१० विश्वरूपोपाख्याने

॥ ६.१०.१ ॥

श्री-बादरायणिर् उवाच—

इन्द्रम् एवं समादिश्य भगवान् विश्व-भावनः ।

पश्यताम् अनिमेषाणाम् अत्रैवान्तर्दधे हरिः ॥

**श्रीधरः : **

दशमे केशवादिष्ट- दध्यङ्ङ् अस्थिज-वज्र-धृत् ।

इन्द्रोऽयुध्यत वृत्तेण सासुरेण-स-निर्जरः ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

दधीचो याचितात् प्राप्तैर् अस्थिभिर् वज्र-निर्मितिः ।

दशमेऽभूज् जयश् चाजौ देवानाम् असुरैः सह ॥१॥

—ओ)०(ओ—

॥ ६.१०.२ ॥

तथाभियाचितो देवैर् ऋषिर् आथर्वणो महान् ।

मोदमान उवाचेदं प्रहसन्न् इव भारत ॥

**श्रीधरः : **मोदमान एव तन् मुखाद् धर्मं श्रोतु-कामः प्रत्याचक्षाण इवोवाच—अपीति द्वाभ्याम् ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मोदमानेऽपि प्रहसन्न् इव याच्ञा-प्रत्याख्यानेन तान् तिरस्कुर्वन्न् इव ॥२॥

—ओ)०(ओ—

॥ ६.१०.३ ॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।

संस्थायां यस् त्व् अभिद्रोहो दुःसहश् चेतनापहः ॥

**श्रीधरः : **हे वृन्दारकाः ! अपि किं संस्थायां मृत्यौ योऽभिद्रोहो दुःखं तं न जानीथ ॥३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **संस्थायां मृत्यौ ॥३॥

—ओ)०(ओ—

॥ ६.१०.४ ॥

जिजीविषूणां जीवानाम् आत्मा प्रेष्ठ इहेप्सितः ।

क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥

**श्रीधरः : **आत्मा देहः । वयं जानीम एव, किन्तु श्री-विष्णुर् अस्मन्-मुखेन याचत इति चेत्, तत्राह—याचते विष्णवेऽपि दातुं क उत्सहेत ॥४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मा देहः । वयं जानीम एव, किन्तु श्री-विष्णुर् अस्मन्-मुखेन याचत इति चेत्, तत्राह—विष्णवेऽपि दातुं क उत्सहेत ॥४॥

—ओ)०(ओ—

॥ ६.१०.५ ॥

श्री-देवा ऊचुः—

किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।

भवद्-विधानां महतां पुण्य-श्लोकेड्य-कर्मणाम् ॥

**श्रीधरः : **पुण्य-श्लोकैर् ईड्यानि कर्माणि येषाम् ॥५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.६ ॥

नूनं स्वार्थ-परो लोको न वेद पर-सङ्कटम् ।

यदि वेद न याचेत नेति नाह यद् ईश्वरः ॥

**मध्वः : **आज्ञयैव महा-विष्णोः कार्यथार्थम् अपि च क्वचित् ।

नीचान् अपि च याचन्ते स्वामिनो गुणवत्तराः ॥
नीच-वाक्यं वदेयुश् च सुरान् ऐतावता क्वचित् ।
तेजः क्षितिर् भवेद् एषां जनकस्य यथार्भकः ॥ इति तन्त्र-मालायाम् ॥६॥

**श्रीधरः : **याचको यदि वेद, तर्हि न याचेत । यद् ईश्वरो दान-समर्थश् चेत्, तर्हि सोऽपि नेति नाह । अतो यथा तव सङ्कटं स्वार्थ-परा वयं न जानीम । एवं प्रत्याचक्षाणस् त्वम् अस्मत्-सङ्कटं न जानासीति भावः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ऋषिर् आह—नूनम् इत्य्-आदि न याचतेत्य् अन्तम् । देवाः प्रत्याहुः—नूनम् इत्य्-आदि-पद्यम् एव न याचतेति चतुरक्षर-विनाभूतम् । ततश् चार्थान्तर-न्यासस्यात्र विशेषतोऽयम् अर्थः । याचको लोकः, नूनं स्वार्थ-परः स्वर्गाद्य्-ऐश्वर्य-भोग-परः । परस्य दातुः सङ्कटं स्व-देहास्थि-प्रदाने पीडां न वेद । यदि देवत्वेन विवेकवत्त्वाद् वेद, तर्हि न याचेतेति तेन युष्माकं विवेक-भावान् न देवत्वं, किन्तु व्याघ्रादि-पशु-तुल्यत्वम् इति ऋषिणोक्तं श्रुत्वा देवैः प्रत्युक्तम् । दाता लोकोऽपि नूनं स्वार्थ-परः देहेन्द्रियादिषु ममत्वे चिर-जीवित्व-सुख-परः परेषां याचकानां सङ्कटं घोर-शत्रूपद्रवादि-दुःखं न वेद, यदि ऋषित्वेन विज्ञान-विवेक-दयादिमत्त्वाद् वेद, तर्हि नेति नाहं न दास्यामीति न ब्रूयात्, यद् यस्माद् ईश्वरस् तद्-दान-समर्थः, तेन तवापि विज्ञानाद्य्-अभावान् न ऋषित्वम्, प्रत्युत शोक-मोहादि-सम्भावाद् गवादि-पशु-तुल्यत्वम् इति भावः ॥६॥

—ओ)०(ओ—

॥ ६.१०.७ ॥

श्री-ऋषिर् उवाच—

धर्मं वः श्रोतु-कामेन यूयं मे प्रत्युदाहृताः ।

एष वः प्रियम् आत्मानं त्यजन्तं सन्त्यजाम्य् अहम् ॥

**श्रीधरः : **मे मया प्रत्युदाहृताः प्रत्युक्ताः । मां त्यजन्तं त्यक्त्वा यान्तम् आत्मानं देहम् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **धर्मं वः श्रोतु-कामेनेति । स धर्मो युष्मत्-प्रत्युत्तरेणैव श्रुतं, भवतु तावत् स्वाभिप्रायं ज्ञापय इत्य् आह—एष इति । आत्मानं देहं त्यजन्तम् अचिराद् एव त्यक्षन्तं सम्यक् त्यजामीति स देहो यावन् मां न त्यजति तावद् अहम् एव तं त्यजामि युष्मभ्यं ददामीत्य् एतावत् तु भाग्यं मम भवत्व् इति भावः ॥७॥

—ओ)०(ओ—

॥ ६.१०.८ ॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।

ईहेत भूत-दयया स शोच्यः स्थावरैर् अपि ॥

**श्रीधरः : **अध्रुवेणात्मना देहेन । हे नाथाः ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हे नाथाः ॥८॥

—ओ)०(ओ—

॥ ६.१०.९ ॥

एतावान् अव्ययो धर्मः पुण्य-श्लोकैर् उपासितः ।

यो भूत-शोक-हर्षाभ्याम् आत्मा शोचति हृष्यति ॥

**श्रीधरः : **भूतानां शोकेन शोचति हर्षेण हृष्यति य आत्मा स्वयं तस्य यो धर्म एतावान् एवाव्यय इत्य् अर्थः ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मा मनः ॥९॥

—ओ)०(ओ—

॥ ६.१०.१० ॥

अहो दैन्यम् अहो कष्टं पारक्यैः क्षण-भङ्गुरैः ।

यन् नोपकुर्याद् अस्वार्थैर् मर्त्यः स्व-ज्ञाति-विग्रहैः ॥

**श्रीधरः : **पारक्यैः श्व-शृगालादि-भक्ष्यैः । अस्वार्थैर् आत्मोपयोग-शून्यैः । स्वं वित्तम् । ज्ञातयः पुत्रादयः । विग्रहो देहः । तैर् नोपकुर्याद् इति यत् ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अदातारम् आक्षिपति—अहो इति । पारक्यैः शृगालादिभिर् भक्ष्यैः स्वं वित्तं ज्ञातयः पुत्रादयः विग्रहा देहाः, तैः ॥१०॥

—ओ)०(ओ—

॥ ६.१०.११ ॥

श्री-बादरायणिर् उवाच—

एवं कृत-व्यवसितो दध्यङ्ङ् आथर्वणस् तनुम् ।

परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ ॥

**श्रीधरः : **कृतं व्यवसितं निश्चयो येन । आत्मानं क्षेत्र-ज्ञं सन्नयन्न् एकी-कुर्वंस् तनुं जहौ ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आत्मानं मनः ॥११॥

—ओ)०(ओ—

॥ ६.१०.१२ ॥

यताक्षासु-मनो-बुद्धिस् तत्त्व-दृग् ध्वस्त-बन्धनः ।

आस्थितः परमं योगं न देहं बुबुधे गतम् ॥

**श्रीधरः : **यता अक्षादयो येन । तत्त्वं पश्यतीति तथा । ध्वस्तानि बन्धनानि यस्य ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **योगं समाधिं गतं स्वस्माद् विच्युतम् ॥१२॥

—ओ)०(ओ—

॥ ६.१०.१३ ॥

अथेन्द्रो वज्रम् उद्यम्य निर्मितं विश्वकर्मणा ।

मुनेः शक्तिभिर्1** उत्सिक्तो भगवत्-तेजसान्वितः ॥**

**श्रीधरः : **अथेन्द्रोऽशोभतेत्य् उत्तरेणान्वयः । मुनेः शक्तिभिर् अस्थिभिर् निर्मितम् । उत्सिक्त ऊर्जितः । मुनेर् अस्थिभिर् इति वा पाठः ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सक्थिभिर् अस्थिभिः । शक्तिभिर् इति च पाठः ॥१३॥

—ओ)०(ओ—

॥ ६.१०.१४ ॥

वृतो देव-गणैः सर्वैर् गजेन्द्रोपर्य् अशोभत ।

स्तूयमानो मुनि-गणैस् त्रैलोक्यं हर्षयन्न् इव ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.१५ ॥

वृत्रम् अभ्यद्रवच् छत्रुम् असुरानीक-यूथपैः ।

पर्यस्तम् ओजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥

**श्रीधरः : **असुरानीकानां यूथ-पैः पर्यस्तं परिवृतम् ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पर्यस्तं परिवृतम् अन्तकम् इवेति रुद्रो हि यमम् अपि संहर्तुं शक्नोतीत्य् अभिप्रायेण । यद् वा, सिंहः सिंहम् इवेतिवद् अयं दृष्टान्तः ॥१५॥

—ओ)०(ओ—

॥ ६.१०.१६ ॥

ततः सुराणाम् असुरै रणः परम-दारुणः ।

त्रेता-मुखे नर्मदायाम् अभवत् प्रथमे युगे ॥

**श्रीधरः : **रणः सङ्ग्रामः । प्रथमे चतुर्-युगे त्रेता-युगस्य मुखे आरम्भे ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्रेता-युगे त्रेतारम्भे । प्रथमे युगे वैवस्वत-मन्वन्तरस्य प्रथमे चतुर्-युगे ॥१६॥

—ओ)०(ओ—

॥ ६.१०.१७-१८ ॥

रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्यां पितृ-वह्निभिः ।

मरुद्भिर् ऋभुभिः साध्यैर् विश्वेदेवैर् मरुत्-पतिम् ॥

दृष्ट्वा वज्र-धरं शक्रं रोचमानं स्वया श्रिया ।

नामृष्यन्न् असुरा राजन् मृधे वृत्र-पुरःसराः ॥

**श्रीधरः : **नामृष्यन् नासहन्त ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.१९-२२ ॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुरः ।

हयग्रीवः शङ्कुशिरा विप्रचित्तिर् अयोमुखः ॥

पुलोमा वृषपर्वा च प्रहेतिर् हेतिर् उत्कलः ।

दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥

सुमालि-मालि-प्रमुखाः कार्तस्वर-परिच्छदाः ।

प्रतिषिध्येन्द्र-सेनाग्रं मृत्योर् अपि दुरासदम् ॥

अभ्यर्दयन्न् असम्भ्रान्ताः सिंह-नादेन दुर्मदाः ।

गदाभिः परिघैर् बाणैः प्रास-मुद्गर-तोमरैः ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.२३ ॥

शूलैः परश्वधैः खड्गैः शतघ्नीभिर् भुशुण्डिभिः ।

सर्वतोऽवाकिरन् शस्त्रैर् अस्त्रैश् च विबुधर्षभान् ॥

**श्रीधरः : **शतघ्नी च चतुर्-हस्ता लोह-कण्टक-सञ्चिता । भुशुण्डी सर्वतो-लोह-कण्टकानुक्रमोन्नता॥ इत्य् अभिधानम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्यात् शतघ्नी चतुर्हस्ता लौहकण्टक-सञ्चिता । भूशुण्डी सर्वतो लौह-कण्टकानुक्रमोन्नता इत्यभिधानम् ॥२४॥

—ओ)०(ओ—

॥ ६.१०.२४ ॥

न तेऽदृश्यन्त सञ्छन्नाः शर-जालैः समन्ततः ।

पुङ्खानुपुङ्ख-पतितैर् ज्योतींषीव नभो-घनैः ॥

**श्रीधरः : **पुङ्खो मूल-देशः । एकस्य मूल-देशम् अनु तत् संल्लग्नोऽपरस्य पुङ्खो यथा भवति तथा । नभ-स्थैर् घनैर् ज्योतींषीवेत्य् अनेन तेषां तद् अप्राप्तिः सूचिता ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ते देवाः पुङ्खः शरस्य मूल-देश एकस्य पुङ्खम् अनु पतितो यः शरस् तस्य पुङ्खम् अन्व् एवं पतितैः । नभस्थैर्घनैर् ज्योतींषीवेत्य् अनेन तेषां तद्-अप्राप्तिः सूचिता ॥२४॥

—ओ)०(ओ—

॥ ६.१०.२५ ॥

न ते शस्त्रास्त्र-वर्षौघा ह्य् आसेदुः सुर-सैनिकान् ।

छिन्नाः सिद्ध-पथे देवैर् लघु-हस्तैः सहस्रधा ॥

**श्रीधरः : **ताम् एवाह—न त इति । शस्त्राणाम् अस्त्राणां च यानि वर्षाणि तेषाम् ओघाः नासेदुर् न प्रापुः । सिद्ध-पथे आकाशे ॥२५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.२६ ॥

अथ क्षीणास्त्र-शस्त्रौघा गिरि-शृङ्ग-द्रुमोपलैः ।

अभ्यवर्षन् सुर-बलं चिच्छिदुस् तांश् च पूर्ववत् ॥

**श्रीधरः : **क्षीणा अस्त्राणां च शस्त्राणां च ओघा येषाम् । गिरि-शृङ्गैर् द्रुमैर् उपलैश् च ॥२६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.२७ ॥

तान् अक्षतान् स्वस्तिमतो निशाम्य

शस्त्रास्त्र-पूगैर् अथ वृत्र-नाथाः ।

द्रुमैर् दृषद्भिर् विविधाद्रि-शृङ्गैर्

अविक्षतांस् तत्रसुर् इन्द्र-सैनिकान् ॥

**श्रीधरः : **तान् इन्द्र-सैनिकान् शस्त्राणाम् अस्त्राणां च पूगैः समूहैर् अक्षतान् क्षत-शून्यान् स्वस्ति-मतः सुखिनो द्रुमादिभिश् चाविक्षतान् निशाम्य दृष्ट्वा । वृत्तो नाथो येषां ते । तत्रसुर् भीताः ॥२७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **निशम्य दृष्ट्वा । तत्रसुर् भीताः ॥२७॥

—ओ)०(ओ—

॥ ६.१०.२८ ॥

सर्वे प्रयासा अभवन् विमोघाः

कृताः कृता देव-गणेषु दैत्यैः ।

कृष्णानुकूलेषु यथा महत्सु

क्षुद्रैः प्रयुक्ता ऊषती रूक्ष-वाचः ॥

**श्रीधरः : **कृताः कृताः पुनः पुनः कृताः । कृष्णोऽनुकूलो येषां तेषु देव-गणेषु । रुशतीः रुशत्य अकल्याण्यो रूक्षाः परुषा वाचो यथा महत्सु क्षोभ-कर्त्र्यो न भवन्ति तद्वत् ।

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कृताः कृताः पुनः पुनः कृताः यथा महत्सु वैष्णवेषु ऊषतीर् उषत्यः यूयं शीघ्रं म्रियध्वम् इत्य् अकल्याण्यः । रूक्षाः परुषा वाचः रे रे अधमा इत्य्-आद्याः ॥२८॥

—ओ)०(ओ—

॥ ६.१०.२९ ॥

ते स्व-प्रयासं वितथं निरीक्ष्य

हराव् अभक्ता हत-युद्ध-दर्पाः ।

पलायनायाजि-मुखे विसृज्य

पतिं मनस् ते दधुर् आत्त-साराः ॥

**श्रीधरः : **हतो युद्धे दर्पो येषां ते । आत्तः परैर् गृहीतः सारो धैर्यं येषाम् । ते अति-प्रसिद्धा अपि ते दैत्याः । एवं ते इत्य् अस्यापौनर् उक्त्यम् । आजि-मुखे युद्धारम्भे । पतिं विसृज्य पलायनाय मनो दधुः । यतो हराव् अभक्ताः ॥२९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.३० ॥

वृत्रोऽसुरांस् तान् अनुगान् मनस्वी

प्रधावतः प्रेक्ष्य बभाष एतत् ।

पलायितं प्रेक्ष्य बलं च भग्नं

भयेन तीव्रेण विहस्य वीरः ॥

**श्रीधरः : **प्रधावतः पलायमानान् प्रेक्ष्य आदाव् एव तीव्रेण भयेन पलायितं भग्नं च तद् बलं सैन्यं तच् च प्रेक्ष्य एतद् वक्ष्यमाणं बभाषे ॥३०॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.३१ ॥

कालोपपन्नां रुचिरां मनस्विनां

जगाद वाचं पुरुष-प्रवीरः ।

हे विप्रचित्ते नमुचे पुलोमन्

मयानर्वन् छम्बर मे शृणुध्वम् ॥

**श्रीधरः : **तद् एव विशिनष्टि । कालोपपन्नाम् अवसरोचिताम् । मनस्विनां रुचिराम् । हे मय, हे अनर्वन्, मे वाचं शृणुत ॥३१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.१०.३२ ॥

जातस्य मृत्युर् ध्रुव एव सर्वतः

प्रतिक्रिया यस्य न चेह कॢप्ता ।

लोको यशश् चाथ ततो यदि ह्य् अमुं

को नाम मृत्युं न वृणीत युक्तम् ॥

**श्रीधरः : **ततो मृत्योर् इह यशो लोकः स्वर्गश् च यदि स्यात् अथ तर्हि अमुं मृत्युम् । युक्तं समीचीनं प्राप्तं वा ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ततो मृत्योर् इह यशः स्वर्गश् च यदि स्यात्, अथ तर्हि अमुं मृत्युम् । युक्तं समिचितम् ॥३२॥

—ओ)०(ओ—

॥ ६.१०.३३ ॥

द्वौ सम्मताव् इह मृत्यू दुरापौ

यद् ब्रह्म-सन्धारणया जितासुः ।

कलेवरं योग-रतो विजह्याद्

यद् अग्रणीर् वीर-शयेऽनिवृत्तः ॥

**श्रीधरः : **ब्रह्म-सन्धारणया कलेवरं जह्याद् इति यत्स एको मृत्युः । वीर-शये रण-भूमाव् अनिवृत्तोऽपराङ् भुखः सन् जह्याद् इति यत् स एकः । तौ द्वाव् इह शास्त्रे सम्मतौ मृत्यू । तथा च स्मृतिः—

द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ ।
परिव्राड् योग-युक्तश् च रणे चाभिमुखो हतः ॥ इति ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **वीर-शये सङ्ग्रामे अनिवृत्तः अभिमुखस्थः ॥३३॥

—ओ)०(ओ—

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य दशमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—

इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
विश्वरूपोपाख्याने दशमोऽध्यायः ।

॥ ६.१० ॥

(६.११)


  1. सक्थिभिर् इति स्वामि-पाठः। ↩︎