यासोऽग्नयः इति श्रुतेः । चर्षणी वरुणस्य भार्यासीत् । पुनर् इति प्राग् ब्रह्म-पुत्रोऽपिपुनर् वरुण-पुत्रोऽभूत् ॥४॥
—ओ)०(ओ—
॥ ६.१८.५ ॥
वाल्मीकिश् च महा-योगी वल्मीकाद् अभवत् किल ।
अगस्त्यश् च वसिष्ठश् च मित्रा-वरुणयोर् ऋषी ॥
**श्रीधरः : **वाल्मीकिर् वरुणस्यैव पुत्रोऽभवत् । एतौ वरुणस्यासाधारणौ पुत्रौ । तथोत्सर्गादयोऽपि मित्रस्यासाधारणाः । तयोर् एव साधारणौ द्वौ पुत्राव् आह । अगस्त्यश् च वसिष्ठश् च ऋषी मित्रा-वरुणयोर् अभवताम् ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भृगु-वाल्मीकी वरुणस्यासाधारणौ पुत्रौ । तथोत्सर्गादयोमित्रस्यासाधारणाः पुत्रा वक्ष्यन्ते । तयोर् मित्रा-वरुणयोः साधारणौ द्वौ पुत्रौचाह । अगस्त्यश् च वसिष्ठश् चैतौ ऋषी मित्रा-वरुणयोर् अभवताम् ॥५॥
—ओ)०(ओ—
॥ ६.१८.६ ॥
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् ।
रेवत्यां मित्र उत्सर्गम् अरिष्टं पिप्पलं व्यधात् ॥
**श्रीधरः : **यत उभाव् अपि कुम्भे रेतः सिषिचतुः,सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् [ऋ।वे। ७.३३.२४] इति श्रुतेः । द्रुतं स्कन्नम् ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यतो रेत इत्य्-आदि,कुम्भे रेतः सिषिचतुः समानम् [ऋ।वे। ७.३३.२४] इति श्रुतेः । द्रुतं स्कन्नम् ॥६॥
—ओ)०(ओ—
॥ ६.१८.७ ॥
पौलोम्याम् इन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् ।
जयन्तम् ऋषभं तात तृतीयं मीढुषं प्रभुः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.८ ॥
उरुक्रमस्य देवस्य माया-वामन-रूपिणः ।
कीर्तौ पत्न्यां बृहच्छ्लोकस् तस्यासन् सौभगादयः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मायया स्वरूप-शक्त्या वामन-रूपवतः स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माया-मयं विष्णुं प्रवदन्ति मनीषिणः इति माध्व-भाष्य-प्रमाणित-श्रुतेः ॥८॥
—ओ)०(ओ—
॥ ६.१८.९ ॥
तत्-कर्म-गुण-वीर्याणि काश्यपस्य महात्मनः ।
पश्चाद् वक्ष्यामहेऽदित्यां यथैवावततार ह ॥
**श्रीधरः, विश्वनाथः : **पश्चाद् अष्टम-स्कन्धे ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१० ॥
अथ कश्यप-दायादान् दैतेयान् कीर्तयामि ते ।
यत्र भागवतः श्रीमान् प्रह्रादो बलिर् एव च ॥
**श्रीधरः : **अथेति । कश्यपस्यादितेः पुत्राणां द्वादशादित्यानां सन्ततिम् उक्त्वा, दितेः पुत्रान् कथयामीत्य् अर्थः ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथेति कथान्तरारम्भे दायादान् पुत्रान् दैतेयान् दित्यां जातान् ॥१०॥
—ओ)०(ओ—
॥ ६.१८.११ ॥
दितेर् द्वाव् एव दायादौ दैत्य-दानव-वन्दितौ ।
हिरण्यकशिपुर् नाम हिरण्याक्षश् च कीर्तितौ ॥
**श्रीधरः : **हिरण्यकशिपुर् हिरण्याक्षश् चेतिप्रथमं द्वाव् एव । तौ च कीर्तितौ तृतीय-स्कन्धे ॥११॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१२ ॥
हिरण्यकशिपोर् भार्या कयाधुर् नाम दानवी ।
जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१३ ॥
संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादम् एव च ।
तत्-स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥
**श्रीधरः : **विप्रचितो दानवाद् भर्तुः सकाशाद् राहुः पुत्रम् अग्रहीत् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विप्रचितो दानवाद् पत्युः सकाशाद् राहुः पुत्रम् अग्रहीत् प्राप ॥१३॥
—ओ)०(ओ—
॥ ६.१८.१४ ॥
शिरोऽहरद् यस्य हरिश् चक्रेण पिबतोऽमृतम् ।
संह्रादस्य कृतिर् भार्या- सूत पञ्चजनं ततः ॥
**श्रीधरः : **ततः संह्रादाद् असूत ॥१४॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१५ ॥
ह्रादस्य धमनिर् भार्या- सूत वातापिम् इल्वलम् ।
योऽगस्त्याय त्व् अतिथये पेचे वातापिम् इल्वलः ॥
**श्रीधरः : **यो मेष-रूपं वातापिं पेचे तम् इल्वलम् । यं पेचे तं वातापिं चासूतेत्य् अन्वयः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **य इल्वलोऽगस्त्याय । अगस्त्यं भोजयितुं वातापिं मेष-रूपं पेचे ॥१५॥
—ओ)०(ओ—
॥ ६.१८.१६ ॥
अनुह्रादस्य सूर्यायां बाष्कलो महिषस् तथा ।
विरोचनस् तु प्राह्रादिर् देव्यां तस्याभवद् बलिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१७ ॥
बाण-ज्येष्ठं पुत्र-शतम् अशनायां ततोऽभवत् ।
तस्यानुभावं सुश्लोक्यं पश्चाद् एवाभिधास्यते ॥
**श्रीधरः : **ततो बलेः सकाशाद् अभवत् तस्य बलेर् अनुभावः सुश्लोक्यः पुण्य-कीर्त्य्-अर्हः । यद् वा, , अनुभाव्यते सद्भिः स्तूयत इत्य् अनुभावम् । सुश्लोक्यं यश इति शेषः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्य बलेः अनुभावम् इत्य् आर्षम्, बाह्य-कर्म सम्बन्धेन वा ॥१७॥
—ओ)०(ओ—
॥ ६.१८.१८ ॥
बाण आराध्य गिरिशं लेभे तद्-गण-मुख्यताम् ।
यत्-पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुर-पालकः ॥
**श्रीधरः : **तस्य गणेषु मुख्यतां प्राधान्यम् ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.१९ ॥
मरुतश् च दितेः पुत्राश् चत्वारिंशन् नवाधिकाः ।
त आसन्न् अप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥
**श्रीधरः : **सात्मतां समान-रूपताम् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सात्मतां समान-स्वभावताम् देवत्वं प्रापिता इत्य् अर्थः ॥१९॥
—ओ)०(ओ—
॥ ६.१८.२० ॥
श्री-राजोवाच—
कथं त आसुरं भावम् अपोह्यौत्पत्तिकं गुरो ।
इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥
**श्रीधरः : **सात्म्यं देवत्वं प्रापिताः ॥२०॥
**क्रम-सन्दर्भः : **अपोह्य त्याजयित्वा ॥२०॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.२१ ॥
इमे श्रद्दधते ब्रह्मन्न् ऋषयो हि मया सह ।
परिज्ञानाय भगवंस् तन् नो व्याख्यातुम् अर्हसि ॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **ननु कथं भवानिमां बहिरङ्गां कथां शुश्रूषते ? तत्राह—इमे श्रद्दधत इति । मया सहेति स्वस्य गौणत्वं बोधयंस्तथैव व्यञ्जितवान् ॥२१॥
**विश्वनाथः : **इमे मुनयः श्रद्दधत इति स्वस्यैव श्रद्धां मुनिष्व् आरोपयति । रहस्यम् अर्थं तान् ज्ञापयितुम् ॥२१॥
—ओ)०(ओ—
॥ ६.१८.२२ ॥
श्री-सूत उवाच—
तद् विष्णुरातस्य स बादरायणिर्
वचो निशम्यादृतम् अल्पम् अर्थवत् ।
सभाजयन् सन् निभृतेन चेतसा
जगाद सत्रायण सर्व-दर्शनः ॥
**श्रीधरः : **आदृतं सादरम् । अल्पं मिताक्षरम् । अर्थवत् बह्व्-अर्थ-युक्तम् । सत्रमयनम् आश्रयो यस्य हे सत्रायण शौनक ॥२२॥
**क्रम-सन्दर्भः : **अत एव श्लाघते—तदिति । आदृतम् ऋषीणामादरेण सहितम् अर्थवत् एतच्च भगवद्-आराधन-विशेष-सम्बन्धेनैव भवेदिति स्वाभीष्ट-युक्तं सन्निभृतेन श्री-भगवत्-सुख-पूर्वेण अतस्तदपि भगवत्-सम्बन्धं योजयिष्यतीति भावः । टीकायां बह्व्-अर्थम् इति ऋष्य्-अभिप्रेत-श्री-शुकाभिप्रेत-सिद्धि-युक्तम् ॥२२॥
**विश्वनाथः : **अर्थवदनेकार्थ-युक्तम् । तत्रैको जिज्ञासितोऽर्थोऽस्माद् उपाख्यानाल् लभ्यते । यथा पर-हिंसाम् अभिसन्धायापि तामसीं भगवद्-भक्तिं कुर्वन्न् अशुद्ध-चित्तोऽपि निश्चलाम् अतामसीं भक्तिम् आनुषङ्गिकीं संसारान् मुक्तिं चित्त-शुद्धिं प्राप्त्या पर-जिघांसा-निवृत्तिं च लभत इत्य् अत्र दितिर् एव प्रमाणं, तथा कुटिल-चित्ता विवेकिनोऽपि यान् दोषान् परेषां पश्यन्ति, तान् एव दोषान् स्वस्मिन् स्थितान् अपि न पश्यन्ति इत्य् अत्र कृमि-विड् इत्य्-आदिक-वचनात् दितिर् एव प्रमाणम् इति द्वितीयः । स्त्री-मायया महा-विज्ञोऽपि प्रतार्यो भवतीत्य् अत्र कश्यप एव प्रमाणम् इति तृतीयः । अल्पं मिताक्षरं सन्निभृतेन सम्पूर्णेन एकाग्रीकृतेनेत्य् अर्थः । हे सत्रायण शौनक ॥२२॥
—ओ)०(ओ—
॥ ६.१८.२३ ॥
श्री-शुक उवाच—
हत-पुत्रा दितिः शक्र-पार्ष्णि-ग्राहेण विष्णुना ।
मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥
**श्रीधरः : **शक्रस्य पार्ष्णि-ग्राहेण पृष्ठतः सहायेन ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शक्रस्य पार्ष्णि-ग्राहेण पृष्ठतः सहायेन, परोक्ष-साहाय्य-कर्त्रेत्य् अर्थः ॥२३॥
—ओ)०(ओ—
॥ ६.१८.२४ ॥
कदा नु भ्रातृ-हन्तारम् इन्द्रियारामम् उल्बणम् ।
अक्लिन्न-हृदयं पापं घातयित्वा शये सुखम् ॥
**श्रीधरः : **भ्रातृ-हन्तारम् इन्द्रं मारयित्वा सुखिनी कदा स्याम् इति चिन्तयाम् आस दितिः । उल्बणं क्रूरम् । अक्लिन्न-हृदयं कठिन-चित्तम् ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **उल्बणं क्रूरम् । सुखं शये सुखेन निद्रामीत्य् अर्थः ॥२४॥
—ओ)०(ओ—
॥ ६.१८.२५ ॥
कृमि-विड्-भस्म-संज्ञासीद् यस्येशाभिहितस्य च ।
भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥
**श्रीधरः : **ननु राजा स्व-देह-रक्षार्थमन्येषां घातं करोत्य् एव किम् अत्र चित्रं तत्राह—कृमीति । ईशः प्रभुर् इत्य् अभिहितस्यापियस्य पूर्वेषां राज्ञां देहस्य मरणानन्तरं द्वि-त्रि-दिनावस्थितस्य कृमय इति, श्वादिभिर् भक्षितस्य तु विष्ठेति, दग्धस्य भस्मेति च संज्ञा आसीत् । तत्-कृते तस्य देहस्यार्थे यो भूतेभ्यो द्रुह्यति, स किं स्वार्थं वेद ? न वेदैव । तत्र हेतुः—यतो भूत-द्रोहान् निरयो भवति ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ईशाभिहतस्य ईशो राजेत्य्-अभिहितस्यापि देहस्य मरणानन्तरं द्वि-त्रि-दिनावस्थितत्वे कृमय इति, श्वादिभिर् भक्षितत्वे विष्ठेति, पुत्रादिभिर् दग्धत्वे भस्मेति संज्ञासीत् । पूर्व-पूर्व-नृपाणाम् अपि तथा दृष्टत्वाद् इति भूत-निर्देशः । तस्य देहस्य कृते यो भूतेभ्यो द्रुह्यति, स किं स्वार्थं वेद ?नैव, यतः स्वस्यैव निरयो भवति । तस्माद् इन्द्र एव विवेक-शून्य इति व्यञ्जयति । अथ च, स्वयम् एव विवेक-शून्या, यत इन्द्रं जिघांसुः, स्वयम् अपीन्द्रम् एव भूत-द्रुहं, स्वयम् अक्लिन्न-हृदयापीन्द्रम् एवाक्लिन्न-हृदयं, स्वयं स्वार्थानभिज्ञापि इन्द्रम् एव स्वार्थानभिज्ञं मन्यत । इत्य् अतो विवेकोऽप्य् अविवेकिनाम् अविवेकम् एव दृढयतीति दर्शितम् ॥२५॥
—ओ)०(ओ—
॥ ६.१८.२६ ॥
आशासानस्य तस्येदं ध्रुवम् उन्नद्ध-चेतसः ।
मद-शोषक इन्द्रस्य भूयाद् येन सुतो हि मे ॥
श्रीधरः : इदं देहादिकं ध्रुवं नित्यम् आशासानस्य मन्यमानस्य, अत उन्नद्धम् उच्छृङ्खलं चेतो यस्य, तस्येन्द्रस्य यो मदः, तस्य शोषकः पुत्रो मे येन हेतुना भूयाद् भवेत् ॥२६॥
**क्रम-सन्दर्भः : **आशासानस्येति येन भवेत्, तत् तु भर्तृ-प्रियाचरणम् एवेति भावेनेत्य् अर्थः॥२६॥
विश्वनाथः : येनैव तेन दुश्चेष्टितेन हेतुनैव तस्य मद-शोषकः सुतो मे भूयाद् इति मे प्रार्थनेत्य् अर्थः । तस्य कथम्-भूतस्य ? इदं देहादिकं ध्रुवं नित्यम् आशासानस्य मन्यमानस्य उच्छृङ्खल-चेतसः ॥२६॥
—ओ)०(ओ—
॥ ६.१८.२७-२८ ॥
इति भावेन सा भर्तुर् आचचारासकृत् प्रियम् ।
शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥
भक्त्या परमया राजन् मनोज्ञैर् वल्गु-भाषितैः ।
मनो जग्राह भाव-ज्ञा स-स्मितापाङ्ग-वीक्षणैः ॥
**श्रीधरः : **भर्तुः प्रियाचरणम् एवेति भावेन सा भर्तुः प्रियम् असकृद् आचचार॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भर्तरि तुष्यति स्त्रीणां मनोरथः सिद्ध्यति, तस्माद् अहं परिचर्यया पतिं तोषयामीति भावेन ॥२७॥
—ओ)०(ओ—
॥ ६.१८.२९ ॥
एवं स्त्रिया जडी-भूतो विद्वान् अपि मनोज्ञया1** ।**
बाढम् इत्य् आह विवशो न तच् चित्रं हि योषिति ॥
**श्रीधरः : **विवशः स्त्री-परतन्त्रः सन् बाढं तव मनोरथं पूरयिष्यामीति यदाह, तन् न चित्रम् ॥२९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **बाढं तव मनो-रथं पूरयिष्यामीति यदाह, तन् न चित्रम् ॥२९॥
—ओ)०(ओ—
॥ ६.१८.३० ॥
विलोक्यैकान्त-भूतानि भूतान्य् आदौ प्रजापतिः ।
स्त्रियं चक्रे स्व-देहार्धं यया पुंसां मतिर् हृता ॥
**श्रीधरः : **तत्र हेतुम् आह—विलोक्येति । एकान्त-भूतानि निःसङ्गानि मैथुनेन सृष्टि-वृद्ध्य्-अर्थं स्व-देहार्धम् एव स्त्रियं चक्रे ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : एकान्त-भूतानि निःसङ्गानि । मतिर् हृता, अत एव संसार-प्रवाहो ऽविच्छिन्नो ऽभूद् इति भावः ॥३०॥
—ओ)०(ओ—
॥ ६.१८.३१ ॥
एवं शुश्रूषितस् तात भगवान् कश्यपः स्त्रिया ।
प्रहस्य परम-प्रीतो दितिम् आहाभिनन्द्य च ॥
**श्रीधरः : **एवं स्त्रिया शुश्रूषितः सन् ॥३१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.३२ ॥
श्री-कश्यप उवाच—
वरं वरय वामोरु प्रीतस् तेऽहम् अनिन्दिते ।
स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥
**श्रीधरः : **इह च-कारात् परत्र च । अगमोऽप्राप्यः ॥३२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अगमोऽप्राप्यः ॥३२॥
—ओ)०(ओ—
॥ ६.१८.३३-३४ ॥
पतिर् एव हि नारीणां दैवतं परमं स्मृतम् ।
मानसः सर्व-भूतानां वासुदेवः श्रियः पतिः ॥
स एव देवता-लिङ्गैर् नाम-रूप-विकल्पितैः ।
इज्यते भगवान् पुम्भिः स्त्रीभिश् च पति-रूप-धृक् ॥
**श्रीधरः : **ननु परमेश्वरे सुप्रीते सर्व-काम-प्राप्तिर् इति प्रसिद्धं । तत्राह—पतिर् एवेति । ननु मनसि स्थितः श्री-वासुदेव एव लक्ष्मी-पतिः परं दैवतम् इति प्रसिद्धम् ? सत्यम्, स एव स्वाधिकारेण रूप-भेदैः पूज्यत इत्य् आह—मानस इति सार्धेन ।देवता-लिङ्गैर् मूर्तिभिर् उपलक्षितः । तान्य् एवाह—नाम इन्द्रादि, रूपं वज्र-हस्तत्वादि, ताभ्यां विविधं कल्पितैः ॥३३-३४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पतिः खल्व् अत्र जीव एव । स कथं परं दैवतम् ईश्वरः स्यात् ? तत्राह—मानसः मनसश् चित्तस्याधिष्ठाता यो वासुदेवः, स एव भगवान् देवतानां लिङ्गैश् चिह्नैर् इज्यते । कीदृशैः ? नाम इन्द्रादि-रूपं वज्र-हस्तत्वादि, ताभ्याम् विविधं कल्पितैः, इन्द्राय स्वाहा, अग्नये स्वाहा इत्य्-आदिभिर् नाम-रूप-भेदेन पुम्भिः कर्मि-लोकैर् भगवान् एव इज्यते यथा, तथा स्त्रीभिः पति-रूपेणेत्य् अर्थः ॥३३-३४॥
—ओ)०(ओ—
॥ ६.१८.३५-३६ ॥
तस्मात् पति-व्रता नार्यः श्रेयस्-कामाः सुमध्यमे ।
यजन्तेऽनन्य-भावेन पतिम् आत्मानम् ईश्वरम् ॥
सोऽहं त्वयार्चितो भद्रे ईदृग्-भावेन भक्तितः ।
तं ते सम्पादये कामम् असतीनां सुदुर्लभम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.३७ ॥
दितिर् उवाच—
वरदो यदि मे ब्रह्मन् पुत्रम् इन्द्र-हणं वृणे ।
अमृत्युं मृत-पुत्राहं येन मे घातितौ सुतौ ॥
**श्रीधरः : **इन्द्र-हणम् इन्द्र-हन्तारम् । अमृत्युं मृत्यु-शून्यम् । येनेन्द्रेण विष्णुना सहायेन घातितौ ॥३७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **इन्द्र-हणम् इन्द्र-हन्तारम् । हन्तेर् गत्य्-अर्थत्वात् पक्षे, इन्द्रानुगम् । अमृत्युं सर्वैर् अवध्यम् । पक्षे, देवत्वाद् अमरम् । ऊनपञ्चाशद्भिर् एक एव देवो मारुत इत्य् एक-वचनम् ॥३७॥
—ओ)०(ओ—
॥ ६.१८.३८ ॥
निशम्य तद्-वचो विप्रो विमनाः पर्यतप्यत ।
अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **विमना इति दितेर् ईप्सितोऽर्थस् तु इन्द्र-मरणं विना न सम्भवेद् इति भावः ॥३८॥
—ओ)०(ओ—
॥ ६.१८.३९ ॥
अहो अर्थेन्द्रियारामो योषिन्-मय्येह मायया ।
गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.४० ॥
कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावम् इह योषितः ।
धिङ् मां बताबुधं स्वार्थे यद् अहं त्व् अजितेन्द्रियः ॥
**श्रीधरः : **स्वभावम् अनुवर्तमानाया योषितः कोऽतिक्रमोऽपराधः ? ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अतिक्रमोऽपराधः । क्रौर्यं हि स्त्री-जातेः स्वभाव एव, तम् अनुवर्तन्त्या अनुवर्तमानायाः ॥४०॥
—ओ)०(ओ—
॥ ६.१८.४१ ॥
शरत्-पद्मोत्सवं वक्त्रं वचश् च श्रवणामृतम् ।
हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् ॥
**श्रीधरः : **स्वभावम् एवाह द्वाभ्याम् । शरत्-पद्मस्येवोत्सवो विकसो यस्मिन् । श्रवणे श्रुती, तयोर् अमृतम् । क्षुर-धारोपमं चित्तम् ॥४१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्वभावम् एवाह—शरद् इति ॥४१॥
—ओ)०(ओ—
॥ ६.१८.४२ ॥
न हि कश्चित् प्रियः स्त्रीणाम् अञ्जसा स्वाशिषात्मनाम् ।
पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च ॥
**श्रीधरः : **स्वाशिषात्मनां स्वार्थ-कामनयात्मवत्-प्रेष्ठत्वेन प्रतीयमानानाम् ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्वस्य आशिषा कामनयैव आत्मा यत्नो यासां, न तु पत्य्-आदि-सुखापेक्षयेति भावः । अलुक्-समास आशिषा शब्दष् टाब्-अन्तो वा ॥४२॥
—ओ)०(ओ—
॥ ६.१८.४३ ॥
प्रतिश्रुतं ददामीति वचस् तन् न मृषा भवेत् ।
वधं नार्हति चेन्द्रोऽपि तत्रेदम् उपकल्पते ॥
**श्रीधरः : **तत्रेदम् उपकल्पते योग्यं भवति । अयं भावः—वैष्णवं व्रतं तावद् उपदेक्ष्यामि, तेनैवास्याः शुद्ध-चित्तायाः इन्द्रं प्रति क्रोधो निवर्तिष्यते । पुत्रस् त्व् अमर्त्यो भविष्यति । दीर्घ-कालत्वे च व्रतस्य कथञ्चिद् वैगुण्ये सतीन्द्रस्य वधोऽपि न भविष्यतीति ॥४३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तत्रेदम् उपकल्पते योग्यं भवति । अयं भावः—वैष्णवं व्रतं तावद् उपदेक्ष्यामि, तेनैवास्याश् चित्त-शुद्धौ सत्याम् इन्द्रे क्रोधो निवर्तिष्यते । ततश् चेन्द्र-वधम् अनाकाङ्क्षत्यानया विहितस्य वैष्णव-व्रतस्य कामित-दुष्फल-दानानर्हत्वान् नेन्द्र-घाटी भविष्यति, किन्तु वर-प्रार्थना-प्रदान-वाक्ययोर् हन्ति-धातु-प्रयोगाद् धन्तेश् च गत्य्-अर्थत्वात् इन्द्रानुगोऽमरः पुत्रो भविष्यति । व्रतस्य दीर्घ-कालत्वे सत्य् अवश्यं वैगुण्ये च किञ्चिद् भविष्यतीति तेनैवास्या अविज्ञाया मनः समाधानं च भविष्यति । वस्तुतस् तु वैष्णव-व्रतस्य वैगुण्येऽपि फल-सिद्धिर् अवश्यं भाविनीत्य् अस्याः श्रमश् च सफल एव भविष्यतीति॥४३॥
—ओ)०(ओ—
॥ ६.१८.४४ ॥
इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन ।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.४५ ॥
श्री-कश्यप उवाच—
पुत्रस् ते भविता भद्रे इन्द्र-हा देवाबान्धवः2** ।**
संवत्सरं व्रतम् इदं यद्य् अञ्जो धारयिष्यसि ॥
**श्रीधरः : **हे भद्रे, अञ्जः यथावद् यदि धारयिष्यसि, तर्हीन्द्र-हा भविष्यति । वैगुण्ये तु देवाबान्धवो भविष्यति, वैष्णवत्वाद् व्रतस्य । कथञ्चिद् वैगुण्येऽपि सति सर्वथा वैकल्याभावात् ॥४५॥
**क्रम-सन्दर्भः : **पुत्रस्त इति । यदि व्रतं धारयिष्यसि, तदा इन्द्रहा, तथैव देवानामसुराणां च बान्धवो भविता । अन्यथा तु इन्द्रहा न भविता, देवानाम् एव बान्धवश्च भवितेत्यर्थः ॥४५॥
**विश्वनाथः : **इन्द्रहा इन्द्र-घाती अदेवानाम् असुराणां बान्धव इति दितिं बोधयितुम् इष्टोऽर्थः । इन्द्रहा इन्द्रानुगो देवानां बान्धव इति स्वाभीष्टोऽर्थः ॥४५॥
—ओ)०(ओ—
॥ ६.१८.४६ ॥
दितिर् उवाच—
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत ॥
**श्रीधरः : **कार्याण्य् आवश्यकानि । व्रतं यानि न घ्नन्ति, नावश्यकानि न च निषिद्धानि किन्त्व् अभ्यनुज्ञातानि । तानि सर्वाण्य् अपि ब्रूहि ॥४६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.४७ ॥
श्री-कश्यप उवाच—
न हिंस्याद् भूत-जातानि न शपेन् नानृतं वदेत् ।
न छिन्द्यान् नख-रोमाणि न स्पृशेद् यद् अमङ्गलम् ॥
**श्रीधरः : **तत्रैकत्रिंशन् निषेधान् आह—न हिंस्याद् इति पञ्चभिः । न शपेन् नाक्रोशेत् । यद् अमङ्गलं कपालास्थ्य्-आदिकं तन् न स्पृशेत् ॥४७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न हिंस्याद् इति प्रथमत एवेन्द्र-वधाशङ्का निषिद्धा ॥४७॥
—ओ)०(ओ—
॥ ६.१८.४८ ॥
नाप्सु स्नायान् न कुप्येत न सम्भाषेत दुर्जनैः ।
न वसीताधौत-वासः स्रजं च विधृतां क्वचित् ॥
**श्रीधरः : **नाप्सु प्रविश्य स्नायात् । पूर्वं विधृतां स्रजं पुनर् न धारयेत् ॥४८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अप्सु प्रविश्य न स्नायात् । अधौतं वासो न वसीत, न परिदध्यात् । विधृतां पूर्व-विधृतां स्रजं पुनर् न धारयेत् ॥४८॥
—ओ)०(ओ—
॥ ६.१८.४९ ॥
नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् ।
भुञ्जीतोदक्यया दृष्टं पिबेन् नाञ्जलिना त्व् अपः ॥
**श्रीधरः : **भोजने पञ्च निषेधान् आह—नोच्छिष्टम् इति । चण्डिकान्नं भद्र-काल्यै निवेदितं पिपीलिकादि-दूषितं वा । अञ्जलिना त्व् अपो न पिबेत् ॥४९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भोजने पञ्च निषेधान् आह—नोच्छिष्टम् इति । चण्डिकान्नं दुर्गा-निवेदितम्, पिपीलिका-स्पृष्टं च, चण्डिका स्यात् पिपीलिका इत्य् अभिधानात् । उदक्यया रजस्वलया ॥४९॥
—ओ)०(ओ—
॥ ६.१८.५० ॥
नोच्छिष्टास्पृष्ट-सलिला सन्ध्यायां मुक्त-मूर्धजा ।
अनर्चितासंयत-वाक् नासंवीता बहिश् चरेत् ॥
**श्रीधरः : **गृहाद् बहिर् निर्गमे सप्त निषेधान् आह—नोच्छिष्टेति । अनर्चिता मण्डन-हीना । असंवीताप्रावृता ॥५०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **गृहाद् बहिर् निर्गमे सप्त निषेधान् आह—नोच्छिष्टेति । अपृष्ट-सलिला अनाचान्ता । अनर्चिता निर्भूषणा । असंवीता अनावृत-सर्वाङ्गा ॥५०॥
—ओ)०(ओ—
॥ ६.१८.५१ ॥
नाधौत-पादाप्रयता नार्द्र-पादा उदक्-शिराः ।
शयीत नापराङ् नान्यैर् न नग्ना न च सन्ध्ययोः ॥
**श्रीधरः : **शयनेऽष्टौ निषेधान् आह—नाधौत-पादेति । नापराक् पश्चिम-शिराः ॥५१॥
**क्रम-सन्दर्भः : **अपरां पश्चिम-दिशमञ्चति शिरसा प्राप्नोति, अपराङ् तादृशं यथा स्यात्तथेति क्रिया-विशेषणत्वेऽपि तद्-विशेषणत्व एव तात्पर्यात्, पश्चिम-शिरा इत्येवार्थः । यद् वा, , अपराची प्रतीची । ततो ल्यप्-लोपे पञ्चम्य्-अन्ताद्दिक्-शब्देभ्यः [पा। ५.३.२७] इत्य्-आदिना स्वार्थ एवास्ताति-प्रत्ययः । तस्य चाञ्चतेर्लुगिति लुक् तद्-धित-लुगिति स्त्री-प्रत्ययस्य लुक् ततो अपरागिति स्थिते प्रतीचीमारभ्य तां पूर्वाङ्ग-सात्कृत्येति तथैवार्थः ॥५१॥
**विश्वनाथः : **शयने अष्टौ निषेधान् आह—नाधौत-पादेति । अप्रयता अपवित्रा । पवित्रः परयतः पूतः इत्य् अमरः । न अपराक् पश्चिम-शिराः ॥५१॥
—ओ)०(ओ—
॥ ६.१८.५२ ॥
धौत-वासा शुचिर् नित्यं सर्व-मङ्गल-संयुता ।
पूजयेत् प्रातराशात् प्राग् गो-विप्रान् श्रियम् अच्युतम् ॥
**श्रीधरः : **कार्याण्य् आह—धौत-वासा इति द्वाभ्याम् । प्रातर्-आशात् प्रथम-भोजनात् ॥५२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **कर्तव्यान् आह—प्रातर्-आशात् भोजनात् प्राक् प्रातः पूजयेत् ॥५२॥
—ओ)०(ओ—
॥ ६.१८.५३ ॥
स्त्रियो वीरवतीश् चार्चेत् स्रग्-गन्ध-बलि-मण्डनैः ।
पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठ-गतं च तम् ॥
**श्रीधरः : **वीर-वतीर् जीवद्-भर्तृकाः । आर्च्य संपूज्य । कोष्ठ-गतं कुक्ष्य्-अन्तरगतम् ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वीर-वतीर् जीवद्-भर्तृकाः । कोष्ठ-गतं कुक्ष्य्-अन्तर-गतम् ॥५३॥
—ओ)०(ओ—
॥ ६.१८.५४ ॥
सांवत्सरं पुं-सवनं व्रतम् एतद् अविप्लुतम् ।
धारयिष्यसि चेत् तुभ्यं शक्र-हा भविता सुतः ॥
**श्रीधरः : **पुं-सवनं पुत्रोत्पत्ति-करम् । तुभ्यं तव ॥५४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पुं-सवनं पुत्रोत्पत्ति-करम् ॥५४॥
—ओ)०(ओ—
॥ ६.१८.५५ ॥
बाढम् इत्य् अभ्युपेत्याथ दिती राजन् महा-मनाः ।
कश्यपाद् गर्भम् आधत्त व्रतं चाञ्जो दधार सा ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.५६ ॥
मातृ-ष्वसुर् अभिप्रायम् इन्द्र आज्ञाय मानद ।
शुश्रूषणेनाश्रम-स्थां दितिं पर्यचरत् कविः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मातृ-ष्वसुर् दितेः ॥५६॥
—ओ)०(ओ—
॥ ६.१८.५७ ॥
नित्यं वनात् सुमनसः फल-मूल-समित्-कुशान् ।
पत्राङ्कुर-मृदोऽपश् च काले काल उपाहरत् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.५८ ॥
एवं तस्या व्रत-स्थाया व्रत-च्छिद्रं हरिर् नृप ।
प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः ॥
**श्रीधरः : **हरिर् इन्द्रो व्रतस्य च्छिद्रं प्रेप्सुः प्राप्तुम् इच्छुः । जिह्मः कुटिलः साधु-वेषः । मृगहा लुब्धको यथा मृग-वञ्चनाय मृग-वेषो भवति तद्वत् ॥५८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हरिर् इन्द्रो व्रतस्य छिद्रं प्राप्तुम् इच्छुर् इतीन्द्रस्याप्य् अविज्ञत्वम् एव, यतो विष्णोः स्मरणेन कीर्तनेन वा स-च्छिद्रम् अपि निश्छिद्रं स्यात् । तस्य विष्णोर् इदं व्रतं छिद्रेऽप्य् अच्छिद्रम् एव भवेत् । यद् उक्तं—यस्य स्मृत्या च नामोक्त्या3 [स्कन्द।पु।] इति, मन्त्रतस् तन्त्रतश् छिद्रं [भा।पु। ८.२३.१६]4इत्य्-आदि च । किं चोपरिष्टाद् इन्द्रेणापि व्रतस्य निश्छिद्रताम् अनुभविष्यता वक्ष्यते—महापुरुष-पूजायाः सिद्धिः काप्य् आनुषङ्गिणी [भा।पु। ६.१८.७४] इति । जिह्मः कुटिलः । मृगहा लुब्धको मृग-वञ्चनाय यथा मृगाकृतिर् भवति, तद्वत्, तत्-परिचारक-लोकाकृतिः ॥५८॥
—ओ)०(ओ—
॥ ६.१८.५९ ॥
नाध्यगच्छद् व्रत-च्छिद्रं तत्-परोऽथ मही-पते ।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्व् इह ॥
**श्रीधरः : **केन मे शिवं स्याद् इति चिन्तां प्राप्तः ॥५९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.६० ॥
एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत-कर्शिता ।
अस्पृष्ट-वार्य् अधौताङ्घ्रिः सुष्वाप विधि-मोहिता ॥
**श्रीधरः, विश्वनाथः : **अस्पृष्ट-वारिश् चासाव् अधौताङ्घ्रिश् च ॥६०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.६१ ॥
लब्ध्वा तद्-अन्तरं शक्रो निद्रापहृत-चेतसः ।
दितेः प्रविष्ट उदरं योगेशो योग-मायया ॥
**श्रीधरः : **निद्रयापहृतं चेतो यस्याः ॥६१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **योगस्य पर-काय-प्रवेशाख्यस्य सिद्ध्य्-अर्था या माया, तया ॥६१॥
—ओ)०(ओ—
॥ ६.१८.६२ ॥
चकर्त सप्तधा गर्भं वज्रेण कनक-प्रभम् ।
रुदन्तं सप्तधैकैकं मा रोदीर् इति तान् पुनः ॥
**श्रीधरः : **मा रोदीर् इत्य् उपलालयन्न् इव तान् पुनः सप्तधा चकर्त चिच्छेद ॥६२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मा रोदीर् इत्य् उपलालयन्न् इव तान् पुनः सप्तधा चकर्त चिच्छेद । अत्राल्प-काल एव बहु-पुण्य-पाप-भोजिनो जीवस्य योगिनो वा काय-व्यूह इवैककस्यैव जीवस्योनपञ्चाशत् काय-व्यापकत्वम् इति केचित् । भावि-दृष्ट्या प्रथमम् एवैकस्मिन् देहे प्रविष्टानाम् एकोनपञ्चाशज् जीवानाम् इन्द्र-कृत-विभागेनैकैक-देह-प्राप्तिर् इत्य् अपरे । इन्द्र-कृत-खण्डेष्व् अन्येषाम् अप्य् अष्टचत्वारिंशज् जीवानां तत्-क्षण एव प्रवेशो यथा लता-गुल्मानां केषाञ्चित् खण्ड-खण्डीकृत्यैव भूमाव् आरोपितानां पृथक् पृथक् प्ररोहोद्गमात् पृथक् पृथग् जीवस्य प्रवेशोऽनुमीयते इत्य् अने च प्राहुः ॥६२॥
—ओ)०(ओ—
॥ ६.१८.६३ ॥
तम् ऊचुः पाट्यमानास् ते सर्वे प्राञ्जलयो नृप ।
किं न इन्द्र जिघांससि भ्रातरो मरुतस् तव ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **ते तम् ऊचुर् इति । अत एकस्यैव जीवस्य नाना-कायाध्यासः । यद् वा, पूर्वम् एकस्मिन् देहे बहूनां जीवानाम् अध्यवस्थवतां देह-विभाग-प्राप्तेर् इति ज्ञेयम् ॥६३॥
—ओ)०(ओ—
॥ ६.१८.६४ ॥
मा भैष्ट भ्रातरो मह्यं यूयम् इत्य् आह कौशिकः ।
अनन्य-भावान् पार्षदान् आत्मनो मरुतां गणान् ॥
**श्रीधरः : **कौशिक इन्द्रः । गणान् सप्त । सप्त-गणा वै मरुतःइति श्रुतेः ॥६४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मह्यं मम । कौशिक इन्द्रः । गणान् सप्त । सप्त-गणा वै मरुतःइति श्रुतेः ॥६४॥
—ओ)०(ओ—
॥ ६.१८.६५ ॥
न ममार दितेर् गर्भः श्रीनिवासानुकम्पया ।
बहुधा कुलिश-क्षुण्णो द्रौण्य्-अस्त्रेण यथा भवान् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.६६-६७ ॥
सकृद् इष्ट्वादि-पुरुषं पुरुषो याति साम्यताम् ।
संवत्सरं किञ्चिद् ऊनं दित्या यद् धरिर् अर्चितः ॥
सजूर् इन्द्रेण पञ्चाशद् देवास् ते मरुतोऽभवन् ।
व्यपोह्य मातृ-दोषं ते हरिणा सोम-पाः कृताः ॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **हरिणा इन्द्रेण श्री-विष्णुनेति वा ॥६७॥
**विश्वनाथः : **सात्मतां पुरुष-समानाकारत्वं, सजूः सहः ॥६७॥
—ओ)०(ओ—
॥ ६.१८.६८-७० ॥
दितिर् उत्थाय ददृशे कुमारान् अनल-प्रभान् ।
इन्द्रेण सहितान् देवी पर्यतुष्यद् अनिन्दिता ॥
अथेन्द्रम् आह ताताहम् आदित्यानां भयावहम् ।
अपत्यम् इच्छन्त्य् अचरं व्रतम् एतत् सुदुष्करम् ॥
एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.७१ ॥
इन्द्र उवाच—
अम्ब तेऽहं व्यवसितम् उपधार्यागतोऽन्तिकम् ।
लब्धान्तरोऽच्छिदं गर्भम् अर्थ-बुद्धिर् न धर्म-दृक् ॥
**श्रीधरः : **दित्या निष्कपटम् उक्ते सतीन्द्रोऽपि निष्कपटम् एवाह—अम्बेति । लब्धम् अन्तरं येन । अर्थे एव बुद्धिर् यस्य ॥७१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **दित्या निष्कपटम् उक्ते सतीन्द्रोऽपि निष्कपटम् एवाह—अम्बेति । लब्धान्तरः प्राप्त-च्छिद्रः ॥७१॥
—ओ)०(ओ—
॥ ६.१८.७२ ॥
कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **मे मया ॥७२॥
—ओ)०(ओ—
॥ ६.१८.७३ ॥
ततस् तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया ।
महापुरुष-पूजायाः सिद्धिः काप्य् आनुषङ्गिणी ॥
**श्रीधरः : **
**क्रम-सन्दर्भः : **ततस्तदिति । व्यवसितं विचारितम् । तद् एवाह—महेति ॥७३॥
**विश्वनाथः : **व्यवसितं निश्चितं तद् एवाह महेति सार्ध-द्वयम् । कापि सिद्धिर् मुक्तिर् अपि आनुषङ्गिकी ॥७३॥
—ओ)०(ओ—
॥ ६.१८.७४ ॥
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥
**श्रीधरः : अपि परं **मोक्षम् अपि ॥७४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : परं **मोक्षम् अपि । स्वार्थ-कुशला इति तेन ये त्व् आराधनेन मोक्षम् इच्छन्ति, ते वर्तमान-महा-निधेर् विनिमयेन तृणार्थिनः स्वार्थानभिज्ञाः, किन्तु विषय-साद्गुण्यात् तेऽपि कृतार्था एवेत्य् अर्थः । यद् उक्तं—सत्यं दिशत्य् अर्थितम् अर्थितो नॄणाम्5 [भा।पु। ५.१९.२७] इति ॥७४॥
—ओ)०(ओ—
॥ ६.१८.७५ ॥
आराध्यात्म-प्रदं देवं स्वात्मानं जगद्-ईश्वरम् ।
को वृणीत गुण-स्पर्शं बुधः स्यान् नरकेऽपि यत् ॥
**श्रीधरः : **गुण-स्पर्शं विषय-भोगं बुधः को वृणीते ? यद् यस्मान् नरकेऽपि विषय-भोगः स्यात् ॥७५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **देवं क्रीडा-परम् । स्वात्मानं सुन्दर-विग्रहम् ॥७५॥
—ओ)०(ओ—
॥ ६.१८.७६ ॥
तद् इदं मम दौर्जन्यं बालिशस्य महीयसि ।
क्षन्तुम् अर्हसि मातस् त्वं दिष्ट्या गर्भो मृतोत्थितः ॥
**श्रीधरः : **महीयसि महत्तमे । मृतः सन्न् उत्थितः ॥७६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१८.७७-७८ ॥
श्री-शुक उवाच—
इन्द्रस् तयाभ्यनुज्ञातः शुद्ध-भावेन तुष्टया ।
मरुद्भिः सह तां नत्वा जगाम त्रि-दिवं प्रभुः ॥
एवं ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि ।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठस्याष्टादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
मरुद्-उत्पत्तिर् नाम
अष्टादशोऽध्यायः ।
॥ ६.१८ ॥
(६.१९)
-
विदग्धया ↩︎
-
इन्द्र-हादेव-बान्धवः ↩︎
-
यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥ ↩︎
-
मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः । सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव ॥ हरि-भक्ति-विलास ११.३७६-३७७ द्रष्टव्यः। ↩︎
-
सत्यं दिशत्य् अर्थितम् अर्थितो नॄणां नैवार्थदो यत् पुनर् अर्थिता यतः । स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् ॥ ↩︎