१७ चित्रकेतूपाख्याने

॥ ६.१७.१ ॥

श्री-शुक उवाच—

यतश् चान्तर्हितोऽनन्तस् तस्यै कृत्वा दिशे नमः ।

विद्याधरश् चित्रकेतुश् चचार गगने चरः ॥

**श्रीधरः : **

ततः सप्तदशेऽमोघमहार्धि प्राप्य खे चरन् ।

विहस्य गिरिशं शापाद् उमाया वृत्रतां गतः ॥

यतो यस्याम् । तस्यै दिशे नमः नमनं कृत्वा ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

चित्रकेतुः सप्तदशे विद्याधर-पतिर् भवन् ।

विहस्य शङ्करं देव्याः शापतो वृत्रताम् अगात् ॥

यतो यस्याम् दिशि ॥१॥

—ओ)०(ओ—

॥ ६.१७.२ ॥

स लक्षं वर्ष-लक्षाणाम् अव्याहत-बलेन्द्रियः ।

स्तूयमानो महा-योगी मुनिभिः सिद्ध-चारणैः ॥

कुलाचलेन्द्र-द्रोणीषु नाना-सङ्कल्प-सिद्धिषु ।

रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम् ॥

श्रीधरः : स चित्रकेतुर् विद्याधर-स्त्रीभिर् हरिं गापयन् रेम इति द्वयोर् अन्वयः । अव्याहतं बलमिन्द्रिय-पाटवं च यस्य ॥२॥ नाना-विधाः सङ्कल्पेनैवसिद्धयो यासु तासु ॥३॥

**क्रम-सन्दर्भः : **स लक्षम् इति युग्मकम् ।_।_२॥

**विश्वनाथः : **नाना-सङ्कल्प-सिद्धिष्व् अपि सङ्कल्पान् विहाय हरिं गापयन्न् एव रेमे हरेर् गुण-चरणारविन्द-कीर्तनयोर् एव रतोऽभूद् इत्य् अर्थः ॥२-३॥

—ओ)०(ओ—

॥ ६.१७.४ ॥

एकदा स विमानेन विष्णु-दत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्ध-चारणैः ॥

**श्रीधरः : **

अकस्माद् अद्भुतैश्वर्य-गर्वात् प्राचीन-कर्मतः ।

आसुरीं योनिम् आपन्नो भवान् ईशापतः स तु ॥

तद् आह—एकदेत्य्-आदिना ॥४॥

**क्रम-सन्दर्भः : **तत्रापि प्राचीन-महद्-अपराधान्तरस्य दुष्फलत्वम् आह—एकदेति ॥४॥

**विश्वनाथः : **

भक्तिं भूतिं हरिर् दत्त्वा स्व-विच्छेदानुभूतये ।

देव्याः शापेन वृत्रत्वं नीत्वा तं स्वान्तिकेऽनयत् ॥

अस्वीकृतां स्व-देहार्धीकृताम् ॥४॥

—ओ)०(ओ—

॥ ६.१७.५ ॥

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनि-संसदि ।

उवाच देव्याः शृण्वन्त्या जहासोच्चैस् तद्-अन्तिके ॥

**श्रीधरः : **अङ्की-कृताम् उत्सङ्गेनैकी-कृत्य देवीं बाहुनालिङ्ग्य स्थितम् । उवाच जहास च । तस्यान्तिके स्थितः सन् ॥५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.६ ॥

चित्रकेतुर् उवाच—

एष लोक-गुरुः साक्षाद् धर्मं वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनी-भूय भार्यया ॥

**श्रीधरः : **धर्मं वक्ता वदति । शरीरिणां मध्ये मुख्यश् च भार्यया मिथुनीभूय चास्ते॥६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.७ ॥

जटा-धरस् तीव्र-तपा ब्रह्मवादि-सभा-पतिः ।

अङ्कीकृत्य स्त्रियं चास्ते गत-ह्रीः प्राकृतो यथा ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्राकृतो यथेति, न तु प्राकृतः साक्षाद् ईश्वरत्वाद् इति दक्षवन् नायं शिव-निन्दकोऽपराधी ज्ञेय इति भावः ॥७॥

—ओ)०(ओ—

॥ ६.१७.८ ॥

प्रायशः प्राकृताश् चापि स्त्रियं रहसि बिभ्रति ।

अयं महा-व्रत-धरो बिभर्ति सदसि स्त्रियम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **महा-व्रत-धरो नैष्ठिक-ब्रह्मचारी योगीन्द्रः प्रियं बिभर्तीत्य् अचिन्त्यम् ऐश्वर्यम् इति भावः ॥८॥

—ओ)०(ओ—

॥ ६.१७.९ ॥

श्री-शुक उवाच—

भगवान् अपि तच् छ्रुत्वा प्रहस्यागाध-धीर् नृप ।

तूष्णीं बभूव सदसि सभ्याश् च तद्-अनुव्रताः ॥

**श्रीधरः : **अगाधा गम्भीरा धीर् यस्य सः ॥९॥

**क्रम-सन्दर्भः : **अगाधे अनवगाह-महिम्नि भगवति धीर् बुद्धिर् यस्य सः । अतः शरीरादावनावेशात् तूष्णीं बभूवेति । तद्-अनुव्रता इति । अतस् तद्-अभिप्रायानुसारेणैव ते च तद्-अनुगाश् च तुष्णींबभूवुर् इत्य् अर्थः ॥९॥

**विश्वनाथः : **प्रहस्येति । माम् अपि सद्-आचारे स्थापयितुम् इच्छतीति भावः । सहसैव चित्रकेतोर् अभिप्राय-ज्ञानाद् अगाधा सर्वैर् दुष्प्रवेशा धीर् यस्य सः । चित्रकेतोर् अभिप्रायश् चायम्—अयं खल्व् ईश्वर एव नास्य दुराचारत्वेऽपि क्षतिः । यः खल्व् अनभिज्ञःइमं निन्दिष्यति तस्यापराधात् सर्व-नाशो भविष्यति, यथा दक्षस्येत्य् अत इमम् अद्यारभ्यापि यदि सदाचारे स्थापयितुम् अहं शक्नुयाम्, तदा लोकानां भद्रं स्यात् । तथा विष्णुः परमेश्वरो भद्र एव सुचरितत्वात् । रुद्रस् त्व् अभद्रो दुराचारत्वाद् इत्य् अप्रतिष्ठाप्यस्य न भवेद् इति । तद् अस्मै हितैषिणे कठोर-भाषिणेऽपि हरि-भक्ताय नाहं कुप्यामीति भगवतः शम्भोर् अभिप्रायानुसारिणः सभ्याश् च तूष्णीं बभूवुर् एव न तु चुक्रुधुः । श्री-शिव-निन्दनस्य तद्-अभिप्रेतत्वे ते सभ्या सद्य एव कर्णौ पिधाय ततो निरयास्यन्न् इति ज्ञेयम् । यद् उक्तं—भगवन्-निन्दनं श्रुत्वा तत्-परस्य जनस्य वा इत्य्-आदि ॥९॥

—ओ)०(ओ—

॥ ६.१७.१० ॥

इत्य् अतद्-वीर्य-विदुषि ब्रुवाणे बह्व्-अशोभनम् ।

रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥

**श्रीधरः : **न तस्य वीर्यं प्रभावं विद्वान् अतद्-वीर्य-विद्वांस् तस्मिन् । निर्जितात्माभिमानिने जितेन्द्रियोऽहम् इत्य् अभिमानवते इति रुषा क्रोधेनाह ॥१०॥

**क्रम-सन्दर्भः : **देवी तु न क्षन्तुं शक्तवतीत्य् आह—इत्य् अतद्-वीर्येति । वीर्य-मात्रं तादृश-लौकिक-चारित्र्याच् चादितं यन् महा-भागवतत्वं तद् अप्य् अविदुषीत्य् अर्थः । तथैवोक्तं—अगाध-धीः इति ॥१०॥

**विश्वनाथः : **न तस्य वीर्यं प्रभावं वेत्तीति तस्मिन् न हि स्वतन्त्र ईश्वरः कस्यचिद् अपि शिक्षयाकिम् अपि करोतीति भावः । अशोभनं ब्रुवाणे इति जगदीश्वरे नीति शिक्षणानौचित्यात् धृष्टाय निःशङ्क-भाषित्वाद् अतिप्रगल्भाय निःशेषेण जितो मया प्रेम-वशीकृतः आत्मा परमात्मा सङ्कर्षणोऽपीत्य् अभिमानवते । रुषेति तु महादेव-सभ्ययोर् अभिप्रायस्याज्ञानाद् एव रुड् इयम् इति न व्याख्येया । किन्तु बहु-ब्रुवाण इति हितम् अप्य् एतद् अस्मद् अनुपादित्सितम् अयं नैक-द्वान् वारान् नापि त्रि-चतुरान्, किन्तु बहून् एव वारान् ब्रूते इति क्रोधे कारणं ज्ञेयम् ॥१०॥

—ओ)०(ओ—

॥ ६.१७.११ ॥

श्री-पार्वत्य् उवाच—

अयं किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः ।

अस्मद्-विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥

**श्रीधरः : **विरुद्धं प्रकर्षेण करोतीति विप्रकृत् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विशेषेण प्रकर्षं करोतीति विप्रकृत् शासनेन हितकृद् इत्य् अर्थः ॥११॥

—ओ)०(ओ—

॥ ६.१७.१२ ॥

न वेद धर्मं किल पद्मयोनिर्

न ब्रह्म-पुत्रा भृगु-नारदाद्याः ।

न वै कुमारः कपिलो मनुश् च

ये नो निषेधन्त्य् अति-वर्तिनं हरम् ॥

**श्रीधरः : **अति-वर्तिनं शास्त्रम् अतिक्रम्य वर्तन-शीलम् । ये नो निषेधन्ति न निवारयन्ति ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.१३ ॥

एषाम् अनुध्येय-पदाब्ज-युग्मं

जगद्-गुरुं मङ्गल-मङ्गलं स्वयम् ।

यः क्षत्र-बन्धुः परिभूय सूरीन्

प्रशास्ति धृष्टस् तद् अयं हि दण्ड्यः ॥

**श्रीधरः : **एषां ब्रह्मादीनाम् अनुध्येयं पदाब्ज-युग्मं यस्य तम् । मङ्गल-मङ्गलं परम-धर्म-मूर्तिम् । सूरीन् परिभूयाज्ञान् कृत्वा जगद्-गुरुं यः प्रशास्ति । तत् तस्मात् ॥१३॥

**क्रम-सन्दर्भः : **एषामित्यस्य टीकायाम् अवज्ञां कृत्वेति पाठे तेषाम् इति शेषः । अज्ञान् कृत्वेति अज्ञान् मत्वेत्यर्थः ।_।_१३॥

**विश्वनाथः : **परिभूय मुहुर् अपि कठोरोक्त्या तिरस्कृत्य सूरीन् एतत् सभासदोऽप्य् अनभिज्ञान् ज्ञात्वा परिभूय जगद्-गुरुं प्रशास्ति ॥१३॥

—ओ)०(ओ—

॥ ६.१७.१४ ॥

नायम् अर्हति वैकुण्ठ- पाद-मूलोपसर्पणम् ।

सम्भावित-मतिः स्तब्धः साधुभिः पर्युपासितम् ॥

**श्रीधरः : **ननु हरि-भक्तोऽयं दण्डार्ह इति चेत् तत्राह—नायं साधुभिः परिसेवितं वैकुण्ठस्य पाद-मूलोपसर्पणम् अर्हति । यतः संभाविता अहम् अधिक इति कृता मतिर् येन । अत एव स्तब्धोऽनम्रः ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सम्भाविता अहं महा-भक्त इत्य् अभिमानवती मतिर् यस्य सः ॥१४॥

—ओ)०(ओ—

॥ ६.१७.१५ ॥

अतः पापीयसीं योनिम् आसुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥

**श्रीधरः : **तद् एवं स्वयं दण्ड्यत्वं निश्चित्य तं प्राह—अत इति । हे पुत्र ! यथा भूयो महतां किल्बिषम् अपराधं न कर्ता न करिष्यसि, तथा याहि इत्य् अर्थः ॥१५॥

**क्रम-सन्दर्भः : **ततश् च तं भीतं मत्वा स-कृपमाह—यथेति । एतदपराध-बीजेन पुनस्तु पूर्ववन्महद्-अपराधो न जनयिष्यत इत्य् अर्थः ॥१५॥

**विश्वनाथः : **अभिशापान्तरम् एव, “अहो किं निरपराधो हरि-भक्तः शप्तः” इति पश्चात्तापवती प्राह—हे पुत्रेति । माता यथा दुर्नयं पुत्रं स्व-हस्तेन प्रहरति प्रकृत्यैव पुनः स्निह्यति, तथैव त्वाम् अहम् अदण्डयम् इति भावः । अत एव मातृ-समुचितम् एवाह—भूय इति । बाल्य-क्रीडा-चापल्येन पर-गृह-विप्रिय-कारिणं शिशुं प्रहृत्य माता यथा ब्रूते—“हे अदान्त ! पुनर् एवं न करिष्यसि” इति तद्वद् एवेत्य् अर्थः । अत एव भवान्याः सोऽभिशापश् चित्रकेतुं नापचकार, प्रत्युत वृत्र-जन्मनि प्रेमा वृद्धिम् एव प्राप । सत्यां प्रेम-सम्पत्तौ भक्तानां पार्षद-तनुत्व-दैत्य-तनुत्वयोर् अविशेष-मननात् ॥१५॥

—ओ)०(ओ—

॥ ६.१७.१६ ॥

श्री-शुक उवाच—

एवं शप्तश् चित्रकेतुर् विमानाद् अवरुह्य सः ।

प्रसादयाम् आस सतीं मूर्ध्ना नम्रेण भारत ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.१७ ॥

चित्रकेतुर् उवाच—

प्रतिगृह्णामि ते शापम् आत्मनोऽञ्जलिनाम्बिके ।

देवैर् मर्त्याय यत् प्रोक्तं पूर्व-दिष्टं हि तस्य तत् ॥

**श्रीधरः : **पूर्व-दिष्टं प्राचीन-कर्म-प्राप्तम् एव ॥१७॥

**क्रम-सन्दर्भः : **पूर्व-दिष्टं हीति पूर्वादिष्टेनैव हि ममैषा बुद्धिर्जातेति । ननु, केवल-गुण-हेतुत्वे चेतनं कर्तारं विना बन्ध-मोक्षादिकं जीवानां न स्यात् ? तत्राह—एक इति ।_।_१७॥

**विश्वनाथः : **प्रतिगृह्णामीति ममानेन शापेन कापि क्षतिर् न भविष्यति महादेवे त्वय्य् अप्य् अकृतापराधत्वाद् इति भावः । निरागस्काय मह्यं शप्तवत्यास् तवापि नात्र कोऽपि दोष इत्य् आह—देवैर् इति । पूर्व-दिष्टं प्राचीन-कर्म-प्राप्तम् इति, भक्तस्य तस्य स्वस्मिंस् तथा भावना दैन्येन समुचितैव, वस्तुतस् तु जात-प्रेम्णस् तस्य कुतः कर्म-गन्धोऽपि प्रेम-पूर्व-दशायाम् एव, क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि [भा।पु। ११.२०.३०] इत्य्-आदिना सर्व-कर्म-क्षयोक्तेः । हरेर् भक्त-वश्यत्व-प्रसिद्धिर् भक्तानां कर्माधीनत्वे सति न सिद्ध्येत्, न हि स्वयं कर्माधीनो भगवन्तम् अधीनमायं वशीकुर्याद् इति । ततश् च तस्य शापानुग्रह-स्वर्गापवर्ग-नरकादि-सम-दर्शित्व-महा-बल-ख्यापनार्थं विद्याधराधिपत्य-कुपथ्य-दूरीकरणार्थं स्व-विरहोष्मणा प्रेम-क्षुद्-विवर्धनार्थं स्वीय-वैकुण्ठागत-स्व-चरण-साक्षात्-सेवा-महा-माधुर्य-भोग-प्रदानार्थं च स्वेनैवान्तः-प्रेरितया देव्याभिशापः श्री-सङ्कर्षण-देवेनैव भगवता स्नेहवता पित्रेव कारित इति तत्त्वं तत्-तत्-फल-दर्शनाद् अवगतम् ॥१७॥

—ओ)०(ओ—

॥ ६.१७.१८ ॥

संसार-चक्र एतस्मिन् जन्तुर् अज्ञान-मोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥

**श्रीधरः : **अयं च संसार-चक्र-स्वभाव एव न चित्रम् इत्य् आह—संसार-चक्र इति ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अयं च संसार-चक्रः स्वभाव एव न चित्रम् इत्य् आह—संसारेति ॥१८॥

—ओ)०(ओ—

॥ ६.१७.१९ ॥

नैवात्मा न परश् चापि कर्ता स्यात् सुख-दुःखयोः ।

कर्तारं मन्यतेऽप्राज्ञ आत्मानं परम् एव च ॥

**मध्वः : **यत् तद् भगवता कॢप्तं तद् एव नियतं भवेत् ॥१९॥

**श्रीधरः : **अत एवात्र मम च तव च न कोऽपि दोष इत्य् आह—नैवेति ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अप्राज्ञोऽविवेकी ॥१९॥

—ओ)०(ओ—

॥ ६.१७.२० ॥

गुण-प्रवाह एतस्मिन् कः शापः को न्व् अनुग्रहः ।

कः स्वर्गो नरकः को वा किं सुखं दुःखम् एव वा ॥

**श्रीधरः : **एवं तावत् सुख-दुःखादिकम् अङ्गी-कृत्योक्तम् । इदानीं तद् अपि वस्तुतो नास्तीत्य् आह—गुणानां माया-मयानां प्रवाहे संसारे ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं तावत् सुख-दुःखादिकम् अङ्गी-कृत्योक्तम् । इदानीं तु लवणाकरे पतितः सर्वो लवण-रस इव संसारे सर्व एव पदार्थः संसार इति सुख-दुःखादि-भेदावगमो नोपपद्यते इत्य् आह—गुण-प्रवाह इति । न ह्य् अतल-स्पर्श-प्रवाह-मध्ये पतितस्य यावत् तटान् अवाप्तिः, तावत् किम् अपि वस्तुतः सुखायेत्य् अतः शापानुग्रहादिकं सर्वम् अपि दुःखम् एवेति भावः ॥२०॥

—ओ)०(ओ—

॥ ६.१७.२१ ॥

एकः सृजति भूतानि भगवान् आत्म-मायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥

**श्रीधरः : **ननु माया-गुणानां चेद् अयं प्रवाहस् तर्हि तेषां जडत्वाद् बन्ध-मोक्षाद्य्-अनुभवो न स्यात् तत्राह—एकः परमेश्वरो मायया निमित्त-भूतया भूतानि प्राणिनः सृजति । एषां बन्धादिकं च सृजति । निष्कलः स्वयं बन्धादि-शून्यः ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु तर्ह्य् अत्र गुण-प्रवाहे को वा पातयिता को वास्माद् उद्धर्तेति चेद् भगवान् एवेत्य् आह—एक इति । आत्म-मायया रजसा सृजति, सत्त्वेन पालयति, तमसा संहरति । एषां बन्धं चाविद्यया मोक्षं च सत्त्वेन सुखं तमसा दुःखं च । निष्कलः कला माया, तद्-रहितः ॥२१॥

—ओ)०(ओ—

॥ ६.१७.२२ ॥

न तस्य कश्चिद् दयितः प्रतीपो

न ज्ञाति-बन्धुर् न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य

सुखे न रागः कुत एव रोषः ॥

**मध्वः : **सेवायोग्यातिरेकेण स्व-नामै न दास्यति ।

अपराधातिरेकेण नान्यस्यातः समो हरिः ॥ इति माहात्म्ये ॥२२॥

**श्रीधरः : **नन्व् एवं-भूत-विषम-सृष्टौ तस्य किं कारणम्, प्रियादि-वैषम्याभावाद् इत्य् आशङ्क्य यद्य् अपि प्रियादयो न सन्ति तथापि तत् तत् कर्म-वशात् सर्वं घटत इत्य् आह—न तस्येति द्वाभ्याम् । प्रतीपोऽप्रियः । न ज्ञातिर् बन्धुश् चेत्य् अर्थः । तत्र हेतुः—सर्वत्र समस्य । तत् कुतः ? निरञ्जनस्य निःसङ्गस्य । अत एव तन्-निमित्ते सुखे रागो नास्ति, रागानुबन्धी रोषः कुतः स्यात् ? ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु तस्य कश्चित् प्रियोऽप्रियश् च जीवोऽवश्यं वर्तत एव, यतः किम् अपि बध्नाति, कम् अपि मोचयति, कम् अपि सुखयतीत्य् आह—नेति । न ज्ञातिर् बन्धुः, तत्र हेतुः—सर्वत्र समस्य । समत्वे हेतुः—निरञ्जनस्य अञ्जनं माया, तद्-रहितस्य । अत एव सुखे विषय-सुखे राग आसक्तिर् नास्ति, विषय-सुख-प्रातिकूल्ये रोषो द्वेषः कुतः स्यात् ? तद् उक्तम्—

इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥ [गीता ३.३४] इति ।

तत एव राग-द्वेष-मूलकौ दयित-प्रतीपौ तस्य न स्त इति भावः ॥२२॥

—ओ)०(ओ—

॥ ६.१७.२३ ॥

तथापि तच्-छक्ति-विसर्ग एषां

सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्यु-जन्मनोः

शरीरिणां संसृतयेऽवकल्पते ॥

**श्रीधरः : **यद्य् अप्य् एव तत्रापि तस्य शक्त्या मायया यो विसर्गः पुण्य-पापादि-लक्षणं कर्म एषां शरीरिणां सुखाद्य्-अर्थम् अवकल्पते समर्थो भवति । यथोक्तं गीतासु—भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः [गीता ८.३] इति ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं तस्य साम्यं चेत्, तर्हि कथं कम् अपि स सुखयति कम् अपि दुःखयति ? इत्य् अत्राह—तथापीति । यद्यपि स सर्वत्र समः, तद् अपि तस्य शक्त्या मायया यो विसर्गः अनादि-पुण्य-पापादि-लक्षण-कर्म-परम्परा, स एव सुखाद्य्-अर्थम् अवकल्पते । अयम् अर्थः—यद्यपि मायायास् तच्-छक्तित्वात् स एव सुख-दुःखादिकं सृजतीति तस्य वैषम्यम् एव, तद् अपि मायायाः स्वरूप-शक्तित्वाभावात् स न सुख-दुःखादि सृजतीति वस्तुतस् तस्य साम्यम् एव यथा मायिक-विश्वस्य भगवद्-रूपत्वेऽपि न भगवत्-स्वरूप-भूतत्वम् इति यथा सूर्य-सम्बन्धिन आतपस्य घूक-कुमुदादीनां दुःखदत्वेन चक्रवाक-कमलादीनां सुखदत्वेन वैषम्येऽपि सूर्यस्य तेषु वैषम्यं कोऽपि न वर्णयति, तद्वद् इति भावः ॥२३॥

—ओ)०(ओ—

॥ ६.१७.२४ ॥

अथ प्रसादये न त्वां शाप-मोक्षाय भामिनि ।

यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति ॥

**श्रीधरः : **अथ तस्माद् भामिनि हे कोपने, त्वां केवलं प्रसादयामि न तु शाप-मोक्षाय । तर्हि किं प्रसादनेनात आह—ममोक्तम् उक्तिं साध्व् अप्य् असाधुवन् मन्यसे, तत् त्वया क्षम्यताम् ॥२४॥

**क्रम-सन्दर्भः : **यद्यपि मन्यसे अनुगृह्णासि, तत् तदा मम असाधूक्तं क्षम्यताम् ।_।_२४॥

**विश्वनाथः : **अथ अत एव त्वां केवलं प्रसादयामि, न तु शाप-मोक्षाय । हे भामिनि ! अविचारेण कोपने ! ननु तर्हि किं प्रसादनेन ? तत्राह—मयोक्तं साध्व् अपि यद् असाधु मन्यसे, तद् असाध्व् एवास्तु, त्वया क्षम्यताम् । मम तु शापे शापान्ते वा दुःख-सुखयोर् अभावस् ततः प्रसन्नापि शापान्तं मा कार्षीर् इति भावः ॥२४॥

—ओ)०(ओ—

॥ ६.१७.२५ ॥

श्री-शुक उवाच—

इति प्रसाद्य गिरिशौ चित्रकेतुर् अरिन्दम ।

जगाम स्व-विमानेन पश्यतोः स्मयतोस् तयोः ॥

**श्रीधरः : **गिरिशौ भवानी-शङ्करौ प्रसाद्य । स्मयतोर् विस्मयं कुर्वतोः सतोः ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्मयतोर् विस्मयवतोः सतोः ॥२५॥

—ओ)०(ओ—

॥ ६.१७.२६ ॥

ततस् तु भगवान् रुद्रो रुद्राणीम् इदम् अब्रवीत् ।

देवर्षि-दैत्य-सिद्धानां पार्षदानां च शृण्वताम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.२७ ॥

श्री-रुद्र उवाच—

दृष्टवत्य् असि सुश्रोणि हरेर् अद्भुत-कर्मणः ।

माहात्म्यं भृत्य-भृत्यानां निःस्पृहाणां महात्मनाम् ॥

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **दृष्टवत्यसि भवच्-छापेऽपि भयाभावेन तर्कितवत्यसि किम् ।_।_२७॥

**विश्वनाथः : **हे सुश्रोणि ! इति त्वं सौन्दर्य-गुणैर् एवाधिक्य-माहात्म्यासि, न तु भक्ति-ज्ञान-वैराग्यादिभिर् इति परिहासो ध्वनितः । अद्भुत-कर्मण इति हरेर् इदम् अद्भुतं कर्म मया दृष्टं यत् त्वया शापं दाप꣡ तवापकर्ष एव तेन कृतः, स्व-भक्तस्य प्रेम-सम्पद्भिर् ईषद् अपि न्यूनताम् अप्राटस्यागणित-देवी-शापत्व-रूप-प्रभाव-ख्यापनया परमोत्कर्ष एव कृतः । महात्मनाम् इति तया कोप-भरितयापि दत्तोऽभिशापस् तस्मै यदि खल्व् ईषद् अपि दुःखं दातुम् अपारयिष्यत्, तदापि ते शापः सफलोऽभविष्यत् । हन्त हन्त व्यर्थ एवायम् अभूद् इत्य् अतो महात्मसु प्रेमि-भक्तेषु त्वयाद्यारभ्य नैवं व्यवहर्तव्यम् इति शिक्षा ध्वनिता ॥२७॥

—ओ)०(ओ—

॥ ६.१७.२८ ॥

नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥

**श्रीधरः : **स्वर्गादाव् एव तुल्योऽर्थः प्रयोजनम् इति द्रष्टुं शीलं येषां ते तथा ॥२८॥

**सनातनः **(हभगवत्-सन्दर्भ।वि। १०.१९०) : कुतश्चन कस्माच्चिद् अपि देवादेः शापादेर् वा सकाशान् न भयं प्राप्नुवन्ति । यतः स्वर्गादिष्व् अपि तुल्योऽर्थः प्रयोजनम् इति द्रष्टुं शीलं येषां ते । तथा न चान्यत् किम् अपि वाञ्छन्त्य् अपीति भावः ॥२८॥

**क्रम-सन्दर्भः : **श्री-नारायणं विनान्यत्र हानोपादान-दृष्टि-राहित्यापवर्ग इव स्वर्ग इव नरके ऽपि तुल्यम् एकम् एवार्थं नारायण-रूप-पुरुषार्थं द्रष्टुम् अनुभवितुं शीलं येषां ते तुल्य-शब्दस्यैक-वाचित्वम्, रषाभ्यां नोणः समान-पदेइतिवत् ।_।_२८॥

**विश्वनाथः : **नन्व् एवं माहात्म्यवत्त्वे भक्तानां को हेतुस् तत्र नारायणैक-निष्ठत्वम् एव नान्य इत्य् आह—नारायणेति । न केवलम् एते चित्रकेतु-प्रभृतय एव, अपि तु सर्व एव । स्वर्गेति त्रयाणाम् एव भक्ति-सुख-राहित्येनारोचकत्वाविशेषाद् इति भावः ॥२८॥

—ओ)०(ओ—

॥ ६.१७.२९ ॥

देहिनां देह-संयोगाद् द्वन्द्वानीश्वर-लीलया ।

सुखं दुःखं मृतिर् जन्म शापोऽनुग्रह एव च ॥

**मध्वः : **अतोऽन्येषां वरः शापो गुण-दोष-प्रकर्तृता ।

स्वतः प्राप्ताभेद-कृतिर् वासना-रूपिणो यथा ॥
विद्यमानस्य मनसि पुनः स्वप्नेषु दर्शनम् ।
भगवद्-वशता यस्मात् सर्वेषां ज्ञेयम् एव तत् ॥ इति प्रकाश-संहितायाम् ॥२९-३०॥

**श्रीधरः : **तत्र तद् उक्तम् एव हेतुम् आह द्वाभ्याम् । देहिनां सुखं दुःखम् इत्य्-आदि-द्वन्द्वानीश्वरस्य लीलया मायया भवन्ति । तेषु च गुण-दोष-विकल्पश् चेत्य् अन्वयः ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नारायण-निष्ठत्वाभावे त्व् एवं भवेद् इत्य् आह—देहिनाम् इति । ईश्वर-लीलयेति तद्-ईक्षण-लीला-लब्ध-वलया माययेत्य् अर्थः ॥२९॥

—ओ)०(ओ—

॥ ६.१७.३० ॥

अविवेक-कृतः पुंसो ह्य् अर्थ-भेद इवात्मनि ।

गुण-दोष-विकल्पश् च भिद् एव स्रजिवत् कृतः ॥

**श्रीधरः : **इष्टान् इष्ट-भेद इव यः स्फुरति स आत्मन्य् अर्थ-भेदः सुखादि-भेदः पुंसः स्वप्ने यथा अविवेक-कृतो भवति । स्रजि-वत् सर्प-मालादिभिर् यथा तथैव कृत इत्य् अर्थः । स्रग्-वद् इति वक्तव्ये स्रजि-वद् इत्य् आर्षम् । पाठान्तरे तु सुगमम् ॥३०॥

**क्रम-सन्दर्भः : **अविवेकेत्यस्य टीकायां ते तु चेत्यध्याहृतम् इष्टानिष्टेति । गुण-दोष-विकल्पस्य व्याख्येयं भिदा यथेत्यत्र भिदा चेति ज्ञेयम् ।च-कारान्वयात्तत्-कृत इति पाठान्तरम् ।_।_३०॥

**विश्वनाथः : **तस्मान् मायिकम् अवास्तवं वस्तु सुख-दुःखादिकम् अस्थिरत्वाद् अवस्त्व् इव जानीयाद् इत्य् आह—अविवेकेति । पुंसः स्वप्ने आत्मनि अर्थ-भेदः क्षीर-भोजन-पुत्र-मरणादि इव जागरेऽपि गुण-दोष-विकल्पः सुख-दुःखादि-भेद-कृतो ज्ञेयः । तत्र दृष्टान्तः—स्रजि मालायां भित् रज्जुर् इयम् इति सर्पोऽयम् इति भेद एव, वत् यथेत्य् अर्थः । इव वद् वेति सादृश्य इत्य् अभिधानात् । स्रजि तद् इति पाठे स्रजि मालायां तत्त्वतो हेतोर् भिदा भेद इव । प्रथमे पाठे भित् क्विब्-अन्तः द्वितीये भिदा टावन्तः ॥३०॥

—ओ)०(ओ—

॥ ६.१७.३१ ॥

वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम् ।

ज्ञान-वैराग्य-वीर्याणां न हि कश्चिद् व्यपाश्रयः ॥

**श्रीधरः : **अतो भागवतानां निस्पृहत्वम् उचितम् एवेत्य् आह—वासुदेव इति । ज्ञान-वैराग्ययोर् वीर्यं बलं येषां तेषाम् । व्यपाश्रयो विशिष्ट-बुद्ध्या आश्रयणीयोऽर्थो नास्ति ॥३१॥

**सनातनः **(हभगवत्-सन्दर्भ।वि। ११.५८१) : तद् एव सर्व-नैरपेक्ष्येण द्रढयति—वासुदेव इति द्वाभ्याम् । ज्ञान-वैराग्ययोर् वीर्यं बलं येषाम् । तयोर् अपि वीर्यं येभ्य इति वा । व्यपाश्रयो विशिष्ट-बुद्ध्या आश्रयणीयोऽर्थो नास्ति ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद् एवं ज्ञानिनां द्वन्द्वेषु ज्ञानाभ्यासेनाप्य् अवस्तु-बुद्धिर् दुष्करा । भक्तानां तु ज्ञान-वैराग्ययोर् भक्त्य्-अनुभाव-रूपत्वात् विनापि ज्ञानाभ्यासेन तेष्व् अनुसन्धानम् अपि न भवतीत्य् आह—वासुदेव इति ।इह संसारे कश्चिद् अप्य् अर्थो विशेषस्याकर्षस्य चाश्रयो नास्ति । भक्त्य्-अनुसन्धानाद् एव मायिक-वस्तूनाम् उत्कर्षापकर्षानुसन्धानं नैव जायते इति भक्तानां तत् तम् अवधारयेति भावः ॥३१॥

—ओ)०(ओ—

॥ ६.१७.३२ ॥

नाहं विरिञ्चो न कुमार-नारदौ

न ब्रह्म-पुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितम् अंशकांशका

न तत्-स्वरूपं पृथग्-ईश-मानिनः ॥

**श्रीधरः : **अस्य च हरि-दासत्वेन तत् स्वभावत्वान् नैतच् चित्रम् इति वक्तुं हरेर् माहात्म्यम् आह—नाहम् इति द्वाभ्याम् । ईहितम् अभिप्रायं लीलां वा यदा वयं न विद्मस् तदा तस्य स्वरूपम् अंशकांशका अपि सन्तः पृथग्-ईश-मानिनो न विदुर् एव ॥३२॥

**क्रम-सन्दर्भः : **पृथग्-ईश-मानिनश् चेत् तर्हि वयम् अंशकांशका अपि यस्येहितं स्वरूपं च न विदाम, किन्तु भक्ताश् चेत् तर्हि सर्वेऽपि विदुर् इत्य् अर्थः ।_।_३२॥

**विश्वनाथः : **अस्मद्-आदीनाम् अपि तत्त्वं शृण्व् इत्य् आह—नाहम् इति । ईहितम् अभिप्रायं लीलां वा न विदाम, यतः पृथग्-ईश-मानिनः ॥३२॥

—ओ)०(ओ—

॥ ६.१७.३३ ॥

न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः ॥

**श्रीधरः : **अत एव हरिर् अपि सर्वेषां भूतानां प्रियः ॥३३॥

**क्रम-सन्दर्भः : **भक्त-माहात्म्यम् एव चित्रकेतु-दृष्टान्तेन स्पष्टयति—न ह्य् अस्येति द्वाभ्याम् । प्रियाप्रिययोः स्व-परयोश् च भेदो नास्तीत्य् अर्थः । तत्र हेतुः—आत्मत्वाद् इति, आत्मत्वेन साम्याद् अनपेक्षणीयत्वाच् चेत्य् अर्थः । आत्मत्वाद् एव हेतोः सर्व-भूतानां तु प्रियः निरुपाधिक-प्रीति-विषयः ।_।_३३॥

**विश्वनाथः : **हरेश् च तत्त्वं शृणु—न हीति । स तु हरिः सर्व-भूतानां प्रिय एव, तद् अपि यत् स केषाञ्चित् प्रियो न भवति, केषाञ्चिद् द्वेष्यश् च न भवति, तत्र तारतम्येन मायैव कारणम् इति तस्मान् मायायाश् च तत्त्वं ज्ञापितम् ॥३३॥

—ओ)०(ओ—

॥ ६.१७.३४-३५ ॥

तस्य चायं महा-भागश् चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र सम-दृक् शान्तो ह्य् अहं चैवाच्युत-प्रियः ॥

तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुष-भक्तेषु शान्तेषु सम-दर्शिषु ॥

**श्रीधरः : **अहं चैवाच्युतस्य प्रियः, तस्मान् ममास्मिन् द्रोहो नाभूद् इति भावः ॥३४-३५॥

**क्रम-सन्दर्भः : **विरुद्धम्, अत एवाग्रे वक्ष्यते—इतिहासम् इमं पुण्यं चित्रकेतोर् महात्मनः [भा।पु। ६.१७.४०] इति ।_।_३५॥

**विश्वनाथः : **किन्त्व् अस्य चित्रकेतोर् मम च तत्त्वं शृण्व् इत्य् आह—तस्य सर्वत्र समस्यापि ।

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥[गीता ९.२९]

इति तद्-वाक्याद् एवायम् अनुगश् चित्रकेतुः प्रियः । ममापि भक्तत्वाद् अहं च प्रियः, तस्माद् आवयोः सङ्कर्षण-भक्तयोः परस्पर-सख्येनान्तः-स्नेहवत्त्वात् कठोरोक्त्य्-आदिकम् अपि सख्य-सुख-पोषकम् एव, त्वं तु वृथैव कोपिन्य् अभूः ।

किं च, सत्यम् अहम् ईदृशी एव, त्वं त्व् आत्मानं निष्किञ्चनम् ऐकान्तिक-भक्तत्वेन सर्वत्र दर्शयसि । अथ च रहसि विद्याधरी-सहस्रेण सह रमसे, तस्मात् त्वं कपटी, अहं त्व् आत्मानं स्त्री-लाम्पट्य-मयं दर्शयन् निष्कपट एवास्मि ।

किं च, त्वं भक्तिं दर्शयसि, विषय-भोगं गोपयसि । अहं तु तद्-विपरीत एव वर्ते इत्य् आवयोर् अन्तरम् एते सभ्या एव साक्षित्वेनाचक्षताम् इत्य्-आदि-नर्म-गोष्ठी-रसास्वादोऽप्य् अद्याभविष्यद् एव । यदि त्वम् अन्तरा अन्तरायं नाकरिष्य इति त्वत्-कोप-वैरस्याद् एव स नाभूद् इत्य् उपालम्भो ध्वनितः । हन्त हन्त ! क्षत्र-बन्धुष्व् अर्वाचीनेष्व् अधुनैव भक्ति-मार्गम् आरूढेषु तवेश्वरस्यानादि-महा-भक्तस्याप्य् एतादृशेष्व् अप्य् एतावान् भावो नमस् तुभ्यं तद् इति विस्मयवत्यां तस्यां सत्यम् एतावान् एव भाव इत्य् आह—तस्माद् इति ॥३४-३५॥

—ओ)०(ओ—

॥ ६.१७.३६ ॥

श्री-शुक उवाच—

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।

बभूव शान्त-धी राजन् देवी विगत-विस्मया ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **शान्त-धीर् इति स्वीय-पूर्व-स्वभाव-स्मृत्या लज्जया पटाञ्चलेन मुखम् आच्चाद्वयामासेति भावः ॥३६॥

—ओ)०(ओ—

॥ ६.१७.३७ ॥

इति भागवतो देव्याः प्रतिशप्तुम् अलन्तमः ।

मूर्ध्ना स जगृहे शापम् एतावत् साधु-लक्षणम् ॥

**मध्वः : **देवा एव तद् अन्येभ्यः शक्ता नास्त्य् अत्र संशयः ।

अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम् ॥
तथाप्य् अशक्तैर् विहिताः शापाद्य्-अशक्तिमत्सु वै ।
अत्यल्पाश् चाल्प-कालाश् च न सम्यक् प्रभवन्ति च ॥
यत्नेनापोहितं शक्त्या उत्तमैस् तु न संशयः ।
उत्तमेषु कृताः शापाः कर्तॄणां ज्ञान-पुण्ययोः ॥
निःशेषेण निहन्तारस् तद्-अनुग्रहम् अन्तरा ।
सदारयोर् ब्रह्म-विष्णौ वर-शापादयोऽखिलाः ॥
तद् अन्येन कृताः सर्वे निष्फला एव निश्चयात् ।
न चाप्य् अवास्तवाः शापाभवन्त्य् एषां तु कुत्रचित् ॥
वर-विष्णोः श्रियश् च स्युर् ब्रह्मणश् च यथा-क्रमम् ।
उत्तमैर् अधमानां तु वराः शापा यथोदितम् ।
सम्पूर्ण-फलदा एव नात्र कार्या विचारणा ॥ इति स्कान्दे ॥३७॥

**श्रीधरः : **प्रतिशापं दातुम् अलन्-तमः समर्थ-तमोऽपि ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **चित्रकेतुर् अर्वाचीनत्वाद् अल्प-प्रभाव इति मा मंस्था इत्य् आह—इतीति । देव्या देव्यै अलं तम अतिसमर्थोऽपि ॥३७॥

—ओ)०(ओ—

॥ ६.१७.३८ ॥

जज्ञे त्वष्टुर् दक्षिणाग्नौ दानवीं योनिम् आश्रितः ।

वृत्र इत्य् अभिविख्यातो ज्ञान-विज्ञान-संयुतः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **योनिं जातिम् ॥३८॥

—ओ)०(ओ—

॥ ६.१७.३९ ॥

एतत् ते सर्वम् आख्यातं यन् मां त्वं परिपृच्छसि ।

वृत्रस्यासुर-जातेश् च कारणं भगवन्-मतेः ॥

**श्रीधरः : **असुर-जातेर् असुर-भावेनोत्पत्तेः । भगवति मतेश् च ॥३९॥

**क्रम-सन्दर्भः : **असुरजातेः कारणं महदपराधः भगवन्मतेः कारणं महदनुग्रहः ।_।_३९॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१७.४०-४१ ॥

इतिहासम् इमं पुण्यं चित्रकेतोर् महात्मनः ।

माहात्म्यं विष्णु-भक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥

य एतत् प्रातर् उत्थाय श्रद्धया वाग्-यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥

**श्रीधरः : **एतद् एतम् ॥४१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य सप्तदशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे

चित्रकेतूपाख्याने

सप्तदशोऽध्यायः ।

॥ ६.१७ ॥

(६.१८)