१२ वृत्रो-वधो नाम

॥ ६.१२.१ ॥

श्री-ऋषिर् उवाच—

एवं जिहासुर् नृप देहम् आजौ

मृत्युं वरं विजयान् मन्यमानः ।

शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं

यथा महा-पुरुषं कैटभोऽप्सु ॥

**श्रीधरः : **

द्वादशेऽति-विषण्णेन स्मयम् उत्साहितेन तु ।

महेन्द्रेण महा-युधे वृत्रस्य वध ईर्यते ॥१॥

महा-पुरुषं श्री-विष्णुम् । अप्सु प्रलयोदके ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

यत् शौर्येण गतोत्साहः शक्रोऽभूद् येन बोधितः ।

तं संस्तूयमहा-युद्धेऽहन्न् इति द्वादशे कथा ॥

माम् अयम् इति कर्तव्य-मूढो न हन्ति, तद् अहम् एव स्व-सौन्दर्यं दर्शयन्न् इमम् उत्साहयानि कोपयानि च यतो माम् अयं शीघ्रं नहन्याद् इत्य् आशयेनाह पुनर् योद्धुं प्रवृत्त इत्य् आह—शूलम् इति । अप्सु प्रलयोदके ॥१॥

—ओ)०(ओ—

॥ ६.१२.२ ॥

ततो युगान्ताग्नि-कठोर-जिह्वम्

आविध्य शूलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो

हतोऽसि पापेति रुषा जगाद ॥

**श्रीधरः : **युगान्ताग्नि-वत् कठोरा जिह्वा शिखा यस्य तत् । आविध्य भ्रामयित्वा ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जिह्वा शिखा आविध्य भ्राम꣡ ॥२॥

—ओ)०(ओ—

॥ ६.१२.३ ॥

ख आपतत् तद् विचलद् ग्रहोल्कवन्

निरीक्ष्य दुष्प्रेक्ष्यम् अजात-विक्लवः ।

वज्रेण वज्री शत-पर्वणाच्छिनद्

भुजं च तस्योरग-राज-भोगम् ॥

**श्रीधरः : **तत् खे आपतद् आगच्छत् । विचलत् परिभ्रमत् । ग्रहश् चोल्का च ग्रहोल्कं तद्वद् दुष्प्रेक्ष्यम् । शतं पर्वाणि यस्य तेन । उरग-राजो वासुकिस् तस्य भोगो देहस् तद् आकारम् ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आपतत् आगच्छत् ॥३॥

—ओ)०(ओ—

॥ ६.१२.४ ॥

छिन्नैक-बाहुः परिघेण वृत्रः

संरब्ध आसाद्य गृहीत-वज्रम् ।

हनौ तताडेन्द्रम् अथामरेभं

वज्रं च हस्तान् न्यपतन् मघोनः ॥

**श्रीधरः : **हनौ कपोल-प्रान्ते । अमरेभम् ऐरावतं च ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हनौ कपोल-प्रान्ते ॥४॥

—ओ)०(ओ—

॥ ६.१२.५ ॥

वृत्रस्य कर्माति-महाद्भुतं तत्

सुरासुराश् चारण-सिद्ध-सङ्घाः ।

अपूजयंस् तत् पुरुहूत-सङ्कटं

निरीक्ष्य हा हेति विचुक्रुशुर् भृशम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुरुहुत इन्द्रः ॥५॥

—ओ)०(ओ—

॥ ६.१२.६ ॥

इन्द्रो न वज्रं जगृहे विलज्जितश्

च्युतं स्व-हस्ताद् अरि-सन्निधौ पुनः ।

तम् आह वृत्रो हर आत्त-वज्रो

जहि स्व-शत्रुं न विषाद-कालः ॥

**श्रीधरः : **पुनश् च तम् आह वृत्रः ॥६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.७ ॥

युयुत्सतां कुत्रचिद् आततायिनां

जयः सदैकत्र न वै परात्मनाम् ।

विनैकम् उत्पत्ति-लय-स्थितीश्वरं

सर्वज्ञम् आद्यं पुरुषं सनातनम् ॥

**श्रीधरः : **सदा जयो नैव किन्तु कुत्रचिज् जय एकत्र कुत्रचिन् नैव । यद् वा, कुत्रचिद् अपि युयुत्सतां सदा जयो नैव किन्त्व् एकत्रैव । कदाचिद् एवेत्य् अर्थः । परो देह आत्मा येषां, पराधीनात्मनाम् इति वा । आद्यम् अनादिम् । सनातनं नित्यम् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आततायिनां शस्त्रवतां कुत्रचित् शत्रुषु सदा जय एकत्र शत्रौ न जयश् च । यथा युष्माकम् असुरेषु सदा जयः, मयि तु न जय इत्य् अर्थः । यतः परः अनात्मात्मीयः अस्वाधीन आत्मा परमेश्वरो येषां परमेश्वरस्य तु सदैव जय इत्य् आह—विनैकम् इति । तेन, स्वाधीनीकृत-परमेश्वराणाम् अर्जुनादीनाम् इव न युष्माकंसदा जय इति भावः ॥७॥

—ओ)०(ओ—

॥ ६.१२.८ ॥

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥

**श्रीधरः : **पराधीनताम् एवाह—लोका इति सप्तभिः । यस्य वशे स्थिताः स्वयं विवशाः सन्तः श्वसन्ति चेष्टन्ते । द्विजाः पक्षिणः । शिचा जालेन । कालः कलयतीति भगवान् । इह जयादौ कारणम् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्माद् युष्माकं कर्माधीनानां तु शुभाशुभादृष्टानुकूलः काल एव जय-पराजययोः कारणम् इत्य् आह—लोका इति । यस्य वशे स्थिताः श्वसन्ति चेष्टन्ते, द्विजाः पक्षिणः शिचा जालेन ॥८॥

—ओ)०(ओ—

॥ ६.१२.९ ॥

ओजः सहो बलं प्राणम् अमृतं मृत्युम् एव च ।

तम् अज्ञाय जनो हेतुम् आत्मानं मन्यते जडम् ॥

**श्रीधरः, विश्वनाथः : **ओज-आदि-रूपं कालं तं हेतुम् अज्ञायाविज्ञाय जडं सन्तम् आत्मानं देहं हेतुं मन्यते ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.१० ॥

यथा दारुमयी नारी यथा पत्रमयो मृगः ।

एवं भूतानि मघवन्न् ईश-तन्त्राणि विद्धि भोः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **किं च, तस्य कास्यापि वशयिता यः पुरुषः सोऽपि यस्य वशे स स्वयं भगवान् एव सर्व-कारण-कारणम् इति स-दृष्टान्तम् आह—यथेति द्वाभ्याम् । ईश-तन्त्राणि तसेश्वरस्याधीनानि ॥१०॥

—ओ)०(ओ—

॥ ६.१२.११ ॥

पुरुषः प्रकृतिर् व्यक्तम् आत्मा भूतेन्द्रियाशयाः ।

शक्नुवन्त्य् अस्य सर्गादौ न विना यद्-अनुग्रहात् ॥

**मध्वः : **मन्यतेऽनीशम् ईश्वरम् ।

अनीश-जीव-रूपेण परमात्मानम् ईश्वरम् ।
ये मन्यन्ते तान् समीक्ष्य स्नेहान् निरय-भाग् भवेत् ॥
हिरण्यगर्भः पुरुष आत्मा वायुर् उदाहृतः ।
शेषो व्यक्तस् तथैवेन्द्र आशयः समुदाहृतः ॥ इति च ॥११॥

**श्रीधरः : **ननु स्वारम्भक-प्रधान-पुरुषादि-तन्त्राणीति युक्तं तत्राह—पुरुष इति । व्यक्तं महत्-तत्त्वम् । आत्माऽहङ्कारः ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पुरुषो महत्-स्रष्टा स्वांशोऽपि किम् उत प्रकृत्यादय इत्य् अर्थः । व्यक्तं महत्-तत्त्वम् आत्मानम् अहङ्कारः । एते यस्यानुग्रहाद् विना सर्गादौ न शक्नुवन्ति । न च पुरुषश् च, स एव कथं तद्-अनुग्राह्य इति वाच्यम् । पर-ब्रह्मणोऽपि तद्-अनुग्राह्यत्व-चरणारविन्दात्, यथा,

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भा।पु। ८.२४.३८] ॥११॥

—ओ)०(ओ—

॥ ६.१२.१२ ॥

अविद्वान् एवम् आत्मानं मन्यतेऽनीशम् ईश्वरम् ।

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥

**श्रीधरः : **ननु स्व-कर्म-द्वारा जीव एव सृष्ट्य्-आदि-हेतुर् इति मीमांषका मन्यन्ते तत्राह—एवम् अविद्वान् अनीशम् एवात्मानम् ईश्वरं स्व-तन्त्रं मन्यते । ननु पित्रादयः स्रष्टारो दृश्यन्ते व्याघ्रादयस् तु हन्तारः ? तत्राह—भूतैर् इति । स्वयम् ईश्वरः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु स्व-कर्म-द्वारा जीव एव सृष्ट्य्-आदि-हेतुर् इति मीमांषका मन्यन्ते तत्राह—एवम् अविद्वान् अनीशम् एवात्मानम् जीवम् ईशं मन्यते । ननु पित्रादयः स्रष्टारो दृश्यन्ते व्याघ्रादयस् तु हन्तारः ? तत्राह—भूतैर् इति ॥१२॥

—ओ)०(ओ—

॥ ६.१२.१३ ॥

आयुः श्रीः कीर्तिर् ऐश्वर्यम् आशिषः पुरुषस्य याः ।

भवन्त्य् एव हि तत्-काले यथानिच्छोर् विपर्ययाः ॥

**श्रीधरः : **ननु त्वया परजितस्य मम जयादि-शङ्कैव नास्ति किम् इति मां बलाद् युद्धे प्रवर्तयसि तत्राह—आयुर् इति । तत्-काले जयादि-काले । विपर्यया अकीर्त्य्-आदयः ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु त्वया पराजितस्य मम जयादि-शङ्कैव नास्ति किम् इति बलान् मां युद्धे प्रवर्तयसीति तत्राह—आयुर् इति । तत्-काले आयुर्-आद्य्-अनुकूले काले अतस् तवायं जय-कालस् त्वं जेष्यसीति भावः । विपर्यया मृत्यु-दारिद्रादयः ॥१३॥

—ओ)०(ओ—

॥ ६.१२.१४ ॥

तस्माद् अकीर्ति-यशसोर् जयापजययोर् अपि ।

समः स्यात् सुख-दुःखाभ्यां मृत्यु-जीवितयोस् तथा ॥

**श्रीधरः : **यस्माद् एवं सर्वम् ईश्वराधीनं, तस्मात् समः स्याद् धर्ष-विषाद-हीनो भवेत् ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **समः समभावनावान् स्यात् सुख-दुःखयोः ॥१४॥

—ओ)०(ओ—

॥ ६.१२.१५ ॥

सत्त्वं रजस् तम इति प्रकृतेर् नात्मनो गुणाः ।

तत्र साक्षिणम् आत्मानं यो वेद स न बध्यते ॥

**श्रीधरः : **सम-दृष्टाव् उपायम् आह—सत्त्वम् इति । हर्षादिभिर् न बध्यते ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **जय-पराजयाद्या गुण-कार्या एव । आत्मा तु गुण-व्यतिरिक्त एवेति विवेकेन हर्ष-विषादौ न कार्याव् इत्य् आह—सत्त्वम् इति । न बध्यते संसार-बन्धं न प्राप्नोति ॥१५॥

—ओ)०(ओ—

॥ ६.१२.१६ ॥

पश्य मां निर्जितं शत्रु वृक्णायुध-भुजं मृधे ।

घटमानं यथा-शक्ति तव प्राण-जिहीर्षया ॥

**श्रीधरः : **हर्ष-विषाद-निवृत्त्यै तवाहम् एव गुरुर् इत्य् आह—पश्येति । वृक्णम् आयुधं भुजश् च यस्य ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अत्रार्थे अहम् एव ते गुरुर् इत्य् आह—पश्येति ॥१६॥

—ओ)०(ओ—

॥ ६.१२.१७ ॥

प्राण-ग्लहोऽयं समर इष्व्-अक्षो वाहनासनः ।

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः ॥

**श्रीधरः : **अनियतत्वं द्यूत-रूपकेणोपसंहरति । प्राण एव ग्लहः पणो यस्मिन् । इषव एवाक्षाः पाशका यस्मिन् । वाहनान्य् एवेतस् ततश् चाल्यमानान्य् आसनानि फलका यस्मिन् ॥१७॥

**क्रम-सन्दर्भः : **वाहनानि हस्त्य्-आदिन्येव आसनानि स्थानीयानां योधॄणामाधार-भूताः फलका यस्मिन् ।_।_२५॥

**विश्वनाथः : **युद्धम् इदं द्यूत-क्रीडनम् एव । दोष-बुद्ध्यापि रागिभिस् त्यक्तुम् अशक्यम् इत्य् आह—प्राण एव । ग्लहः पणो यत्र । इषव एवाक्षाः पाशका यस्मिन् । वाहनानि अन्स्त्य्-अश्वादीन्य् एव आसनानि फलका यस्मिन् ॥१७॥

—ओ)०(ओ—

॥ ६.१२.१८ ॥

श्री-शुक उवाच—

इन्द्रो वृत्र-वचः श्रुत्वा गतालीकम् अपूजयत् ।

गृहीत-वज्रः प्रहसंस् तम् आह गत-विस्मयः ॥

**श्रीधरः : **गतालीकं निष्कपटम् ॥१८॥

**क्रम-सन्दर्भः : **गत-विस्मयः प्राप्त-विस्मयः ॥१८॥

**विश्वनाथः : **गत-विस्मय इति हन्त हन्त कथम् असुरस्याप्य् एतावन्ति भक्ति-ज्ञान-वैराग्याणीति प्रथमं विस्मितो हास्य-रहित एवासीत् । ततः प्रह्लाद-बलि-प्रभृति-स्मृत्या भक्तिर् अस्मादृशेभ्योऽपि कोटि-गुणिता खल्व् असुरेष्व् अपि सम्भवेद् एवे इति विस्मयापाये तस्य प्रहर्ष-हेतुको हासश् चाभूद् इत्य् अर्थः ॥१८॥

—ओ)०(ओ—

॥ ६.१२.१९ ॥

इन्द्र उवाच—

अहो दानव सिद्धोऽसि यस्य ते मतिर् ईदृशी ।

भक्तः सर्वात्मनात्मानं सुहृदं जगद्-ईश्वरम् ॥

**श्रीधरः, विश्वनाथः : **भक्तः सेवितवान् असि ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.२० ॥

भवान् अतार्षीन् मायां वै वैष्णवीं जन-मोहिनीम् ।

यद् विहायासुरं भावं महा-पुरुषतां गतः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.२१ ॥

खल्व् इदं महद् आश्चर्यं यद् रजः-प्रकृतेस् तव ।

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **महद्-आश्चर्यम् इति । पुनर् अपि विस्मयोदयः । रजः-स्वभावस्य तव कथं दृढा भक्तिः प्रह्लादादौ तु नारदादि-महद्-अनुग्रहेणैव रजः-स्वभावापगमात् तत्रोचितैव भक्तिर् इति भावः । सत्त्वात्मनि शुद्ध-सत्त्व-मूर्तौ ॥२१॥

—ओ)०(ओ—

॥ ६.१२.२२ ॥

यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे ।

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥

**श्रीधरः : **तस्य तव खातकोदकैर् गर्तादि-जलोपमैः स्वर्गादिभिः किम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तव स्वर्गादि-भोगोपेक्षा युक्तैवेत्य् आह—यस्येति । खातोदकैः गर्तादि-जलोपमैः स्वर्गादिभिः किम् ? अस्माकं तु भक्त्य्-अभावाद् एतैर् एव निर्वृतिर् इति भावः ॥२२॥

—ओ)०(ओ—

॥ ६.१२.२३ ॥

श्री-शुक उवाच—

इति ब्रुवाणाव् अन्योन्यं धर्म-जिज्ञासया नृप ।

युयुधाते महा-वीर्याव् इन्द्र-वृत्रौ युधां पती ॥

श्रीधरः : युधां सङ्ग्रामाणां पती मुख्यौ ॥२३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.२४ ॥

आविध्य परिघं वृत्रः कार्ष्णायसम् अरिन्दमः ।

इन्द्राय प्राहिणोद् घोरं वाम-हस्तेन मारिष ॥

**श्रीधरः : **हे मारिष ! श्रेष्ठ-राजन् ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आविध्य भ्रामयित्वा । मारिष ! हे मान्य ॥२४॥

—ओ)०(ओ—

॥ ६.१२.२५ ॥

स तु वृत्रस्य परिघं करं च करभोपमम् ।

चिच्छेद युगपद् देवो वज्रेण शत-पर्वणा ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.२६ ॥

दोर्भ्याम् उत्कृत्त-मूलाभ्यां बभौ रक्त-स्रवोऽसुरः ।

छिन्न-पक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः ॥

श्रीधरः : उत्कृत्तं मूलं ययोस् ताभ्याम् । रक्तं स्रवतीति तथा । गोत्रः पर्वतः ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : गोत्रः पर्वतः ॥२६॥

—ओ)०(ओ—

॥ ६.१२.२७ ॥

महा-प्राणो महा-वीर्यो महा-सर्प इव द्विपम् ।

कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् ॥

श्रीधरः : महा-प्राणो महा-बलः । महा-वीर्यो महा-प्रभावः** । कृत्वाऽधराम्** इत्य् आदेर् जग्रासेति तृतीयेणान्वयः ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.२८ ॥

नभो-गम्भीर-वक्त्रेण लेलिहोल्बण-जिह्वया ।

दंष्ट्राभिः काल-कल्पाभिर् ग्रसन्न् इव जगत्-त्रयम् ॥

श्रीधरः : नभोवद् गम्भीरेण वक्त्रेणलेलिहः सर्पस् तद्वद् उल्बणया जिह्वया ।काल-कल्पाभिः काल-तुल्याभिर् दंष्ट्राभिर् ग्रसन्न् इव ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : नभोवद् गम्भीरेण वक्त्रेणलेलिहः सर्पस् तद्वद् उल्बणया जिह्वया ॥२८॥

—ओ)०(ओ—

॥ ६.१२.२९ ॥

अतिमात्र-महा-काय आक्षिपंस् तरसा गिरीन् ।

गिरि-राट् पाद-चारीव पद्भ्यां निर्जरयन् महीम् ॥

श्रीधरः : आक्षिपन् चालयन् । निर्जरयन् चूर्णयन् ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : निर्जरयन् जीर्णीकुर्वन् तरसा जग्रासेत्य् अन्वयः ॥२९॥

—ओ)०(ओ—

॥ ६.१२.३० ॥

जग्रास स समासाद्य वज्रिणं सह-वाहनम् ।

वृत्र-ग्रस्तं तम् आलोक्य सप्रजापतयः सुराः ।

हा कष्टम् इति निर्विण्णाश् चुक्रुशुः समहर्षयः ॥

न कतमेन व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१२.३१ ॥

निगीर्णोऽप्य् असुरेन्द्रेण न ममारोदरं गतः ।

महापुरुष-सन्नद्धो योगमाया-बलेन च ॥

श्रीधरः : महा-पुरुषेण कवच-रूपेण श्री-नारायणेन सन्नद्धो दंशितः । **योग-बलेन **माया-बलेन च ॥३१॥

**क्रम-सन्दर्भः : **न ममारेत्य् अत्र हेतुम् आह—महा-पुरुषेण विश्वरूपोपदिष्ट-नारायण-वर्मणा सन्नद्धः । ननु गुरु-वधेऽपि सा विद्याऽस्फुरद् इति शास्त्र-विदाम् असम्मतम् ? तत्राह—योगेति । सम्प्रति-लब्धेन भगवच्-छक्ति-बलेनेत्य् अर्थः । च-कारात् तद्-बलेन पूर्व-शक्तेर् अप्य् उद्भवो गमितः ॥३१॥

विश्वनाथः : महा-पुरुषेण श्री-नारायण-कवचेन संनद्धो दंशितः । योग-बलेन स्व-माया-बलेन च, तत्र योगोऽष्टाङ्गः । माया अन्तर्धाय पवनादि-रूपेण स्थितिः ॥३१॥

—ओ)०(ओ—

॥ ६.१२.३२ ॥

भित्त्वा वज्रेण तत्-कुक्षिं निष्क्रम्य बल-भिद् विभुः ।

उच्चकर्त शिरः शत्रोर् गिरि-शृङ्गम् इवौजसा ॥

श्रीधरः : बल-भिद् इन्द्रः । उच्चकर्त चिच्छेद ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : उच्चकर्त चिच्छेद ॥३२॥

—ओ)०(ओ—

॥ ६.१२.३३ ॥

वज्रस् तु तत्-कन्धरम् आशु-वेगः

कृन्तन् समन्तात् परिवर्तमानः ।

न्यपातयत् तावद् अहर्-गणेन

यो ज्योतिषाम् अयने वार्त्र-हत्ये ॥

**मध्वः : **सन्धितः समयेनेन्द्रो वृत्रेणाथो कर-ग्रहः ।

समुद्र-तीरे विचरन् फेनेन वधम् अस्य तु ॥
नर्मणा जहि फेनेन वाच꣡ सुरेश्वरः ।
पाद-स्पर्श-विवादं च कृत्वा युद्धाय दंशितः ॥
फेने वज्रं समावेश्य विष्णु-युक्तं व्यसर्जयत् ।
अपानुदच्छिरस् तस्य ध्यायतो वत्सरेण सः ॥ इति आग्नेये ॥३३॥

श्रीधरः : तस्य कन्धरं कन्धराम् । आशु-वेगोऽतिवेगवान् । ज्योतिषां सूर्यादीनाम् । अयने दक्षिणोत्तर-गति-रूपे संवत्सरे योऽहर्गणः षष्ट्य्-उत्तर-शत-त्रयात्मकस् तावताहर्-गणेन वार्त्र-हत्ये वृत्र-हत्या-योग्ये काले न्यपातयत् । यद् वा, स्वार्थे तद्धितः । वृत्र-हत्यायां वृत्र-हननार्थं परिवर्तमान इत्य् अर्थः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

विश्वनाथः : आशु-वेगोऽपि समन्तात् परिवर्तमानः कन्धरायाः सर्वतो दिक्षु भ्रमन्न् एव कृन्तन्, न त्व् एकतो दिशः । कन्धराया महा-सारत्वाद् इति भावः । तावता अहर्-गणेन कर्तित्वा भूमौ न्यपातयत् योऽहर्-गणः । ज्योतिषां सूर्यादीनां सम्बन्धिनी अयने द्वे दक्षिणोत्तरे अभिव्याप्य भवेद् इत्य् अर्थः । अयने कीदृशे ? वात्रहत्ये वृत्र-हत्या-योग्ये, दण्डादि य प्रत्ययान्तात् स्वार्थिके नाना तत्र भावार्थे नाना वा रूपम् ॥३३॥

—ओ)०(ओ—

॥ ६.१२.३४ ॥

तदा च खे दुन्दुभयो विनेदुर्

गन्धर्व-सिद्धाः समहर्षि-सङ्घाः ।

वार्त्र-घ्न-लिङ्गैस् तम् अभिष्टुवाना

मन्त्रैर् मुदा कुसुमैर् अभ्यवर्षन् ॥

श्रीधरः : वार्त्र-घ्न-लिङ्गैर् वृत्र-हन्तुर् वीर्य-प्रकाशकैः, वार्त्र-हत्याय शवसे पृतनाषाह्याय च [ऋ।वे। ३.३७.२१] इत्य्-आद्यैस् तम् इन्द्रम् अभिष्टुवाना अभिष्टुवन्तः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वार्त्र-घ्न-लिङ्गैर् वृत्र-हन्तुर् वीर्य-प्रकाशकैः, वार्त्र-हत्या-यशसे पृतनाषाह्याय च [ऋ।वे। ३.३७.२१] इत्य्-आद्यैर् मन्त्रैस् तम् इन्द्रम् अभिष्टुवाना ॥३४॥

—ओ)०(ओ—

॥ ६.१२.३५ ॥

वृत्रस्य देहान् निष्क्रान्तम् आत्म-ज्योतिर् अरिन्दम ।

पश्यतां सर्व-देवानाम् अलोकं समपद्यत ॥

श्रीधरः : अलोकं लोकातीतं भगवन्तम् ॥३५॥

**क्रम-सन्दर्भः : **वृत्रस्येति आत्म-ज्योतिर्-आविर्भूत-पार्षद-देहात्मकम् । अलोकं भगवल्-लोकम् _॥_३५॥

**विश्वनाथः : **अत्र यदैव वृत्रः सवाहनम् इन्द्रं जग्रास, तदैव मम हन्ता अन्यः कोऽपि नास्तीति निश्चित्य योग-बलेनैव देहं त्यक्त्वा कथं न शीघ्रं भगवत्-पार्श्वं यामीति विभाव्य समाधिं चकार ? तदैवेन्द्रोऽचेतनस्य वृत्र-देहस्य कुक्षिं विदार्य निःसृत्य शिरश्-छेदे प्रवृत्त इति गिरि-शृङ्गम् इव चकर्तेति दृष्टान्तात् ज्ञेयम् । आत्म-ज्योतिः पार्षद-देहात्मकः प्रकाशः वृत्र-देहात् पृथग्-भूतः । अलोकं लोकातीतं श्री-सङ्कर्षण-वैकुण्ठम् ॥३५॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठे द्वादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
वृत्रो-वधो नाम
द्वादशोऽध्यायः ।

॥ ६.१२ ॥

(६.१३)