॥ ६.१५.१ ॥
श्री-शुक उवाच—
ऊचतुर् मृतकोपान्ते पतितं मृतकोपमम् ।
शोकाभिभूतं राजानं बोधयन्तौ सद्-उक्तिभिः ॥
**श्रीधरः : **
ततः पञ्चदशे चित्रेकेतोः शोकापनोदनम् ।
कृतं तत्त्वोपदेशेन नारदेनाङ्गिरो-युजा ॥
मृतकोपान्ते शव-समीपे ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
अथ पञ्चदशे भूपम् उद्दधार मुनि-द्वयम् ।
शोकान् मन्त्रं तूपदेष्टुं नारदः किञ्चिद् अब्रवीत् ॥
—ओ)०(ओ—
॥ ६.१५.२ ॥
कोऽयं स्यात् तव राजेन्द्र भवान् यम् अनुशोचति ।
त्वं चास्य कतमः सृष्टौ पुरेदानीम् अतः परम् ॥
**श्रीधरः : **त्वं चास्य बन्धूनां मध्ये कतमः ? सृष्टाउ प्रजा-रूपायाम् । अयं पुत्रोऽहं चास्य पितेति चेत् तत्राहतुः—पुरेति । ये पूर्व-जन्मनि पित्रादि-रूपेण संयुक्ता आसंस् त एव मरणेन वियुक्ताः सन्तो वर्तमान-जन्मनि कदाचित् तस्यैवान्यस्य वा पुत्रादयो भवन्ति, ते जन्मान्तरे तस्यैवान्यस्य वा कलत्रादयः शत्रु-मित्रादयो वा भवन्त्य् अतो नायं नियम इति भावः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अयं तव को भवेत् ? पुत्र इति चेत् सत्यं, त्वम् अप्य् अस्य कतमः ? पितेति चेत्, तत्राह—पुरा सृष्टौ पूर्व-जन्मनि किं वा इदानीं को वा अतः परं भाविनि जन्मनीत्य् अर्थः । ये पूर्व-जन्मनि पुत्रादि-रूपेण संयुक्ता आसन्, त एव मरणे ततो वियुक्ताः सन्तो वर्तमान-जन्मनि कदाचित् तस्यैवान्यस्य वा पुत्रादयो भवन्ति । ते जन्मान्तरे तस्यैवान्यस्य वा कलत्रादयः शत्रु-मित्रादयो वा भवन्तीति भावः ॥२॥
—ओ)०(ओ—
॥ ६.१५.३ ॥
यथा प्रयान्ति संयान्ति स्रोतो-वेगेन बालुकाः ।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥
**श्रीधरः : **तम् एवाभिप्रायं प्रकटयति—यथेति । स्रोतसः प्रवाहस्य वेगेन यथा प्रयान्ति वियुज्यन्ते संयान्ति संयुज्यन्ते तथा काल-वेगेन देहिनो जीवा अपि ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तम् एवार्थं प्रकटयति—यथेति । स्रोतसः प्रवाहस्य वेगेन बालुकाः यथा प्रयान्ति व्युज्यन्ते, संयान्ति संयुजन्ते, तथा काल-वेगेन देहिनो जीवा अपि ॥३॥
—ओ)०(ओ—
॥ ६.१५.४ ॥
यथा धानासु वै धाना भवन्ति न भवन्ति च ।
एवं भूतानि भूतेषु चोदितानीश-मायया ॥
**श्रीधरः : **तथाप्य् एतावन्तं कालम् मम पुत्रो नाभूद् वार्धके जातो मृत इति दुःखम् इति चेत् तत्राहतुः—यथा धानासु बीजेषु धाना बीजान्तराणि भवन्ति, कासुचित् कदाचिन् न भवन्ति नोत्पद्यन्ते नश्यन्ति च । न तु भवन्त्य् एव तिष्ठन्त्य् एवेति वा नियमः । एवम् एव भूतानि पित्रादि-रूपाणि भूतेषु पुत्रादिषु । अतो धानानां जन्य-जनकत्वेऽपि यथा पितृ-पुत्रादि-भावो नास्त्य् एवम् अत्रापीति न शोकः कार्य इति भावः । ईश-माया-प्रेरितानाम् एव भवनम् अभवनं, न वस्तुतः ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नन्व् अहम् अस्य पिता वा पुत्रो वा एतस्मिन् जन्मनि अन्यस्मिन् जन्मनि भवामि, न भवामि वेत्य्-आदि जिज्ञासया सम्प्रत्य् अलम् एव किं त्व् अस्य परम-प्रेमास्पदस्य विच्छेद-दुःखम् अहं केनापराधेनानुभवामि तद् ब्रूतम् इति चेन् नात्र कोऽप्य् अपराधः, किं त्व् अत्र काल एव कारणम् इत्य् आहतुः—यथेति । तद् अप्य् एतावन्तं कालं मम पुत्रो नाभूद् वार्धक्ये जातो मृत इति महद् दुःखम् इति चेत् तत्राहतुः—धानासु यवेषु धाना यवान्तराणि भवन्ति कदाचिन् न भवन्ति नश्यन्ति च । एवं-भूतानि पुत्रादीनि भूतेषु पित्रादिषु । अतो यवानां जन्य-जनकत्वेऽपि यथा पितृ-पुत्रादि-भावो नास्ति एवम् अत्रापि न शोकः कार्य इति भावः । धाना भृष्टयवे स्त्रिय इत्य् अभिधानात् श्लेषेण यथा धानासु भृष्ट-यवेषु धाना न भवन्ति । एति भावःभावेषु ईदृशेषु भवद्-विधेषु अपत्य-जनकादृष्ट-रहितेषु भूतानि अपत्यानि न भवन्ति, किन्तु हे ईश, राजन् मायया प्रेरितानि भवन्ति चेत्य् अहम् अङ्गिरा एव त्वत्-प्रबोधार्थं मायया त्वत्-पुत्रोऽभूवम् इति भावः ॥४॥
—ओ)०(ओ—
॥ ६.१५.५ ॥
वयं च त्वं च ये चेमे तुल्य-कालाश् चराचराः ।
जन्म-मृत्योर् यथा पश्चात् प्राङ् नैवम् अधुनापि भोः ॥
**श्रीधरः : **तस्य च सर्व-साधारणत्वान् न पुत्र एव शोचनीय इत्य् आहतुः—वयं चेति । तुल्य-काला वर्तमान-कालीनाः । जन्मनः प्राक् मृत्योः पश्चाच् च यथा न सन्त्य् एवम् अधुनापि न सन्ति । भो राजन् ! आद्य्-अन्तयोर् असत्त्वात् स्वप्नवद् इत्य् अर्थः ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शोचनीयश् चेत् न केवलं मृतः पुत्र एव, अपि तु दारामात्य-स्वजनादयः सर्वे वर्तमाना अपि शोच्या एवेत्य् आहतुः—वयं चेति । तुल्य-काला एक-काल-स्थिताः जन्मनः प्राक् मृत्योः पश्चाच् च यथा न सन्ति, एवम् अधुनापि न सन्ति, न ह्य् अत्रैकालिकं वस्तु वास्तवम् उच्यते, न ह्य् अवास्तवं वस्तु भव्यैर् गणनायाम् उपादीयते इत्य् अतस् तत् सत्यम् अप्य् असत्याय मानम् एवेति ॥५॥
—ओ)०(ओ—
॥ ६.१५.६ ॥
भूतैर् भूतानि भूतेशः सृजत्य् अवति हन्ति च ।
आत्म-सृष्टैर् अस्वतन्त्रैर् अनपेक्षोऽपि बालवत् ॥
**श्रीधरः : **असत्त्वे कथं प्रतीतिः ? कथं वाहमस्य जनकः ? इत्य्-आद्य्-अभिमानस् तत्राहतुः—भूतैर् इति । ईश्वरेण मायया सृष्टत्वात् प्रतीति निर्मित्त-मात्रत्वेनैव च भूतानाम् अयम् अभिमान इति भावः । नन्व् ईश्वरस्य सृष्ट्य्-आदिभिः साध्यम् अस्ति चेत् तर्ह्य् अपूर्ण-कामता प्राप्ता, नास्ति चेत् कुतः प्रवृत्तिः ? तत्राहतुः—अनपेक्षोऽपि बालवल् लीलया करोतीति ॥६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **न च ममायं पुत्रो जनितः केनाप्य् अलक्षितेन दारुणेनायं नाशित इति स्वस्मिन् जनकत्व-लक्षणो गुणः परस्मिंस् तु नाशकत्व-लक्षणो दोषः प्रसञ्जनीय इत्य् आहतुः—भूतैः पित्रादिभिः सृजति । राजादिभिर् अवति, सर्पादिभिर् हन्ति, आत्म-सृष्टैर् इति पित्रादीनाम् ईश्वर-सृष्टत्वाद् ईश्वराधीनत्वाच् चेत्य् अर्थः । ननु पूर्ण-कामस्येश्वरस्य किं सृष्ट्य्-आदिभिः, तत्राह—अनपेक्षोऽपि बालवल् लीलया करोतीति ॥६॥
—ओ)०(ओ—
॥ ६.१५.७ ॥
देहेन देहिनो राजन् देहाद् देहोऽभिजायते ।
बीजाद् एव यथा बीजं देह्य् अर्थ इव शाश्वतः ॥
**श्रीधरः : **अयं च जन्मादि-व्यवहारो देहानाम् एव न त्व् आत्मन इत्य् आहतुः—देहिनः पितुर् देहेन देहिनः पुत्रस्य देहो मातुर् देहिनो देहाद् अभिजायते । यथा बीजाद् एव बीजं जायते । देही तु शाश्वत एव अर्थो भूम्य्-आदिर् यथा तद्वत् ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सत्यम् उक्तम् ईश्वर-सृष्टेन पित्रा मया जनितः पुत्रोऽयं मृत इत्य् अतः शोचामि ? इति तत्राहतुः—देहेन पितुर् देहेन देहिनः पुत्रस्य देहो मातुर् देहाद् अभिजायते, यथा बीजाद् एव बीजं जायते, अतस् त्वया जनितस्य पुत्र-देहस्य तवाग्र एव वर्तमानत्वात् त्वं कथम् अधुना शोचसीति भावः ।
नन्व् अत्र सम्प्रति देही जीवात्मा नास्तीति शोचामीति तत्राहतुः—देही जीवो नाम अर्थस् तु शाश्वत एव, न स त्वया जनितैति तेन सह न कोऽपि ते सम्बन्धोऽस्तीति भावः ॥७॥
—ओ)०(ओ—
॥ ६.१५.८ ॥
देह-देहि-विभागोऽयम् अविवेक-कृतः पुरा ।
जाति-व्यक्ति-विभागोऽयं यथा वस्तुनि कल्पितः ॥
**श्रीधरः : **ननु नश्वर-देह-प्रतियोगित्वाद् देह्य् अपि न शाश्वतः स्यात् ? तत्राहतुः—देह-देहिनोर् अयं परस्पर-प्रतियोगि-विभागः पुरानादिर् अविवेक-कृतोऽज्ञान-कल्पितः । जातिः सामान्यं व्यक्तिर् विशेषस् तयोर् विभागो यथा वस्तुनि सन्-मात्रे कल्पितः । परस्परापेक्ष-सिद्धत्वेनानिरूप्यत्वात्, तद्वत् ॥८॥
**क्रम-सन्दर्भः : **शुद्धात्मनो वस्तुतो देहित्वं नास्ति, ततो न च तस्य देह इत्य् एवम् । तत्र दृष्टान्तः—यथा न वस्तुनि सर्व-कारणे परमात्मनि जाति-व्यक्ति-विभाग इति ॥८॥
**विश्वनाथः : **ननु नश्वर-देह-प्रतियोगित्वाद् देह्य् अपि न शाश्वतः स्यात् ? तत्राहतुः—देह-देहिनोर् अयं परस्पर-प्रतियोगि-विभागः । पुरा अनादिर् अविवेक-कृतोऽज्ञान-कल्पितः । जाति-सामान्यं व्यक्ति-विशेषस् तयोर् विभागो यथा वस्तुनि सन्-मात्रे कल्पितः । परस्परापेक्ष-सिद्धित्वेनानिरूप्यत्वात् ॥८॥
—ओ)०(ओ—
॥ ६.१५.९ ॥
श्री-शुक उवाच—
एवम् आश्वासितो राजा चित्रकेतुर् द्विजोक्तिभिः ।
विमृज्य पाणिना वक्त्रम् आधि-म्लानम् अभाषत ॥
**श्रीधरः : **आधि-म्लानं वक्त्रम् ॥९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१५.१० ॥
श्री-राजोवाच—
कौ युवां ज्ञान-सम्पन्नौ महिष्ठौ च महीयसाम् ।
अवधूतेन वेषेण गूढाव् इह समागतौ ॥
श्रीधरः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **अवधूतेन वेषेणेति निजाच्छादनार्थं तद्-आकृतत्वात् ॥१०॥
**विश्वनाथः : **अवधूतेन वेषेणेति स्व-गोपनार्थं ताभ्याम् तथा-कृतत्वात् ॥१०॥
—ओ)०(ओ—
॥ ६.१५.११ ॥
चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्-प्रियाः ।
मादृशां ग्राम्य-बुद्धीनां बोधायोन्मत्त-लिङ्गिनः ॥
**श्रीधरः : **उन्मत्तस्येव लिङ्गं येषां ते ॥११॥
**क्रम-सन्दर्भः : **भगवतो विशेषतो भक्त-वत्सलस्य सामान्यतोऽपि ब्रह्मण्य-देवस्य प्रियाः ॥११॥
विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१५.१२-१५ ॥
कुमारो नारद ऋभुर् अङ्गिरा देवलोऽसितः ।
अपान्तरतमा व्यासो मार्कण्डेयोऽथ गौतमः ॥
वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।
दुर्वासा याज्ञवल्क्यश् च जातुकर्णस् तथारुणिः ॥
रोमशश् च्यवनो दत्त आसुरिः सपतञ्जलिः ।
ऋषिर् वेद-शिरा धौम्यो मुनिः पञ्चशिखस् तथा ॥
हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः ।
एते परे च सिद्धेशाश् चरन्ति ज्ञान-हेतवः ॥
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
**क्रम-सन्दर्भः : **कुमार इति चतुष्कम् । व्यास-बादरायण्य्-आदीनां तदानीम् अनाविभूतानाम् अपि गणना शास्त्र-दृष्ट्यैवेति ॥१२॥
**परमात्म-सन्दर्भ ६९ : **अत्र अपान्तरतम इति श्री-कृष्ण-द्वैपायनस्यैव जन्मान्तर-नाम-विशेष इति तत्रैव ज्ञेयम् ॥
—ओ)०(ओ—
॥ ६.१५.१६ ॥
तस्माद् युवां ग्राम्य-पशोर् मम मूढ-धियः प्रभू ।
अन्धे तमसि मग्नस्य ज्ञान-दीप उदीर्यताम् ॥
**श्रीधरः : **मम प्रभू रक्षकौ बोधे समर्थाव् इति वा । अतो युवाभ्यां ज्ञान-दीपः प्रवर्त्यताम् ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१५.१७ ॥
श्री-अङ्गिरा उवाच—
अहं ते पुत्र-कामस्य पुत्रदोऽस्म्य् अङ्गिरा नृप ।
एष ब्रह्म-सुतः साक्षान् नारदो भगवान् ऋषिः ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१५.१८-१९ ॥
इत्थं त्वां पुत्र-शोकेन मग्नं तमसि दुस्तरे ।
अतद्-अर्हम् अनुस्मृत्य महापुरुष-गोचरम् ॥
अनुग्रहाय भवतः प्राप्ताव् आवाम् इह प्रभो ।
ब्रह्मण्यो भगवद्-भक्तो नावासादितुम् अर्हसि ॥
**श्रीधरः : **महा-पुरुष-गोचरं हरि-भक्तं त्वाम् ॥१८॥
**क्रम-सन्दर्भः : **इत्थम् इति युग्मकम् । महा-पुरुषे गोचरोऽनुभव-विषयो यस्य तम् । भगवद्-भक्त इति पुर्वम् एव तत्-सङ्ग-प्रभावेन भक्ति-बीजोदयात् ॥१८॥
**विश्वनाथः : **महा-पुरुषाः परम्र्षयो भगवद्-भक्ताश् च गोचरा मनो-नेत्रादि-विषया यस्य तं, अत एव ब्राह्मण-वैष्णव-सेवित्वाद् ब्रह्मण्यो भगवद्-भक्तश् चोक्तः, न तु वस्तुतस् तदा भक्त इत्य् अर्थः ॥१८॥
—ओ)०(ओ—
॥ ६.१५.२० ॥
तदैव ते परं ज्ञानं ददामि गृहम् आगतः ।
ज्ञात्वान्याभिनिवेशं ते पुत्रम् एव ददाम्य् अहम् ॥
**श्रीधरः : **तदैव यदा पूर्वम् आगतोऽस्मि ॥२०॥
**क्रम-सन्दर्भः : **ददामि अदास्यम् इत्य् अर्थः । पुनश् च ददामि अददाम् इत्य् अर्थः । तिङां तिङो भवन्तीति छान्दसोऽत्र लट् ॥२०॥
**विश्वनाथः : **ददामि अदास्यम् । पुनश् च ददामीत्य् अस्य अददाम् इत्य् अर्थः । तिङां तिङो भवन्तीति लक्षणेन ॥२०॥
—ओ)०(ओ—
॥ ६.१५.२१-२३ ॥
अधुना पुत्रिणां तापो भवतैवानुभूयते ।
एवं दारा गृहा रायो विविधैश्वर्य-सम्पदः ॥
शब्दादयश् च विषयाश् चला राज्य-विभूतयः ।
मही राज्यं बलं कोषो भृत्यामात्य-सुहृज्-जनाः ॥
सर्वेऽपि शूरसेनेमे शोक-मोह-भयार्तिदाः ।
गन्धर्व-नगर-प्रख्याः स्वप्न-माया-मनोरथाः ॥
**श्रीधरः : **रायः अर्थाः ।चला अनित्याः ॥२१॥ किं च महीति ॥२२॥
हे शूरसेन, इमे सर्वेऽपि शोकादि-प्रदाः । किं च आगमापायित्वेन गन्धर्व-नगर-तुल्याः । गन्धर्व-नगरं ह्य् अकस्माद् एव क्वचिद् आयात्य् अपयाति चेति प्रसिद्धम् । तद् एवम् अनित्यत्वं शोकादि-हेतुत्वं चागमापायित्वं चोक्तम् । मिथ्यात्वम् अप्य् आह—स्वप्नश् च माया च मनो-रथश् च यथा तद्वत् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद् एवं दारादीनाम् अनित्यत्वाद् अवास्तव-वस्तुत्वं शोकादि-हेतुत्वम् आगमापायित्वं चोक्तम् । ये तु दारादिभ्य्योऽन्योऽपि शोक-मोह-भयार्तिदा अर्थाः स्वप्नाद् उत्थास् ते तु मिथ्या-भूता एवेत्य् आह—गन्धर्वेति स्वप्नश् च माया इन्द्र-जालं च मनोरथश् च ते तद्-उत्थाः पदार्थाः ॥२१-२३॥
—ओ)०(ओ—
॥ ६.१५.२४ ॥
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।
कर्मभिर् ध्यायतो नाना- कर्माणि मनसोऽभवन् ॥
**मध्वः : **मनसो द्वेष-रागाभ्याम् पुण्य-पाप-समुद्भवः ।
पुत्रादि-पुण्य-पापाभ्याम् तस्मात् सर्वं मनोभवम् ॥ इति नारदीये ॥२४॥
**श्रीधरः : **मनो-भवा मनो-मात्र-विजृम्भिताः । अत्र हेतुः, अर्थेन तात्त्विक-स्वरूपेण विनैव दृश्यमानाः । तत् कुतः ? यस्मात् क्षणान्तरे न दृश्यन्ते । तात्त्विकत्वे हि क्षणान्तरे बाधो न स्यात् । अतो मनो-मात्र-विजृम्भितत्वेन स्वप्नादिवन् मिथ्या-भूता इत्य् अर्थः ।
नन्व् एते पुण्यापुण्य-कृता इति मीमांसकाः प्राहुस् तत् कुतो मनो-भवत्वम् ? तत्राह—कर्मभिः कर्म-वासनाभिर् अर्थान् ध्यायतः पुंसो मनस एव निमित्तात् कर्माण्य् अभवन् । पाठान्तरे कर्म ईप्सिततमम् अभिध्यायत इत्य् अर्थः । कर्मणोऽपि मनो-भवत्त्वात् तत् साध्या अर्था अपि मनो-भवा एवेति भावः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अर्थेन व्याघ्र-सर्पादिना विनैव दृश्यमानाः स्वप्नादि-भङ्गे सति न दृश्यन्ते, तद् एवं दारादयोऽवास्तव-वस्तु-भूताः स्वप्नादयोऽवस्तु-भूताश् च सर्वे मनोभवाः । मनोभवत्वम् एवाह—कर्मभिः कर्म-वासनाभिर् अर्थान् ध्यायतः पुंसो मनस एव निमित्तत्वात् कर्माण्य् अभवन् । कर्म् : अभिध्यायत इति पाठे कर्म ईप्सिततमम् अनभिध्यायत इत्य् अर्थः । कर्मणोऽपि मनोभवत्वात् तत्-साध्या अर्थाः, तद् अपि मनोभवा एवेति भावः ॥२४॥
—ओ)०(ओ—
॥ ६.१५.२५ ॥
अयं हि देहिनो देहो द्रव्य-ज्ञान-क्रियात्मकः ।
देहिनो विविध-क्लेश- सन्ताप-कृद् उदाहृतः ॥
**मध्वः : **द्रव्यात्मकः स्थूल-देहः क्रिया-कर्मेन्द्रियाणि च ।
ज्ञानेन्द्रियाणि च मनोज्ञानात्मकम् उदाहृतम् ॥ इति ब्रह्म-वैवर्ते ॥
कार्य-कारणयोर् एक-शब्द-व्यवहृतिर् भवेत् ॥ इति शब्द-निर्णये ॥२५॥
**श्रीधरः : **तद् एवं ममतास्पदानां पुत्रादीनां दुःखादि-हेतुत्वम् उक्तं तत्र देह-संबन्धो मूलम् इत्य् आह—अयं हीति । हीत्य् अवधारणे । अयं द्रव्य-ज्ञान-क्रियात्मकोऽधिभूताधिदैवाध्यात्म-रूपो देह एव देहिनो देहोऽहम् इति मन्यमानस्य देहिनो जीवस्य विविधान् क्लेशान् सन्तापांश् च कोरोतीति तथा ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद् एवं ममतास्पदानां पुत्रादीनां दुःखादि-हेतुत्वम् उक्तं तत्र देह-संबन्धो मूलम् इत्य् आह—अयं हीति । हीत्य् अवधारणे । अयं द्रव्य-ज्ञान-क्रियात्मकोऽधिभूताधिदैवाध्यात्म-रूपो देह एव देहिनो देहोऽहम् इति मन्यमानस्य देहिनो जीवस्य विविधान् क्लेशान् सन्तापांश् च कोरोतीति तथा ॥२५॥
—ओ)०(ओ—
॥ ६.१५.२६ ॥
तस्मात् स्वस्थेन मनसा विमृश्य गतिम् आत्मनः ।
द्वैते ध्रुवार्थ-विश्रम्भं त्यजोपशमम् आविश ॥
**मध्वः : **अनन्यापेक्षतस् त्व् एको हरिर् अन्यद् द्वयं स्मृतम् ।
अन्यापेक्षत्वतस् तेन प्राप्तत्वाद् द्वैतम् उच्यते ॥ इति च ॥२६॥
**श्रीधरः : **स्व-स्थेनाव्यग्रेण । गतिं तत्त्वम् । ध्रुवोऽयम् अर्थ इति विश्रम्भं विश्वासं प्रणयं वा त्यज । तपश् चोपशमम् आविशाश्रय ॥२६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्व-स्थेनाव्यग्रेण गतिं तत्त्वम् । द्वैते अहन्तास्पद-ममतास्पद-बहुले इदन्तास्पदे जगति ध्रुवो वास्तव-वस्तु-भूतोऽयम् अर्थ इति विश्रम्भं विश्वासं प्रणयं वा त्यज तस्य वस्त्व् अवस्तु-मयत्वात् शाश्वतस् तु ध्रुवो, नित्य-सदातन-सनातना इत्य् अमरः । ततश् चोपशमम् आविश आश्रय ॥२६॥
—ओ)०(ओ—
॥ ६.१५.२७ ॥
श्री-नारद उवाच—
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
यां धारयन् सप्त-रात्राद् द्रष्टा सङ्कर्षणं विभुम् ॥
**मध्वः : **रुद्राद्याः शेष-देहस्थं विष्णुं सङ्कर्षणाभिधम् ।
शेषान्तर्यामिनं ज्ञात्वा स्वपदं प्रापुर् अञ्जसा ॥ इति तन्त्र-भागवते ॥२७॥
**श्रीधरः : **अङ्गिरसोपदिष्टं तत्त्वं परमेश्वर-प्रसादं विना न प्राप्यत इति तत् प्रसादाय मन्त्र-विद्यां नारद उपदिशति—एताम् इति । उपनिषण्णं परं श्रेयोऽयाम् इत्य् उपनिषत् । मन्त्र एवोपनिषत्तां प्रतीच्छ गृहाण । द्रष्टा द्रक्ष्यति भवान् ॥२७॥
**क्रम-सन्दर्भः : **तद् एवं यद् अङ्गिरसोपदिष्टं तत्रापरितुष्टः श्री-नारद उवाच । सप्त-रात्रम् अतिक्रम्य दिन-कतिपयानन्तरम् इत्य् अर्थः ॥२७॥
**विश्वनाथः : **ननु तर्हि ध्रुवोऽर्थ एव कस् तम् एव मह्यं कृपया कथयेत्य् अपेक्षायाम् अङ्गिरसा प्रेरितो महा-भागवतत्वान् नारद एवाह—एताम् इति । मन्त्र-रूपाम् उपनिषदं प्रतीच्छ गृहाण ॥२७॥
—ओ)०(ओ—
॥ ६.१५.२८ ॥
यत्-पाद-मूलम् उपसृत्य नरेन्द्र पूर्वे
शर्वादयो भ्रमम् इमं द्वितयं विसृज्य ।
सद्यस् तदीयम् अतुलानधिकं महित्वं
प्रापुर् भवान् अपि परं न चिराद् उपैति ॥
**मध्वः : **द्वैतेन बन्ध-सन्त्यागात् द्वैत-त्यागी भवत्य् उत इति शब्द-निर्णये । देहाद्य् अहं ममाभिमानो भ्रमः ।
तेषां तेषां पदान्य् एव वैष्णवानि पदानि तु ।
तेषां महित्वं च तथा हरेस् तद्-वशगं यतः ।
अतुल्यानधिकं चैव तस्य तस्यैव मुक्तिगम् ॥
स्वस्यैव पूर्व-माहात्म्यम् अपेक्ष्य न हरेः क्वचित् ।
माहात्म्यम् अन्य-प्राप्यं स्यान् न ते विष्णाव् इति श्रुतेः ॥ इति तन्त्र-भागवते ।
ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तं नैव शक्यते ।
तद् यत् स्वभावः कैवल्यं स भवान् केवलो हरिः ॥ इति स्कान्दे ।
तत्-प्रसाद-लभ्यत्वात् तदीयम् अपि तेनातुल्यम् अनधिकं चान्य माहात्म्यम् ॥२८॥
**श्रीधरः : **अतुलं च तद् अनधिकं च समानाधिक-शून्यं परं महिमानं प्रापुः । उपैत्य् उपैष्यति ॥२८॥
**क्रम-सन्दर्भः : **अथोपदेशे वैशिष्ट्यम् आह—यद् इति ॥२८॥
**विश्वनाथः : **भ्रमयति भवन्तम् इति भ्रमन्तं, द्वितीयं द्वैतम् उपैति उपैष्यति ॥२८॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठे पञ्चदशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
चित्रकेतूपाख्याने
पञ्चदशोऽध्यायः ।
॥ ६.१५ ॥1
(६.१६)
नानात्वं जन्म-नाशश् च क्षयो वृद्धिः क्रिया-फलम् ।
द्रष्टुश् च भान्त्य् अतद्-धर्मा यथाग्नेर्दाह्य-विक्रियाः ॥१॥
त इमे देह-संयोगाद् आत्मन्य् आभान्त्य् असद्-ग्रहात् ।
स्वप्ने यथा तथा नान्यद् ध्यायेत् सर्वं भयं च यत् ॥२॥
प्रसुप्तस्यानहं-मानान् न घोरा भाति संसृतिः ।
जीवतोऽपि यथा तद्वद् विमुक्तस्यानहं-मतेः ॥३॥
तस्माद् अन्यन् मनो-मात्रं जह्य् अहं-ममता-तमः ।
वासुदेवे भगवति मनो धेह्य् आत्मनीश्वरे ॥४॥
-
निम्न-लिखितं श्लोक-चतुष्टयं मध्व-सम्प्रदाये स्वीकृतम्— ↩︎