॥ ६.१३.१ ॥
श्री-शुक उवाच—
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥
**श्रीधरः : **
त्रयोदशे तु वृत्रस्य ब्रह्म-हत्या-महा-भयात् ।
चिरं नष्टोऽवितः शक्रो विष्णुनेति निरूप्यते ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
त्रयोदशे ब्रह्म-हत्या-भयाद् इन्द्रोऽवसच् चिरम् ।
मानसाम्भोज-नालेऽस्य ततो रक्षाश्वमेधतः ॥१॥
—ओ)०(ओ—
॥ ६.१३.२ ॥
देवर्षि-पितृ-भूतानि दैत्या देवानुगाः स्वयम् ॥
प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्मेशेन्द्रादयस् ततः
**श्रीधरः : **अनिर्वृतं शक्रम् अपृष्ट्वा स्वयम् एव प्रतिजग्मुः ॥२॥
**क्रम-सन्दर्भः : **वृत्र-विक्रमेत्य्-आदि वृत्र-वाक्य-श्रवणानन्तरम् एव ज्ञेयम् ॥२॥
**विश्वनाथः : **ब्रह्मेशेन्द्रादय इति । इन्द्रस्य स्वधिष्ण्य-गमनं नोपपद्यते वृत्र-वध-क्षण एव ब्रह्म-हत्योपद्रव-प्राप्तेः । तस्मात् तत इत्य् अनेन मानस-सरोवराद् आगत्य प्रव्रतिताद् अश्वमेधात् परत इति व्याख्येयम् ॥२॥
—ओ)०(ओ—
॥ ६.१३.३ ॥
श्री-राजोवाच—
इन्द्रस्यानिर्वृतेर् हेतुं श्रोतुम् इच्छामि भो मुने ।
येनासन् सुखिनो देवा हरेर् दुःखं कुतोऽभवत् ॥
**श्रीधरः, विश्वनाथः : **हरेर् इन्द्रस्य ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.४ ॥
श्री-शुक उवाच—
वृत्र-विक्रम-संविग्नाः सर्वे देवाः सहर्षिभिः ।
तद्-वधायार्थयन्न् इन्द्रं नैच्छद् भीतो बृहद्-वधात् ॥
**श्रीधरः : **तस्य दुःख-हेतुं वक्तुं प्रस्ताव-कथाम् आह—वृत्र-विक्रमेत्य्-आदिना । आर्थयन् प्रार्थयन्त । बृहद्-वधाद् ब्राह्मण-वधाद् भीतः सन् ॥४॥
**क्रम-सन्दर्भः : **वृत्र-विक्रमेत्य्-आदि वृत्र-वाक्य-श्रवणानन्तरम् एव ज्ञेयम् ॥४।।
**विश्वनाथः : **तस्य वृत्रस्य वधाय आर्थयन् प्रार्थयन्तः स चेन्द्रो हन्तुं नैच्छत् । बृहद्-वधात् ब्राह्मण-वधाद् भीतः ॥४॥
—ओ)०(ओ—
॥ ६.१३.५ ॥
इन्द्र उवाच—
स्त्री-भू-द्रुम-जलैर् एनो विश्वरूप-वधोद्भवम् ।
विभक्तम् अनुगृह्णद्भिर् वृत्र-हत्यां क्व मार्ज्म्य् अहम् ॥
**श्रीधरः : **एनः पापम् । विभक्तं विभज्य गृहीतम् । मार्ज्मि शोधयामि ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एनः पापम् । मार्ज्मि शोधयामि ॥५॥
—ओ)०(ओ—
॥ ६.१३.६ ॥
श्री-शुक उवाच—
ऋषयस् तद् उपाकर्ण्य महेन्द्रम् इदम् अब्रुवन् ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मा स्म भैः मा भैषीः ॥६॥
—ओ)०(ओ—
॥६.१३.७ ॥
हयमेधेन पुरुषं परमात्मानम् ईश्वरम् ।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्-वधात् ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.८ ॥
ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् ।
श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥
श्रीधरः : न व्याख्यातम्।
**सनातनः **(ह।भ।वि। ११.३३८) : अघवान् अन्योऽपि यः पाप-कर्म-युक्तः । यश् च जात्या पापः श्वादः । पुक्कशो वापि ॥८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.९ ॥
तम् अश्वमेधेन महा-मखेन
श्रद्धान्वितोऽस्माभिर् अनुष्ठितेन ।
हत्वापि सब्रह्म-चराचरं त्वं
न लिप्यसे किं खल-निग्रहेण ॥
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.१० ॥
श्री-शुक उवाच—
एवं सञ्चोदितो विप्रैर् मरुत्वान् अहनद् रिपुम् ।
ब्रह्म-हत्या हते तस्मिन्न् आससाद वृषाकपिम् ॥
**श्रीधरः : **वृषाकपिम् इन्द्रम् ॥१०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्मिन् वृत्रे हते सति वृषाकपिम् इन्द्रम् । अत्र प्रायश्चित्त-बलेन पापाचरणात् पूर्वतोऽपीयम् अतिप्रबला दुःख-भोगेन विना केवलेन प्रायश्चित्तेन
—ओ)०(ओ—
॥ ६.१३.११ ॥
तयेन्द्रः स्मासहत् तापं निर्वृतिर् नामुम् आविशत् ।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः ॥
**मध्वः : **प्रारब्ध-कर्मणैवैषां कॢप्त-दुःखस्य सूचकम् ।
इदानीन्तन-कर्मस्याव्रण हेतुर् यथारणः ॥
देवादीनां स्थित-प्रज्ञ-भावान् नैवान्यथा भवेत् ।
प्रारब्धम् अपि तु क्वापि किञ्चिद् विघटितं भवेत् ॥ इति च ॥११॥
**श्रीधरः : **तया देवादिभिः कारितया । स्मेत्य् अवधारणे । इन्द्र एव तापम् असहत नान्यः । अमुम् इन्द्रं निर्वृतिर् नाविशत् । ननु धैर्यादि-गुण-युक्तस्य कुतोऽनिर्वृतिस् तत्राह—ह्री-मन्तं लज्जावन्तम् वाच्यतां निन्द्यताम् ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **असहत् असहत । निर्वृतिर् आनन्दः । अमुम् इन्द्रम् । ननु धैर्यादि-गुण-युक्तस्य तस्य कुतोऽनिर्वृतिः ? तत्राह—ह्रीमन्तं जनं, वाच्यतां ब्रह्म-घातीति प्रवादम् ॥११॥
—ओ)०(ओ—
॥ ६.१३.१२ ॥
तां ददर्शानुधावन्तीं चाण्डालीम् इव रूपिणीम् ।
जरया वेपमानाङ्गीं यक्ष्म-ग्रस्ताम् असृक्-पटाम् ॥
**श्रीधरः : **यक्ष्म-ग्रस्तां क्षय-रोग-व्याप्ताम् ॥१२॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.१३ ॥
विकीर्य पलितान् केशांस् तिष्ठ तिष्ठेति भाषिणीम् ।
मीन-गन्ध्य्-असु-गन्धेन कुर्वतीं मार्ग-दूषणम् ॥
**श्रीधरः : **मीनस्येय गन्धो यस्य स मीन-गन्धिः, स चासा वसुश् च श्वास-वायुस् तस्य गन्धेन ॥१३॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.१४ ॥
नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।
प्राग्-उदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥
**श्रीधरः : **प्राग्-उदीचीं दिशं गतः संस् तूर्णम् । मानसं सरः ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रथमं नभ आकाशं गतः, तत्रापि ताम् अनुधावन्तीं दृष्ट्वा सर्वा दिशो गतः । तत्र तथापि तथा दृष्ट्वा प्राग् उदीचीम् ऐशानीं गतः सन तत्र तूर्णं मानसं सरः प्रविष्टः ॥१४॥
—ओ)०(ओ—
॥ ६.१३.१५ ॥
स आवसत् पुष्कर-नाल-तन्तून्
अलब्ध-भोगो यद् इहाग्नि-दूतः ।
वर्षाणि साहस्रम् अलक्षितोऽन्तः
सञ्चिन्तयन् ब्रह्म-वधाद् विमोक्षम् ॥
**श्रीधरः : **स इन्द्रः सहस्रं वर्षाणि पुष्कर-नालस्य तन्तूनावसत् । कथं-भूतः ? न लब्धो भोगो येन सः । कुतः ? यद् यस्माद् इह जले वसन्न् अग्नि-दूतश् च स्वयम् । अग्नेश् च स्व-दूतस्य हविर्-भागान् नेतुर् जले प्रवेशासंभवाद् अलब्ध-भोग इत्य् अर्थः । पाठान्तरे न लब्धो यज्ञ-भागो येन सः ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पुष्करस्य कमलस्य नाले ये तन्तवः तत्र अत्यलक्षितम् इत्य् अर्थः । अलब्ध-भोगः यद् यतोऽग्निगूतः । अग्नेः स्व-दूतस्य हविर्भाग् आनेतुर् जले प्रवेशासम्भवाद् इति भावः । यद्यप्य् अग्निना जलं न दुष्प्रवेशं तद्-अन्तः-स्थिताय वरुणायापि हविर्-वहनात्, तद् अपि तदीयं जलं दुष्प्रवेशम् एव रुद्रानुचरै रक्ष्यमाणत्वात् । अत एव सर्वत्राभिगामिनी ब्रह्म-हत्यापि तत्र गन्तुं न शशाकेति ज्ञेयम् । साहस्रं सहस्र-वर्षाणि व्याप्य अलक्षितः सर्वैर् अदृष्टः ॥१५॥
—ओ)०(ओ—
॥ ६.१३.१६ ॥
तावत् त्रिणाकं नहुषः शशास
विद्या-तपो-योग-बलानुभावः ।
स सम्पद्-ऐश्वर्य-मदान्ध-बुद्धिर्
नीतस् तिरश्चां गतिम् इन्द्र-पत्न्या ॥
**श्रीधरः : **त्रि-णाकम्, न अकं दुःखं यस्मिन्न् इति नाकः पुण्य-लोकः । तृतीयं नाकं स्वर्गम् । ननु मनुष्यस्य कुतः स्वर्ग-राज्यं तत्राह—विद्यादिभिर् अनुभावः सर्ग-पालन-सामर्थ्यं यस्य सः । तर्हि तस्मिन् सति कथम् इन्द्रस्य पुनः स्वर्ग-प्राप्तिः ? तत्राह—स नहुषः संपदैश्वर्याभ्यां यो मदस् तेनान्धा बुद्धिर् यस्य, स इन्द्र-पत्न्या शच्या तिरश्चां गतिं सर्प-योनिं नीत उपायेन प्रापितः । एवं ह्य् आख्यायते, नहुषः किल कदाचिद् इन्द्राणीम् उवाच । इन्द्रस् तावद् अहम् अतस् त्वं मां भजेति । तया चावेदित-वृत्तान्तो बृहस्पतिस् ताम् उवाच । ब्राह्मण-वाह्य-शिबिकायाम् आरुह्यागतम् त्वां भजिष्यामीति ब्रूहि ततोऽसौ ब्रह्म-शापात् पतिष्यतीति । तया च तथोक्तो नहुषोऽगस्त्यादीन् शिबिकां वाहयाम् आस । तदा शीघ्रं सर्प-सर्पेत्य्-अगस्त्यं पदा पस्पर्श । तेन कुपितेन सर्पो भवेति शप्तो महा-सर्पोऽजगरोऽभूद् इति ॥१६॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्रिणाकम्, तृतीयं नाकं स्वर्गम् । ननु मनुष्यस्य कुतः स्वर्ग-राज्यम् ? तत्राह—विद्यादिभिर् अनुभावः सर्व-तेजो-हरण-सामर्थ्यं यस्य सः । तस्मिन् सति पुनर् इन्द्रस्य कुतः स्वर्ग-प्राप्तिः ? तत्राह—स नहुषः संपद्-ऐश्वर्याभ्यां यो मदस् तेनान्धा बुद्धिर् यस्य सः । इन्द्र-पत्न्या तिरश्चां गतिं सर्प-योनिं नीत उपायेन प्रापितः । एवं ह्य् आख्यायते, नहुषः किल कदाचिद् इन्द्राणीम् उवाच । इन्द्रस् तावद् अहम् अतस् त्वं मां भजेति । तया चावेदित-वृत्तान्तो बृहस्पतिस् ताम् उवाच । ब्राह्मण-वाह्य-शिबिकायाम् आरुह्यागतम् त्वाम् अहं भजिष्यामीति ब्रूहि । ततोऽसौ ब्रह्म-शापात् पतिष्यतीति । तया च तथैवोक्तो नहुषोऽगस्त्यादीन् शिबिकां वाहयाम् आस । तदा च शीघ्रं सर्प-सर्पेत्य्-अगस्त्यं पदा पस्पर्श । तेन च कुपितेन शप्तोऽजगरो बभूवेति ॥१६॥
—ओ)०(ओ—
॥ ६.१३.१७ ॥
ततो गतो ब्रह्म-गिरोपहूत
ऋतम्भर-ध्यान-निवारिताघः ।
पापस् तु दिग्-देवतया हतौजास्
तं नाभ्यभूद् अवितं विष्णु-पत्न्या ॥
श्रीधरः : तत इन्द्रः स्वर्गं गतः प्राप्तः । कथं-भूतः ?ब्रह्म-गिरा ब्राह्मण-वाक्येन उपहूतः सन् । ऋतम्-भरः सत्य-पालको हरिस् तस्य ध्यानेन निवारितम् अघं येन । प्राग् अपि तु पापो ब्रह्म-वधस् तम् इन्द्रं नाभ्यभूत् तस्याभिभवं नाकरोत् । कुतः ?दिग्-देवतया प्राग्-उदीच्यां दिशि स्थितया श्री-रुद्रेण । अवितं रक्षितं सन्तम् ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : ब्रह्मणो ब्राह्मणानां च गिरा“त्वाम् अश्वमेधेन याजयिष्याम” इति वाक्येन उपहूतः सन् ततो मानसात् सरसः सकाशात् स्वर्गं गतः । ऋतम्भरः सत्य-पालको विष्णुः । अघं प्रायश्चित्त-बलेन पापाचरण-लक्षणोऽपराधः । पापःब्रह्म-हत्या-लक्षणं पापं पुंस्त्वम् आर्षम् । ईशान-दिग्-देवतया श्री-रुद्रेण, विष्णु-पत्न्या मानस-सरसः कमल-वन-स्थितया लक्ष्म्या ॥१७॥
—ओ)०(ओ—
॥ ६.१३.१८ ॥
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद् दीक्षयां चक्रुः पुरुषाराधनेन ह ॥
**श्रीधरः : **पुरुषस्य हरेर् आराधनं यस्मिंस् तेन ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.१९ ॥
अथेज्यमाने पुरुषे सर्व-देवमयात्मनि ।
अश्वमेधे महेन्द्रेण वितते ब्रह्म-वादिभिः ॥
**श्रीधरः : **सर्व-वेद-मयात्मनीति वा पाठः । ब्रह्म-वादिभिर् विततेऽनुष्ठितेऽश्वमेधे महेन्द्रेणेज्यमाने पुरुषे सति ॥१९॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.२० ॥
स वै त्वाष्ट्र-वधो भूयान् अपि पाप-चयो नृप ।
नीतस् तेनैव शून्याय नीहार इव भानुना ॥
**श्रीधरः : **तेनैव पुरुषेणैव शून्याय नीतः । नाशित इत्य् अर्थः ॥२०॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.२१ ॥
स वाजिमेधेन यथोदितेन
वितायमानेन मरीचि-मिश्रैः ।
इष्ट्वाधियज्ञं पुरुषं पुराणम्
इन्द्रो महान् आस विधूत-पापः ॥
**श्रीधरः : **अधिकृता यज्ञा येन तम् ॥२१॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.१३.२२ ॥
इदं महाख्यानम् अशेष-पाप्मनां
प्रक्षालनं तीर्थपदानुकीर्तनम् ।
भक्त्य्-उच्छ्रयं भक्त-जनानुवर्णनं
मरुत्वतः महेन्द्र-मोक्षं विजयम् ॥
**श्रीधरः : **पाठादि विधातुम् आख्यानं स्तौति—इदम् इति । प्रक्षाल्यतेऽनेनेति प्रक्षालनम् । तीर्थ-पदस्यानुकीर्तनं यस्मिन् । भक्तेर् उच्छ्रयो यस्मिन् । भक्त-जनानाम् अनुवर्णनं यस्मिन् । महेन्द्रस्य मोक्षो यस्मिन् । मरुत्त्वतो विशेषेण जयो यस्मिन् ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भक्त्य्-उच्छ्रयं भक्त्य्-उत्कर्ष-युक्तम् । मरुत्वत इन्द्रस्य । विशेषेण जयो यत्र तत् ॥२२॥
—ओ)०(ओ—
॥ ६.१३.२३ ॥
पठेयुर् आख्यानम् इदं सदा बुधाः
शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् ।
धन्यं यशस्यं निखिलाघ-मोचनं
तथायुषम् रिपुञ्जयं स्वस्त्य्-अयनम् ॥
**श्रीधरः : **इन्द्रियं तत्-पाटव-करम् । इन्द्र-संबन्धीति वा । आयुषम् आयुष्यम् ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **इन्द्रियम् इन्द्रिय-पाटव-करम् । आयुषम् आयुष्करम् ॥२३॥
—ओ)०(ओ—
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठे त्रयोदशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
इन्द्र-विजयो नाम
त्रयोदशोऽध्यायः ।
॥ ६.१३ ॥
(६.१४)