१४ चित्रकेतूपाख्याने

॥ ६.१४.१-२ ॥

श्री-परीक्षिद् उवाच—

रजस्-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथम् आसीद् दृढा मतिः ॥**

देवानां शुद्ध-सत्त्वानाम् ऋषीणां चामलात्मनाम् ।
भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥**

**श्रीधरः : **

वृत्रस्य ज्ञान-भक्त्य्-आदि श्रुत्वा पृष्टः परीक्षिता ।

हेतुम् आह चतुर्भिस् तत् प्राग्-जन्म-चरितोक्तिभिः ॥

चतुर्दशे तु सहसा कृच्छ्र-लब्धे सुते मृते ।

चित्रकेतोर् अतिस्नेहाद् अतिशोको निरूप्यते ॥

रजश् च तमश् च स्वभावो यस्य ॥१॥

**सनातनः **(ह।भ।वि। ११.५४५) : शुद्ध-सत्त्व-मयानाम् अपि देवानाम् अमलात्मनां निर्मल-चित्तानाम् अपि ऋषीणाम्प्रायेण इति कदाचित् कस्यचिद् एव जायत इत्य् अर्थः ॥२॥

**क्रम-सन्दर्भः : **श्री-भगवज्-ज्ञानस्य दुर्लभत्वम् उक्त्वा, सत्-सङ्गेन सुलभत्वम् आह—देवानाम् इत्य्-आदि ।

यद्यपि सत्त्वात् सञ्जायते ज्ञानम् [गीता १४.१७] इत्य्-आदिना, कैवल्यं सात्त्विकं ज्ञानं [भा।पु। ११.२५.२४] इत्य्-आदिना, सत्त्वं यद् ब्रह्म-दर्शनम् [भा।पु। ११.२५.२४] इत्य्-आदिना च सत्त्वस्य ज्ञान-कारणत्वम् उक्तम्, तथापि भगवज्-ज्ञानस्य तु—देवानां शुद्ध-सत्त्वानाम् [भा।पु। ६.१४.२] इत्य्-उक्त्या, मुक्तानाम् अपि सिद्धानाम् [भा।पु। ६.१४.५] इत्य्-उक्त्या, सत्त्वादि-सद्-भावेऽपि भगवज्-ज्ञानस्याप्य् अभावात् । रजस्-तमः-स्वभावस्य इत्य्-आद्य्-उक्त्या, तद्-अभावेऽपि सद्-भावान् न सत्त्वस्य तत्-कारणत्वम्, किन्तु तद्-उत्तरत्वेन तस्य पूर्व-जन्मनि श्री-नारदादि-सङ्ग-वर्णनया—नैषां [भा।पु। ७.५.३२] इत्य्-आदौ, महीयसां पाद-रजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् इत्य्-उक्त्या च, भगवत्-कृपामृत-परिमल-पात्र-भूतस्य श्रीमतो महतः सङ्ग एव कारणम् । तत्-सङ्गश् च तुलयाम लवेनापि [भा।पु। १.१८.१३] इत्य्-उक्त्या निर्गुणावस्थातोऽप्य् अधिकत्वात् परम-निर्गुण एव । सप्तमस्य प्रथमे च—समः प्रियः सुहृद् ब्रह्मन् [भा।पु। ७.१.१] इत्य्-आदौ सगुणे देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्-प्रह्लादादिष्व् एवेति प्रतिपादनान् महतां निर्गुणत्वाभिव्यक्त्या तत्-सङ्गस्यापि निर्गुणत्वं व्यक्तम् ॥१-२॥ [भक्ति-सन्दर्भ १३४]

**विश्वनाथः : **

चतुर्दशे चित्रकेतोर् विविक्ते कृपया सताम् ।

सुखं च दुःखं च सुतस्योत्पत्त्या मृत्युनाभवत् ॥

शुद्ध-सत्त्वानां शुद्धान्तः-करणानाम् । प्रायेणेति अन्तःकरण-शुद्धौ ज्ञानं यथा स्वतः स्यात्, तथा न भक्तिः । तस्याः साधु-सङ्गाद् विनाभाविनाभावित्वात् ॥१-२॥

—ओ)०(ओ—

॥ ६.१४.३-५ ॥

रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥**

प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥**

मुक्तानाम् अपि सिद्धानां नारायण-परायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने॥**

**मध्वः : **नव-कोट्यस् तु देवानाम् ऋषयः सप्त-कोटयः ।

नारायणायणाः सर्वे ये केचित् तत्-परायणाः ॥ इति च ।
नारायणायना देवा ऋष्याद्यास् तत्-परायणाः ।
ब्रह्माद्याः केचनैव स्युः सिद्धो योग्य-सुखं लभन् ॥ इति तन्त्र-भागवते ।
सन्ताप-क्रोध-रागादिष्व् अनर्थ-कवचः क्वचित् ॥ इति शब्द-निर्णये ॥५॥

**श्रीधरः : **भक्तेर् दुर्लभत्वं प्रपञ्चयति—रजोभिर् इति त्रिभिः । पार्थिवैः रजोभिः परमाणुभिः समाः संख्याताः । अनन्ता इत्य् अर्थः । जन्तवो जीवाः । तेषां मध्ये ये केचन कतिपये श्रेयो धर्मम् ईहन्ते कुर्वन्ति । मुच्येत गृहादि-सङ्गाद् विमुच्यते । सिध्यति तत्त्वं जानाति ॥३-५॥

**सनातन **(ह।भ।वि। १०.१८७-१८९) **: **पार्थिवैः रजोभिः परमाणुभिः समाः सङ्ख्याता अनन्ता इत्य् अर्थः । जन्तवो जीवाः । तेषां मध्ये ये केचन कतिपये श्रेयो धर्मम् ईहन्ते कुर्वन्ति ॥३॥

मुच्यते गृहादि-सङ्गान् मुच्यते । सिध्यति तत्त्वं जानाति । यद् वा, मुच्येत संसारान् मुक्तो भवेत्, तस्मिन्न् अपि कश्चिद् एव सिध्यति । स्व-स्वरूपानुभव-रूपम् आनन्दांशं प्राप्नोति । एवं मुक्तेः सकाशात् सिद्धेर् विशेषः । यद् वा, मुच्येत जीवन्-मुक्तो भवेत् । सिध्यति भगवति परमानन्द-समुद्रे लीयते । एवं जीवन्-मुक्तत्वे स्वरूपानुभव-रूपानन्दांश-मात्रानुभवा, सिद्धत्वे चानन्द-विशेषानुभवेन पूर्वतोऽस्य श्रैष्ठ्यं सिद्धम् एव । भगवल्-लयत्वेऽपि पृथक्-स्थित्य्-अभिप्रायेणोत्तर-श्लोके सिद्धानाम् इति बहुत्वम् । एतच् च श्री-भागवतामृतोत्तर-खण्डे सम्यङ्-निरूपितम् एवास्ति ॥४॥

मुक्तानाम् अपि सिद्धानाम् अपि कोटिष्व् अपि मध्ये सुदुर्लभः परम-दुष्प्राप्यः । एवं परम-दौर्लभ्येनास्यात्यन्त-श्रेष्ठतमत्वम् उक्तम् । प्रशान्तात्मेति स्वरूप-मात्र-निर्देशः । तस्यैव मुख्यतमत्वं सम्पूर्ण-प्रशान्तत्वात् । हे महा-मुने ! इति एतच् च त्वम् एव सम्यग् जानासि, नान्यः । यद् वा, त्वम् एवैक एतादृशः, नान्य इति भावः ॥५॥

**क्रम-सन्दर्भः : **अत एव शुद्ध-प्रीतिमत एव सर्वतः श्रैष्ठ्यम् आह त्रिकेण—रजोभिर् इति । श्रेयः पर-लोक-सुख-साधनं धर्मादि । मुच्येत जीवन्-मुक्तो भवति । जीवन्-मुक्तस्य च यस्य भगवद्-आद्य्-अपराधो दैवान् न स्यात् स एव सिध्यति तत्-तल्-लक्षणाम् अन्तिमां मुक्तिं प्राप्नोति । येऽन्येऽरविन्दाक्ष विमुक्त-मानिनः [भा।पु। १०.२.३२] इत्य्-आदि-व्याख्यान-रीत्या जीवन्-मुक्तानाम् अप्य् अधः-पात-श्रवणात् । तथा वासना-भाष्य-धृत-भगवत्-परिशिष्ट-वचने—

जीवन्-मुक्ताः प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥

इत्य्-आदि भक्ति-सन्दर्भे (१११, १२१) दर्शित-प्रमाणेभ्यस् तत्रापि कश्चिद् एव निर्विघ्नतां प्राप्नोतीत्य् अर्थः । तत्र जीवन्-मुक्तानां सिद्ध-मुक्तानां च याः कोटयस् तास्व् अपि नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य् आदेः । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगं [भा।पु। ५.६.१८] इत्य् अतश् च नारायण-परायणः सुदुर्लभ एव यतः स एव प्रशान्तात्मा प्रकृष्ट-भगवत्-तत्त्व-निष्ठा-वरिष्ठ इत्य् अर्थः । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.१६] इति श्री-भगवता स्वयं व्याख्यातत्वात् । तत्र मुक्तानां प्राकृत-शरीरस्थत्वेऽपि तद्-अभिमान-शून्यानाम् । सिद्धानां—प्राप्त-सालोक्यादीनां च कोटिष्व् अपि मध्ये नारायण-सेवा-मात्राकाङ्क्षी सुदुर्लभः । प्रशान्तात्मा सर्वोपद्रव-रहितः ॥३-५॥

प्रीति-सन्दर्भः (३५): अत एव शुद्ध-प्रीतिमत एव सर्वतः श्रैष्ठ्यम् आह—रजोभिर् इति त्रिभिः । श्रेयः पर-लोक-सुख-साधनं धर्मादि । मुच्येत जीवन्-मुक्तो भवति । जीवन्-मुक्तस्य च यस्य भगवद्-आद्य्-अपराधो दैवान् न स्यात् स एव सिध्यति तत्-तल्-लक्षणाम् अन्तिमां मुक्तिं प्राप्नोति ।

आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भा।पु। १०.२.३२]
जीवन्-मुक्ताः प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ [भगवत्-परिशिष्ट]
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥

इत्य्-आदि भक्ति-सन्दर्भे (१११, १२१) दर्शित-प्रमाणेभ्यः । तत्र जीवन्-मुक्तानां सिद्ध-मुक्तानां च याः कोटयः, तास्व् अपि नायं सुखापो भगवान् [भा।पु। १०.९.२१] इत्य्-आदेः, मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इत्य् अतश् च नारायण-परायणः सुदुर्लभ एव, यतः स एव प्रशान्तात्मा प्रकृष्ट-भगवत्-तत्त्व-निष्ठा-वरिष्ठ इत्य् अर्थः । शमो मन्-निष्ठता बुद्धेः [भा।पु। ११.१९.१६] इति श्री-भगवता स्वयं व्याख्यातत्वात् ।

**विश्वनाथः : **तेषां मध्ये ये केचनैव मनुज-देव-गन्धर्वादयो भवन्ति न तु सर्वे । तेषाम् अपि मध्ये ये केचनैव श्रेयो-धर्मादि ॥३॥ मुच्येत जीवन्मुक्तो भवेत् ॥४॥

मुक्तानाम् अपि मध्ये कश्चिद् एव सिद्ध्यतीति तत्रैतद् उक्तं भवति मोक्ष-साधनवन्तोऽपि बहवो मुक्ता न भवन्ति, किन्तु केचिद् एव, मुक्ता अपि सर्वे सिद्धा न भवन्ति किन्तु केचिद् एव।

जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः ।

यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ इत्य्-आद्य् उक्तेः ।

ते च सिद्धाः सन्निहित-सायुज्या एवोच्यन्ते तेषां मध्ये नारायण-परायण इति निर्धारणानुपपत्तेः षष्ठीयं पञ्चम्य्-अर्थ एव । ततश् च मुक्तेभ्यः सिद्धेभ्यश् च सकाशात् नारायण-परायणः श्रैष्ठ्यात् सुदुर्लभः । यद् वा, अयम् अत्र विवेकः । ज्ञानं हि द्विविधं केवलं भक्ति-सहितं च । तत्र केवल-ज्ञानेन स्थूल-तुषावघातिन इव मुकुक्षवोऽपि न मुच्यन्ते । भक्ति-सहितं ज्ञानं च द्विविधं भगवद्-आकारे माया-बुद्ध्या अनादरेऽपि तद्-भक्ति-सहितम्, तया विनैव तद्-आदरे सति तद्-भक्ति-सहितं च । तत्राद्ये खलु मुक्ता न भवन्ति किन्तु मुक्ताभिमानिन एव । तादृशा भक्त्या अविद्यां सम्यङ् निरस्यविद्योदयं च सम्यग् असम्पाद्य सद्य एवान्तर्धानात् तया विना च तत्-पदार्थ-ज्ञानाभावान् न ब्रह्मणि लीयन्ते । तत्र—येऽन्येऽरविन्दाक्ष विमुक्त-मानिनः [भा।पु। १०.२.३२] इति प्रमाणम् । भगवद्-गीता च—

अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ [गीता ९.११-१२]

अनयोर् अर्थः—मानुषीं तनुम् आश्रितंमां मूढा अवजानन्ति, सार्वत्रिक्या मानुष्यास् तनोर् मायिकत्व-दर्शनात् मदीयाया अपि मानुष्यास् तनोर् मायिकत्व-कल्पनम् एव ममावज्ञा । मम मानुषीं तनुं कीदृशीं परं भावं श्रेष्ठं सत्त्वं विशुद्धं सत्त्वम् इत्य् अर्थः । कीदृशम् ? भूत-महेश्वरम् । भूतानां ब्रह्मादि-तृणान्त-जीवानां महेश्वरं परम-कारणम्, मम मानुषी-तनुर् एव स्वीकृता प्राकृत-सर्व-वस्तु-कारणम् इत्य् अर्थः ।

मोघाशा इति यदि ते मद्-भक्ताः स्युस् तदा ते मोघाशा मत्-प्राप्त्य्-आशा तेषां व्यर्था स्यात् । यदि ते कर्मिणस् तदा ते मोघ-कर्माणः स्युस् तेषां स्वर्गो न स्यात् । यदि ते ज्ञानिनस् तदा मोघ-ज्ञानास् तेषां मोक्षो न स्यात्, तर्हि तेषां किं स्यात् ? इत्य् अत आह—राक्षसीम् इति, राक्षस्यादि-योनौ जन्म स्याद् इत्य् अर्थः । द्वितीये तु अविद्या-विद्ययोर् उपरामेऽप्य् अनुपरतया ज्ञान-शावल्य-रहितया भक्त्या तत्-पदार्थं ज्ञात्वा ब्रह्म-सायुज्यं प्राप्नुवन्ति । यद् उक्तम्—

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्-भक्तिं लभते पराम् ॥
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८.५४-५५]

किं च, तेषां सिद्धानां मध्ये कोऽपि भक्त्या तत्-पदार्थानुभवारम्भ-समये यदि कस्यचिच् छुद्ध-भक्तस्य कृपया पूर्णां शुद्धां भक्तिं प्राप्नोति, तदा तन्-माधुर्य-लाभात् सायुज्यम् अरोचयित्वा नारायण-परायणः स्याद् इति निर्धारण-षष्ठ्य् अपि व्याख्येया । तत्रानुग्राहक-भक्तस्य शान्तत्वे शान्त-भक्त इति दासादिर् इति । अस्याति-वैरल्येन दौर्लभ्यात् प्रकृआन्त-सहस्र-शब्दम् अप्रयुज्य कोटिष्व् अपीत्य् आह स्म ॥५॥

—ओ)०(ओ—

॥ ६.१४.६ ॥

वृत्रस् तु स कथं पापः सर्व-लोकोपतापनः ।
इत्थं दृढ-मतिः कृष्ण आसीत् सङ्ग्राम उल्बणे ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं परम-दुर्लभा त्रिगुणातीता भक्ति-त्रिगुणान्धे असुरे वृत्रे कथम् अवर्ततेति पृच्छति वृत्रस् त्व् इति ॥६॥

—ओ)०(ओ—

॥ ६.१४.७ ॥

अत्र नः संशयो भूयान् छ्रोतुं कौतूहलं प्रभो ।
यः पौरुषेण समरे सहस्राक्षम् अतोषयत् ॥**

**श्रीधरः : **न चेन्द्र-भिया कृष्णं शरणं गत इत्य् आह—यः पौरुषेणेति ॥७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.८ ॥

श्री-सूत उवाच—

परीक्षितोऽथ सम्प्रश्नं भगवान् बादरायणिः ।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.९ ॥

श्री-शुक उवाच—

शृणुष्वावहितो राजन्न् इतिहासम् इमं यथा ।
श्रुतं द्वैपायन-मुखान् नारदाद् देवलाद् अपि ॥**

**श्रीधरः : **यथा यथावत् शृणु ॥९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.१० ॥

आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप ।
चित्रकेतुर् इति ख्यातो यस्यासीत् कामधुङ् मही ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.११ ॥

तस्य भार्या-सहस्राणां सहस्राणि दशाभवन् ।
सान्तानिकश् चापि नृपो न लेभे तासु सन्ततिम् ॥**

**श्रीधरः : **भार्या-सहस्राणां दश-सहस्राणि कोटिर् इत्य् अर्थः । सान्तानिकः स्वयं सन्तानार्होऽपि पुत्रोत्पादन-सपर्थोऽपि तासु सन्ततिं न लेभे । सर्वास् ता वन्ध्या एव दैव-योगेन मिलिता इति भावः ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भार्या-सहस्राणां दश-सहस्राणि कोटिर् इत्य् अर्थः । सान्तानिकः सन्तान-प्रयोजनकः न केवलं विषय-भोगार्थम् एव तावन्त्यो भार्या इति भावः ॥११॥

—ओ)०(ओ—

॥ ६.१४.१२ ॥

रूपौदार्य-वयो-जन्म- विद्यैश्वर्य-श्रियादिभिः ।
सम्पन्नस्य गुणैः सर्वैश् चिन्ता बन्ध्या-पतेर् अभूत् ॥**

**श्रीधरः : **तद् एवाह—बन्ध्या-पतेर् इति ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **बन्ध्या-पतेर् इति सर्वास् ता बन्ध्या एव दैव-योगेन मिलिता इति भावः ॥१२॥

—ओ)०(ओ—

॥ ६.१४.१३ ॥

न तस्य सम्पदः सर्वा महिष्यो वाम-लोचनाः ।
सार्वभौमस्य भूश् चेयम् अभवन् प्रीति-हेतवः ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.१४ ॥

तस्यैकदा तु भवनम् अङ्गिरा भगवान् ऋषिः ।
लोकान् अनुचरन्न् एतान् उपागच्छद् यदृच्छया ॥**

श्रीधरः, विश्वनाथः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **ततः सत्-सङ्ग-हेतुश् च सतां स्वैरचारितैव, नान्यः । यथाह—तस्यैकदेति । यदृच्छयास्वैरतया, न तु हेत्व्-अन्तर-प्रयुक्ततेत्य् अर्थः । यदृच्छा स्वैरता इत्य् अमरः । सत्सु परमेश्वर-प्रयोक्तृत्वं च सद्-इच्छानुसारेणैव । तद्-उक्तं—अहं भक्त-पराधीनः [भा।पु। ९.४.६३] इति । अत्रापि तदैव तस्य [चित्रकेतोः] पर-तत्त्व-साम्मुख्यं जातम्, कालान्तरे तु प्रादुर्भूतम् इति मन्तव्यम् । अत एव तद्-विलास-समये श्रीमताङ्गिरसैव इति वक्ष्यते [भा।पु। ६.१५.१९] ॥१४॥

—ओ)०(ओ—

॥ ६.१४.१५-१६ ॥

तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः ।
कृतातिथ्यम् उपासीदत् सुखासीनं समाहितः ॥**

महर्षिस् तम् उपासीनं प्रश्रयावनतं क्षितौ ।
प्रतिपूज्य महाराज समाभाष्येदम् अब्रवीत् ॥**

**श्रीधरः : **उपासीदत् तस्य समीपम् उपविवेश । समाहितः संयतः ॥१५-१६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.१७ ॥

अङ्गिरा उवाच—

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथात्मनः ।
यथा प्रकृतिभिर् गुप्तः पुमान् राजा च सप्तभिः ॥**

**श्रीधरः : **अपि किम् । अनामयम् आरोग्यम् । स्वस्ति शुभम् । प्रकृत्य्-अधीनम् एव हि राज्यम् इति सदृष्टान्तम् आह । यथा महद्-आद्य्-आदिभिः सप्तभिः पुमान् जीवो नित्यं गुप्तो भवति नतु तद् व्यतिरेकेण क्षणम् अपि तिष्ठति तथा राजापि सप्त-प्रकृतिभिः—

स्वाम्य्-अमात्यौ जनपदा दुर्ग-द्रविण-सञ्चयाः ।
दण्डो मित्रं च तस्यैताः सप्त प्रकृतयो मताः ॥

इत्य् उक्त-लक्षणाभिर् नित्यं गुप्तः सन् । स्वामी गुरुः स्वयं वा ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अपि किम् अनामयम् आरोग्यं स्वस्ति शुभं प्रकृतीनाम् अमात्यादीनाम् । राज्ञः सुखम् अमात्यादि-सुखाधीनम् एव अमात्यादि-सुखम् अपि राज-सुखाधीनम् इति सुदृष्टान्तम् आह—यथा महद्-आदिभिः प्रकृतिभिः सप्तभिः पुमान् जीवो नित्यं गुप्तो भवति न तु तद्-व्यतिरेकेण क्षणम् अपि तिष्ठति तथा राजापि सप्तभिः स्वाम्य्-अमात्य-सुहृत्-कोष-राष्ट्र-दुर्ग-बलैः । स्वाम्य् अत्र गुरुः ॥१७॥

—ओ)०(ओ—

॥ ६.१४.१८ ॥

आत्मानं प्रकृतिष्व् अद्धा निधाय श्रेय आप्नुयात् ।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥**

**श्रीधरः : **आत्मानं प्रकृतिष्व् अद्धा साक्षान् निधाय तद् अनुवर्तिनं कृत्वा श्रेयो राज्य-सुखं प्राप्नुयाद् इत्य् अर्थः । प्रकृतीनां च सुखं राजाधीनम् एवेत्य् आह—हे नरदेव, तथा प्रकृतयोऽपि राज्ञा आहिताधयो निहित-निक्षेपा धनैः समृद्धा भवन्ति । पाठान्तरे आसमन्ततो हताधयो निरस्तमनो-दुःखा भवन्तीत्य् अर्थः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **राजा आत्मानं स्व-प्रकृतिषु निधाय आत्म-सर्व-भारं निक्षिप्य इत्य् अर्थः ।श्रेयः राज्य-सुखम् । नरदेवे राजन्य् एव आहितः अर्पितः आधिर् धन-तुरग-हस्तादि-तृष्णा-मूला मनः-पीडा यैस् ते । राज्ञा गुप्ता । आहताधय इति पाठे नरदेवेन नाशित-मनो-दुःखाः श्रेयः आप्नुयुः ॥१८॥

—ओ)०(ओ—

॥ ६.१४.१९ ॥

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।
पौरा जानपदा भूपा आत्मजा वश-वर्तिनः ॥**

**श्रीधरः : **प्रजाश् च अमात्यश् च श्रेण्यश् च समय-विशेषेण सङ्घशो वर्तमाना वणिक् प्रभृतयः पौराः पुर-वासिनः । जानपदास् तत् तद् देशाधिकारिणः । मन्त्र-सहायो मन्त्री कर्म-सहायोऽमात्य इति भेदः ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किं च, राज्ञोऽपि यद्य् आज्ञा-कारिणः सर्व-जनाः स्युस् तदैव सुखम् इत्य् आह अपीति श्रेण्यस् तैलिक-ताम्बूलिकादयः ॥१९॥

—ओ)०(ओ—

॥ ६.१४.२० ॥

यस्यात्मानुवशश् चेत् स्यात् सर्वे तद्-वशगा इमे ।
लोकाः सपाला यच्छन्ति सर्वे बलिम् अतन्द्रिताः ॥**

**श्रीधरः, विश्वनाथः : **तव मनः स्व-वशं न वेत्य् अर्थात् पृच्छति—यस्येति । अनुवशः अनुवर्ती अधीनः ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.२१ ॥

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
लक्षयेऽलब्ध-कामं त्वां चिन्तया शबलं मुखम् ॥**

**श्रीधरः : **आत्मा भवान् । आत्मना न प्रीयते न तुष्यति तत् किम् । परतो वा स्वतो वाऽलब्ध-कामं त्वां लक्षये ॥२१॥

**क्रम-सन्दर्भः : **आत्मन इति । यतस् तव मुखं चिन्तया शवलं लक्ष्यते ॥२१॥

**विश्वनाथः : **तद् अप्य् अब्रुवाणं राजानं पुनर् आह तव आत्मनो देहस्यात्मा स्वत एव वा परत एव हेतोर् वा न प्रीयते सुखम् एवास्मीति चेन् न हि त्य् आह लक्षय इति ॥२१॥

—ओ)०(ओ—

॥ ६.१४.२२ ॥

एवं विकल्पितो राजन् विदुषा मुनिनापि सः ।
प्रश्रयावनतोऽभ्याह प्रजा-कामस् ततो मुनिम् ॥**

**श्रीधरः : **विदुषा सर्व-ज्ञेनापि ॥२२॥

**क्रम-सन्दर्भः : **विकल्पितो विविध-कल्पना-विषयीकृतः ॥२२॥

**विश्वनाथः : **विकल्पितः विविध-विकल्प-विषयीकृतः । विदुषा सर्वज्ञेनापि तन्-मुखाद् एव तद् दुःखं श्रोतुम् इति भावः ॥२२॥

—ओ)०(ओ—

॥ ६.१४.२३ ॥

चित्रकेतुर् उवाच—

भगवन् किं न विदितं तपो-ज्ञान-समाधिभिः ।
योगिनां ध्वस्त-पापानां बहिर् अन्तः शरीरिषु ॥**

**श्रीधरः : **अलब्ध-कामत्वं कथयन् पुत्रं वाचते—भगवन्न् इति चतुर्भिः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **शरीरिष्व् अस्मद्-विधेषु ॥२३॥

—ओ)०(ओ—

॥ ६.१४.२४ ॥

तथापि पृच्छतो ब्रूयां ब्रह्मन्न् आत्मनि चिन्तितम् ।
भवतो विदुषश् चापि चोदितस् त्वद्-अनुज्ञया ॥**

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **यतश् चोदितो नोदितस् ततस् तद्-अनुज्ञया ब्रूयात् ॥२४॥

**विश्वनाथः : **पृच्छतो भगवतोऽहम् आज्ञा-कारीत्य् अर्थः । आत्मनि मनसि चिन्तितं चिन्ताम् ॥२४॥

—ओ)०(ओ—

॥ ६.१४.२५ ॥

लोक-पालैर् अपि प्रार्थ्याः साम्राज्यैश्वर्य-सम्पदः ।
न नन्दयन्त्य् अप्रजं मां क्षुत्-तृट्-कामम् इवापरे ॥**

**श्रीधरः : **अप्रजम् अपुत्रम् । क्षुत्-तृड्भ्याम् अन्न-पान-कामम् अपरे स्रक् चन्दनादयो यथा न सुखयन्ति ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **क्षुत्-तृड्भ्याम् अन्न-जलयोः कामो यस्य तम् अपरे स्रक्-चन्दनादयः ॥२५॥

—ओ)०(ओ—

॥ ६.१४.२६ ॥

ततः पाहि महा-भाग पूर्वैः सह गतं तमः ।
यथा तरेम दुष्पारं प्रजया तद् विधेहि नः ॥**

**श्रीधरः : **पूर्वैः पित्रादिभिः सह गतं प्राप्तं तमो नरकं प्रजया यथा तरेम तत् तथा विधेहि ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पूर्वैः पित्रादिभिः सह गतं प्राप्तं तमो नरकं प्रजया यथा तरेम तथा विधेहि ॥२६॥

—ओ)०(ओ—

॥ ६.१४.२७ ॥

श्री-शुक उवाच—

इत्य् अर्थितः स भगवान् कृपालुर् ब्रह्मणः सुतः ।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारम् अयजद् विभुः ॥**

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **पुत्र-दान-मिषेण वैराग्योत्पादन-द्वारा भगवद्-अभिमुखी-करणेच्छुत्वात् कृपालुः । तथा च वक्ष्यते स्वयम् एव—

तदैव ते परं ज्ञानं ददामि गृहम् आगतः ।
ज्ञात्वान्याभिनिवेशं ते पुत्रम् एव ददाम्य् अहम् ॥ [भा।पु। ६.१५.३०] इति ॥२७॥

**विश्वनाथः : **त्वाष्ट्रं त्वष्टृ-देवताकम् ॥२७॥

—ओ)०(ओ—

॥ ६.१४.२८ ॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।
नाम्ना कृतद्युतिस् तस्यै यज्ञोच्छिष्टम् अदाद् द्विजः ॥**

**श्रीधरः : **यज्ञोच्छिष्टं यज्ञ-शेषम् ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रथम-व्यूढत्वेन ज्येष्ठा सौभाग्यातिशयेन च श्रेष्ठा यज्ञोच्छिष्टं यज्ञेश्वरं चरुम् ॥२८॥

—ओ)०(ओ—

॥ ६.१४.२९ ॥

अथाह नृपतिं राजन् भवितैकस् तवात्मजः ।
हर्ष-शोक-प्रदस् तुभ्यम् इति ब्रह्म-सुतो ययौ ॥**

**श्रीधरः : **जन्मना हर्षं मरणेन च शोकं प्रददातीति तथा । इत्य् एवम् उक्त्वा ययौ ॥२९॥

**क्रम-सन्दर्भः : **निज-दोष-प्रत्याख्यानार्थं हर्ष-शोक-प्रद इत्य् उक्तम् ॥२९॥

**विश्वनाथः : **हर्ष-शोक-प्रद इति । केन प्रकारेण हर्ष-प्रदः ? केन प्रकारेण शोक-प्रदः ? इति सम्प्रत्य् अहं किं ब्रवीमि जन्म-मृत्युभ्यां राजैवायत्यां ज्ञास्यति किं चेयम् अप्रियोक्तिर् अपि सम्प्रत्य् अवश्य-वाच्यैवाग्रे राज्ञा दास्यमानस्योपालम्भनस्य प्रत्युत्तरार्थम् इति मनसि विमृश्य तत्त्वं स्पष्टम् अनुक्त्वा ययौ । पुत्रो मे बहु-गुणान्वितो भविष्यतीति हर्षदस् तद् अपि ऐश्वर्याधिक्यान् न मे वचस्करो भविष्यतीति शोकद इति भवतु, तद् दुःखं मया षोढव्यम् इति मनसि विचार्य राजा त्व् आनन्दैवेति ज्ञेयम् ॥२९॥

—ओ)०(ओ—

॥ ६.१४.३० ॥

सापि तत्-प्राशनाद् एव चित्रकेतोर् अधारयत् ।
गर्भं कृतद्युतिर् देवी कृत्तिकाग्नेर् इवात्मजम् ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अग्नेः सकाशात् कृत्तिका स्वात्मजम् इवेत्य् अर्थः ॥३०॥

—ओ)०(ओ—

॥ ६.१४.३१ ॥

तस्या अनुदिनं गर्भः शुक्ल-पक्ष इवोडुपः ।
ववृधे शूरसेनेश-तेजसा शनकैर् नृप ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.३२ ॥

अथ काल उपावृत्ते कुमारः समजायत ।
जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥**

**श्रीधरः : **शूरसेनानाम् ईशस्य तेजसा वीर्येण यो गर्भः स ववृद्धे ॥३२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.३३ ॥

हृष्टो राजा कुमारस्य स्नातः शुचिर् अलङ्कृतः ।
वाचयित्वाशिषो विप्रैः कारयाम् आस जातकम् ॥**

**श्रीधरः : **जातकं जात-कर्म ॥३३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.३४ ॥

तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च ।
ग्रामान् हयान् गजान् प्रादाद् धेनूनाम् अर्बुदानि षट् ॥**

**श्रीधरः : **अर्बुदं दश-कोटयः । वेदे तु कोटिर् एवार्बुदम् । नियुतं च प्रयुतं चार्बुदं चेति प्रयुतान् अन्तरं निर्देशात् ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.३५ ॥

ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् ।
धन्यं यशस्यम् आयुष्यं कुमारस्य महा-मनाः ॥**

**श्रीधरः : **धन्यं धन-कर्म । आयुष्यम् आयुष्करम् । महामना अत्युदारः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **धन्यम् उत्तमं कामं ववर्ष, न त्व् अधन्यम् । महा-मना अत्युदारः ॥३५॥

—ओ)०(ओ—

॥ ६.१४.३६ ॥

कृच्छ्र-लब्धेऽथ राजर्षेस् तनयेऽनुदिनं पितुः ।
यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.३७ ॥

मातुस् त्व् अतितरां पुत्रे स्नेहो मोह-समुद्भवः ।
कृतद्युतेः सपत्नीनां प्रजा-काम-ज्वरोऽभवत् ॥**

**श्रीधरः : **मोहस्य समुद्भवो यस्मिन् । प्रजा-काम-रूपो ज्वरस् तापः ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रजा-काम-रूपो ज्वरस् तापः ॥३७॥

—ओ)०(ओ—

॥ ६.१४.३८-३९ ॥

चित्रकेतोर् अतिप्रीतिर् यथा दारे प्रजावति ।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥**

ताः पर्यतप्यन्न् आत्मानं गर्हयन्त्योऽभ्यसूयया ।
आनपत्येन दुःखेन राज्ञश् चानादरेण च ॥**

**श्रीधरः : **दार इत्य् एकवचनम् आर्षम् ।आनपत्येन अपुत्रत्व-निमित्तेन ॥३८-३९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.४० ॥

धिग् अप्रजां स्त्रियं पापां पत्युश् चागृह-सम्मताम् ।
सुप्रजाभिः सपत्नीभिर् दासीम् इव तिरस्कृताम् ॥**

**श्रीधरः : **न गृहे सम्मतां न बहुमताम् । यद् वा, , गृहिण्य् एव गृहं न भार्येति सम्मताम् इत्य् अर्थः ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अगृहं गृह-भिन्नं वनं तत्रैव सम्मतां पत्युर् इति वन-वास-दानार्हाम् इत्य् अर्थः ॥४०॥

—ओ)०(ओ—

॥ ६.१४.४१ ॥

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।
अभीक्ष्णं लब्ध-मानानां दास्या दासीव दुर्भगाः ॥**

**श्रीधरः : **दास्यादासी यथा तथा वयं दुर्भगाः ॥४१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दास्या दासीवकस्याश्चिद् दुर्भगाया दास्या दास्य इव वयं दुर्भगा इत्य् अर्थः ॥४१॥

—ओ)०(ओ—

॥ ६.१४.४२ ॥

एवं सन्दह्यमानानां सपत्न्याः पुत्र-सम्पदा ।
राज्ञोऽसम्मत-वृत्तीनां विद्वेषो बलवान् अभूत् ॥**

**श्रीधरः : **न सम्मता वृत्तिर् जीवनं यासाम् ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **राज्ञोऽसम्मता वृत्तिश् चरित्रं यासाम् ॥४२॥

—ओ)०(ओ—

॥ ६.१४.४३ ॥

विद्वेष-नष्ट-मतयः स्त्रियो दारुण-चेतसः ।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥**

**श्रीधरः : **विद्वेषेण नष्टा मतिर् यासां ताः । गरं विषम् । दुर्मर्षा असहमानाः ॥४३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दुर्मर्षा असहमानाः ॥४३॥

—ओ)०(ओ—

॥ ६.१४.४४ ॥

कृतद्युतिर् अजानन्ती सपत्नीनाम् अघं महत् ।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.४५ ॥

शयानं सुचिरं बालम् उपधार्य मनीषिणी ।
पुत्रम् आनय मे भद्रे इति धात्रीम् अचोदयत् ॥**

**श्रीधरः : **धात्रीं स्तन-दायिनीम् ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.४६ ॥

सा शयानम् उपव्रज्य दृष्ट्वा चोत्तार-लोचनम् ।
प्राणेन्द्रियात्मभिस् त्यक्तं हतास्मीत्य् अपतद् भुवि ॥**

**श्रीधरः : **उद्गते तारके कनीनिके ययोस् ते लोचने यस्य तम् ॥४६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.४७ ॥

तस्यास् तदाकर्ण्य भृशातुरं स्वरं

घ्नन्त्याः कराभ्याम् उर उच्चकैर् अपि ।

प्रविश्य राज्ञी त्वरयात्मजान्तिकं

ददर्श बालं सहसा मृतं सुतम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **बालम् एव सुतं तं मृतं ददर्शेत्य् अन्वयः ॥४७॥

—ओ)०(ओ—

॥ ६.१४.४८ ॥

पपात भूमौ परिवृद्धया शुचा

मुमोह विभ्रष्ट-शिरोरुहाम्बरा ॥

**श्रीधरः : **विभ्रष्टाः शिरोरुहा अम्बरं च यस्याः सा ।

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.४९ ॥

ततो नृपान्तःपुर-वर्तिनो जना

नराश् च नार्यश् च निशम्य रोदनम् ।

आगत्य तुल्य-व्यसनाः सुदुःखितास्

ताश् च व्यलीकं रुरुदुः कृतागसः ॥

**श्रीधरः, विश्वनाथः : **ताश् च सपत्न्योऽपि ॥४९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.५०-५१ ॥

श्रुत्वा मृतं पुत्रम् अलक्षितान्तकं

विनष्ट-दृष्टिः प्रपतन् स्खलन् पथि ।

स्नेहानुबन्धैधितया शुचा भृशं

विमूर्च्छितोऽनुप्रकृतिर् द्विजैर् वृतः ॥

पपात बालस्य स पाद-मूले

मृतस्य विस्रस्त-शिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्प-कलोपरोधतो

निरुद्ध-कण्ठो न शशाक भाषितुम् ॥

**श्रीधरः : **अलक्षितोऽन्तको मृत्यु-हेतुर् यस्य तम् । अनुगताः प्रकृतयोऽमात्यादयो यस्य सोऽनुप्रकृतिः ।बाष्प-कलाभिर् अश्रु-बिन्दुभिर् उपरोधतः संवृतत्वेन निरुद्धः कण्ठो यस्य ॥५०-५१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नलक्षितोऽन्तको मृत्युर् यस्य तम् । अनुप्रकृतिर् अनुगतामात्य-सुहृद्-आदिकः । द्विजैर् वृतः पपातेति अमात्यादयो ब्राह्मणादयश् च पेतुर् इत्य् अर्थः ॥५०-५१॥

—ओ)०(ओ—

॥ ६.१४.५२ ॥

पतिं निरीक्ष्योरु-शुचार्पितं तदा

मृतं च बालं सुतम् एक-सन्ततिम् ।

जनस्य राज्ञी प्रकृतेश् च हृद्-रुजं

सती दधाना विललाप चित्रधा ॥

**श्रीधरः : **उरु-शुचार्पितः बहु-शोकेन व्याप्तम । एकम् एव सन्तति-रूपम् ॥५२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एकश् चासौ सन्ततिर् वंश-रूपश् च तं हृद्-रुजं दधाना पुष्यन्ती सती ॥५२॥

—ओ)०(ओ—

॥ ६.१४.५३ ॥

स्तन-द्वयं कुङ्कुम-पङ्क-मण्डितं

निषिञ्चती साञ्जन-बाष्प-बिन्दुभिः ।

विकीर्य केशान् विगलत्-स्रजः सुतं

शुशोच चित्रं कुररीव सुस्वरम् ॥

**श्रीधरः : **विगलन्त्यः स्रजो येभ्यस् तान् केशान् ॥५३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.५४ ॥

अहो विधातस् त्वम् अतीव बालिशो

यस् त्व् आत्म-सृष्ट्य्-अप्रतिरूपम् ईहसे ।

परे नु जीवत्य् अपरस्य या मृतिर्

विपर्ययश् चेत् त्वम् असि ध्रुवः परः ॥

**श्रीधरः : **आत्म-सृष्टेर् अप्रतिरूपम् अननुरूपं चेष्टसे । तद् एवाह—नु अहो परे वृद्धे जीवत्य् अपरस्य बालस्य या मृतिस् तत् । तदा हि वृद्धस्य सृष्टि-सामर्थ्याभावे बाले च मृते सति तव सृष्टिर् नष्टा स्याद् इत्य् अर्थः । ननु सांप्रतं स्व-सृष्टेर् विपरीतोऽस्मीति चेत् तत्राह—विपर्ययो विपरीतोऽसि चेत् तर्हि त्वं प्राणिनाम् अति-दुःख-कारित्वात् ध्रुवो नित्यः परः शत्रुर् असु । न तु कृपालुर् इत्य् अर्थः ॥५४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अस्माकम् एतादृशस्य दुःखस्य कारणं विधातैव, तस्य च कारणत्वं तदीय-मुर्खत्वाद् एवेति आत्म-सृष्टेर् अप्रतिरूपम् अननुरूपं चेष्टसे । तद् एवाह—नु अहो परे वृद्धे जीवत्य् अपरस्य बालस्य या मृतिस् तत् । तदा हि वृद्धस्य सृष्टि-सामर्थ्याभावे बाले च मृते सति तव सृष्टिर् नष्टा स्याद् इत्य् अर्थः । ननु सांप्रतं स्व-सृष्टेर् विपरीतोऽस्मीति चेत् तत्राह—विपर्ययो विपरीतोऽसि चेत् तर्हि त्वं प्राणिनाम् अति-दुःख-कारित्वात् ध्रुवो नित्यः परः शत्रुर् असु । न तु कृपालुर् इत्य् अर्थः ॥५४॥

—ओ)०(ओ—

॥ ६.१४.५५ ॥

न हि क्रमश् चेद् इह मृत्यु-जन्मनोः

शरीरिणाम् अस्तु तद् आत्म-कर्मभिः ।

यः स्नेह-पाशो निज-सर्ग-वृद्धये

स्वयं कृतस् ते तम् इमं विवृश्चसि ॥

**श्रीधरः : **ननु जीव-कर्मानुसारेण जन्मादि कुर्वतो मम कोऽपराधः ? तत्राह—न हीति । पुत्रे जीवत्य् एव पिता म्रियते पितरि जीवत्य् एव पुत्रो जायत इति क्रमो नास्ति कर्माधीनत्वाद् इति चेत् तर्ह्य् आत्म-कर्मभिर् एव तज् जन्मादिकम् अस्तु किं त्वया कृत्यम् ।

ननु मयेश्वरेण विना जडैः कर्मभिर् इदं कथं सिद्ध्येत् ? भवतु नाम, तथापि निज-सर्ग-वृद्धये ते त्वया यः स्नेह-पाशः कृतस् तम् इमं स्वयम् एव विवृश्चसि छिनत्सीत्य्-आदि क्रोशति । न ह्य् एवं-विधं दुःखं दृष्ट्वा कश्चिद् अपि पुत्रादिषु स्नेहं करिष्यतीति भावः ॥५५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु जीवस्य कर्मानुसारेण जन्मादि कुर्वतो मम कोऽपराधः ? तत्राह—न हीति । पुत्रे जीवत्य् एव पिता म्रियते, पितरि मृते एव पुत्रो म्रियते इति क्रमो नास्ति, कर्माधीनत्वाद् इति चेत्, तर्ह्य् आत्म-कर्मभिर् एव तज्-जन्मादिकम् अस्तु किं त्वया कृतम् ?

ननु मयेश्वरेण विना जडैः कर्मभिर् इदं कथं सिद्धेत् ?सत्यं, त्वयैव सिद्ध्यतु, तद् अपि निज-सर्ग-वृद्धये यः स्नेह-पाशस् ते त्वया स्वयम् एव कृतस् तम् इमं विवृश्चसि छिनत्सि स्नेहे एतादृशं दुःखं दृष्ट्वा पुत्रादिषु कोऽपि स्नेहं न करिष्यति स्नेह-करणे पुत्रादयः कथं जीविष्यन्तीति सृष्टि-लोपात् त्वं मूर्ख एवेति भावः । यद् वा, लोड्-अर्थे लट् छिन्धीत्य् अर्थः । स्नेह एव सुख-दुःखयोर् हेतुः, स्नेहाभावे पुत्रो जायतां म्रियतां वा नैव स्यातां सुख-दुःखे इति भावः ॥५५॥

—ओ)०(ओ—

॥ ६.१४.५६ ॥

त्वं तात नार्हसि च मां कृपणाम् अनाथाम्

त्यक्तुं विचक्ष्व पितरं तव शोक-तप्तम् ।

अञ्जस् तरेम भवताप्रज-दुस्तरं यद्

ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् ॥

**श्रीधरः : **अप्रज-दुस्तरम् अप्रजानां दुस्तरम् । अकरुणेन सह ॥५६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **बालिशेन विधात्रा सह किम् इत्य् अहं संलपामि स्व-पुत्रम् एव हित-कृत्ये किम् इति नावधापयामीति । विमृश्याह—त्वम् इति । हे तात ! भवता पुत्रेण अप्रजानाम् अपुत्राणां दुस्तरं यत् ध्वान्तं नरकं तत् तरेम । ननु यमो मां स्व-पुरं नयति अहं किं करोमि ? तत्राह—न याहि अकरुणेन सह ॥५६॥

—ओ)०(ओ—

॥ ६.१४.५७ ॥

उत्तिष्ठ तात त इमे शिशवो वयस्यास्

त्वाम् आह्वयन्ति नृप-नन्दन संविहर्तुम् ।

सुप्तश् चिरं ह्य् अशनया च भवान् परीतो

भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥

**श्रीधरः : **अशनया क्षुधा ॥५७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुत्रं सुप्तं मत्वाह—उत्तिष्ठेति । अशनया क्षुधया ॥५७॥

—ओ)०(ओ—

॥ ६.१४.५८ ॥

नाहं तनूज ददृशे हत-मङ्गला ते

मुग्ध-स्मितं मुदित-वीक्षणम् आननाब्जम् ।

किं वा गतोऽस्य् अपुनर्-अन्वयम् अन्य-लोकं

नीतोऽघृणेन न शृणोमि कला गिरस् ते ॥

**श्रीधरः : **तनूज हे पुत्र, नाहं प्रथमं त्वत्-पार्श्वम् आगता सती तव मुग्ध-स्मितं वक्त्रं ददृशे दृष्टवत्य् अस्मि । इदानीम् अपि गिरो न शृणोमि । तर्हि किम् अपुनर् अन्वयं पुनर् आगमनं यथा न भविष्यति तथा गतोऽसि ॥५८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हे तनूज ! तव मुग्ध-स्मितं मुख-पद्मं न चाहं, ददृशे न दृष्टवत्य् अस्मि यत् त्वं न जागर्षि तेन, किं वा, अन्य-लोकं पर-लोकं गतोऽसि ? अपुनर् अन्वयं पुनर् आगमन-शून्यं तव को दोषः ? यतोऽघृणेन निष्करुणेन यमेन नीतः । अत एव कला मधुरास्फुटा गिरस् ते न शृणोमि ॥५८॥

—ओ)०(ओ—

॥ ६.१४.५९ ॥

श्री-शुक उवाच—

विलपन्त्या मृतं पुत्रम् इति चित्र-विलापनैः ।
चित्रकेतुर् भृशं तप्तो मुक्त-कण्ठो रुरोद ह ॥**

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **विलपन्त्या सह ॥५९॥

—ओ)०(ओ—

॥ ६.१४.६० ॥

तयोर् विलपतोः सर्वे दम्पत्योस् तद्-अनुव्रताः ।
रुरुदुः स्म नरा नार्यः सर्वम् आसीद् अचेतनम् ॥**

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१४.६१ ॥

एवं कश्मलम् आपन्नं नष्ट-संज्ञम् अनायकम् ।
ज्ञात्वाङ्गिरा नाम ऋषिर् आजगाम सनारदः ॥**

श्रीधरः : न व्याख्यातम्।

**क्रम-सन्दर्भः : **अनायकं शोक-निवर्तक-शून्यं राजानम् इति शेषः ॥६१॥

**विश्वनाथः : **एवं सर्व-नगरम् एव नष्ट-संज्ञं ज्ञात्वा चित्रकेतोश् च मृत-तुल्यत्वाद् अनायकम् ॥६१॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठे चतुर्दशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
चित्रकेतूपाख्याने
चतुर्दशोऽध्यायः ।

॥ ६.१४ ॥

(६.१५)