१६ चित्रकेतूपाख्याने

॥ ६.१६.१ ॥

श्री-बादरायणिर् उवाच—

अथ देव-ऋषी राजन् सम्परेतं नृपात्मजम् ।

दर्शयित्वेति होवाच ज्ञातीनाम् अनुशोचताम् ॥

**श्रीधरः : **

षोडशे तत् सुतोक्त्यैव विशोकी-कृत्य तं नृपम् ।

आदिदेश महा-विद्यां नारदः शेष-तोषणीम् ॥

क्रम-सन्दर्भः : संपरेतम् अतिवाहिक-देहं प्राप्तं दर्शयित्वा योग-बलेनाविर्भाव्य ॥१॥

**विश्वनाथः : **

षोडशे मृत-पुत्रोक्त्या प्रबुद्धो नारदान् मनुम् ।

प्राप्य संस्तूय शेषं तन्-मुखाज् ज्ञानं नृपोऽध्यागात् ॥

ज्ञातीनाम् इति द्वितीयार्थे षष्ठी ॥१॥

—ओ)०(ओ—

॥ ६.१६.२ ॥

श्री-नारद उवाच—

जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते ।

सुहृदो बान्धवास् तप्ताः शुचा त्वत्-कृतया भृशम् ॥

**श्रीधरः : **आदौ तावत् तत्-पुत्र-मुखेनैव पितृ-पुत्रादि-संबन्धो मिथ्येति दर्शयितुं योग-बलेन तम् एव ज्ञातीनां दर्शयित्वा जीवात्मन्न् इत्य्-आद्य् उवाच ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद् अपि शोक-मोहयोः शेषं दुर्वारम् अविलक्ष्य मृत-पुत्र-मुखेनैव तं प्रबोधयितुम् आह—जीवेति । शुचा शोकेन ॥२॥

—ओ)०(ओ—

॥ ६.१६.३ ॥

कलेवरं स्वम् आविश्य शेषम् आयुः सुहृद्-वृतः ।

भुङ्क्ष्व भोगान् पितृ-प्रत्तान् अधितिष्ठ नृपासनम् ॥

श्रीधरः : शेषम् अवशिष्टम् आयुर् अस्ति । अपमृत्युना मृतत्वाद् इत्य् अर्थः । तद् एव कलेवरं प्रविश्योत्थितो जीव उवाच । यद् वा, अन्तराले प्रेत-शरीरे स्थित्वेति ज्ञेयम् ॥३॥

**क्रम-सन्दर्भः : **टीकायाम् अपमृत्युनेति तत्-कारणकोचित-पाप-विशेषो भवति यत एव पूर्णम् आयुर् ह्रासयतीति । कलेवरं स्वम् आविश्येति विरोधात् पक्षान्तरम् आह—यद् वेति ॥३॥

विश्वनाथः : शेषम् अवशिष्टम् आयुर् व्याप्येत्य् अमृत्युना मरणं राजानम् ऊहयति । वस्तुतस् तु तस्य नास्त्य् एवायुर् मायिकत्वात् । पितृ-प्रत्तान् पित्रा दत्तान् ॥३॥

—ओ)०(ओ—

॥ ६.१६.४ ॥

जीव उवाच—

कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरोऽभवन् ।

कर्मभिर् भ्राम्यमाणस्य देव-तिर्यङ्-नृ-योनिषु ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जीव उवाचेति । तद् एव कलेवरं प्रविष्टो ऋषिर् जीवन्न् इव जीव इत्य् अर्थः । मह्यं मम ॥४॥

—ओ)०(ओ—

॥ ६.१६.५ ॥

बन्धु-ज्ञात्य्-अरि-मध्यस्थ- मित्रोदासीन-विद्विषः ।

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥

**श्रीधरः : **मयि मृते पुत्र-दृष्ट्या शोकश् चेच् छत्रु-दृष्ट्या हर्षः किं न क्रियत इत्य् आशयेन संबन्धस्यानियतत्वम् आह—बन्धवो विवाहादिभिः संबन्धिनः, ज्ञातयः स-पिण्डाः, अरयो घातकाः, मित्राणि रक्षकाः, मध्य-स्था उभय-व्यतिरिक्ताः साधारणाः, विद्विषो द्रव्यादि-निमित्तेन द्वेषिणः, उदासीनास् तद्-व्यतिरिक्ता इति भेदः ॥५॥

क्रम-सन्दर्भः : मध्य-स्थास् तस्मिन् तादृशे च मिलन्तः । उदासीना तयोर् अपि न मिलन्तः । टीकायाम् अथवा एवं सम्बन्ध इत्य् अत्र श्लोक-द्वयस्येति शेषः ॥५॥

**विश्वनाथः : **मयि मृते पुत्र-दृष्ट्या शोकश् चेत् क्रियते, शत्रु-दृष्ट्या हर्षः किं न क्रियते ? इत्य् आशयेन सम्बन्धस्यानियतत्वम् आह—बन्धवो विवाहादिभिः संबन्धिनः, ज्ञातयः स-पिण्डाः, अरयो घातकाः, मित्राणि रक्षकाः, मध्य-स्था उभय-व्यतिरिक्ताः साधारणाः, विद्विषो द्रव्यादि-निमित्तेन द्वेषिणः, उदासीनास् तद्-व्यतिरिक्ता इति भेदः ॥५॥

—ओ)०(ओ—

॥ ६.१६.६ ॥

यथा वस्तूनि पण्यानि हेमादीनि ततस् ततः ।

पर्यटन्ति नरेष्व् एवं जीवो योनिषु कर्तृषु ॥

**श्रीधरः : **कर्मभिर् भ्राम्यमाणत्वे दृष्टान्तः, यथा पण्यानि क्रय-विक्रयाद्य्-अर्हाणि कर्तृषु व्यवहर्तृषु परिभ्रमन्ति । एवं जीवोऽपि योनिषु जनकेषु ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु यदि शत्रुर् अपि पुत्रः स्यात्, तर्हि तत्रात्मीयत्वेन स्नेहः कथं स्यात् ? तत्र दृष्टान्तेन समादधाति—यथेति । पण्यानि क्रय-विक्रयाद्य्-अर्हाणि हेमादीनि हेम-मुद्रिकादीनि, यैव हेम-मुद्रा शत्रु-गृह-स्थिता स्व-वध-प्रयोजिका, सैव दैवाद् आत्म-गृहम् आगता प्रेमास्पदी-भूता भोग-प्रयोजिका च भवति । एवम् एव जीव-योनिषु मनुष्य-गो-गर्दभादिषु ये कर्तार उत्पादकाः पितरो मातरश् च, तेषु प्रविशति ॥६॥

—ओ)०(ओ—

॥ ६.१६.७ ॥

नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु ।

यावद् यस्य हि सम्बन्धो ममत्वं तावद् एव हि ॥

**श्रीधरः : **एकस्मिन्न् अपि जन्मनि सम्बन्धस्यानियतत्वं स-दृष्टान्तम् आह द्वाभ्याम् । नित्यस्य जीवतोऽप्य् अर्थस्य पश्व्-आदेः । अनित्योऽनियतः । विक्रयादिना संबन्ध-निवृत्तेः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मम जीवस्य चित्रकेतु-पुत्रत्वम् एतावन्तं कालम् आसीत्, तावद् असौ स्नेहम् अकरोद् एव । अतः परम् अन्य-पुत्रत्वं प्राप्स्यामि, स एव स्नेहं करिष्यतीत्य् अर्थान्तर-न्यासेनाह—नित्यस्यथार्थस्य स्वर्ण-मुद्राया एकस्या अपि क्रय-विक्रयादि-व्यवहारेणैकस्मिन्न् अपि दिने अन्य-जन-हस्त-गताया ममेयं नान्यस्येति सम्बन्धो ह्य् अनित्यः, तत्र च यावद् इति स्पष्टम् ॥७॥

—ओ)०(ओ—

॥ ६.१६.८ ॥

एवं योनि-गतो जीवः स नित्यो निरहङ्कृतः ।

यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥

**श्रीधरः : **एवं योनि-गतः संबन्धिनि यावद् उपलभ्येत कर्म-वशेन वर्तेत, तावद् एव तस्य पित्रादेस् तत् तस्मिन् स्वत्वं, न तु विक्रयाद् उत्तर-कालम् अपि । अथवैवं संबन्धः, यद् उक्तं कलेवरं समाविश्येति तत्र तस्मिन् कलेवरे ममेदानीं स्वत्वं निवृत्तम् इति स-दृष्टान्तम् आह—नित्यस्य चित-कालावस्थायिनः सुवर्णादेः । योनि-गतो देहं प्रविष्टः । यत्र देहे । तस्य जीवस्य तत् तस्मिन् देहे स्वत्वम्, न तु मरणोत्तर-कालम् अपीत्य् अर्थः । शेषं समानम् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वस्तुतो निरहङ्कृत एव यत्र पित्रादौ तस्य पित्रादेः । यद् वा, निरहङ्कृत एव जीवो यावद् यत्र देहे उपलभ्येत, तावद् एव तस्य तस्मिन् जीवस्य देहे स्वत्वं नान्यदा । अतोऽस्मिन् देहे सम्प्रति मम स्वत्वाभावात् कथम् अत्राहङ्कारं करोमीति, तस्मात् कलेवरं समाविश्येति तत् प्रार्थितं न घटत एवेति भावः ॥८॥

—ओ)०(ओ—

॥ ६.१६.९ ॥

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्व-दृक् ।

आत्म-माया-गुणैर् विश्वम् आत्मानं सृजते प्रभुः ॥

**मध्वः : **एष नित्योऽव्ययः । अनित्य-सम्बन्ध-युताः पित्र्-आद्यानित्य-युग् हरिः इति च । आत्मानं च अवतार-रूपेण सृजते ॥९॥

**श्रीधरः : **जीवस्य नित्यत्वं साधयति—एष नित्यः । तत्र हेतुः—अव्ययोऽपक्षय-शून्यः । तत् कुतः ? सूक्ष्मो जन्मादि-शून्यः । तच् च कुतः ? सर्वाश्रयो जन्मादिमतो देहादेर् आश्रयो, न तु देहादि-रूपः । यतः स्व-दृक् स्व-प्रकाशः । सर्वाश्रयत्वम् उपपादयति—आत्मनो मायाया गुणैर् आत्मानम् एव विश्वं विश्वात्मकं सृजति । तद् आत्मानं स्वयम् अकुरुत [तै।उ। २.७.१] इति श्रुतेः । उपादान-कारणत्वात् सर्वाश्रय इत्य् अर्थः । जीवस्य वस्तुतो ब्रह्मत्वाद् ब्रह्मण एव चिच् छक्ति-विशिष्टस्येश्वरत्वेन स्रष्टृत्वाज् जीवः सृजतीति वाचो-युक्तः । यद् वा, स्व-कर्म-द्वारा सृष्टि-निमित्तत्वेन स्रष्टृत्वं भोग्यस्य च सर्वस्य भोक्त्र्-आश्रयत्वात् सर्वाश्रयत्वं चोक्तम् इति द्रष्टव्यम् ॥९॥

**क्रम-सन्दर्भः : **तद् एवं जीवस्य पारतन्त्र्यम् उक्त्वा तत्-सिद्ध्य्-अर्थं परम् अपि दर्शयति—एष इति त्रिभिः । एष प्रत्यक्ष एव श्रुति-युक्ति-सिद्धः परमेश्वरः पुनरुक्तिर् निर्धारणार्था । सूक्ष्मो दुर्ज्ञेयः ॥९॥

**विश्वनाथः : **एवं जीवस्य पारतन्त्र्याद् अनैश्वर्याच् च ततोऽन्यः कश्चित् स्वतन्त्र ईश्वरोऽस्तीति प्रतीयते । स एष कीदृशः ? इत्य् अपेक्षायाम् आह—एष इति । जीवस्य मायया आवरणाद् अपरोक्षस्यापि परोक्षायमाणत्वात् तच्-छब्द-वाच्यत्वम् उक्तम् । ईश्वरस्य मायया अनावरणात् प्रयोक्तुर् अङ्गिरसोऽपि जीवन्मुक्तत्वेनाविद्यावरण-राहित्याद् अपरोक्षत्वेनैतच्-छब्द-वाच्यत्वम् उच्यते—एष इति । तत्र नित्यत्वम् अव्ययत्वं सूक्ष्मत्वम् इति साधारण-धर्म-त्रयम् ईश्वरस्य पारतन्त्र्यम् अनैश्वर्यम् इति त्व् असाधारण-धर्म-द्वयं जीवस्य पूर्वम् एव व्यञ्जितम् । ईश्वरस्याप्य् असाधारणान् सर्वाश्रयत्वादीन् धर्मान् वक्तुं पुनर् अप्य् एतच्-छब्दम् उपन्यस्येति एष इति । आत्म-शक्ति-मयत्वाद् आत्मानम् ॥९॥

—ओ)०(ओ—

॥ ६.१६.१० ॥

न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परोऽपि वा ।

एकः सर्व-धियां द्रष्टा कर्तॄणां गुण-दोषयोः ॥

**श्रीधरः : **यद् उक्तं सुहृद्-वृत इति सुहृदो बान्धवास् तप्ता इति च तत्राप्य् आह—न ह्य् अस्येति । तत्र हेतुः—एकः सुहृद्-आदि-सङ्ग-रहितः । तत् कुतः ? गुण-दोषयोर् हिताहितयोः कर्तॄणां मित्रादीनां याः सर्वा धियो विचित्रा बुद्धयस् तासां द्रष्टा साक्षी ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जीवस्य बन्धु-जात्य्-अरि-मध्यस्थादयो अज्ञान-निबन्धनाः, न त्व् ईश्वरस्येत्य् आह—न ह्य् अस्येति । यत् तु भक्तोऽतिप्रियः स्वश् च भक्त-द्वेषी अप्रियः, परः शत्रुश् च इति तच् च—

समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥[गीता ९.२९] इति,
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।[गीता १४.१९]

इति गीतोक्तेर् भक्त-वत्सलस्य तस्य भूषणम् एव, न तु दूषणम् । किं च, जीवा बहव एव ईश्वरस् त्व् एक एव । गुण-दोषयोर् हिताहितयोः कर्तॄणां मित्रादीनां याः सर्व-धियः विचित्रा बुद्धयस् तासां द्रष्टा साक्षी ॥१०॥

—ओ)०(ओ—

॥ ६.१६.११ ॥

नादत्त आत्मा हि गुणं न दोषं न क्रिया-फलम् ।

उदासीनवद् आसीनः परावर-दृग् ईश्वरः ॥

**मध्वः : **भोक्तासद्गुण-भोक्तृत्वान् न भोक्ता तद्-वृद्धितः ।

अचिन्त्य-शक्तितस् तच् च युज्यते परमेशितुम् ॥ इति च ॥११॥

**श्रीधरः : **यथोक्तं “भुङ्क्ष्व भोगान्” [६.१६.३] इत्य्-आदि तत्राप्य् आह—नादत्त इति । गुणं सुखम् । दोषं दुःखम् । क्रिया-फलं च राज्यादिकम् । उदासीनत्वे हेतुः—परावर-दृक् कारणस्य कार्यस्य च साक्षी, न तु भोक्ता । यत ईश्वरो देहादि-पारतन्त्र्य-शून्यः । अत एवं-भूतस्य मम च युष्माकं च संबन्धाभावाच् छोकं मा कुरुतेति वाक्यार्थः ॥११॥

क्रम-सन्दर्भः : आत्मा परमात्मा ॥११॥

**विश्वनाथः : **जीवो हि मित्रामित्रयोर् गुण-दोषौ गृह्णाति, यतः क्रिया-फलं सुखं दुःखं च भुङ्क्ते, ईश्वरस् तु नैवेत्य् आह—नादत्त इति । अत एव उदासीनवत् सर्वान्तर्यामित्वेनासीनः परावरे भद्राभद्रे साक्षित्वेन पश्यतीति सः । उदासीन इवेत्य् अरि-मित्रादि-प्रतियोग्य्-उदासीनस् तु नैवेत्य् अर्थः । अत ईश्वर-माया-निबन्धानाम् एषां चित्रकेत्व्-आदीनां महद्-अनुग्रह-मूलाम् ईश्वर-प्रपत्तिं विना शोक-मोहादि-मयोऽयं संसारो दुस्तर एवेति किं बहु-वक्तव्यम् ? इति प्रकरणार्थः ॥११॥

—ओ)०(ओ—

॥ ६.१६.१२-१३ ॥

श्री-बादरायणिर् उवाच—

इत्य् उदीर्य गतो जीवो ज्ञातयस् तस्य ते तदा ।

विस्मिता मुमुचुः शोकं छित्त्वात्म-स्नेह-शृङ्खलाम् ॥

निर्हृत्य ज्ञातयो ज्ञातेर् देहं कृत्वोचिताः क्रियाः ।

तत्यजुर् दुस्त्यजं स्नेहं शोक-मोह-भयार्तिदम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.१४ ॥

बाल-घ्न्यो व्रीडितास् तत्र बाल-हत्या-हत-प्रभाः ।

बाल-हत्या-व्रतं चेरुर् ब्राह्मणैर् यन् निरूपितम् ।

यमुनायां महाराज स्मरन्त्यो द्विज-भाषितम् ॥

**श्रीधरः : **द्विज-भाषितम् अङ्गिरसा प्रोक्तं पुत्रादीनां दुःख-हेतुत्वं स्मरन्त्यः । पुत्र-कामना-शून्या निर्मत्सराः सत्य इति भावः ॥१४॥

**क्रम-सन्दर्भः : **बालघ्न्य इति सार्धकम् ॥१४॥

विश्वनाथः : बाल-हत्या-हत-प्रभा इति । हत-प्रभत्वेनैव लक्षणेन बालघ्न्य एता एवेति । यदा सर्वे विदित-तत्त्वास् तदा व्रीडितास् ताः “सत्यं वयम् एव पामर्यो बालम् अहन्म” इति वचसा निष्कपटीभूयाङ्गिरः-प्रभृति-ब्राह्मणोपदिष्टं प्रायश्चित्तम् आचेरुः ॥१४॥

—ओ)०(ओ—

॥ ६.१६.१५ ॥

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर् द्विजोक्तिभिः ।

गृहान्ध-कूपान् निष्क्रान्तः सरः-पङ्काद् इव द्विपः ॥

**श्रीधरः : **निविड-पङ्क-तुल्यं गृहं विहाय निष्क्रमणम् अतिधीरस्य तस्यैव योग्यं नान्यस्येति स-दृष्टान्तम् आह—स इत्थम् इति । सरसः पङ्काद् द्विपो गज इव ॥१५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.१६ ॥

कालिन्द्यां विधिवत् स्नात्वा कृत-पुण्य-जल-क्रियः ।

मौनेन संयत-प्राणो ब्रह्म-पुत्राव् अवन्दत ॥

**श्रीधरः : **कृतः पुण्य-जल-क्रियाः पितृ-तर्पणाद्या येन । संयत-प्राणो नियतेन्द्रियः ॥१६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.१७ ॥

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने ।

भगवान् नारदः प्रीतो विद्याम् एताम् उवाच ह ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एताम् ॐ नमस् तुभ्यम् [१८] इत्य्-आदि, परम-परमेष्ठिन् नमस् ते [२५] इत्य् अन्ताम् ॥१७॥

—ओ)०(ओ—

॥ ६.१६.१८ ॥

ॐ नमस् तुभ्यं भगवते वासुदेवाय धीमहि ।

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥

**श्रीधरः : **नमो धीमहि ध्यायेम । मनसा नमस्याम इत्य् अर्थः ॥१८॥

**क्रम-सन्दर्भः : **तत्र श्री-भगवत्त्वेन नमस्यति—भगवत इति । तद्-व्यूहत्वेन वासुदेवायेति सङ्कर्षणस्यान्ते पाठः स्वोपास्यत्वेन तत्रैव विश्रान्तेः ॥१८॥

विश्वनाथः : तुभ्यं नमः, तुभ्यं धीमहि, त्वां प्रसादयितुम् ध्यायेमः । परमात्मत्वेन जीव-वैलक्षण्यम् आह नवभिर् विशेषणैः । विज्ञानं चिच्-छक्तिर् एव मात्रा परिच्छेदो यस्य तस्मै जीवस् त्व् अविद्या-परिच्छद इत्य् अर्थः । मात्रा कर्ण-विभूषायां वित्ते माने परिच्छद इति मेदिनी ॥१८॥

—ओ)०(ओ—

॥ ६.१६.१९ ॥

नमो विज्ञान-मात्राय परमानन्द-मूर्तये ।

आत्मारामाय शान्ताय निवृत्त-द्वैत-दृष्टये ॥

**श्रीधरः : **निवृत्ता द्वैत-दृष्टिर् यस्मात् ॥१९॥

**क्रम-सन्दर्भः : **ब्रह्मत्वेन नमस्यति—विज्ञान-मात्रायेति । अत्र मूर्तिः स्वरूपं निवृत्त-द्वैत-दृष्टय इति यस्मिन् दृष्टे अन्यत्र दृष्टिर् न भवतीत्य् अर्थः ॥१९॥

विश्वनाथः : परमानन्द-मयी मूर्तिर् यस्य, जीवस् तु पाञ्चभौतिक-मूर्तिः । आत्मानन्द एव रममाणाय, जीवस् तु विषयानन्दे रमते । निवृत्ता द्वैते मायिक-प्रपञ्चे दृष्टिर् आसक्ति-मयी यस्य, जीवस् तु मायिक-प्रपञ्चे आसज्जते ॥१९॥

—ओ)०(ओ—

॥ ६.१६.२० ॥

आत्मानन्दानुभूत्यैव न्यस्त-शक्त्य्-ऊर्मये नमः ।

हृषीकेशाय महते नमस् तेऽनन्त-मूर्तये ॥

श्रीधरः : न्यस्ता निरस्ताः शक्त्य्-ऊर्मयो माया-निमित्ता राग-द्वेषादयो येन ॥२०॥

**क्रम-सन्दर्भः : **तच् चानिवृत्त-द्वैत-वादतो विशिष्य दर्शयति—आत्मानन्देति । स्वरूपानन्दस्यानुभवेनान्यस्ताः नानुसंहिताः शक्त्य्-अन्तर-परम्परा येन तस्मै अनुभवस्य स्वरूपाभिन्नत्वेऽपि तृतीयार्थाधिक्यात् स्वरूप-शक्तिर् एव सिद्ध्यति । परमात्मत्वेन नमस्यति—हृषीकेशायेति, विश्व-कारणत्वेन, महत इति, विश्वत्वेन अनन्त-मूर्तय इति ॥२०॥

विश्वनाथः : न्यस्ता नितराम् अस्ताः शक्त्य्-ऊर्मयो माया-निमित्ता राग-द्वेषादयो यत्र, जीवस् तु प्राप्त-राग-द्वेषादि-तरङ्गः । हृषीकेशाय सर्वेन्द्रिय-नियन्त्रे, जीवस् तु इन्द्रिय-नियम्यः । महते, जीवस् तु क्षुद्रः । अनन्ता अविनाश्या मूर्तयो यस्य, जीवस् तु विनाश्य-शरीरः ॥२०॥

—ओ)०(ओ—

॥ ६.१६.२१ ॥

वचस्य् उपरतेऽप्राप्य य एको मनसा सह ।

अनाम-रूपश् चिन्-मात्रः सोऽव्यान् नः सद्-असत्-परः ॥

**मध्वः : **बाह्य-मनसा सह वचस्य् उपरते चिन्मात्र-मनसा सह प्राप्यः ॥२१॥

श्रीधरः : मनसा सह वचस्य् अप्राप्योपरते सति य एक एव प्रकाशते । वचसीति सर्वेन्द्रियोपलक्षणम् । सोऽस्मान् अव्यात्सद्-असत्-परः कार्य-कारणयोः कारणम् ॥२१॥

**क्रम-सन्दर्भः : **पुनर् भगवन्तं ब्रह्म-स्वरूपत्वेन विशेषतः स्तौति—वचसीति द्वाभ्याम् ॥२१॥

**विश्वनाथः : **निर्विशेष-ब्रह्मत्वेन प्रणमति—वचसीति ॥२१॥

—ओ)०(ओ—

॥ ६.१६.२२ ॥

यस्मिन्न् इदं यतश् चेदं तिष्ठत्य् अप्येति जायते ।

मृण्मयेष्व् इव मृज्-जातिस् तस्मै ते ब्रह्मणे नमः ॥

**मध्वः : **मृण्मयेष्व् इव मृज्-जातिः ।

पृथिवी-पर्वताश् चैव मृण्मयाः समुदीरिताः ।
तेषु मृज्-जातयः सर्वे जायन्ते स्थावरादयः ॥ इति च ॥२२॥

**श्रीधरः : **तद् एवाह—यस्मिन्न् इति । यस्मिन्न् इदं कार्य-कारणं तिष्ठत्य् अप्येति च, यतश् च जायते, मृण्-मयेषु घटादिषु मृज्-जातिर् मृण्-मात्रम् इव सर्वानुस्यूतं यत्, तस्मै ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जगत्-कारणत्वेन प्रणमति—यस्मिन्न् इदं जगत् तिष्ठति, यतो जायते, यस्मिन्न् अप्य् एति लीयते । मृण्-मयेषु घटादिषु मृज्-जातिः, यथा कारणम् इत्य् अर्थः ॥२२॥

—ओ)०(ओ—

॥ ६.१६.२३ ॥

यन् न स्पृशन्ति न विदुर् मनो-बुद्धीन्द्रियासवः ।

अन्तर् बहिश् च विततं व्योमवत् तन् नतोऽस्म्य् अहम् ॥

**श्रीधरः : **ननु सर्वानुस्यूतं चेन् मृज्-जाति-वत् प्रतीयेत, कथं मनो-वचसोर् अप्राप्तिः ? तत्राह । यद् ब्रह्म व्योमवद् विततम् अप्य् असवः प्राणाः क्रिया-शक्त्या न स्पृषन्ति, मन-आदीनि च ज्ञान-शक्त्या न विदुःतद् ब्रह्म नतोऽस्मि ॥२३॥

**क्रम-सन्दर्भः : **परमात्मत्वेन स्तौति—यन् नेति द्वाभ्याम् ॥२३॥

**विश्वनाथः : **इन्द्रियाद्य्-अगम्यत्वेन प्रणमति—यद् इति । क्रिया-शक्त्या न स्पृशन्ति, ज्ञान-शक्त्या न विदुः । तस्य विदूर-वर्तित्वाद् इति चेत् तत्राह—अन्तर् देहादीनाम् अन्तर् अपि बहिर् अपि च ॥२३॥

—ओ)०(ओ—

॥ ६.१६.२४ ॥

देहेन्द्रिय-प्राण-मनो-धियोऽमी

यद्-अंश-विद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लौहम् इवाप्रतप्तं

स्थानेषु तद् द्रष्ट्र्-अपदेशम् एति ॥

**श्रीधरः : **तेषां तद्-अज्ञाने हेतुम् आह—देहेन्द्रियादयोऽमी यद्-अंश-विद्धा यच्-चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्व-स्व-विषयेषु प्रचरन्ति जाग्रत्-स्वप्नयोः । अन्यदा सुषुप्ति-मूर्च्छादौ नैव प्रचरन्ति, यथा अप्रतप्तं लोहं न दहति । अतो यथा लौहम् अग्नि-शक्त्यैव दाहकं सद्, अग्निं विना न दहति, एवं ब्रह्म-गत-ज्ञान-क्रिया-शक्तिभ्यां प्रवर्तमाना देहादयस् तन् न स्पृशन्ति न विदुश् चेति भावः ।

जीवस् तर्हि द्रष्टृत्वाज् जानातु ? नेत्य् आह—स्थानेषु जाग्रद्-आदिषु द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञां तद् एव एति प्राप्नोति, नान्यो जीवो नामास्ति, नान्योऽतोऽस्ति द्रष्टा [बृ।आ।उ। ३.७.२३] इत्य्-आदि-श्रुतेः । यद् वा, द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञं जीवम् अपि तद् एवैति जानाति, न तु जीवस् तज् जानातीत्य् अर्थः । तद् उक्तं हंस-गुह्य-स्तोत्रे देहोऽसवोऽक्षा1 [भा।पु। ६.४.२५] इत्य्-आदि ॥२४॥

**क्रम-सन्दर्भः : **देहेन्द्रिय इति । अत्राद्वैत-शारीरकेऽपि साङ्ख्यम् आक्षिप्योक्तं, यथा, अथ पुनः साक्षि-निमित्तम् ईक्षितृत्वं प्रधानस्य कल्प्येत यथाग्नि-निमित्तम् अयः-पिण्डादेर् दग्धृत्वं, तथा सति यन्-निमित्तम् ईक्षिततृत्वं प्रधानस्य, तद् एव सर्वज्ञं मुख्यं जगतः कारणम् [शङ्कर-भाष्य, १.१.५] इति ।

श्रुतिश् चात्र—तम् एव भान्तम् अनुभाति [कठ।उ। २.२.१५], को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तै।उ। २.७], चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् [बृ।आ।उ। ४.४.१८] इत्य्-आद्याटीकोत्थापित-श्रुतौ2 च, जीवो नामतो नान्यः स्वयं-सिद्धो नास्ति, परन्तु तद्-आत्मक एवेत्य् अर्थः । तथातोऽन्यो द्रष्टा नास्ति, सर्व-द्रष्टुस् तस्यापरो द्रष्टा नास्तीत्य् अर्थः इति व्याख्येयम्॥२४॥ [भगवत्-सन्दर्भ १५]

देहेन्द्रिय-प्राण-मनो-धियोऽमी

यद्-अंश-विद्धाः प्रचरन्ति कर्मसु ।

नैवान्यदा लौहम् इवाप्रतप्तं

स्थानेषु तद् द्रष्ट्र्-अपदेशम् एति ॥

**विश्वनाथः : **तेषां तद्-अज्ञाने हेतुम् आह—देहेन्द्रियेति । यद्-अंश-विद्धाः यच् चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्व-स्व-विषयेषु **चरन्ति **जाग्रत्-स्वप्नयोः, अन्यदा सुषुप्तिः मूर्च्छादौ नैव प्रचरन्ति । यद् वा, **अप्रतप्तं लौहं **न दहति । अतो यथा लौहम् अग्नि-शक्त्यैव दाहकं सद् अग्निं न दहति, एवम् एव ब्रह्म-शक्त्यैव स्व-स्व-विषयेषु प्रवर्तमाना देहादयो ब्रह्म न स्पृशन्ति, नापि जानन्तीति भावः ।

जीवस् तर्हि द्रष्टृत्वाज् जानातु ? तत्राह—स्थानेषु जाग्रद्-आदिषु द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञं जीवम् अपि कर्म-भूतं तद् ब्रह्मैव कर्तृ एति जीवस्य द्रष्टृत्व-सिद्ध्य्-अर्थं, स्वीय-किञ्चिच्-चैतन्य-प्रापणेन स्वयम् एव तं प्राप्नोतीत्य् अर्थः । मम आदाय इव जीवा अपि जडा इति च केऽप्य् आचक्षते । यद् वा, तद् ब्रह्मैव तम् एति जानाति, न तु जीवो ब्रह्म जानातीत्य् अर्थः । यद् उक्तं हंस-गुह्य-स्तवे—देहोऽसवोऽक्षा [भा।पु। ६.४.२५] इत्य्-आदि ॥२४॥

—ओ)०(ओ—

॥ ६.१६.२५ ॥

ॐ नमो भगवते महा-पुरुषाय महानुभावाय महा-विभूति-पतये सकल-सात्वत-परिवृढ-निकर-कर-कमल-कुड्मलोपलालित-चरणारविन्द-युगल परम-परमेष्ठिन् नमस् ते।

श्रीधरः : सकला ये सात्वत-परिवृढाः, तेषां निकरः समूहः, तस्य कर-कमलानां कुड्मलैर् मुकुलैर् उपलालितं चरणारविन्द-युगलं यस्य, तस्य संबोधनम् । परम् उत्कृष्ट । परमेष्ठिन् सर्वेश्वर ॥२५॥

**क्रम-सन्दर्भः : **साक्षाद्-भगवत्त्वेन स्तौति—ॐ नम इति । तद् एवं सङ्कर्षणोपासनापि द्वारम् एव । तस्य सात्वत-शास्त्र-विग्रहत्वेन [६.१६.३३] वक्ष्यमाणत्वात् परमं फलं तु श्री-भगवान् इत्य् अभिप्रेतम् ॥२५॥

**विश्वनाथः : **महा-मन्त्रस्य ज्ञान-प्रकाशकत्वम् उक्त्वा भक्ति-रस-परिपूर्णत्वम् आह—ॐ इति । सकल-सात्वत-परिवृढाः सर्व-भक्त-श्रेष्ठाः, तेषां निकरस्य कर-कमलानां कुट्मलेन उपलालितं लघु लघु संवाहन-वैदग्ध्या प्रीणितं चरणारविन्द-युगलं यस्य, हे तथाभूतेति माम् अपि स्व-पाद-संवाहन-सेवायां स्थापयेत्य् अभिलाषो ध्वनितः ।

ननु त्वाम् अतिनिकृष्टं तस्याम् अत्युत्कृष्ट-सेवायां कथं नियुञ्जे ? इत्य् अत आह—हे परम परमेष्ठिन्, परम परमेश्वर कर्तुम् अन्यथा-कर्तुं च समर्थः ॥२५॥

—ओ)०(ओ—

॥ ६.१६.२६ ॥

श्री-शुक उवाच—

भक्तायैतां प्रपन्नाय विद्याम् आदिश्य नारदः ।

ययाव् अङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥

श्रीधरः : पूर्वे स-नारदोऽङ्गिरा आजगामेत्य् अङ्गिराः प्राधान्येनोक्तः । चित्रकेतोः पुत्र-प्रदत्वेन तस्य पृथग्-उक्तत्वात् । इह तु नारदोङ्गिरसा साकं ययाव् इति नारदस्य प्राधान्य-निर्देशः । तद्-उपदेशेन तस्य वैराग्योत्पत्तेः । प्रभो ! हे समर्थ ! ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एताम् इत्य् अनेक-वाक्य-गर्भाम् एकाम् एव विद्यां महतीम् । अत्र चित्रकेतवे पुत्र-प्रदत्वेनाङ्गिरसः प्राधान्यं, मन्त्र-प्रदत्वेन तु नारदस्य । अत एव पूर्वम् अङ्गिराः स-नारद आजगामेत्य् उक्तं, सम्प्रति ययाव् अङ्गिरसा नारद इत्य् उच्यते । हे प्रभो ! एतद्-आद्य्-अभिप्राय-ज्ञाने परम-समर्थ ! ॥२६॥

—ओ)०(ओ—

॥ ६.१६.२७ ॥

चित्रकेतुस् तु तां विद्यां यथा नारद-भाषिताम् ।

धारयाम् आस सप्ताहम् अब्-भक्षः सुसमाहितः ॥

**श्रीधरः : **यथा यथावद् धारयाम् आस ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.२८ ॥

ततः स सप्त-रात्रान्ते विद्यया धार्यमाणया ।

विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥

श्रीधरः : विद्याधराधिपत्यं चावान्तर-फलं लेभेअप्रतिहतम् अस्खलितम् ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रथमम् अवान्तर-फलम् आह—विद्याधराधिपत्यम् इति ॥२८॥

—ओ)०(ओ—

॥ ६.१६.२९ ॥

ततः कतिपयाहोभिर् विद्ययेद्ध-मनो-गतिः ।

जगाम देव-देवस्य शेषस्य चरणान्तिकम् ॥

**मध्वः : **अन्यान्तर्यामिनं विष्णुम् उपास्यान्य-समीपगः ।

भवेद् योग्यतया तस्य पदं वा प्राप्नुयान् नरः ॥ इति नारदीये ।

अनेन प्रकारेण मुहुस् तत्-सकाशम् अभ्यगात् ।

शेषान्तर्यामिनं विष्णुं चित्रकेतुर् उपास्यतु ।
शेषाविष्ट-हरेश् चापि वरान् प्राप्यपतद् गतिम् ॥ इति तन्त्र-मालायाम् ॥२९॥

श्रीधरः : कतिपयैर् अहोभिःविद्ययेद्धेन दीप्तेन मनसा गतिर् यस्य ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मुख्यं फलम् आह—जगामेति ॥२९॥

—ओ)०(ओ—

॥ ६.१६.३० ॥

मृणाल-गौरं शिति-वाससं स्फुरत्-

किरीट-केयूर-कटित्र-कङ्कणम् ।

प्रसन्न-वक्त्रारुण-लोचनं वृतं

ददर्श सिद्धेश्वर-मण्डलैः प्रभुम् ॥

श्रीधरः : मृणालवद् गौरम्शिति-वाससं नीलाम्बरम् । स्फुरन्ति किरीटादीनि यस्य । कटित्रं कटि-सूत्रम् । प्रसन्नानि वक्त्राणि यस्य । अरुणानि लोचनानि यस्य तं च तं च ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : सिति-वाससं नीलाम्बरं, कटित्रं कटि-सूत्रम् ॥३०॥

—ओ)०(ओ—

॥ ६.१६.३१ ॥

तद्-दर्शन-ध्वस्त-समस्त-किल्बिषः

स्वस्थामलान्तःकरणोऽभ्ययान् मुनिः ।

प्रवृद्ध-भक्त्या प्रणयाश्रु-लोचनः

प्रहृष्ट-रोमानमद् आदि-पुरुषम् ॥

**श्रीधरः : **दृष्ट्वा च तम् आदि-पूरुषम् अभ्ययाच् छरणं गतः । अनमन् ननाम । कथं-भूतः ? तस्य दर्शनेन ध्वस्तं समस्तं किल्बिषं यस्य । स्वच्छम् अमलं चान्तः-करणं यस्य । प्रणयेनाश्रु-मुक्ते लोचने यस्य । प्रहृष्टानि रोमाणि यस्य सः ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तद्-दर्शनेति । किल्बिष-मात्रं भगवत्-प्राप्त्य्-असंभावना-मयं दुःखं ज्ञेयम् । दृष्ट्वा च अभ्ययात् अभिमुखम् अगच्छत् । अभ्येत्य चानमत् ॥३१॥

—ओ)०(ओ—

॥ ६.१६.३२ ॥

स उत्तमश्लोक-पदाब्ज-विष्टरं

प्रेमाश्रु-लेशैर् उपमेहयन् मुहुः ।

प्रेमोपरुद्धाखिल-वर्ण-निर्गमो

नैवाशकत् तं प्रसमीडितुं चिरम् ॥

**श्रीधरः : **तं प्रसमीडितुं स्तोतुं चिरं नैवाशकन् न शशाक । तत्र हेतुः—उत्तम-श्लोकस्य पादाब्जयोर् विष्टरम् आसनम् उपमेहयन्न् अभिषिञ्चन् । प्रेम्णोपरुद्धोऽखिलानां वर्णानां निर्गम उच्चारणं यस्य सः ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नत्वा तुष्टावेत्य् आह—स इति । विष्टरं मानसं, उपमेहयन् अभिषिञ्चन् ॥३२॥

—ओ)०(ओ—

॥ ६.१६.३३ ॥

ततः समाधाय मनो मनीषया

बभाष एतत् प्रतिलब्ध-वाग् असौ ।

नियम्य सर्वेन्द्रिय-बाह्य-वर्तनं

जगद्-गुरुं सात्वत-शास्त्र-विग्रहम् ॥

श्रीधरः : मनीषया बुद्ध्या मनः समाधायैतद् वक्ष्यमाणं बभाषेप्रतिलब्धा वाक् येन । सात्वत-शास्त्रोक्तो विग्रहो यस्य तम् ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : प्रतिलब्ध-वाक् तत्-कृपयैवेत्य् अर्थः । सात्वत-शास्त्रोक्तो विग्रहो देहो यस्येत्य् अनेन ज्ञान-शास्त्रोक्तस्य माया-मय-विग्रहत्वस्य प्रामाण्यं वारितम् ॥३३॥

—ओ)०(ओ—

॥ ६.१६.३४ ॥

चित्रकेतुर् उवाच—

अजित जितः सम-मतिभिः

साधुभिर् भवान् जितात्मभिर् भवता ।

विजितास् तेऽपि च भजताम्

अकामात्मनां य आत्मदोऽतिकरुणः ॥

**श्रीधरः : **

अन्योन्य-प्रेमजानन्द-निभृतान् स्वामि-सेवकान् ।

अभिनन्दन् मुदा स्तौति दशभिः पञ्चभिर् विभुम् ॥

हे अजित ! अन्यैर् अजितोऽपि भवान् साधुभिर् भक्तैर् जितः स्वाधीन एव कृतः । यतो भवान् अतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो भवान् अकामात्मनाम् आत्मानम् एव ददाति॥३४॥

**क्रम-सन्दर्भः : **हरि-भक्ति-सुधोदये च प्रह्लादं प्रति श्री-मुख-वाक्यम्—

स-भयं सम्भ्रमं वत्स मद्-गौरव-कृतं त्यज ।
नैष प्रियो मे भक्तेषु स्वाधीन-प्रणयी भव ॥
अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् ।
निःशङ्क-प्रणयाद् भक्तो यन् मां पश्यति भाषते ॥
सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेह-रज्जुभिः ।
अजितोऽपि जितोऽहं तैर् अवश्योऽपि वशीकृतः ॥
त्यक्त-बन्धु-जन-स्नेहो मयि यः कुरुते रतिम् ।
एकस् तस्यास्मि स च मे न चान्योऽस्त्य् आवयोः सुहृत् ॥ [ह।भ।सु। १४.२७-३०] इति ।

तस्मात् साधु व्याख्यातं भगवत्-प्रतीति-रूपा वृत्तिर् मायादिमयी न भवति । किं तर्हि स्वरूप-शक्त्य्-आनन्द-रूपा यदानन्द-पराधीनः श्री-भगवान् अपीति । यथा च श्रीमती गोपालोत्तर-तापनी श्रुतिः—विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७९] इति ॥३४॥ [प्रीति-सन्दर्भः ६६]

**विश्वनाथः : **परस्पर-वशी-भाव-लभ्यानन्द-रसाम्बुधौ, मज्जेतां भगवद्-भक्तौ भक्त्यैवेत्य् आह संस्तुवन्—हे अजित ! ज्ञानि-योगि-प्रभृतिभिस् त्वम् अजित एव, साधुभिर् भक्तैस् तु भवान् जितः अधीनीकृतः सम-मतिभिः स्वकीय-सुख-दुःख-सम-बुद्धिभिर् जितात्मभिर् जित-मनस्कत्वेन मनो-धर्मस्य कामस्यापि जितत्वात् निष्कामैः तेषां तद्-उपासने निष्कामत्वम् एव त्वज्-जये कारणम् इति भावः ।

ते साधवोऽपि भवता विजिताः, यतो भजताम् अकामात्मनां भजद्भ्यो निष्कामेभ्यः यो भवान् आत्मदः आत्मानम् एव ददाति । यदि यूयं मां परिचर्य किम् अप्य् अपवर्गादिकम् अपि मत्तो नैव वृणुध्वे, तर्हि यथेष्टं रात्रिन्दिनं माम् एव परिचरथ माम् ऋणीकुरुथेत्य् आत्मानं तेभ्यो ददद् एव बलाद् आत्मनः सौन्दर्य-सौस्वर्य-सौरभ्यादीनि तन्-नयन-चरणारविन्दादीन्द्रिय-भोगार्थम् अर्पयतीत्य् अर्थः । तेन तद्-विजये भवतोऽप्य् आत्मदत्वम् एव कारणम् इति भावः ।

अत्र साधुभिर् इति ज्ञानिभिर् अपीति न व्याख्येयम् । उत्तरार्धे भजताम् अकामात्मनाम् इति विशेषण-द्वयस्य तद्-व्यवर्तकत्वात्, ज्ञानिनां भजनं तु मोक्ष-सिद्ध्य्-अर्थं साधन-दशायाम् एव । अत्र तु भजताम् इति वर्तमान-निर्देशः । निष्कामत्वं त्व् आत्यन्तिक-दुःख-निवृत्ति-कामत्वात् तेषां नास्त्य् एव ॥३४॥

—ओ)०(ओ—

॥ ६.१६.३५ ॥

तव विभवः खलु भगवन्

जगद्-उदय-स्थिति-लयादीनि ।

विश्व-सृजस् तेऽंशांशास् तत्र

मृषा स्पर्धन्ति पृथग् अभिमत्या ॥

**श्रीधरः : **ननु भक्तैर् एव जित इति कथम् ? स्पर्धमानैर् अपि सृष्ट्य्-आदि-कर्तृभिर् अन्यैर् ईश्वरैर् जय-सम्भवात् तत्राह—तवेति । जगत उदयादीनि तवैव विभवो विभवनं महिमा लीलेति यावत् । आदि-शब्देन प्रवेश-नियमनादीनि । विश्व-सृजस् तु ब्रह्मादयो नेश्वराः किन्तु ते तवांशो यः पुरुषस् तस्यांशाःतत्र एवं-स्थितेऽपि “पृथक् पृथग् ईश्वरा वयम्” इत्य् अभिमानेन वृथैव स्पर्धन्ते ॥३५॥

क्रम-सन्दर्भः : विश्व-सृजः ब्रह्म-रुद्रेन्द्राद्याः अंशांशाः अत्यल्पांशा इत्य् अर्थः ॥३५॥

**विश्वनाथः : **एवं प्रभु-भक्तयोः परस्पर-वशीभावम् आख्याय प्रभोः प्रभावम् आह—तवेति त्रिभिः । विभवो महिमा । ननु ब्रह्मादयो **जगद्-उदयादि-**हेतवो दृश्यन्ते । तत्राह—विश्वेति । ननु ब्रह्म-रुद्रादि-भक्ताः स्व-स्व-सेव्यानाम् एव जगद्-ईश्वरत्वं प्रतिपादयन्तो मिथः स्पर्धन्ते इत्य् अत आह—तत्र मृषेति । पृथग्-अभिमत्या वयं हैरण्यगर्भाः शैवाः सौरा इत्य्-आद्य्-अभिमानवन्तः ॥३५॥

—ओ)०(ओ—

॥ ६.१६.३६ ॥

परमाणु-परम-महतोस्

त्वम् आद्य्-अन्तान्तर-वर्ती त्रय-विधुरः ।

आदाव् अन्तेऽपि च सत्त्वानां

यद् ध्रुवं तद् एवान्तरालेऽपि ॥

**श्रीधरः : **त्वम् एव सृष्ट्य्-आदि-कर्तेत्य् एतद् उपपादयति—परमाणुः सूक्ष्म-मूल-कारणम् । परम-महद् अन्तिमं कार्यम् । तयोस् त्वम् एवाद्य्-अन्तान्तर-वर्ती । आदाव् अन्ते चान्तरे मध्ये च वर्तितुं शीलं यस्य सः । अत एव त्रय-विधुर आद्य्-अन्त-मध्य-शून्यो ध्रुवः । ते च त्वया सृज्यन्ते न तु ध्रुवाः । कुत इत्य् अत आह—सत्त्वानां सत्त्वेन प्रतीतानां कार्याणाम् आदाव् अन्तेऽपि यद् ध्रुवम् अनपाय्य्-अन्तरालेऽपि च तद् एव ध्रुवं सुवर्णादिवत् ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्वम् एव सृष्ट्य्-आदि-कर्ता वास्तव-वस्तु-रूप इत्य् उपपादयति—परमाणुः सूक्ष्मं मूल-कारणम् परम-महद् अन्तिमं कार्यम् । तयोस् त्वम् एवाद्य्-अन्तान्तर-वर्ती । आदाव् अन्ते अन्तरे मध्ये च वर्तितुं शीलं यस्य सः । अत एव त्रय-विधुर आद्य्-अन्त-मध्य-शून्यो नित्यं, यतः सत्त्वानां कार्य-वस्तूनाम् आदौ अन्ते च यत् ध्रुवं कारणत्वेन स्थिरं तद् एव अन्तरालेऽपि सुवर्णादिवत् । अतस् त्वम् एव सर्व-कारणं वास्तवं वस्तु अन्यत् सर्वं कार्य-जातम् अवास्तवं वस्त्व् इत्य् अर्थः ॥३६॥

—ओ)०(ओ—

॥ ६.१६.३७ ॥

क्षित्य्-आदिभिर् एष किलावृतः

सप्तभिर् दश-गुणोत्तरैर् अण्ड-कोशः ।

यत्र पतत्य् अणु-कल्पः

सहाण्ड-कोटि-कोटिभिस् तद् अनन्तः ॥

**श्रीधरः : **एवं ध्रुवत्वेन कालतः परिच्छेदो नास्तीत्य् उक्तं देशतोऽप्य् अपरिच्छेदम् आह—क्षित्य्-आदिभिर् इति । पूर्वस्मात् पूर्वस्माद् दश-गुणम् उत्तरोत्तरैर् अधिकैर् आवृतः । यत्र त्वय्य् अणु-कल्पोऽणुतुल्यः पतति परिभ्रमति तत् तस्माद् अनन्तस् त्वम् ॥३७॥

**क्रम-सन्दर्भः : **दश-गुणा उत्तरोत्तरा येषां तैरित्य् अर्थः ॥३७॥

**विश्वनाथः : **एवं कालतः परिच्छेदाभावम् उक्त्वा देशतोऽप्य् अपरिच्छेदम् आह—क्षित्य्-आदिभिः क्षिति-जल-तेज-आकाशाहङ्कार-महत्-तत्त्व-प्रकृतिभिः पूर्वस्मात् पूर्वस्माद् दश-गुणाधिकैर् आवृतः । यत्र त्वय्य् अणु-कल्पः पतति परिभ्रमति तत् तस्माद् अनन्तस् त्वम् ॥३७॥

—ओ)०(ओ—

॥ ६.१६.३८ ॥

**विषय-तृषो नर-पशवो **

य उपासते विभूतीर् न परं त्वाम् ।

तेषाम् आशिष ईश

तद् अनु विनश्यन्ति यथा राज-कुलम् ॥

**श्रीधरः : **यस्माद् एवं परमेश्वरस् त्वम् एवाऽन्ये देवास् तव विभूतयोऽतस् त्वा विहाय विषय-कामनयान्योपासका अति-मन्दा इत्य्-आह—विषयेषु तृट् तृष्णा येषां ते नराकाराः पशवः । कुतः, ये विभूतीर् इन्द्राद्या उपासते न तु परं त्वाम् । ततः किम् ?तत्राह—तेषाम् इति । तद् अनु उपास्य-नाशानन्तरम् । यथा राज-कुलम् अनु राज-कुल-नाशान् अन्तरं तत् सेवकानाम् आशिषो नश्यन्ति तद्वत् । अयं च परमोऽवधिर् मध्येऽपि नश्यन्त्य् एव ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं प्रभोः सर्वोत्कर्षम् आख्याय भक्तस्यापि तम् अभक्त-निन्दया प्रथमं व्यतिरेकेणाह—विषयेति । विभूतीर् इन्द्राद्याः, न तु त्वाम् । उपास्य-नाशानन्तरम् । यथा राज-कुल-नाशानन्तरं तत्-सेवकानाम् आशिषो नश्यन्ति ॥३८॥

—ओ)०(ओ—

॥ ६.१६.३९ ॥

**काम-धियस् त्वयि रचिता **

न परम रोहन्ति यथा करम्भ-बीजानि ।

**ज्ञानात्मन्य् अगुणमये **

गुण-गणतोऽस्य द्वन्द्व-जालानि ॥

**श्रीधरः : **विषय-कामेनापि कृता त्वत् सेवा मोक्ष-फलैवेत्य् आह—काम-धियो विषय-कामना अपि हे परम, त्वयि रचिताः कृताश् चेन् न रोहन्ति देहान्तरोत्पत्तये न भवन्ति । करम्भ-बीजानि भर्जित-बीजानि यथा । यतोऽस्य जीवस्य गुण-गणाद् एव द्वन्द्व-समूहा भवन्ति । अतः कामेनापि निर्गुणस्य तव भजनाच् छनैर् नैर्गुण्यं भवतीत्य् अर्थः ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भक्तस्योत्कर्षं कैमुतिक-न्यायेनान्वयेनाह—कामा राज्याद्यास् तद्-अर्थ-धियो मतयस् त्वयि रचिताः कृताश् चेत्, न रोहन्ति देहान्तरोत्पत्तये न भवन्ति, यथा करम्भ-बीजानि भृष्ट-यव-बीजानि, तथैव । यद्यपि काम-धियोऽन्यत्र रोहन्त्यो दृष्टाः भृष्ट-बीज-तुल्या न भवन्ति, तद् अपि विषय-साद्गुण्याद् भवन्तीत्य् आह—ज्ञानात्मनि चिन्मये अगुण-मये गुण-मयात् पदार्थाद् भिन्ने । अतो रस-कूप-पतितं वस्तु यथा रस एव भवेद् एवं त्वयि प्रविष्टाः काम-धियोऽपि चिन्-मय्यो भवतीति कथं तासां संसार-हेतुत्वं स्याद् इत्य् अर्थः । यतो गुण-गणत एव द्वन्द्व-जालानि संसार-कारणानि भवन्ति ॥३९॥

—ओ)०(ओ—

॥ ६.१६.४० ॥

जितम् अजित तदा भवता

यदाह भागवतं धर्मम् अनवद्यम् ।

निष्किञ्चना ये मुनय

आत्मारामा यम् उपासतेऽपवर्गाय ॥

**श्रीधरः : **फल-कामनयापि त्वद्-आराधनं यदा मोक्ष-हेतुस् तदा किं वक्तव्यं भगवद्-धर्म-माहात्म्यम् ? इति वक्तुं तत्-संप्रदाय-प्रवर्तकत्वेन च भगवन्तं स्तौति—जितम् इति । यदा भवान् भागवतं धर्मम् आह, तदा हे भगवन् ! त्वया जितं सर्वोत्कर्षेण स्थितम् । तत्र हेतुः—ये निष्किञ्चनाः सनत्कुमारादयो मुनयः, ते यं भवन्तम् **अपवर्गाय **सेवन्ते तेन भवता जितम् । यं धर्मम् इति वा ॥४०॥

**क्रम-सन्दर्भः : **जितम् इति निजोत्कर्ष आविष्कृतः । भगवन्न् इति पाठः स्वामि-सम्मतः भवतेति तु प्रायः सर्वत्र ॥४०॥

भक्ति-सन्दर्भः (१२०): अशेषोपदेष्टुर् अपि तद्-उपदेशेनैव भगवतः परम उत्कर्ष उच्यते । यथा—जितम् अजित इति । जितम् इत्य् अत्र भवता इति ज्ञेयम् । आह इत्य् अत्र भवान् इति ॥

**विश्वनाथः : **यद्य् एवं स्व-महिम्ना स-कामाया अपि भक्तेः श्रैष्ठ्यं, तदा किम् उत निष्कामायाः ? किं च, भक्तेर् निष्कामत्वं च त्वत्-प्रवर्तितम्, अतो निष्काम-भक्तेर् यत् तव जयः पूर्व-प्रतिपादितस् तत्रापि परम-कृपालुः स्व-भक्त-वशीभावेप्सुस् त्वम् एव कारणम् इत्य् अतो वस्तुतस् तवैव विशेषतो जय इत्य् आह—जितम् इति ।

हे अजित ! भागवतं धर्मम् अनवद्यं निष्कामं यदैव भवान् आह, **तदैव जितं **भवतैव भक्ता ऋणीकृताः । येनैव निष्काम-भक्ति-योगेन भक्तैर् भवान् जीयते, तस्य त्वयैवोक्तत्वात् तद्-गुणं, त्वम् एव स्व-भक्ताधीनत्वाभिलाष-साधकं कृपा-विशेषम् आस्वादयन्तः प्रत्युत एव भक्ताः स्वयम् एव ऋणीभूय स्थिता भवन्तीति भावः ।

ये निष्किञ्चनाः प्रथमत एव शुद्धाः, तथा तत्-सङ्गतस् त्यक्त-स्व-निष्ठा मुनयस् तापसा आत्मारामा जीवन्-मुक्ताश् च केचन यम् एव धर्मम् उपासते । यद् वा, निष्किञ्चना इत्य् अस्यैव विशेषण-द्वयम् । मुनयस् त्वन्-मनन-शीला आत्मारामास् त्वय्य् एव रममाणा इत्य् अर्थः ।

अपवर्गाय अपकृष्टा वर्गाश् चत्वारोऽपि यतस् तस्मै प्रेम्णे अपवर्गश् च भवति । योऽसाव् [भा।पु। ५.१९.२०] इत्य्-आदि-पञ्चम-स्कन्धीय-गद्योक्त-लक्षणाय भक्ति-योगायेति वा ॥४०॥

—ओ)०(ओ—

॥ ६.१६.४१ ॥

विषम-मतिर् न यत्र नृणां

त्वम् अहम् इति मम तवेति च यद् अन्यत्र ।

विषम-धिया रचितो यः

स ह्य् अविशुद्धः क्षयिष्णुर् अधर्म-बहुलः ॥

**श्रीधरः : **अनवद्यताम् एवाह—विषम-मतिर् यत्र यस्मिन् भागवते धर्मे नास्तियद् अन्यत्र यथान्यस्मिन् काम्ये धर्मे । ननु सोऽपि वेदोक्तत्वाद् अनवद्य एव ? तत्राह—विषम-धिया शत्रु-मरणादि-कामनया **रचितो **विहितो यः स ह्य् अविशुद्धः, राग-द्वेषादिमत्त्वात्, क्षयिष्णुश् च नश्वर-फलत्वात्, अधर्म-बहुलश् च हिंसादि-बाहुल्यात् । तद् उक्तं शबर-स्वामिभिः—उभयम् इह चोदनायां लक्ष्यतेऽर्थोऽनर्थश् च इत्य्-आदि ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यत्र भागवते धर्मे त्वम् अहम् इति मम तव इत्य् अहन्तास्पद-ममतास्पदयोर् विषम-मतिर् उत्तर-श्लोकार्थ-दृष्ट्या द्वेष-निबन्धन-वैषम्यवती मम तव त्वम् अहं शत्रुर् इति मतिर् नास्ति यत्, या अन्यत्र काम्य-धर्मे इत्य् अर्थः । काम्य-धर्मम् एव निन्दति—विषम-धिया शत्रु-मरणादि-कामनया रचितो यः स ह्य् अविशुद्धः राग-द्वेषादि-मयत्वात्, क्षयिष्णुश् च नश्वर-फलत्वात्, अधर्म-बहुलश् च हिंसादि-बाहुल्यात् । तद् उक्तम् शवर-स्वामिना—उभयम् इह चोदनायां लक्ष्यतेऽर्थोऽनर्थश् च इत्य्-आदि ॥४१॥

—ओ)०(ओ—

॥ ६.१६.४२ ॥

कः क्षेमो निज-परयोः

कियान् वार्थः स्व-पर-द्रुहाधर्मेण ।

स्व-द्रोहात् तव कोपः

पर-सम्पीडया च तथाधर्मः ॥

**श्रीधरः : **एतत् प्रपञ्चयति—कः क्षेमः किं कुशलम् ? न किञ्चित् । निज-परयोः स्वस्य परस्य च स्व-पर-द्रुहा, स्वस्मै परस्मै च द्रुह्यतीति स्व-पर-ध्रुक्, तेन । यतः स्व-द्रोहाद् अत्यन्त-काय-क्लेशात् तव कोपः पीडा सम्भवति । तद् उक्तं गीतासु—

कर्शयन्तः शरीरस्थं भूत-ग्रामम् अचेतसः ।
मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥ [गीता १७.५] इति ।

तथा पर-सम्पीडयाअधर्मः-शब्दात् तव कोपश् च । अतस् त्वया रागान्धम् अपि कथञ्चिद् वेद-मार्गे प्रवर्तयितुं काम्य-धर्मोऽभिहितोन तत्त्व-दृष्ट्या ॥४२॥

**क्रम-सन्दर्भः : **निज-संसार-हेतुत्वात् स्व-द्रुहा पुमान् भवाब्धिं न तरेत्, स आत्म-हेतिवत्पश्व्-आद्य्-उपालम्भात् पर-द्रुहाच्चेत्यर्थः । कोपः औदास्य-मयः क्रोधः । अधर्मोऽशुद्धो धर्मः ॥४२॥

**विश्वनाथः : **उक्तम् अर्थं स्पष्टयति—कः क्षेमः किं कुशलम् ? निज-परयोर् निजस्याहन्तास्पदस्यात्मनः परस्य ममतास्पदस्य पुत्र-कलत्रादेर् न किञ्चिद् इत्य् अर्थः ।स्वस्मै परस्मै च द्रुह्यतीति स्व-पर-ध्रुक्, तेन । यतः स्व-द्रोहात् पर-हिंसार्थकात्यन्त-स्व-काय-क्लेश-कर-तपो-व्रतादेः । अधर्मः पापं त्वत्-कोपश् च ॥४२॥

—ओ)०(ओ—

॥ ६.१६.४३ ॥

न व्यभिचरति तवेक्षा

यया ह्य् अभिहितो भागवतो धर्मः ।

स्थिर-चर-सत्त्व-कदम्बेष्व्

अपृथग्-धियो यम् उपासते त्व् आर्याः ॥

**श्रीधरः : **भागवत-धर्मेण तु न द्रोह इत्य् आह—नेति । न व्यभिचरति न परमार्थं जहाति । तव ईक्षा दृष्टिः । अव्यभिचारे हेतुः—स्थिरेति । स्थावर-जङ्गम-प्रानि-समूहेषु सम-बुद्धयो भागवता यं धर्मं सेवन्ते ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु क्षयिष्णुत्वादि-दोष-बाहुल्येऽपि काम्य-धर्मे फल-दर्शनात् प्रवर्तते, निर्दोषेऽपि निष्काम-धर्मे फादर्शनात् प्रवृत्तौसंशेरते जनास् तत्राह—नेति । तवेक्षा मद्-भक्त्या जीवः कृतार्थीभवतीति परामर्शो न व्यभिचरतीति काम्य-धर्मे कदाचित् फलस्यापि व्यभिचारः स्यान् न तु त्वदीयेक्षायाः । अत एव आर्या इत्य् अनार्यास् तु संशेरतां नामेति भावः । अपृथग्-धियः स्वस्य परस्य च सुख-दुःखेषु पृथग्-बुद्धि-रहिता आर्या इति आर्याख्यं च्छन्दश् चेदम् इति दर्शितम् ॥४३॥

—ओ)०(ओ—

॥ ६.१६.४४ ॥

न हि भगवन्न् अघटितम् इदं

त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।

यन्-नाम सकृच् छ्रवणात्

पुक्कशोऽपि विमुच्यते संसारात्3** ॥**

**श्रीधरः : **एवम्-भूतस्य भागवत-धर्म-प्रवर्तकस्य तव दर्शनात् सर्व-पाप-क्षयो भवतीति किं चित्रम् इत्य् आह—नहीति ॥४४॥

**सनातनः **(ह।भ।वि। ११.४८६) : साक्षात्4 स्वयम् एव विमुक्तो भवति, इत्य् अनन्य-साधनतोक्ता । यद् वा, साक्षाद् इति वर्तमान-तच्-छरीर एवेत्य् अर्थः । एतच् च प्रारब्ध-विनाशित्वे पूर्वं लिखितार्थम् एव ॥४४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

भक्ति-सन्दर्भः (२४८) : तादृशस्यापि सकृच्-छ्रवणेऽपि मुक्ति-फल-प्राप्तेः, उत्तमस्य तच्-छ्रवणे तु परम-भक्तिर् एव फलम् इत्य् अभिप्रेतम् ॥४४॥

**विश्वनाथः : **निष्काम-धर्मस्य मयैव साक्षात् फलं लब्धम् इत्य् आह—न हीति । नृणाम् इति ममैवेति भावः । पाप-क्षयस्य का वार्ता, मोक्षोऽपि भवतीत्य् आह—यन्-नाम एकस्यैव, किम् उत बहूनाम् ? सकृद् एव, किं पुनर् असकृत् ? श्रवणाद् एव, किम् उत कीर्तनादेः ? पुक्कशोऽपि, किम् उतान्यः ? संसाराद् एव, किम् उत पापाद् इति साधनारम्भ एव फल-दर्शनम् इति ॥४४॥

—ओ)०(ओ—

॥ ६.१६.४५ ॥

अथ भगवन् वयम् अधुना

त्वद्-अवलोक-परिमृष्टाशय-मलाः ।

सुर-ऋषिणा यत् कथितं

तावकेन कथम् अन्यथा भवति ॥

**श्रीधरः : **अतोऽहं कृतार्थोऽस्मीत्य् आह—अथेति । अथ अतो हेतोफ् तवावलोकनेन परिमृष्टा निरस्ता आशये चित्ते मला येषां ते । त्वद्-दर्शनं च मम नारदोपदेशेन जातम् इत्य् आह—सुर-ऋषिणेति ॥४५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अतोऽहं कृतार्थोऽस्मीत्य् आह—अथेति ॥४५॥

—ओ)०(ओ—

॥ ६.१६.४६ ॥

विदितम् अनन्त समस्तं

तव जगद्-आत्मनो जनैर् इहाचरितम् ।

विज्ञाप्यं परम-गुरोः

कियद् इव सवितुर् इव खद्योतैः ॥

**श्रीधरः : **यथा चाहं पूर्वम् अतिमूढ आसं, यथा च नारदेनानुगृहीतोऽस्मि तत्-सर्वान्तर्यामिनस् तव मया किं प्रकाशनीयम् इत्य् आह—विदितम् इति । विशेषेण ज्ञाप्यं प्रकाशनीयं कियद् इव न किम् अपीत्य् अर्थः । सवितुर् यथा स्व-द्योतैः प्रकाशनीयं नास्ति तद्वत् ॥४६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विषयान्धोऽप्य् अहं स्व-भक्तं प्रेष्य संसार-कूपाद् उद्धृत्य स्व-चरणान्तिकम् आनीत इत्य्-आदि किं विज्ञापयामीत्य् आह—विदितम् इति । सवितुः स्वतरीव त्वयि खद्योतैर् इवास्माभिः किं प्रकाशनीयम् ॥४६॥

—ओ)०(ओ—

॥ ६.१६.४७ ॥

नमस् तुभ्यं भगवते

सकल-जगत्-स्थिति-लयोदयेशाय ।

दुरवसितात्म-गतये

कुयोगिनां भिदा परमहंसाय ॥

**श्रीधरः : **उक्त-लक्षणं भगवन्तं प्रणमति—नम इति द्वाभ्याम् । सकलस्य जगतः स्थित्य्-आदीनाम् ईशाय समर्थाय । दुरवसिताऽविज्ञाता आत्म-गतिर् निज-तत्त्वं यस्य तस्मै । केषाम्? कुयोगिनाम् । केन ? भिदा भेद-दृष्ट्या ॥४७॥

**क्रम-सन्दर्भः : **नम इति । भिदा नानोपास्य-भेद-दृष्ट्या कुयोगिनां दुरवसितेति । यद् वा, भिदा भेद-मय्या भक्त्या । परमहंसायेति परेणान्वयः । तया शुद्ध-रूपत्वेन हृत्-कमल-विहारिण इत्य् अर्थः ॥४७॥

**विश्वनाथः : **भिदा भेद-दृष्ट्या हेतुना ये कुयोगिनस् तेषां परमहंस-स्वरूपेणोद्धारकायेत्य् अर्थः ॥४७॥

—ओ)०(ओ—

॥ ६.१६.४८ ॥

यं वै श्वसन्तम् अनु विश्व-सृजः श्वसन्ति

यं चेकितानम् अनु चित्तय उच्चकन्ति ।

भू-मण्डलं सर्षपायति यस्य मूर्ध्नि

तस्मै नमो भगवतेऽस्तु सहस्र-मूर्ध्ने ॥

**श्रीधरः : श्रीधरः : **श्वसन्ति चेष्टन्ते । चेकितानं पश्यन्तम् अनु चित्तयो ज्ञानेन्द्रियाणि उच्चकन्ति स्वारूढं पश्यन्ति ॥४८॥

**क्रम-सन्दर्भः : **उच्च-कन्ति स्वरूपं पश्यन्ति यस्य एव ज्ञान-शक्त्य्-अंशेनैव स्व-स्व-ज्ञानं लभन्त इत्य् अर्थः । “कनीदिप्ति-कान्ति-गतिषु” इत्यस्य यङ्-लुग्-अन्तस्य रूपमिदम् ॥४८॥

**विश्वनाथः : **श्वसन्तं चेष्टमानं विश्व-सृजः कर्मेन्द्रियाणि श्वसन्ति चेष्टन्ते, यं चेकितानं पश्यन्तं चित्तयः ज्ञानेन्द्रियाणि उच्चकन्ति स्व-स्व-विषयं पश्यन्ति ॥४८॥

—ओ)०(ओ—

॥ ६.१६.४९ ॥

श्री-शुक उवाच—

संस्तुतो भगवान् एवम् अनन्तस् तम् अभाषत ।

विद्याधर-पतिं प्रीतश् चित्रकेतुं कुरूद्वह ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.५० ॥

श्री-भगवान् उवाच—

यन् नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम् ।

संसिद्धोऽसि तया राजन् विद्यया दर्शनाच् च मे ॥

**श्रीधरः : **मेऽनुशासनं मद्-विषय उपदेशः । तेन तया च विद्ययाऽस्माच् च दर्शनात् संसिद्धोऽसि ॥५०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मेऽनुशासनं श्रवण-कीर्तनादि-भजनं तेन तया, विद्यया नारदोपदिष्ट-महा-मन्त्रेण च तत्-साध्यान् मम दर्शनाच् च ॥५०॥

—ओ)०(ओ—

॥ ६.१६.५१ ॥

अहं वै सर्व-भूतानि भूतात्मा भूत-भावनः ।

शब्द-ब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥

**मध्वः : **हरिस् तु सर्व-भूतानि तद्-अन्तर्याम्य्-अपेक्षया ।

तिङ्-पदान्य् अपि सर्वाणि सुप्-पदानि तथैव च ।
तस्मिन्न् एव प्रवर्तेत मुख्या वृत्त्या विशेषतः ॥ इति च ॥५१॥

**श्रीधरः : **तद् बोध-दार्ढ्याय स्वयम् अप्य् उपदिशति, अहम् इत्य्-आदिना । सर्व-भूतान्य् अहम् एव भूतानाम् आत्मा भोक्ताप्य् अहम् एव । भोक्तृ-भोग्यात्मकं विश्वं मद्-व्यतिरिक्तं नास्तीत्य् अर्थः । यतोऽहं भूत-भावनः भूतानां प्रकाशकः कारणं च ।

ननु शब्द-ब्रह्म प्रकाशकं, परं ब्रह्म कारणं च प्रकाशकं च ? सत्यम्, ते उभे ममैव रूपे इत्य् आह—शब्द-ब्रह्मेति । शाश्वती शाश्वत्यौ ॥५१॥

**क्रम-सन्दर्भः : **अहम् इति । अत्र शब्द-ब्रह्मणः साहचर्यात् पर-ब्रह्मणोऽप्यंशत्वम् आयाति॥५१॥

**विश्वनाथः : **किं च, भक्ति-तत्त्वं त्वया ज्ञातम् एव, तत्र अजित जितः [भा।पु। ६.१६.३५] इत्य्-आदि-स्तुतिर् एव प्रमाणम् । जिज्ञासा-नैरपेक्ष्यार्थं ज्ञान-तत्त्वम् अहम् एवोपदिशामि, शृण्व् इत्य् आह—अहं वै इति । अत्रेदं विवेचनीयम् । वस्तु तावत् द्विविधं—वास्तवम् अवास्तवं च । ब्रह्म परमात्मा भगवान् स-परिकर इत्य् एतत् त्रितयम् एव वास्तवं वस्तु, मायिक-प्रपञ्च-जातम् इदम् अवास्तवं वस्तु । अवस्तु च द्विविधं—कार्यम् अकार्यं च । कार्यं स्वप्नेन्द्र-जालादि-गतम् । अकार्यं खपुष्प-शशशृङ्गादि । एषां मध्ये, वेद्यं वास्तवम् अत्र वस्तु [भा।पु। १.१.२] इति प्रथमोक्तेर् वास्तव-वस्तुन एवोपादेयत्वं वक्तुं, प्रथमम् अवास्तवं वस्त्व् आह—सर्व-भूतानि भोक्तृ-भोग्यात्मकानि जगन्ति अहम् एव, मदीय-जीव-शक्ति-माया-शक्ति-मयत्वाद् इति भावः । अत्र जीवानाम् अवास्तव-वस्तुत्वम् अविद्यावृतत्वाद् एवोक्तम् ।

वास्तवं वस्त्व् आह—भूतानां समष्टि-व्यष्टीनाम् आत्मा अन्तर्यामीति द्वितीयः । तृतीयश् च पुरुषोऽहम् । तथा भूतानि तानि भावयतीत्य् उत्पादयतीति प्रथमः पुरुषश् चाहम् । तथा भूतानि दास्य-सख्यादि-भाववन्ति करोतीति भूत-भावनः, कृष्णो रामश् च सम्प्रति त्वया दृश्यश् चाहम् ।

किं च, निश्वास-रूपं यत् शब्द-ब्रह्म वेदः, तथा मन्-निर्विशेषाकारत्वेन ज्ञानिषु प्रतिपद्यमानं यत् परं ब्रह्म, ते उभे ममैव तनु-रूपे । वेदस्य शब्द-रूपत्वाद् आकाश-गुणत्वेनानित्य-शङ्कायास् तथा पर-ब्रह्मणश् चानिर्देश्यत्वेनावस्तुत्व-शङ्काया वारणायाह—शाश्वती शाश्वत्यौ नित्य-सत्ये एव ॥५१॥

—ओ)०(ओ—

॥ ६.१६.५२ ॥

लोके विततम् आत्मानं लोकं चात्मनि सन्ततम् ।

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥

**मध्वः : **लोकं चात्मनि सन्ततं वासना-रूपेण ॥५२॥

**श्रीधरः : **अतस् तम् एवं पश्येत्य् आह—लोके भोग्य-प्रपञ्चे भोक्तृत्वेन विततम् अनुगतम् आत्मानं, लोकं चात्मनि भोग्यत्वेन सन्ततं व्याप्तम् । तद् उभयं च मया कारणात्मना व्याप्तम् । मयि चैवोभयं कृतं प्रकल्पितं स्मरेद् इति तृतीयेनान्वयः । पश्येद् इत्य् अध्याहारो वा ॥५२॥

**क्रम-सन्दर्भः : **तथैवानुभावयति—लोक इति । आत्मानं परं ब्रह्म स्वरूपंविततम् आश्रयत्वेन वर्तमानम्, आत्मनि तस्मिन् सन्ततम् आश्रितं पश्य मया भगवद्-रूपेण पर-ब्रह्मणोऽपि मदीय-निर्विशेषाविर्भाव-रूपत्वात् । अत एवोभयं च मयि कृतं मज्-ज्ञान-निमित्तम् एव निरूपितम् इत्य् अर्थः ॥५२॥

**विश्वनाथः : **ननु त्वम् एव चेत् सर्वं भवसि, तर्हि किं सर्व-भूतान्य् एवोपास्यत्वेन ध्येयानि भक्तानाम् उतान्तर्याम्य्-आदि-रूपाणि ? इति तत्राह—लोके भोग्य-प्रपञ्चे भोक्तृत्वेन विततम् अनुगतम् आत्मानं,जीवं तथा लोकं चात्मनि भोग्यत्वेन सन्ततं स-विस्तारम् उपस्थितम् । तद् उभयं मया कारणात्मना व्याप्तम् । मयि चाधिष्ठान-कारणे उभयं कृतं कार्य-रूपं स्मरेद् इति तृतीयेनान्वयः । तेन सर्व-भूतानि मच्-छक्ति-कार्याण्य् अनित्यान्य् अस्वरूप-भूतानि नोपास्यत्वेन ध्येयानीति भावः ॥५२॥

—ओ)०(ओ—

॥ ६.१६.५३-५४ ॥

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि ।

आत्मानम् एक-देश-स्थं मन्यते स्वप्न उत्थितः ॥

एवं जागरणादीनि जीव-स्थानानि चात्मनः ।

माया-मात्राणि विज्ञाय तद्-द्रष्टारं परं स्मरेत् ॥

**मध्वः : **माया-मात्राणि प्रकृति-निर्मितानि ॥५४॥

**श्रीधरः : **ननु जाग्रद्-आद्य्-अवस्था-भेदेन भोक्तृ-भोग्यात्मकं विश्वं स्फुटं प्रतीयमानं कथं कल्पितं स्यात् ? इत्य् आशङ्क्य स्वप्न-गत-जाग्रद्-आदि-दृष्टान्तेन संभावयन्न् आह—यथेति द्वाभ्याम् । यथा स्वप्ने सुप्तो विश्वं गिरि-वनादि-रूपं देशान्तर-स्थम् आत्मन्य् एव पश्यति । स्वप्न-मध्ये सुषुप्तिं स्वप्नं च पश्यतीत्य् अर्थः । तथा स्वप्न एवोत्थितः सन्नात्मणम् एक-देश-स्थं शयन-देशे स्थितं मन्यते, जाग्रद्-अवस्थाम् अनुभवति ॥५३॥ एवं प्रसिद्धान्य् अपि जागरादीनि जीव-स्थानानि जीवोपाधेर् बुद्धेर् अवस्था-भूतान्य् आत्मनो माया-मात्राणीत्य् एवं विज्ञाय, तेषां द्रष्टारम् अत एव परं तद्-अवस्था-रहितम् आत्मानं स्मरेत् ॥५४॥

**क्रम-सन्दर्भः : **ननु, यावद्विश्वस्मादनासक्तो न स्यात्, तावत् कथं स्यात् ? इत्येवम् आशङ्क्य शुद्ध-जीवस्य स्वरूप-ज्ञान-पूर्वकं तज्-ज्ञानम् उपदिशति—यथेति युग्मकेन । अयम् अर्थः—यथा स्वप्न-मध्य एव सुषुप्तः कश्चित् पुरुषः पुनः स्वप्नं पश्यन् भ्रम-विशेषेण विश्वं गिरि-वनादिकम् आत्मनि पश्यति, स्वस्मिन्नेवारोपयति, पुनस्तस्मिन्नेव स्वप्ने उत्थितो लब्ध-जागर इव सन् आत्मानम् एक-देश-स्थं तत्र शयनैक-देशं पश्यन् तद्-गिरि-वनादिकं भिन्नम् एव पश्यति, तानि जागरादीनि यथा आत्मनः परमात्मनो मम माया-मात्राणि सन्ति, जीव-स्थानानि विज्ञाय विज्ञातस्य पुरुषस्य शुद्ध-जीवस्यापि द्रष्टारं माम् एव परं स्मरेदिति ॥५३॥

**विश्वनाथः : **प्रत्युत तान्य् अवास्तव-वस्तूनि खल्व् अवस्तूनीव त्यक्त्वा ममान्तर्याम्य्-आदि-रूपम् एवोपासीतेत्य् आह—यथेति द्वाभ्याम् । स्वप्ने स्वप्न-मध्ये एव सुषुप्तः सुष्ठु सुप्तः पुरुषः स्वप्नं पश्यन् भ्रम-विशेषेण विश्वं गिरि-वनादिकम् आत्मनि पश्यति स्वस्मिन् एवारोपयति । पुनस् तस्मिन्न् एव स्वप्ने उत्थितो लब्ध-जागरः सन्न् आत्मानम् एक-देश-स्थं तत्र शयनैक-प्रदेश-स्थं मन्यते, जाग्रद्-अवस्थाम् अनुभवन्, तद्-गिरि-वनादिकं भिन्नम् एव मन्यते इत्य् अर्थः ।

तद् एवम् अवस्तु-भूतः स्वाप्निको जागरो यथा तथैव प्रसिद्धो वस्तु-भूतोऽपि जागरो ज्ञेयो नश्वरत्वाद् इत्य् आह—एवम् इति । जीव-स्थानानि जीवोपाधेर् बुद्धेर् एवावस्थाश् च आत्म५ परमेश्वरस्य माया-शक्ति-कार्यत्वान् माया-मात्राणि ज्ञात्वा तेषां द्रष्टारं परं श्रेष्ठम् अन्तर्यामिणम् इति जीवात्मा व्यावृत्तः ।

अत्र स्वाप्निक्ये जागर-स्वप्न-सुषुप्त्य्-अवस्था अविद्यया जीवेन सृज्यत्वाद् अविद्या-मात्र्यो ह्य् अवस्तु-भूता एवं प्रसिद्धा जागराद्य्-अवस्थास् तु माया-शक्त्या भगवता सृष्टा माया-मात्र्यः खल्व् अवस्तु-भूता एव, तथापि स्वाप्निकं गिरि-वन-सर्प-व्याघ्र-हस्त्य्-अश्वादिकस् त्व् अविद्यया जीवेन सृज्यम् अवस्त्व् एवेति विवेचनीयम् ॥५३॥

—ओ)०(ओ—

॥ ६.१६.५५ ॥

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस् तदा ।

सुखं च निर्गुणं ब्रह्म तम् आत्मानम् अवेहि माम् ॥

**श्रीधरः : **ननु तेषां द्रष्टारम् इति कथम् उच्यते, स्वापे दृश्याभावेन द्रष्टृत्वाभावात् तत्राह—येनेति । प्रसुप्तः पुरुषो जीवो येन रूपेण तदा स्वाप-काले आत्मनः स्वापं निर्गुणम् अतीन्द्रियं सुखं च वेद तम् आत्मानं ब्रह्म माम् अवेहि । तदा स्वाप-सुखयोर् असंवेदने “सुखम् अहम् अस्वाप्सम्” इति स्मृतेर् असंभवात् ॥५५॥

**क्रम-सन्दर्भः : **तम् एव स्पष्टयति—येनेति । मायिकाहङ्कारालये जीवादि-गत-महा-चिच्-छक्त्य्-अंशेन तत्त्व-विशेषेण हेतुना स्वापः तत्र निर्गुण-सुखं च वेद, तद्ब्रह्मावेहि । आत्मानं परमात्मानं मां भगवद्-रूपं चावेहि । वदन्ति तत्तत्त्व-विद [भा।पु। १.२.११] इत्यादेः ॥५५॥

**विश्वनाथः : **ननु तं द्रष्टारम् अन्तर्यामिणं कथम् अहं जानामि ? इत्य् अत आह—येनेति । प्रसुप्तः पुरुषो जीवो यदा स्वापं वेद, तद् एव सुषुप्ताव् आत्म५ स्वस्य निर्गुणं निर्विशेषं सुखं च येनैव हेतुना वेद, तम् आत्मानम् अन्तर्यामिणम् अवेहि । यत्रैव गुणैर् दृढ-बद्धम् आवृत-ज्ञानानन्दम् अपि जीवं कृपया सुषुप्तौ नित्यम् एव गुणान् प्रविलाप्य निर्गुणं तदीयं सुखं तम् अनुभावयति । स एवान्तर्यामी स्पष्टम् एवावगम्यतां, न हि तं विना ह्य् अस्वतन्त्रो जीवः स्वयम् एव स्व-बन्धनं विमोच्य स्वीय-सुखं द्रष्टुं शक्नुयाद् इति भावः । तम् अन्तर्यामिणम् एव निर्विशेषत्वेन प्रतीतं ब्रह्म अवेहि । ब्रह्मैव स-विशेषं मां भगवन्तम् अवेहि । एक एवाहं ब्रह्म परमात्म भगवान् इति त्रि-रूपो भवामि, न तु मत्-स्वरूपस्य द्वित्वं त्रित्वं वा । यद् उक्तं देवैः—स्वरूप-द्वयाभावात् [भा।पु। ६.९.३६] इति ॥५५॥

—ओ)०(ओ—

॥ ६.१६.५६ ॥

उभयं स्मरतः पुंसः प्रस्वाप-प्रतिबोधयोः ।

अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम् ॥

**मध्वः : **प्रतिबोधेनेति स्वयम् अपि प्रतिबुद्धः सुप्ताव् अस्वपन् व्यतिरिच्येत ॥५६॥

**श्रीधरः : **ननु स्वाप-साक्षिणा दृष्टं कथं जाग्रद्-अवस्थः स्मरेत् ? न ह्य् अन्येन दृष्टम् अन्यः स्मरति तत्राह—उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुसन्दधतः । तयोः प्रस्वाप-प्रतिबोधयोः प्रकाशकत्वेन यद् अन्वेति ताभ्यां व्यतिरिच्येत च । एकैकापायेऽप्य् अनपायात् । तज् ज्ञानं परं ब्रह्म तद् एव, न तु भिन्नम् इत्य् अर्थः । अतो बाल्ये दृष्टस्य यौवने स्मृतिवदवस्थान्तरत्वेऽपि स्वापानन्दयोः स्मरणं घटत इति भावः । तद् एवं-भूतं ब्रह्मात्मानम् अवेहीत्य् अनुषङ्गः ॥५६॥

**क्रम-सन्दर्भः : **अतएव जीव-ज्ञानस्यापि ब्रह्मणि तात्पर्यम् इत्य् आह—उभयम् इति । तज्-ज्ञानं शुद्ध-जीव-स्वरूपं तच्च ब्रह्मणि तत्-परम् इति ॥५६॥

**विश्वनाथः : **ननु स्वाप-साक्षिणा दृष्टं जाग्रद्-अवस्थः कथं “सुखम् अहम् अस्वाप्सम् इति स्मरेत् ? न ह्य् अन्येन दृष्टम् अन्यः स्मरति । तत्राह—उभयं प्रस्वापं प्रतिबोधं च स्मरतोऽनुसन्दधतः पुंसस् तयोः प्रस्वाप-प्रतिबोधयोः यद् अन्वेति, ताभ्यां व्यतिरिच्येत, एकैकापायेऽप्य् अनपायात् । तज् ज्ञानं जीव इत्य् अर्थः । अतो बाल्ये दृष्टस्य यौवने स्मृतिवदवस्थान्तरत्वेऽपि स्वापानन्दयोः स्मरणं घटत इति भावः । तत् परं ततो जीवात् परं ब्रह्म, न तु स एव ब्रह्मेत्य् अर्थः । जीवस्य तटस्थ-शक्तित्वेन तद्-रूपत्वेऽपि तस्य स्वरूप-शक्तित्वाभावात् । अतो भिन्नम् एव ब्रह्मेत्य् अर्थः ॥५६॥

—ओ)०(ओ—

॥ ६.१६.५७ ॥

यद् एतद् विस्मृतं पुंसो मद्-भावं भिन्नम् आत्मनः ।

ततः संसार एतस्य देहाद् देहो मृतेर् मृतिः ॥

**मध्वः : **सर्व-भिन्नं परमात्मानं विस्मरन् संसरेद् इह ।

अभिन्नं संस्मरन् याति तमो नास्त्य् अत्र संशयः ॥ इति च ॥५७॥

**श्रीधरः : **विपक्षे दोषम् आह—यद् यदि एतन् मद्-भावं मत्-स्वरूपं ब्रह्म विस्मृतं तद् आत्मनः सकाशाद् भिन्नं भवति । तत एतस्य पुंसः संसारो भवति । संसार-स्वरूपम् आह—देहाद् देहो जन्मानन्तरं पुनर् जन्म मृतेर् अनन्तरं मृतिश् चेति ॥५७॥

**क्रम-सन्दर्भः : **तद्-अज्ञाने दोषमाह—यद्यस्माद्ब्रह्म विस्मृतम् । अनाद्य्-अज्ञानेनानुसंहितम् । ततस्तस्मादेव एतस्य जीवस्य संसारः तच्चाभिप्राय-विशेषेण जीवाद्भिन्नत्वेन स्वस्माद्भिन्नत्वेन दर्शयति—आत्मनोभिन्नं, मम भावः सत्ता यत्र तदिति भयं द्वितीयाभिनिवेशतः स्यात् [भा।पु। ११.२.३७] इत्य्-आदेर्युक्तम् एव तदज्ञाने संसार इति ॥५७॥

**विश्वनाथः : **अतो ब्रह्म-जीवयोः स्वरूपैक्य-भावनम् एवापराधोऽनर्थ-हेतुर् इत्य् आह—यद् एतद् इति । आत्मनो जीवात् सकाशात् मद्-भावं मत्-स्वरूपं भिन्नम् एव क्लीबत्वम् आर्षम् । यद् यदि विस्मृतं स्याद् अभिन्नम् एव स्यात्, ततो हेतोर् एतस्याभिन्न-दर्शिनः पुंसः संसारः स्यात्। संसारम् एवाह—देहाद् इति । अत एव तत्त्वम् असीत्य् आदौ जीवस्य तदीय-तटस्थ-शक्तित्वेन ताद्रूप्याद् एव सूर्य-तत्-किरणयोर् इवैक्यं भावनीयम् इति भावः । तद् एवम् अवास्तव-वस्तुनो विश्वस्य तच्-छक्ति-कार्यत्वेनाभिन्नत्वात् ताद्रूप्यम् । ताद्रूप्येति तात्स्वरूप्याभावाद् भिन्नम् एव नश्वरत्व-प्रयोजकम् । शुद्ध-जीवस्य त्व् अनश्वरत्वाद् वास्तव-वस्त्व्-अन्तः-पातित्वेऽपि तटस्थ-शक्तित्वात् ताद्रूप्यम् एव, न तु तात्स्वरूप्यं, ब्रह्म-परमात्म-भगवतां तु वास्तव-वस्तुत्वं स्वरूपैक्याद्य् ऐक्यं च । भगवन्-नित्य-प्रेयसी-पार्षद-धाम्नां चिच्-छक्ति-विलासत्वात् । केषाञ्चिन् नित्य-सिद्धत्वाद् अपि वास्तव-वस्तुत्वं तात्स्वरूप्यं च । केषाञ्चिन् नित्य-मुक्त-भक्तत्वेन, केषाञ्चिल् लब्ध-भक्ति-कैवल्यत्वेन सिद्धानां दास्यादि-वासनावतां जीवानां तु नित्य-दासादि-गणान्तः-पातित्वाभावेन स्वरूप-शक्त्यानाविष्टत्वाद् एव तात्स्वरूप्यम् । लब्ध-भक्ति-प्राधान्येन सिद्धानां जीवानां शास्त्र-भक्तत्वात् दासादि-गणान्तः-पातित्वाभावेन स्वरूप-शक्त्यानाविष्टत्वात् ताद्रूप्यं वास्तव-वस्तुत्वं चेति भगवतोऽनेक-शक्तिमत्वेनाद्वैतं फलितम् इति प्रसङ्गात् वैष्णव-सिद्धान्तो दर्शितः ॥५७॥

—ओ)०(ओ—

॥ ६.१६.५८ ॥

लब्ध्वेह मानुषीं योनिं ज्ञान-विज्ञान-सम्भवाम् ।

आत्मानं यो न बुद्ध्येत न क्वचित् क्षेमम् आप्नुयात् ॥

**श्रीधरः : **योन्य्-अन्तरेऽपि भोगादि-संपादनं शक्यं ज्ञानार्थं त्व् अत्रैव यतितव्यम् इत्य् आह—लब्ध्वेति । ज्ञानं शास्त्रोक्तम्, विज्ञानम् अपरोक्षम्, तयोः संभवो यस्यां ताम् ॥५८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **उक्त-लक्षण-ज्ञानार्थम् अवश्यम् एव यतितव्यम् इत्य् आह—लब्ध्वेति । ज्ञानं शास्त्रोत्थं, विज्ञानम् अपरोक्षं, तयोः सम्भवो यस्यां ताम्, आत्मानं जीवं परमेश्वरं च ॥५८॥

—ओ)०(ओ—

॥ ६.१६.५९ ॥

स्मृत्वेहायां परिक्लेशं ततः फल-विपर्ययम् ।

अभयं चाप्य् अनीहायां सङ्कल्पाद् विरमेत् कविः ॥

**श्रीधरः : **वैराग्यार्थम् आह—ईहायां प्रवृत्ति-मार्गे । तत ईहातः । अनीहायां निवृत्ति-मार्गे त्व् अभयं मोक्षो भवतीति च स्मृत्वा फल-सङ्कल्पाद् विरमेत् । पाठान्तरे नोभयं परिक्लेशः फल-विपर्ययश् च नास्तीत्य् एवं स्मृत्वा ॥५९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एतज् ज्ञानेच्छुर् ज्ञात-दृष्टादृष्ट-कर्म-फलकः कर्म-निष्ठां त्यजेद् इत्य् आह—ईहायां सकामत्वे तत ईहातः । अनीहायां निष्कामत्वे अभयं सर्वत एव भयाभावः । नोभयम् इति पाठे क्लेश-विपर्ययौ न स्याताम् इति स्मृतः ॥५९॥

—ओ)०(ओ—

॥ ६.१६.६० ॥

सुखाय दुःख-मोक्षाय कुर्वाते दम्पती क्रियाः ।

ततोऽनिवृत्तिर् अप्राप्तिर् दुःखस्य च सुखस्य च ॥

**श्रीधरः, विश्वनाथः : **एतद् विवृणोति—सुखायेति त्रिभिः । दुःखस्यानिवृत्तिः सुखस्याप्राप्तिः ॥६०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१६.६१ ॥

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् ।

आत्मनश् च गतिं सूक्ष्मां स्थान-त्रय-विलक्षणाम् ॥

**श्रीधरः : **विज्ञा उद्यमे-प्रवीणा वयम् इत्य् अभिमानवताम् । स्थान-त्रय-विलक्षणां तुरीयां बुद्ध्वा ॥६१॥

**क्रम-सन्दर्भः : **पूर्वानुरूपम् एवोपसंहरति—एवम् इति यूग्मकेन । आत्मारामाश् च मुनयः [भा।पु। १.७.१०] इत्य्-आदेः ॥६१॥

**विश्वनाथः : **स्थान-त्रय-विलक्षणां तुरीयाम् ॥६१॥

—ओ)०(ओ—

॥ ६.१६.६२ ॥

दृष्ट-श्रुताभिर् मात्राभिर् निर्मुक्तः स्वेन तेजसा ।

ज्ञान-विज्ञान-सन्तृप्तो मद्-भक्तः पुरुषो भवेत् ॥

श्रीधरः : दृष्ट-श्रुताभिर् मात्राभिर् ऐहिकामुष्मिकैर् विषयैः । स्वेन तेजसा विवेक-बलेन ॥६२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : मात्राभिर् विषयैः । स्व-तेजसा स्वीय-साधन-प्रभावेण ॥६२॥

—ओ)०(ओ—

॥ ६.१६.६३ ॥

एतावान् एव मनुजैर् योग-नैपुण्य-बुद्धिभिः ।

स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैक-दर्शनम् ॥

**श्रीधरः : **न चातः परः पुरुषार्थोऽस्तीत्य् आह—एतावान् इति । योगे नैपुण्यं यस्यां सा बुद्धिर् येषाम् । परस्यात्मन एकं दर्शनम् इति यद् एतावान् एव ॥६३॥

**क्रम-सन्दर्भः : **तद् एव प्रशंसति—एतावान् इति । परमात्मनो भगवत एवैकं केवलं दर्शनम् अनुभव इति यत् ॥६३॥ [प्रीति-सन्दर्भः, २]

विश्वनाथः : परस्य श्रेष्ठस्य आत्मनः परमात्मन एव एकं दर्शनं, न तु विषयस्य ॥६३॥

—ओ)०(ओ—

॥ ६.१६.६४ ॥

त्वम् एतच् छ्रद्धया राजन्न् अप्रमत्तो वचो मम ।

ज्ञान-विज्ञान-सम्पन्नो धारयन्न् आशु सिध्यसि ॥

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **संसिद्धो ऽसीति । यत् पूर्वम् उक्तम् अधुना च सिद्ध्यसीति तद् द्वयम् अपि वर्तमान-सामीप्येनैव ज्ञेयं । तत्राप्य् अप्रमत्तः सन् मम वचो धारयन्न् इति भावि-विघ्नो हेतुर् अप्य् उद्दिष्टः ॥६४॥

—ओ)०(ओ—

॥ ६.१६.६५ ॥

श्री-शुक उवाच—

आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्-गुरुः ।

पश्यतस् तस्य विश्वात्मा ततश् चान्तर्दधे हरिः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य षोडशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे

चित्रकेतूपाख्याने

षोडशोऽध्यायः ।

॥ ६.१६ ॥

(६.१७)


  1. देहोऽसवोऽक्षा मनवो भूत-मात्रा नात्मानम् अन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ ↩︎

  2. नान्योऽतोऽस्ति द्रष्टा [बृ।आ।उ। ३.७.२३] ↩︎

  3. साक्षात् इति हरि-भक्ति-विलास-गीतप्रेस्सयोः पाठः । ↩︎

  4. हरि-भक्ति-विलास-स्थित-पाठानुसारेण । ↩︎