॥ ६.११.१ ॥
श्री-शुक उवाच—
त एवं शंसतो धर्मं वचः पत्युर् अचेतसः ।
नैवागृह्णन्त सम्भ्रान्ताः पलायन-परा नृप ॥
**श्रीधरः : **
एकादशे तु वृत्रस्य युध्यमानस्य वज्रिणा ।
भक्ति-ज्ञान-बलोदर्काश् चित्रा वाचोऽनुवर्णिताः ॥
शंसतः कथयतः पत्युर् वचः ॥१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **
एकादशे तु सङ्ग्राम-मध्ये वृत्रस्य वर्णिताः ।
शौर्य-मय्यो गिरः काश्चित् प्रेम-मय्यश् च काश्चन ॥१॥
—ओ)०(ओ—
॥ ६.११.२ ॥
विशीर्यमाणां पृतनाम् आसुरीम् असुरर्षभः ।
कालानुकूलैस् त्रिदशैः काल्यमानाम् अनाथवत् ॥
**श्रीधरः : **कालानुकूलैः कालानुवर्तिभिः । काल्यमानां विद्राव्यमाणाम् ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अनाथवत् अनाथाम् इव ॥२॥
—ओ)०(ओ—
॥ ६.११.३ ॥
दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्र-शत्रुर् अमर्षितः ।
तान् निवार्यौजसा राजन् निर्भर्त्स्येदम् उवाच ह ॥
**श्रीधरः : **अमर्षितोऽसहमानस् तांस् त्रिदशान् निवार्य निर्भर्त्स्य चेदं वक्ष्यमाणम् उवाच॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तांस् त्रिदशान् ॥३॥
—ओ)०(ओ—
॥ ६.११.४ ॥
किं व उच्चरितैर् मातुर् धावद्भिः पृष्ठतो हतैः ।
न हि भीत-वधः श्लाघ्यो न स्वर्ग्यः शूर-मानिनाम् ॥
**श्रीधरः : **तद् एवाह—नहीति ॥४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **हे मातुर् उच्चरिताः पुरीष-तुल्या देवाः पृष्ठतो हतैर् दैत्यैः किं न यशो नापि धर्मः । तृतीयान्त-पाठे दैत्यानां विशेषणं भीतानां वधो न श्लाघ्यः कर्तृ-कर्मणोर् उभयोर् अपि यशो धर्माभाव-व्यञ्जकत्वात् जुगुप्सित इत्य् अर्थः ॥४॥
—ओ)०(ओ—
॥ ६.११.५ ॥
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्य-सुखे स्पृहा ॥
**श्रीधरः : **प्रधने सङ्ग्रामे । सारं धैर्यं हृदि चेत् तर्हि हे क्षुल्लकाः क्षुद्राः । मात्रं क्षण-मात्रम् अग्रे तिष्ठत । न चेद् इह लोक-भोगे स्पृहास्ति ॥५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रधने युद्धे सारं धैर्यं हे क्षुल्लकाः क्षुद्राः ॥५॥
—ओ)०(ओ—
॥ ६.११.६ ॥
एवं सुर-गणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहा-प्राणो येन लोका विचेतसः ॥
**श्रीधरः : **सुर-गणान् सुमहान् प्राणो बलं यस्य । येन विचेतसो बभूवुः ॥६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.११.७ ॥
तेन देव-गणाः सर्वे वृत्र-विस्फोटनेन वै ।
निपेतुर् मूर्च्छिता भूमौ यथैवाशनिना हताः ॥
**श्रीधरः : **वृत्रस्य विस्फोटनेन नादेन ॥७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वईति चार्थे विस्फोटितम् उरु-प्रगण्डयोः करतलाघातस् तेन च ॥७॥
—ओ)०(ओ—
॥ ६.११.८ ॥
ममर्द पद्भ्यां सुर-सैन्यम् आतुरं
निमीलिताक्षं रण-रङ्ग-दुर्मदः ।
गां कम्पयन्न् उद्यत-शूल ओजसा
नालं वनं यूथ-पतिर् यथोन्मदः ॥
**श्रीधरः : **उद्यतं शूलं येन । नालं वनं नलानां वनम् उद्गतो मदो यस्य स यूथ-पतिर् गजो यथा मर्दयति ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **आतुरत्वाद् एव मुद्रित-नेत्रम् । नलानां वनं नालं यूथपतिर् हस्ती ॥८॥
—ओ)०(ओ—
॥ ६.११.९ ॥
विलोक्य तं वज्र-धरोऽत्यमर्षितः
स्व-शत्रवेऽभिद्रवते महा-गदाम् ।
चिक्षेप ताम् आपततीं सुदुःसहां
जग्राह वामेन करेण लीलया ॥
श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अभिद्रवते सम्मुखम् आगच्छते ॥९॥
—ओ)०(ओ—
॥ ६.११.१० ॥
स इन्द्र-शत्रुः कुपितो भृशं तया
महेन्द्र-वाहं गदयोरु-विक्रमः ।
जघान कुम्भ-स्थल उन्नदन् मृधे
तत् कर्म सर्वे समपूजयन् नृप ॥
न कतमेन व्याख्यातम् ।
—ओ)०(ओ—
॥ ६.११.११ ॥
ऐरावतो वृत्र-गदाभिमृष्टो
विघूर्णितोऽद्रिः कुलिशाहतो यथा ।
अपासरद् भिन्न-मुखः सहेन्द्रो
मुञ्चन्न् असृक् सप्त-धनुर् भृशार्तः ॥
**श्रीधरः : **सप्त-धनुः-प्रमाणं देशम् ॥११॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **भिन्न-मुखः विदीर्ण-वक्त्रः सप्त-धनुर् अष्ट-विंशति-हस्त-मात्रम् ॥११॥
—ओ)०(ओ—
॥ ६.११.१२ ॥
न सन्न-वाहाय विषण्ण-चेतसे
प्रायुङ्क्त भूयः स गदां महात्मा ।
इन्द्रोऽमृत-स्यन्दि-कराभिमर्श-
वीत-व्यथ-क्षत-वाहोऽवतस्थे ॥
**श्रीधरः : **सन्नोऽवसन्नो वाहो यस्य तस्मै न प्रायुङ्क्त । अमृत-स्यन्दी अमृत-स्रावी यः स्वकरस् तेनाभिमर्शः स्पर्शस् तेन वीत-व्यथो गत-दुःखः क्षतो वाहो यस्येन्द्रस्य स तथाभूतोऽवतस्थे ॥१२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **सन्नोऽवसन्नो वाहो यस्य तस्मै । अमृत-स्यन्दी अमृत-स्रावी यः स्वकरस् तस्याभिमर्शेन स्पर्शेन गत-व्यथः ॥१२॥
—ओ)०(ओ—
॥ ६.११.१३ ॥
स तं नृपेन्द्राहव-काम्यया रिपुं
वज्रायुधं भ्रातृ-हणं विलोक्य ।
स्मरंश् च तत्-कर्म नृशंसम् अंहः
शोकेन मोहेन हसन् जगाद ॥
**श्रीधरः : **स वृत्रः । हे नृपेन्द्र ! आहवकाम्यया युद्धेच्छयावस्थितम् । भ्रातृ-हणं भ्राता विश्वरूपस् तस्य हन्तारम् । नृशंसं क्रूरं तद् एवांहः पापं तस्य कर्म स्मरन् ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **नृशंसं क्रूरम् ॥१३॥
—ओ)०(ओ—
॥ ६.११.१४ ॥
श्री-वृत्र उवाच—
दिष्ट्या भवान् मे समवस्थितो रिपुर्
यो ब्रह्म-हा गुरु-हा भ्रातृ-हा च ।
दिष्ट्यानृणोऽद्याहम् असत्तम त्वया
मच्-छूल-निर्भिन्न-दृषद्-धृदाचिरात् ॥
**श्रीधरः : **यो ब्रह्महा ब्राह्मणं हतवान् विशेषतः स्व-गुरुं मम च भ्रातरं स भवान् अग्रतः समवस्थितः एतद् दिष्ट्या भद्रं जातम् । दिष्ट्येत्य् अव्ययम् आनन्दार्थे । हे असत्तम ! मम शूलेन निर्भिन्नं दृषत्-तुल्यं हृत् हृदयं यस्य तेन त्वया निमित्त-भूतेनाद्याचिराद् एव भ्रातुर् अनृणोऽहं स्याम् एतच् च दिष्ट्या ॥१४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मच्-छूलेन निर्भिन्नं दृशत्-तुल्यं हृदयस्य तथाभूतेन सता अद्याहम् अनृणोऽभूवम् ॥१४॥
—ओ)०(ओ—
॥ ६.११.१५ ॥
यो नोऽग्रजस्यात्म-विदो द्विजातेर्
गुरोर् अपापस्य च दीक्षितस्य ।
विश्रभ्य खड्गेन शिरांस्य् अवृश्चत्
पशोर् इवाकरुणः स्वर्ग-कामः ॥
**श्रीधरः : **स्वर्ग-कामो यो भवान् अवृश्चत् । स्वर्ग-कामो याज्ञिकः पशोर् इवेति वा ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स्वर्ग-कामो याज्ञिको भवांश् च ॥१५॥
—ओ)०(ओ—
॥ ६.११.१६ ॥
श्री-ह्री-दया-कीर्तिभिर् उज्झितं त्वां
स्व-कर्मणा पुरुषादैश् च गर्ह्यम् ।
कृच्छ्रेण मच्-छूल-विभिन्न-देहम्
अस्पृष्ट-वह्निं समदन्ति गृध्राः ॥
**श्रीधरः : **तं त्वाम् अस्पृष्ट-वह्निम् अदग्ध-देहं समदन्ति । वर्तमान-सामीप्ये वर्तमानवन् निर्देशः ॥१६॥
**क्रम-सन्दर्भः : **अस्पृष्ट-वह्निं समदन्तीति क्रोधेनैवासम्भवोक्तिः ॥१६॥
**विश्वनाथः : **समदन्तीति वर्तमान-सामीप्ये वर्तमानवद् इति लट् ॥१६॥
—ओ)०(ओ—
॥ ६.११.१७ ॥
अन्येऽनु ये त्वेह नृशंसम् अज्ञा
यद् उद्यतास्त्राः प्रहरन्ति मह्यम् ।
तैर् भूत-नाथान् सगणान् निशात-
त्रिशूल-निर्भिन्न-गलैर् यजामि ॥
**श्रीधरः : **अन्येऽपि ये अज्ञा इह त्वा त्वां नृशंसम् अनु मह्यम् उद्यतास्त्राः सन्तो यदि प्रहरन्ति तैर् भूतनाथान् भैरवादीन् यक्ष्यामि । कथम्भूतैः ? निशातं तीक्ष्णीकृतं यन् मम त्रिशूलं तेन निर्भिन्नो गलो येषां तैः ॥१७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अन्ये ये त्वा त्वाम् अनुगताः तैर् यजामि यक्ष्यामि असुर-द्वारैव । तेन चासुरान् असुरेष्ट-देवान् भूतनाथांश् च प्रीणयामीत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ ६.११.१८ ॥
अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूत-बलिं विधाय
मनस्विनां पाद-रजः प्रपत्स्ये ॥
**श्रीधरः : **अथो अथवा । हरे भो इन्द्र ! यदि भवान् एव मम शिरो हर्ता हरिष्यति तत्र तथा सत्य नृणो विमुक्त-कर्म-बन्धः सन् भूतेभ्यो बलिं देहेन विधाय मनस्विनां पाद-रजः प्रपत्स्य धीराणां पदं प्राप्स्यामि ॥१८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथो अथवा भूतेभ्यः शृगालादिभ्यो बलिं स्व-देहेनातिस्थूलेन विधाय दत्त्वा अनृणः शोधित-ऋणः सन् मनस्विनां श्री-नारदादि-भक्तानां पाद-रजः प्राप्स्यामि ॥१८॥
—ओ)०(ओ—
॥ ६.११.१९ ॥
सुरेश कस्मान् न हिनोषि वज्रं
पुरः स्थिते वैरिणि मय्य् अमोघम् ।
मा संशयिष्ठा न गदेव वज्रः
स्यान् निष्फलः कृपणार्थेव याच्‘आ ॥
**श्रीधरः : **जीविताद् अपि मृत्युर् एव ममाभिमत इत्य् आशयेनाह—सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणाद् अर्थः प्रयोजनं यस्याह् सा याच्ञा यथा निष्फला तथा न स्यात् ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **त्वं यथा जीवित्वा स्वर्गीय-विषय-भोगम् अभिलयसि तथैवाहं मृत्वा वैकुण्ठे भगवतः साक्षाच्-चरण-सेवाम् अभिलाषामीति तव च मम चाभीष्टं सिध्यतु किम् इति मद्-वधे विलम्बसे इत्य् आह—सुरेशेति । वज्र-क्षेपस्यैवम्भूतं लक्ष्यं कदा प्राप्स्यामीत्य् आह । पुर एव केवलं स्थिते, न तु कम् अपि प्रतीकारं कुर्वतीत्य् अर्थः ।
ननु, महासत्त्वे त्वयि कदाचिद् वज्र-क्षेपो निष्फलः स्याद् इति शङ्के, तत्राह—अमोघम् अव्यर्थम् । ननु, गदा यथा मदीयैव त्वत्-पाणि-गता मम पीडा-करी साक्षाद् एवाभूत् तथैव यदि वज्रोऽपि स्यात् तदाहं किं करिष्यामीत्य् अत आह—मेति । कृपणाद् अर्थं प्रयोजनं यस्याः सा याच्ञा यथा निष्फला, तथा वज्रं निष्फलं न स्यात् ॥१९॥
—ओ)०(ओ—
॥ ६.११.२० ॥
नन्व् एष वज्रस् तव शक्र तेजसा
हरेर् दधीचेस् तपसा च तेजितः ।
तेनैव शत्रुं जहि विष्णु-यन्त्रितो
यतो हरिर् विजयः श्रीर् गुणास् ततः ॥
**श्रीधरः : **अमोघत्वे हेतुं वदंस् तं प्रोत्साहयति—नन्व् इति । तेज्तस् तीक्ष्णीकृतः । शत्रुं मां जहि । विष्णुना यन्त्रितः प्रेरितः ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अमोघत्वे हेतुं वदन् प्रोत्साहयति—नन्व् इति । हरेर् भगवतः तेजसा दधीचेस् तपसा च तेज्तस् तीक्ष्णीकृतः । विष्णुना यन्त्रितः प्रेरितः । यतो यत्र पक्षे ॥२०॥
—ओ)०(ओ—
॥ ६.११.२१ ॥
अहं समाधाय मनो यथाह नः
सङ्कर्षणस् तच्-चरणारविन्दे ।
त्वद्-वज्र-रंहो-लुलित-ग्राम्य-पाशो
गतिं मुनेर् याम्य् अपविद्ध-लोकः ॥
**श्रीधरः : **हननेन मम पीडा स्याद् इत्य् अपि मा संशयिष्ठा इत्य् आह—अहम् इति । सङ्कर्षणो मत्-पतिर् यथाह तथा तदीय-चरणारविन्दे मनः समाधाय मुनेर् योगिनो गतिम् अहं यास्यामि । तव वज्रस्य रंहसा लुलितश् छिन्नो ग्राम्य-पाशो विषय-भोग-लक्षणो यस्य । अपविद्ध-लोकस् त्यक्त-देहः ॥२१॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अयम् एव मां प्रलोभ्य पुनः पराक्रमाविष्कारेण वज्रं च निष्फलस्य पुनर् अपि मां हनिष्यतीति मा मंस्थाः । अहं यत् करोमि तद् एकाग्र-मनाः शृण्व् इत्य् आह—अहम् इति । सङ्कर्षणो नोऽस्माकं प्रभुः यथाह तथा तच्-चरणारविन्दे मनः समाधाय मुनेर् योगिनो गतिम् अहं यास्यामि । त्वद्-वज्रस्य रंहसा लुलितः खण्डितः ग्राम्य-पाशाकार एतद्-देहो यस्य सः । अपविद्ध-लोकस् त्यक्त-त्रिलोकैश्वर्यः ॥२१॥
—ओ)०(ओ—
॥ ६.११.२२ ॥
पुंसां किलैकान्त-धियां स्वकानां
याः सम्पदो दिवि भूमौ रसायाम् ।
न राति यद् द्वेष उद्वेग आधिर्
मदः कलिर् व्यसनं सम्प्रयासः ॥
**श्रीधरः : **तर्हि भगवान् सङ्कर्षणः स्व-भृत्याय मह्यम् एव स्वर्गादि-सम्पदो दास्यतीत्य् अपि मा संशयिष्ठा इत्य् आह—पुंसाम् इति । स्वर्गे भूमौ रसातले च **याः सम्पदस् **ताः किल निश्चितं न राति न ददाति । तत्र हेतुः—यद् याभ्यो द्वेषादयो भवन्ति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तर्हि त्वद्-भक्ति-तोषितः सङ्कर्षणस् तुभ्यम् एव स्वर्गाद्य्-ऐश्वर्यं दास्यतीति मा वादीः । शृणु रे शक्र ! मत्-प्रभोस् त्वं च भक्तोऽहं च भक्तस् तत्र तुभ्यम् एव भोगैश्वर्यं ददाति, न तु मह्यम् इत्य् अत्र कारणं मत्-प्रभोः स्वभावम् एव शृण्व् इत्य् आह—पुंसाम् इति । याः सम्पदस् ता एकान्त-धीभ्यः पुम्भ्यो न राति न ददाति । कुतः ? यद् यतः संपद्भ्यो द्वेषादयो भक्ति-सुखे विक्षेपका भवन्तीत्य् अतः ॥२२॥
—ओ)०(ओ—
॥ ६.११.२३ ॥
त्रैवर्गिकायास-विघातम् अस्मत्-
पतिर् विधत्ते पुरुषस्य शक्र ।
ततोऽनुमेयो भगवत्-प्रसादो
यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः ॥
**श्रीधरः : **तर्हि स्व-भक्तस्य किं विधत्ते ? तत्राह—त्रैवर्गिको धर्मार्थ-काम-विषयो य आयासस् तस्य विघातंविधत्ते । तत आयासोपरमाद् अनुमेयो न त्व् ऐश्वर्यादिना । अतः सम्यग्-भगवत्-प्रसादाभावात् तव सम्पदो भविष्यन्तीति भावः ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मां स्व-पार्श्वं शीघ्रम् एव नेतुं वज्रेण मद्-वधोपायम् उक्त्वा यत् तुभ्यं मत्-प्रभुर् भोग-सम्पदं ददाति, एतेनैव त्वम् आत्मनि तस्यानुग्रहाभावं मन्यस्वेत्य् आह । त्रैवर्गिको धर्मार्थ-काम-विषयो य आयासस् तस्य विघातंविधत्तेपुरुषस्य स्वान्तरङ्ग-भक्तस्य । तत आयासोपरमाद् एव भगवत्-प्रसादोऽनुमेयः।
नन्व् एवम् अस्मद्-अनुभवे तु न भाति, तत्राह—स अकिञ्चन-गोचर एव, अन्यैर् युष्माभिस् तु दुर्लभो युष्मद्-अगोचर एवेत्य् अतस् त्वयि तस्य सम्यक् प्रसादाभावात् तव सम्पदो भविष्यन्तीति विश्वस्तो भूत्वा शीघ्रं वज्रं निक्षिपेति भावः ॥२३॥
—ओ)०(ओ—
॥ ६.११.२४ ॥
अहं हरे तव पादैक-मूल-
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासु-पतेर् गुणांस् ते
गृणीत वाक् कर्म करोतु कायः ॥
**श्रीधरः : **एवम् इन्द्राय स्वाभिप्रायं निवेद्य भगवन्तं प्रार्थयते—अहम् इति । तव पादाव् एव एकं मूलम् आश्रयो येषां तेषां दासानाम् अनुदासो भूयो भवितास्मि भविष्यामि भवेयम् । असुपतेः प्राणनाथस्य तव गुणान् मम मनः स्मरतु । वाग् अपि तान् एव कीर्तयतु । कायस् तवैव कर्म करोतु ॥२४॥
**चैतन्य-मत-मञ्जुषा : **प्राग्-जन्म-सिद्धा हरि-भक्तिर् अस्यासुर-देहेऽपि तथैव वर्तत इति दर्शयति—अहं हरे इत्य्-आदि । हे हरे ! तव पादाव् एव एकं मूलं जीवनोपायो येषां तेषां वैष्णवानां दासानुदासो भवितास्मि, भूयः पुरा-भवम् एव । श्री-नारदस्य दासत्वेन, अधुना तु भवन्न् एवास्मि, भूयोऽप्य् एतद्-देहानन्तरं च भवितास्मीति भावः । मनः स्मरेतासु-पतेर् इत्य्-आदि । तेषाम् अङ्ग-सङ्गेनापि एवं भवतीति भावः ॥२४॥
**क्रम-सन्दर्भः : **सा च शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथोक्तं तेनैव—अहम् इति चतुष्कम् ॥२४॥ [प्रीति-सन्दर्भः ७२]
**विश्वनाथः : **तद् अपि वज्रम् अनिक्षिपन्तम् इन्द्रं दृष्ट्वा “हन्त हन्त वराकम् इमं शत्रुं बहिर् दर्शिनं किम् इति ब्रवीमि, स्व-प्रभोश् चरनारविन्द एव किं न निवेदयामि” इति ध्यानाविर्भूतं भगवन्तम् आलोक्याह—अहम् इति । तव पादाव् एव एकं मूलम् आश्रयो येषां तेषां दासानाम् अनुदासो भूयः पुनर् अपि भवितास्मि भविष्यामि । किं तत्र कियान् विलम्बो वर्तते ? तं कृपया कथय । उत्कण्ठया जर्जरीभूतोऽस्मीति भावः । नन्व् अविलम्बेनैव त्वाम् अहम् एष एवात्मसात्-करोमि स्वाभीष्टान् वरान् वृण्व् इत्य् आह—मनो मम असुपतेः प्राण-नाथस्य तव प्राणनाथं त्वां स्मरतुवाक् गुणन् कीर्तयतु कायः कर्म त्वत्-पाद-संवाहन-व्यजन-ताम्बूल-प्रदानादिकं करोत्व् इति काय-वाङ्-मनसां मे प्रार्थना ॥२४॥
—ओ)०(ओ—
॥ ६.११.२५ ॥
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥
**श्रीधरः : **ननु किं दास्येन तुभ्यं महा-फलानि दास्यामि ? तत्राह—**नाकपृष्ठं **ध्रुव-पदं ब्रह्म-लोकादिकं च । हे समञ्जस ! निखिल-सौभाग्य-निधे ! त्वा त्वां विरहय्य पृथक्-कृत्य न काङ्क्षे नेच्छामि ॥२५॥
**चैतन्य-मत-मञ्जुषा : **सत्-स्वर्गादिषु कथं न तद्-भक्त-दासानुदासत्वं प्रार्थयसि ? इत्य् आह—न नाक-पृष्ठम् इत्य्-आदि । किम् एतावता ? अपवर्गम् अपि न काङ्क्षे, न काङ्क्षामि । तर्हि किं काङ्क्षसि ? इत्य् आह—त्वा विरहय्य त्वा त्वां त्यक्त्वा सर्वं न काङ्क्षामि, त्वाम् एव काङ्क्षामीति भावः ॥२५॥
क्रम-सन्दर्भः : नाकपृष्ठं ध्रुव-पदम् । सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्भवं मोक्षम् अपि । अत्र नाकपृष्ठादि-चतुष्टयस्यानुक्रमश् चोत्तरोत्तर-न्यूनत्व-विवक्षयाधोऽधो-विवक्षया च । ततश् चोत्तरोत्तरं कैमुत्यम् अपि । ध्रुव-पदस्य श्रैष्ठ्यं विष्णु-पद-सन्निहितत्वात् । योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति पश्यद् विन्यस्तम् । अन्ययोस् तूत्तर-श्रैष्ठ्यम् ॥२५॥ [प्रीति-सन्दर्भः ७२]
**विश्वनाथः : **ननु तुभ्यं स्वर्गापवर्गादीनि सर्वाण्य् एव फलानि ददामि गृहाणेति तत्र स-शिरो-धूननं न न नेत्य् आह—नेति । नाकपृष्ठं स्वर्ग-पदम् । त्वा त्वां विरहय्य त्यक्त्वा त्वद्-विरहेण मम प्राणा ज्वलन्ति, स्वर्गादयः किं मे सुखयिष्यन्तीति ध्वनिः । त्वत्-संयोगे मम पूर्व-श्लोकोक्तं वर-त्रयं भवेत्, तदा तद् एव मे स्वर्गापवर्गादि सर्व-सुखतमं, किम् एतैर् गृहीतैर् इत्य् अनुध्वनिः ॥२५॥
—ओ)०(ओ—
॥ ६.११.२६ ॥
अजात-पक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुधार्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥
**श्रीधरः : **तर्हि किम् इच्छसि तद् आह—अजात-पक्षाः खगा घूकादिभिः पीडिता यथा मातरम् । यथा च दाम्ना बद्धा बाल-वत्साः स्तन्यम् । यथा च व्युषितं दूर-देश-गतं प्रियं कामेन विषण्णा प्रिया । तथा मे मनस्-ताप-त्रय-पीडितं कर्मभिर् बद्धं च कामादिभिर् विषण्णं च त्वां दिदृक्षते द्रष्टुम् इच्छतीत्य् अर्थः ॥२६॥
**चैतन्य-मत-मञ्जुषा : **मत्-प्रार्थनं ते कीदृशम् इत्य् आह—अजात-पक्षा इत्य्-आदि । उड्डयनाभावाद् घूकादि-भयाद् यथा मातरं दिदृक्षन्ते, अतो भयं त्वत्त एवापयाति । तर्हि भयाभाव एव ते कामः ? नैवम्, कामिनं कामिनीवेति मयोच्यते, अपि तु प्रियं प्रियेवेत्य् उक्तं, तयोस् तु प्रेमैव केवलं, न तु कामः, अतस् त्वयि तथैव प्रेमा भूयाद् इत्य् अर्थः ॥२६॥
**क्रम-सन्दर्भः : **अथाह—अजातेति । अत्राजात-पक्षा इत्य् अनेनानन्याश्रयत्वं तद्-अनुगमनासमर्थत्वं च । तथा तत्-सहितेन मातरम् इत्य् अनेनानन्य-स्वाभाविक-दयालुत्वं तदीय-दयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषाम् अपि प्रीत्य्-अतिशयो दर्शितः । ततस् तत्-साम्येन तद्वद् आत्मनोऽपि भगवति प्रीत्य्-आधिक्य-हेतुका दिदृक्षा व्यञ्जिता। तथापि तन्-मात्रा यद् वस्त्व्-अन्तरम् उपक्रियते तद् एव तेषाम् उपजीव्यम् आस्वाद्यं चेति केवल-तन्-निष्ठत्वाभावाद् अपरितोषेण दृष्टान्तरम् आह—स्तन्यम् इति । अत्र दिदृक्षा-योजनार्थं मातरम् इत्य् एवानुवर्तयितव्ये स्तन्यम् इत्य् उक्तिस् तस्यास् तैस् तद्-अंश-प्राचुर्य-भावनया । वस्तुतस् तस्य तदीय-शरीरांशतया च तद्-अभेद-विवक्षार्था ।
ततः स्तन्यं स्तन्य-रूप-तद्-अंशमयीं मातरम् इत्य् एव लब्धे तादृशी मातैव तैर् उपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं दर्शितम् । तथा वत्सतरा अत्यन्त-बाल-वत्सास् तत एव स्वामि-बद्धतया तद्-अनुगताव् असमर्था इति साधारण्येऽपि बहु-समयातिक्रमात्। क्षुधार्ता इत्य् अनेन पूर्वतो वैशिष्ट्यम् । तथा गो-जातेः स्नेहातिशय-स्वाभाव्येन च तद्-अनुसन्धेयम् ।
अथ तथाप्य् उत्तर-दृष्टान्ते स्तन्य-गवोः कार्य-कारण-भावेन भेदं वितर्क्य-दृष्टान्त-द्वयेऽप्य् अजात-पक्षत्वादि-विशेषणैर् आयत्यां तादृश-प्रीतेर् अस्थिरतां चालोक्य दृष्टान्तान्तरम् आह—प्रियम् इति । सत्स्व् अपि वाचकान्तरेषूभयोः प्रिय-शब्देनैव निर्देशात् स्वाभाविकाव्यभिचारि-प्रीतिमन्ताव् एव तौ गृहीतौ । यत्र वार्धक्ये बाल्येऽपि सह-मरणादिकं दृश्यते, ततस् तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूर-प्रोषितं सन्तम् अनन्योपजीवित्वेन विषण्णा सती दिदृक्षते, लोचन-द्वारा तद्-आस्वादाय भृशम् उत्कण्ठते, तथा मम मनोऽपि त्वाम् इत्य् अर्थः । अत्र दार्ष्टान्तिकेऽपि स्व-कर्तृकत्वम् अनुक्त्वा मनः-कर्तृकत्वोल्लेखेनाबुद्धि-पूर्वक-प्रवृत्ति-प्राप्तौ प्रीतेः स्वाभाविकत्वेन अव्यभिचारित्वं व्यक्तम् । तथारविन्दाक्षेति मनसो भ्रमर-तुल्यता-सूचनेन भगवतः परम-मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वम् आस्वाद्यत्वं च दर्शितम् ॥२६॥ [प्रीति-सन्दर्भः ७२]
**विश्वनाथः : **किं च, अत्युत्कण्ठावतोऽपि मम त्वत्-प्राप्तिस् त्वद्-अधीनेनैव, न च तत्र मे क्वापि शक्तिर् अस्तीत्य् अत्र दृष्टान्त-त्रयम् आह—अजात-पक्षाः खगाः खग-बालकाः घूकादि-त्रस्ताः क्षुत्-पीडिताश् च मातरं कदा प्राप्स्याम इति प्रतिक्षणं दिदृक्षमाणाः पत्रेऽपि सञ्चलति आयाता मम मातेति बुद्ध्या कोमलं कलं कूजन्तश् चञ्चून् प्रसारयन्ति ।
ननु तर्हि तन्-माता यथा आगत्य घूकादिभ्यो रक्षन्ती स्वतः पृथग्-भूतैर् आनीतैः क्षुद्र-कीटैस् तच्-चञ्चू-मध्ये निहतैस् तेषां क्षुधाम् उपशमयति, तथैवाहम् अपि त्रिविध-तापेभ्य इन्द्रादि-शत्रुभ्यश् च त्वां रक्षन् स्वर्ग-पारमेष्ठ्यादि-भोगैर् दत्तैस् त्वद्-अभीष्टं पूरयाणि ? इति । तत्र त्वन्-माधुर्यं विना मम नान्यत् किम् अप्य् अभीष्टाम् इति । तथा त्वत्-प्राप्ति-प्रतिकूलं वृत्राख्य-स्थूल-सूक्ष्म-देह-द्वय-बन्धनं विना मम नान्यत् किम् अपि ताप-त्रयम् इत्य् अतो दृष्टान्तान्तरम् आह—स्तन्यं वाञ्छन्तीति शेषः । वत्सतरा अत्यल्प-वयस्का वत्सा गृहस्थ-गृहे दाम-बन्धाः क्षुधया मातुर् एव दुग्ध-पानैकतान-मनास् तद्-आर्ताः । \
\
अत्रापि वत्सतरा मातुर् दुग्धम् एव स्व-सुखम् अभिलषन्त्योऽपि मातुः काम् अपि सेवां न लिप्समाना इत्य् अपरितुष्य दृष्टान्तान्तरम् आह—प्रियं प्रीतिमन्तं पतिं व्युषितं सुदूर-देश-स्थं प्रिया प्रेमवती विषण्णा तद्-विरह-जर्जरिता दिदृक्षते, सा यथा स्वीय-सर्वेन्द्रिय-व्यापारैः सेवमाना प्रियं सुखयितुं प्रियस्यैव सौन्दर्य-सौस्वर्यादिभिर् गुण-लीला-वैदग्ध्यादिभिश् च स्व-सर्वेन्द्रियाणि सुखयितुम् इच्छति, तथैवाहम् अपि त्वां सेवेयेति । अत एव मनः स्मरेतासुपतेर् गूणानां गृणीत वाक् कर्म करोतु काय इति वर-त्रयम् अवाञ्छम् इति भावः । किन्तु सा दास्य-सख्य-शृङ्गारैः प्रियं सुखयेत्, अहं तु केवलेनैव दास्येन त्वां सुखयेयम् इत्य् एतावान् एव भेदः ॥२६॥
—ओ)०(ओ—
॥ ६.११.२७ ॥
ममोत्तमश्लोक-जनेषु सख्यं
संसार-चक्रे भ्रमतः स्व-कर्मभिः ।
त्वन्-माययात्मात्मज-दार-गेहेष्व्
आसक्त-चित्तस्य न नाथ भूयात् ॥
श्रीधरः : उत्तम-श्लोकस्य तव जनेषु भक्तेष्व् एव सख्यं भूयात् । त्वन्-माययादेहादिष्व् आसक्त-चित्तस्य भूयोऽपि तेष्व् आसक्तिर् न भूयात् ॥२७॥
**क्रम-सन्दर्भः : **अथ तद्-दर्शन-भाग्यं स्वस्यासम्भवयन्न् इदम् अपि मम स्याद् इति स-बाष्पम् आह—ममोत्तमेति । तद् एतच् छुद्ध-प्रेमोद्गारमयत्वेनैव श्रीमद्-वृत्र-वधोऽसौ विलक्षणत्वाच् छ्री-भागवत-लक्षणेषु पुराणान्तरेषु गण्यते—वृत्रासुर-वधोपेतं तद् भागवतम् इष्यते [मात्स्य।पु। ५३.२०] इति ॥२७॥ [प्रीति-सन्दर्भः ७२]
**विश्वनाथः : **अथ तत्-क्षण एवातिदैन्य-भावोदयेन हन्त हन्त ममाधमस्य कथम् एतावत् सौभाग्यं सम्भवेत् ? अत एतद् अस्त्व् इति प्रार्थयते—मम उत्तमः-श्लोक-जनेषु तद्-भक्तेषु सख्यं भूयात्, किन्तु तन्-मायया आत्मात्मजादिष्व् आसक्तस्य जनस्य कस्यापि मयि सख्यं न भूयात् । यथैतज्-जन्मनि असुराणां मयि सख्यम् अभूत्, मम च त्वद्-भक्तेषु सख्यं नाभूद् इत्य् अपारं दुःखम् अन्वभूवम् इति भावः ॥२७॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठे एकादशोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये
पारमहंस्यं संहितायां वैयासिक्यां षस्ठ-स्कन्धे
वृत्र-वाक्य-नामैकादशोऽध्यायः ।
॥११॥
(६.१२)