॥ ६.९.१ ॥
श्री-शुक उवाच—
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
सोम-पीथं सुरा-पीथम् अन्नादम् इति शुश्रुम ॥**
**श्रीधरः : **
नवमे विश्वरूपे तु हते शक्रेण कोपतः ।
त्वष्ट्रा चोत्पादिते वृत्रे भीतैर् देवैर् हरेः स्तुतिः ॥
सोमस्य पीथं पानं, यस्मिन् एवं सुरा-पीथम् । अन्नम् अत्तीत्य् अन्नादम् । अत्र, विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् इत्य्-आदि-श्रुतिर् अनुसन्धेया ॥१॥
क्रम-सन्दर्भः : तस्य शीर्षाण्य् अच्छिनद् इति बृहस्पत्य्-अतिक्रमेण देव-गण-द्रोहेण सर्व-शक्ति-हानात् ॥१॥
**विश्वनाथः : **
विश्वरूपम् अहन् शक्रस् त्वष्टा वृत्रम् अजीजनत् ।
देवैः स्तुतो हरिर् वज्र-प्राप्तिं नवम ऊचिवान् ॥
सोमस्य पीथं पानं यस्मिन् तत् । अन्नम् अत्तीत्य् अन्नादम् । अत्र, विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् इति श्रुतिर् अनुसन्धेया ॥१॥
—ओ)०(ओ—
॥ ६.९.२ ॥
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षम् उच्चकैः ।
अददद् यस्य पितरो देवाः सप्रश्रयं नृप ॥**
**श्रीधरः : **तस्यासुर-पक्ष-पातम् आह—स वा इति द्वाभ्याम् । प्रत्यक्षं प्रकटं यथा भवति, तथा स-विनयं देवेभ्यो हविर् भागम् इन्द्रायेदम् अग्नय इदम् इत्य् उच्चैर् अवदत् । अत्र हेतुः, यस्य पितरो देवाः सः ॥२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तस्यासुर-पक्षपातम् आह—स वा इति द्वाभ्याम् । प्रत्यक्षं प्रकटं यथा भवति, तथा स-विनयं देवेभ्यो हविर् भागम् इन्द्रायेदम् अग्नये इदम् इति उच्चैर् अददत् । तत्र हेतुः—यस्य पितरो देवाः ॥२॥
—ओ)०(ओ—
॥ ६.९.३ ॥
स एव हि ददौ भागं परोक्षम् असुरान् प्रति ।
यजमानोऽवहद् भागं मातृ-स्नेह-वशानुगः ॥**
**श्रीधरः : **असुरेभ्यस् तु परोक्षं गुप्तं भागं ददौ । तद् एवाह—देवान् यजमानोऽसाव् असुरान् प्रति भागम् अवहत्, केनाप्य् उपायेन प्रापयाम् आस । यतो मातृ-स्नेह-वशेनासुरान् अनुगच्छति ॥३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : परोक्षं देवानां दृष्टिं वञ्चयित्वा द्वि-त्र-वारं नीचैर् इत्य् अर्थः । ददौ दत्त्वा च भागम् अवहत् परोक्षम् एव प्रापयामासेत्य् अर्थः । तत्र हेतुः—मात्र् इति यस्यासुरा मातामहा इत्य् अर्थः । भीतोऽसुर-बलोद्भवं विभावेत्य् अर्थः ॥३॥
—ओ)०(ओ—
॥ ६.९.४ ॥
तद् देव-हेलनं तस्य धर्मालीकं सुरेश्वरः ।
आलक्ष्य तरसा भीतस् तच्-छीर्षाण्य् अच्छिनद् रुषा ॥**
न कतमेनापि व्याख्यातम्।
—ओ)०(ओ—
॥ ६.९.५ ॥
सोम-पीथं तु यत् तस्य शिर आसीत् कपिञ्जलः ।
कलविङ्कः सुरा-पीथम् अन्नादं यत् स तित्तिरिः ॥**
श्रीधरः, विश्वनाथः : न व्याख्यातम्।
क्रम-सन्दर्भः : कपिञ्जलश् चेति तित्तिरिः ॥५॥
—ओ)०(ओ—
॥ ६.९.६ ॥
ब्रह्म-हत्याम् अञ्जलिना जग्राह यद् अपीश्वरः ।
संवत्सरान्ते तद् अघं भूतानां स विशुद्धये ।
भूम्य्-अम्बु-द्रुम-योषिद्भ्यश् चतुर्धा व्यभजद् धरिः ॥**
**श्रीधरः : **तां वारयितुं समर्थस् तथापि जग्राह । संवत्सरं तथैव स्थित्वा संवत्सरान्ते भूताक्रोश-भीतः सन् भूतानां मध्ये विशुद्धये लोकापवाद-परिहाराय स हरिर् इन्द्रो भूम्य्-आदिभ्यस् तद् अघं व्यभजद्, विभज्य ददाव् इत्य् अन्वयः ॥६॥
**क्रम-सन्दर्भः : **ब्रह्म-हत्याम् इत्य् अर्धकम् । यद् अपीश्वरस् तथाप्य् अञ्जलिना साक्षात् स्वापराध-स्वीकारे जग्राह, तादृश-पापस्य तादृशेनाप्य् अपहरणीयत्वात् । **भूतानां विशुद्धय **इत्य् अन्तस् तु सूक्ष्म-रूपेण स्थितम् एवेत्य् अर्थः । यद् एतद् वृत्र-हत्याम् अपि जनयिष्यतीति भावः ॥६॥
**विश्वनाथः : **आकस्मिकाभ्यां क्रोध-भयाभ्यां तं हत्वैवाहो हन्त महा-पापं बुद्धि-पूर्वकम् एवाकरवं महा-नीचो न जाने कुत्र वा नरके पतिष्यामि तद् एतत् समुचितं फलं शीघ्रम् एव लभेयेत्य् अनुताप-पुञ्जे निममज्जेत्य् आह—ब्रह्मेति । स्व-तेजसा मां ज्वालयेति भावः । यद् यस्मात् अधि अधिकृत-भक्त ईश्वर-विभूति-रूपस् तस्मात् कथम् एवं विकर्मणा अनुतापं न कुर्याद् इति भावः । एवम् अनुतापेन क्षीण-पाप-वेगः संवत्सर-पर्यन्तं तथैव विगीत एव स्थित्वा तद्-अन्ते भूतानां स्व-देह-स्थ-भूतानां पृथिव्य्-अप्-तेजो-वायूनां ब्रह्म-हत्ययैवापवित्रीकृतानां विशुद्धये तद् अघं चतुर्धा वाभजत्, आकाशस्यापवित्र्यासम्भवात् चतुर्णाम् एव भूतानां शुद्धये चतुर्धेति न्यायः । तेनान्तःकरण-गतम् अघस् तु सूक्ष्म-रूपेण तस्थाव् एव यद् एव बीजं पुनर् अपि वृत्र-वधेन ब्रह्म-हत्यां जनयिष्यतीति भावः ॥६॥
—ओ)०(ओ—
॥ ६.९.७ ॥
भूमिस् तुरीयं जग्राह खात-पूर-वरेण वै ।
ईरिणं ब्रह्म-हत्याया रूपं भूमौ प्रदृश्यते ॥**
**श्रीधरः : **तुरीयं चतुर्थं भागम् । खातस्य गर्तस्य पूरः पूरणं तेन वरेण । यदि खात-पूरणं स्वत एव भविष्यति, तर्हि ग्रहीष्यामीत्य् एवं भाषा-बन्धेन जग्राहेत्य् अर्थः । ईरणम् ऊषरम् । अत एवोषरेऽध्ययनादि निषिध्यते ॥७॥
**क्रम-सन्दर्भः : **खात-पूर-वरेणेति यद्यपि तत् पूर्वम् अपि वृष्ट्य्-आदिना मृत्तिकादि-पातेन पूरणं सम्भवति, तथापि वरेणानेन स्वतो वृद्ध्यापेति ज्ञेयम् ॥७॥
**विश्वनाथः : **तुरीयं चतुर्थं भागम् । खातस्य गर्तस्य पूरः पूरणं तेन वरेण । यदि खात-पूरणं स्वत एव भविष्यति, तर्हि ग्रहीष्यामीत्य् एवं भाषा-बन्धेन जग्राहेत्य् अर्थः । ईरणम् ऊषरम् । अत एवोषरे अध्ययनादि निषिध्यते ॥७॥
—ओ)०(ओ—
॥ ६.९.८ ॥
तुर्यं छेद-विरोहेण वरेण जगृहुर् द्रुमाः ।
तेषां निर्यास-रूपेण ब्रह्म-हत्या प्रदृश्यते ॥**
**श्रीधरः : **छेदे सति पुनर् विरोहः प्ररोहो भवत्व् इति वरेण । निर्यास-रूपेण ब्रह्म-हत्याया दृष्टत्वान् निर्यासो न भक्ष्यः ॥८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **छेदे सति पुनर् विरोहः प्ररोहो भवत्व् इति वरेण । निर्यासेत्य् अत एव निर्यासोऽभक्ष्यः ॥८॥
—ओ)०(ओ—
॥ ६.९.९ ॥
शश्वत्-काम-वरेणांहस् तुरीयं जगृहुः स्त्रियः ।
रजो-रूपेण तास्व् अंहो मासि मासि प्रदृश्यते ॥**
**श्रीधरः : **शश्वत्-काम-वरेण यावत् प्रसवं गर्भानुपघातेनैव संभोग-वरेण । रज इति । अत एव रजो-दर्शने तत्-सङ्गादि न कार्यम् ॥९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **शश्वत्-कामो बहु-सम्भोगेऽप्य् अलं-बुद्ध्य्-अभावः । गर्भवत्या अपि गर्भानकारक-सम्भोगश् च स एव वरस् तेन रज इत्य् अत एव रजस्वला अव्यवहार्या ॥९॥
—ओ)०(ओ—
॥ ६.९.१० ॥
द्रव्य-भूयो-वरेणापस् तुरीयं जगृहुर् मलम् ।
तासु बुद्बुद-फेनाभ्यां दृष्टं तद् धरति क्षिपन् ॥**
**श्रीधरः : **तद्-विभाग-फलम् आह—द्रव्येति । तत् पापं हरति निराकरोति । कः क्षिपन् ? बुद्बुदादि-जलाद् बहिः प्रक्षिपन्न् इत्य् अर्थः । यद् वा, क्षिपन् जलं पापं हरति आहरति गृह्णातीत्य् अर्थः । अयं च तस्माद् आपो न परिचक्ष्या इत्य्-आदि श्रुत्य्-अर्थ उक्तः । पाठान्तरे हरि-किल्बिषम् इन्द्र-पापम् । इन्द्रायेन्द्रं हन्तुं शत्रवे शत्रूत्पत्तये ॥१०॥
द्रव्य-भूयो-वरेण यस्मिन् द्रव्ये क्षीरादावापो मिश्रा भवेयुस् तस्य भूयस् त्वम् आधिक्यं स्याद् इति वरेण । यद् वा, स्वस्यैव निर्झरोद्गमादिना भूयस् त्व् अवरेण । द्रव-भूय इति पाठेऽप्य् अयम् एवार्थः । यद् वा, द्रव-भूयस् त्वं सांसिद्धिक-द्रवत्वं तेन वरेण । अस्य विभागस्य विश्वरूपो वै त्वाष्ट्रः इत्य् अस्यां श्रुताव् उक्तेः ॥?॥
**क्रम-सन्दर्भः : **द्रव्य-भूय इति पाठान्तरेऽपि द्रव्य-शब्देन द्रव एवोच्यते । भावे कृत्-प्रयोगात्1 स्वार्थे तद्-धिताद् वा । टीकायां “मिश्राः” इति । इतः पूर्वं मिश्रा एव न भवेयुर् इति गम्यम् । निर्झरोद्गम इति । इतः-पूर्वं निर्झरोद्गमादिकम् एव नासीद् इति गम्यम् । “द्रव-भूयः” इति पाठे सांसिद्धिक-द्रवत्वम् इतीतः-पूर्वं किञ्चिद् घनम् आसीद् इति लक्ष्यते ॥१०॥
**विश्वनाथः : **द्रव्यानां क्षीरादीनां भूयः भूयस्त्वम् अस्मत्-सम्पर्केण बहुतरत्वम् एवास्माकं वरस् तेन । द्रव-भूय इति पाठे द्रव-भूयस्त्वं सांसिद्धिक-द्रवत्वं तेन तास्व् अप्सु बुद्बुद-फेणाभ्यां तत् मलं दृष्टम् । अत एव तद्-बुद्बुदादिकं क्षिपन् दूरीकुर्वन् एव हरति अप आहरति, न तु बुद्बुधादि-युक्ता इत्य् अर्थः । यदि च तद्-युक्ता एव अपः कश्चिद् आहरति तदा पापम् एवाहर्तीति भावः ॥१०॥
—ओ)०(ओ—
॥ ६.९.११ ॥
हत-पुत्रस् ततस् त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्र-शत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥**
**श्रीधरः : **तद् आह—इन्द्र-शत्रो विवर्धस्वेति । अत्र चेन्द्र-शत्रु-पदस्याद्य्-उदात्तत्वात् बहुव्रीहौ प्रकृत्या पूर्व-पदम् इति स्मृतेर् बहुव्रीहि-लक्षणापत्त्या इन्द्र एव तस्य शत्रुर् अभूत् । तद् उक्तं श्रुत्या, यद् अब्रवीत् स्वाहेन्द्र-शत्रो वर्धस्वेति तस्माद् अस्येन्द्रः शत्रुर् अभवत् इति । तथा च शिक्षायं—
मन्त्रो हीनः स्वरतो वर्णतो वा
मिथ्या-प्रयुक्तो न तम् अर्थम् आह ।
स वाग्-वज्रो यजमानं हिनस्ति
यथेन्द्र-शत्रुः स्वरतोऽपराधात् ॥ इति ।
अन्वाहार्य-पचनाद् दक्षिणाग्नेः ॥११॥
**क्रम-सन्दर्भः : **इन्द्रशत्रो! विवर्धस्वेति । शत्रुर् हन्ता । तत्र तत्पुरुषे वृत्रस्य हन्तृत्वम् । बहुव्रीहौ सतीन्द्रस्य हन्तृत्वम् आयाति । तत्र च तत्पुरुषत्वं समासस्य चेत्य् अनेन समासान्त-स्वरस्यान्तोदात्त-विधिना व्यज्यते । बहुव्रीहित्वं तु तद्-बाधकेन बहुव्रीहौ प्रकृत्या पूर्व-पदम् इत्य् अनेन पूर्व-पदे स्वभाव-सिद्धाद्य्-उदात्त-स्थापकेन व्यज्यते । इन्द्र-शब्दो ह्य् आद्य्-उदात्तः, इदि परमैश्वर्य इत्य् अस्योदात्त-गण-पठितत्वात् । तद् एवं दैवादाद्य्-उदात्तत्व-पाठेन वैपरीत्यं जातम् इतीन्द्र एव तस्य शत्रुर् अभूत् ॥११॥
**विश्वनाथः : **संवत्सरान्ते तद् अघम् इति पूर्वोक्तिर् आश्विन-मासारम्भे इन्दोर् यदैव ब्रह्म-हत्यातो विमुक्तो बभूव तदैव तपो-वनाद् आगत्य स्वीयम् आविनमासं सम्पालयितुं प्रवृत्तः त्वष्टा स्व-पुत्र-वधं श्रुत्वा क्रोध-शोकाभ्याम् इन्द्र-वधोपायं चकारेत्य् आह हत-पुत्र इति । इन्द्राय शत्रवे इन्द्र-रूपं शत्रुं हन्तुं तत्र मन्त्रम् आह—इन्द्र-शत्रो विवर्धस्वेति । इन्द्रस्य शत्रुः सन् विवर्धस्वेति समासस्य विवक्षितत्वेऽपीन्द्र एव शत्रुर् यस्येति बभुव्रीह्य्-अर्थ एव दैवाद् आपतितः स्वर-व्यतिक्रमात्। तथा हीदि परमैश्वर्य इत्य् अस्योदात्त-गण-पठितत्वात् । इन्द्र-शब्दो ह्य् आद्य्-उदात्तः तत्र समासस्य चेति सूत्रेण समास-मात्र एवान्तोदात्तत्व-विधानात् तत्पुरुषे शेषम् अनुदात्तम् इत्य् अनेन । इन्द्र-शत्रो इत्य् अस्याद्य्-उदात्तत्वम् । बहुव्रीहौ प्रकृत्या पूर्वपदम् इति तद्-बाधक-सूत्रेण पूर्व-पदस्य स्वभाव-सिद्ध-स्वर-स्थापनाद् बहुव्रीहाव् इन्द्रशत्रो इत्य् अस्याद्य्-उदात्तत्वम् । त्वष्टा तु दैवाद् आद्य्-उदात्त-स्वरतयैव पाठाद् इन्द्र एव तस्य शत्रुर् हन्ता अभूत् । तद् उक्तं श्रुत्या—यद् अब्रवीत् स्वाहेन्द्र-शत्रो वर्धस्वेति तस्माद् अस्येन्द्रः शत्रुर् अभवत् इति । तथा च शिक्षायं—
मन्त्र-हीनः स्वरतो वर्णतो वा
मिथो प्रयुक्तो न तम् अर्थम् आह ।
यथेन्द्र-शत्रुः स्वरतोऽपराधात्
स वाग् वज्रो यजमानं हि हिनस्ति ॥ इति ॥११॥
—ओ)०(ओ—
॥ ६.९.१२ ॥
अथान्वाहार्य-पचनाद् उत्थितो घोर-दर्शनः ।
कृतान्त इव लोकानां युगान्त-समये यथा ॥**
**श्रीधरः : **तं वीक्ष्य वित्रस्ता लोका दश दिशो विदुद्रुवुर् इति पञ्चमेनान्वयः । कथं-भूतम् ? विष्वक् समन्तत इषु-विक्षेप-मात्रं प्रतिदिनं वर्धमानम् ।
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अथ तद्-अनन्तरम् एव स्वीय-पाठ-व्यतिक्रमेऽवगते सति अन्वाहार्य-पचनात् स्वभाव-प्राप्ताद्य्-उदात्त-व्यञ्जित-बहुव्रीहि-पठनानन्तरम् आहार्यता-प्राप्ताद्य्-अनुदात्त-व्यञ्जित-तत्पुरुष-पाठाद् धेतोः स घोर-दर्शन उत्थितः । स्वाभाविक-पाठाद् इन्द्रोऽस्य हन्ता भविष्यति पश्चाद् आहार्य-पाठाद् इन्द्रोऽप्य् अनेन हतो भविष्यति सवाहनस्यापि तस्यानेन निगिलिष्यमाणत्वाद् इति भावः । अन्वाहार्य-शब्दस्य मासिक-श्राद्ध-वाचित्वाद् व्याख्यान्तरं न घटते ॥१२॥
—ओ)०(ओ—
॥ ६.९.१३ ॥
विष्वग् विवर्धमानं तम् इषु-मात्रं दिने दिने ।
दग्ध-शैल-प्रतीकाशं सन्ध्याभ्रानीक-वर्चसम् ॥**
**श्रीधरः : **दग्ध-शैल-प्रतीकाशं कृष्ण-वर्णम् । सन्ध्याभ्रानीक-वद्-वर्चो दीप्तिर् यस्य तम् । तप्त-ताम्र-वच्-छिखाः । श्मश्रूणि च यस्य । मध्याह्नार्क-वद्-उग्रे लोचने यस्य ॥१३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तं वीक्ष्य वित्रस्ता लोका दश-दिशो विदुद्रुवुर् इति पञ्चमेनान्वयः । कीदृशम् ? विष्वक् समन्त्रतः स्वस्य ऊर्ध्वाधो दश-दिक्षु इषु-विक्षेप-मात्रं प्रतिदिनं वर्धमानम् ॥१३॥
—ओ)०(ओ—
॥ ६.९.१४ ॥
तप्त-ताम्र-शिखा-श्मश्रुं मध्याह्नार्कोग्र-लोचनम् ।
देदीप्यमाने त्रि-शिखे शूल आरोप्य रोदसी ॥**
**श्रीधरः : **रोदसी आरोप्येवेत्य् अर्थः ॥१४॥
**क्रम-सन्दर्भः : **तत्र शूल आरोष्यैवेति द्यावापृथिवी-स्थ-लोकैस् तस्मिन् शूले स्व-ग्रथनानिष्पत्ति-मननात् ॥१४॥
**विश्वनाथः : **आरोप्य आरोप्येवेत्य् अर्थः ॥१४॥
—ओ)०(ओ—
॥ ६.९.१५ ॥
नृत्यन्तम् उन्नद्-अन्तं च चालयन्तं पदा महीम् ।
दरी-गम्भीर-वक्त्रेण पिबता च नभस्तलम् ॥**
**श्रीधरः : **दरी-वद्-गम्भीरेण वक्त्रेण मुहुर् मुहुर् जृम्भमाणम् इत्य् अन्वयः । कथं-भूतेन ? नभस् तलं पिबता, ऋक्षाणि जिह्वया लिहता, भुवन-त्रयं ग्रसता ॥१५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **पिबता पिबतेव ॥१५॥
—ओ)०(ओ—
॥ ६.९.१६ ॥
लिहता जिह्वयर्क्षाणि ग्रसता भुवन-त्रयम् ।
महता रौद्र-दंष्ट्रेण जृम्भमाणं मुहुर् मुहुः ।
वित्रस्ता दुद्रुवुर् लोका वीक्ष्य सर्वे दिशो दश ॥**
**श्रीधरः : **महता विस्तीर्णेन । रौद्रा दंष्ट्रा यस्मिन् ॥१६॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.९.१७ ॥
येनावृता इमे लोकास् तपसा त्वाष्ट्र-मूर्तिना ।
स वै वृत्र इति प्रोक्तः पापः परम-दारुणः ॥**
**श्रीधरः : **वृत्र-नाम निर्वक्ति, येनावृता इति । त्वाष्ट्रो मूर्तिर् यस्य तमसस् तेन । तथा च श्रुतिः, स इमाल् लोकान् आवृणोत् तद् वृत्रस्य वृत्रत्वम् इति ॥१७॥
**क्रम-सन्दर्भः : **येनेति तैः । त्वाष्ट्र-मूर्तिनेति मूर्त्तिः स्वरूपं त्वाष्ट्र-सम्बन्धेनैव तस्य स्वरूपं भासत इत्य् अर्थः ॥१७॥
**विश्वनाथः : **त्वाष्ट्री त्वष्ट्;र्-सम्बन्धिनी मूर्तिर् यस्य तेन वृत्रेण इमे लोका आवृता इत्य् अर्थः ॥१७॥
—ओ)०(ओ—
॥ ६.९.१८ ॥
तं निजघ्नुर् अभिद्रुत्य सगणा विबुधर्षभाः ।
स्वैः स्वैर् दिव्यास्त्र-शस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः ॥**
**श्रीधरः : **अग्रसद् भक्षितवान् ॥१८॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.९.१९ ॥
ततस् ते विस्मिताः सर्वे विषण्णा ग्रस्त-तेजसः ।
प्रत्यञ्चम् आदि-पुरुषम् उपतस्थुः समाहिताः ॥**
**श्रीधरः : **ग्रस्तं तेजो येषाम् । प्रत्यञ्चम् अन्तर्यामिणम् । त्रि-भुवनस्य तेन व्याप्तत्वात् क्वापि गमनासम्भवात् । तत्रैव स्थित्वा तुष्टुवुर् इत्य् अर्थः ।
महा-भये परित्राणमन्यतो न भवेद् इति ।
हरिम् एव प्रपद्यन्ते सुराः शरणम् आतुराः ॥१९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रत्यञ्चं प्रत्यग्-भूतम् अन्तर्यामिणम् इत्य् अर्थः ॥१९॥
—ओ)०(ओ—
॥ ६.९.२० ॥
श्री-देवा ऊचुः—
वाय्व्-अम्बराग्न्य्-अप्-क्षितयस् त्रि-लोका
ब्रह्मादयो ये वयम् उद्विजन्तः ।
हराम यस्मै बलिम् अन्तकोऽसौ
बिभेति यस्माद् अरणं ततो नः ॥
**मध्वः : **कालोऽन्तकः प्रधानं च मृत्युर् अव्यक्तम् इत्य् अपि ।
उच्यते प्रकृतिः सूक्ष्मा श्रीर् भूर् दुर्गेति नामभिः ॥
सैव ब्रह्मादि-भयदा विष्णोश् च वश-वर्तिनी ।
अभयापि बिभेतीव तद्-वशत्वाद् उदीर्यते ॥ इति मात्स्ये ॥२०॥
**श्रीधरः : **वाय्व्-आदीनि पञ्च-महा-भूतानि तैर् निर्मितास् त्रयो लोकाः, तेषाम् अधिपतयो ब्रह्मादयश् च, ततोऽर्वाचीना वयं च सर्वे यस्मै अन्तकाय कालायोद्विजन्तः सन्तो बलिं हराम । असाव् अपि यस्माद् बिभेति, ततः परमेश्वराद् एव नोऽस्माकम् अरणं शरणं रक्षणम् अस्तु ॥२०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अस्माद् वृत्र-जनिताद् भयात् परमेश्वरं विना न कोऽपि रक्षितुं प्रभविष्यतीति मत्वा तम् एव शरणम् आश्रयन्ते वाय्व् इति । वाय्व्-आद्य्-उपलक्षितानि त्रयोविंशति तत्त्वानि, तथा तैर् वाय्व्-आदिभिर् निर्मितास् त्रिलोकाः, तथा तेषाम् अधिपतयो ब्रह्मादयः, ततोऽर्वाचीना वयं च ये, ते सर्वे यस्मान् मृत्योर् उद्विजन्तो भीताः । असाव् अन्तको मृत्युर् अपि यस्माद् बिभेति, ततस् तस्मात् परमेश्वराद् एव नोऽस्माकम् अरणं शरणं रक्षणम् अस्तु ॥२०॥
—ओ)०(ओ—
॥ ६.९.२१ ॥
अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्य् अपरं हि बालिशः
श्व-लाङ्गुलेनातितितर्ति सिन्धुम् ॥
**श्रीधरः : **तत एवेत्य् अवधारणे हेतुम् आहुः—अविस्मितं निरहङ्कारम्, कुतूहल-शून्यं वा । कुतः ? प्रशान्तं रागादि-शून्यम् । तच् च कुतः ? स्वेनैव लाभेन परिपूर्ण-कामम् । तच् च कुतः ? समम् उपाधि-परिच्छेद-शून्यम् । एवं-भूतं परमेश्वरं **विना अपरं **यः शरणार्थम् उपसर्पति, स बालिशोऽज्ञः । यतोऽसौ शुनो लाङ्गूलेन पुच्छेन समुद्रम् अतितितर्ति अतितर्तुम् इच्छतीत्य् अर्थः । यथा तेन समुद्र-तरणं न भवति, तथा निरीश्वराश्रयणेन व्यसनार्णव-तरणं न भवतीति भावः ॥२१॥
क्रम-सन्दर्भः : अविस्मितं ततोऽन्यस्यापूर्वस्य वस्तुनोऽसद्-भावाद् विस्मय-रहितम् अतः स्वेनैव स्वीयेनैव कर्म-भूतस्य क्रिया-भूतेन लाभेन परिपूर्ण-कामं नान्यस्येत्य् अर्थः । अतः सर्वत्र समम् । अतः प्रशान्तं चित्त-दोष-रहितम् । तथोक्तं—रजस्-तमः-प्रकृतयः सम-शीला भजन्ति वै [भा।पु। १.२.२७]इत्य्-आदि । अत उक्तं श्री-सत्यव्रतेन—
न यत्-प्रसादायुत-भाग-लेशम्
अन्ये च देवा गुरवो जनाः स्वयम् ।
कर्तुं समेताः प्रभवन्ति पुंसस्
तम् ईश्वरं वै शरणं प्रपद्ये ॥ [भा।पु। ८.२४.४९]
श्री-महाभारते च—
यस्तु विष्णुं परित्यज्य मोहादन्यम् उपासते ।
स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ इति ।
तद् इदं भक्ति-सन्दर्भे विशेषेण विवृतम् अस्ति ॥२१॥ [भक्ति-सन्दर्भ १०६]
**विश्वनाथः : **तद् अन्यस् तु सुधिया नैवाश्रयणीय इत्य् आहुः—अविस्मितम् इति । तं विना अपरं देवतान्तरं कर्म-योगं ज्ञान-योगम् अपर-योगं वा शरणार्थं बालिशो महा-मूर्ख एवोपसर्पति, न तु विज्ञः । यथा शुनः पुच्छेन सिन्धुम् अतितर्तुम् इच्छति, स श्वा एव सिन्धुं तर्तुं न शक्नोति, किम् उत तत्-पुच्छ-ग्राही ! प्रत्युत स्व-पुच्छ-ग्राहिणं स श्वा एव दृष्ट्वा प्रथमं समुद्र-मध्ये क्षिपति, पश्चात् स्वयम् अपि निमज्जतीति भावः । भगवद्-आश्रयी तु संसार-सिन्धुं यत् तरति तत् किम् अपि नाद्भुतम् इत्य् आहुः—अविस्मितम् इति । न विद्यते विस्मितं किम् अप्य् अद्भुतं यत्र, तं विना दुर्लङ्घ्यस्यापि संसार-सिन्धोस् तारणे अन्यत्रातिविस्मयोऽपि, तत्र न कोऽपि विस्मयः । सद्य एव तस्य गोष्पदीकरण-सामर्थ्याद् इति भावः । स्वेनैव स्व-स्वरूपेणैव यो लाभः सौन्दार्यादि-माधुर्य-सप्तकस्य प्राप्तिस् तेन समं सह परिपूर्णाः कामाः स्वीय-ह्लादिनी-शक्ति-दत्ता भोगा यस्य तम् । प्रशान्तम्अनुग्रहं सेवापराधे जातेऽपि भक्त-विशेष्लक्षणत्वात् क्षन्तारम् ॥२१॥
—ओ)०(ओ—
॥ ६.९.२२ ॥
यस्योरु-शृङ्गे जगतीं स्व-नावं
मनुर् यथाबध्य ततार दुर्गम् ।
स एव नस् त्वाष्ट्र-भयाद् दुरन्तात्
त्राताश्रितान् वारिचरोऽपि नूनम् ॥
**श्रीधरः : **महा-भये स एव रक्षक इति दृष्टम् इत्य् आहुः—यस्येति द्वाभ्याम् । यस्य महा-शृङ्गे जगतीं पृथ्वीम् एव स्व-नावं बद्ध्वा मनुः सत्यव्रतो यथावद् दुर्गं सङ्कटं ततार, स एव वारि-चरो मत्स्य-मूर्तिर् नोऽस्मान् अप्य् आश्रितान् सतो नूनं त्राता रक्षिष्यति ॥२२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **वयं त्व् अतिनिकृष्टाः सकामा अप्य् अस्मिन् महा-भय एव शरणं यान्तोऽपि तेन रक्षणीया एव, यथा पूर्वे इत्य् आहुः—यस्येति द्वाभ्याम् । यस्य मत्स्य-रूपस्य जगतीं पृथ्वीम् यथा ततारेति, वयम् अपि तथा तरेमेति भावः । वारि-चरोऽपि वारिण्य् एव चरन्न् अपि तत्रैव स्थित्वा जगती-स्थान् अस्मान् ईश्वरत्वाद् रक्षतु ॥२२॥
—ओ)०(ओ—
॥ ६.९.२३ ॥
पुरा स्वयम्भूर् अपि संयमाम्भस्य्
उदीर्ण-वातोर्मि-रवैः कराले ।
एकोऽरविन्दात् पतितस् ततार
तस्माद् भयाद् येन स नोऽस्तु पारः ॥
**मध्वः : **यत्र वायुद-पद्मादि-रूपेण प्रकृतिः स्थिता ।
एकस् तत्राविभेद् ब्रह्मा विचार्य भयम् अत्यगात् ॥
अन्तर्-गतो हरिस् तस्य ध्यातो भयम् अपानुदत् ॥ इति च ।
जनिष्यतां जनानां तु स्वभावानां प्रसिद्धये
ज्ञानादि-गुण-पूर्णस्य ब्राह्मणोऽपि क्षणार्धगाः ॥
अज्ञानं तु चतुर् वारं द्वि-वारं भयम् एव च ।
लोकोऽपि तावन् नान्यत्र कदाचिद् ब्राह्मणो भवेत् ।
तत्रापि भगवत्-प्रीत्या उन्नत्यैवास्य तद् भवेत् ॥ इति ब्रह्म-तर्के ॥२३॥
**श्रीधरः : **संयमाम्भसि प्रलयोदके । उदीर्णैर् उद्गतैर् वातैर् ये ऊर्मयस् तेषां रवैः कराले भयङ्-करे । अरविन्दान् नाभि-कमलात् पतित-प्राय एकोऽसहाय एव तस्माद् भयाद् येन ततार स एव नः पारस् तारकोऽस्तु ॥२३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **संयमाम्भसि प्रलय-जले । अरविन्दान् नाभि-कमलात् पतितः पतित-प्रायः, येन हेतुना सः ॥२३॥
—ओ)०(ओ—
॥ ६.९.२४ ॥
य एक ईशो निज-मायया नः
ससर्ज येनानुसृजाम विश्वम् ।
वयं न यस्यापि पुरः समीहतः
पश्याम लिङ्गं पृथग् ईश-मानिनः ॥
**मध्वः : **लिङ्गम् एव पश्यामः ।
कदाचिद् अभिमानस् तु देवानाम् अपि सन्न् इव ।
प्रायः कालेषु नास्त्य् एव तारतम्येन सोऽपि तु ॥ इति च ॥२४॥
**श्रीधरः : **किं च, वयं भगवतैव सृष्टाः पालिताश् च बहुशोऽतस् तम् एव शरणं व्रजामेत्य् आहुः—य एक इति त्रिभिः । येनानुगृहीताः सन्तो विश्वं सृजाम् ।
ननु यूयम् एव स्रष्टारो नान्यो युष्माकम् अनुग्राहकोऽस्ति, तस्यादर्शनात् ? तत्राहुः—अस्मत्तः पुरः पूर्वम् एवान्तर्यामितया समीहमानस्यापि यस्य लिङ्गं रूपं न पश्यामः। तत्र हेतुः—पृथक् पृथग् ईशा इत्य् अभिमानिनः ॥२४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **स खलु सर्वत्रात्र च वर्तमानोऽप्य् अस्माकं बहिर्मुखेन्द्रियाणाम् अदृश्योऽपि कृपयैव दृश्यो भूत्वा रक्षत्व् इत्य् आहुः—य इति त्रिभिः । पुरोऽस्माकम् अग्र एव समीहमानस्य राम-कृष्णादि-रूपेण लीलां कुर्वतोऽपि तस्य लिङ्गं न पश्यामः, तत्र हेतुः पृथग् इति ॥२४॥
—ओ)०(ओ—
॥ ६.९.२५-२६ ॥
यो नः सपत्नैर् भृशम् अर्द्यमानान्
देवर्षि-तिर्यङ्-नृषु नित्य एव ।
कृतावतारस् तनुभिः स्व-मायया
कृत्वात्मसात् पाति युगे युगे च ॥
तम् एव देवं वयम् आत्म-दैवतं
परं प्रधानं पुरुषं विश्वम् अन्यम् ।
व्रजाम सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥
**श्रीधरः : **देवादिषूपेन्द्र-परशुराम-मत्स्य-रामादि-तनुभिः कृतावतारः सन्न् आत्म-सात् कृत्वा पाति च ॥२५॥
आत्म-भूतं दैवतम् । कुतः । विश्वं विश्वात्मकम् । तथापि विकारं वारयन्ति, अन्यम् । विश्वात्मत्वे हेतुः, परं कारणम् । ननु प्रधानं पुरुषश् च विश्वस्य कारणं तत्राहुः, प्रधानं पुरुषं च । तद् आत्मकोऽपि स एवेत्य् अर्थः । स एव नः शं विधास्यति ॥२६॥
**चैतन्य-मत-मञ्जुषा : **यो नः सपत्नैर् इत्य्-आदि । तनुभिर् नित्य एव नित्यः सन्न् एव । ननु तनोर् नित्यत्वम् अनुपन्नम् ? नेत्य् आह—स्व-मायया स्वभाव-शक्त्या । स्व-माया-शब्दोऽत्र स्वभाव-शक्ति-परः, शक्तेर् अचिन्त्यातर्क्यत्वात् ॥२५॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तनुभिः उपेन्द्र-परशुरामादि-स्वरूपैः स्वस्य मायया कृपया चिच्-छक्त्या बालोऽस्मान् आत्मसात् कृत्वा पातीति । अत एव साम्प्रतं स्व-रक्षणार्थं निवेदनेऽपि न सङ्कुचाम इति भावः । तम् एवेति विश्वं माया-शक्त्या विश्वरूपम् । स्वरूप-शक्त्या अन्यं विश्वस्माद् भिन्नम् ॥२५-२६॥
—ओ)०(ओ—
॥ ६.९.२७ ॥
श्री-शुक उवाच—
इति तेषां महाराज सुराणाम् उपतिष्ठताम् ।
प्रतीच्यां दिश्य् अभूद् आविः शङ्ख-चक्र-गदा-धरः ॥**
**श्रीधरः : **प्रतीच्यां दिशि हृदि प्रथमम् आविर् अभूत् ॥२७॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **प्रतीच्यां दिशि पश्चिम-समुद्र-कूले देशान्तरस्योत्तमस्य दैत्याक्रान्तत्वात् तत्र देवैः स्थातुम् अशक्यत्वात् तत्रैव विविक्ते उपविश्य स्तुतत्वात् ॥२७॥
—ओ)०(ओ—
॥ ६.९.२८-२९ ॥
आत्म-तुल्यैः षोडशभिर् विना श्रीवत्स-कौस्तुभौ ।
पर्युपासितम् उन्निद्र- शरद्-अम्बुरुहेक्षणम् ॥**
दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः ।
दण्डवत् पतिता राज‘ छनैर् उत्थाय तुष्टुवुः ॥**
**मध्वः : **श्रीवत्सः प्रकृतिर् ज्ञेया ब्रह्माख्यः कौस्तुभः पुमान् ।
तद्-अतीतैः षोडशभिः स्वरूपैर् अप्य् उपास्यते ॥ इति च ।
श्रीवत्स-कौस्तुभौ विना आत्म-तुल्यैः प्रकृति-पुरुषातीतत्वात् सप्तदश-रूपाणि अपि तुल्यानीत्य् अर्थः । आत्म-भूतैश् च तुल्यैश् च आत्म-तुल्यैः ।
अपुं-प्रकृत्य्-अधीनत्वाद् वासुदेवादिका हरिः ।
तुल्याश् च केशवाद्यश् च न च भिन्नाः कथञ्चन ॥ इति तन्त्र-सारे ।
श्रीवत्स-कौस्तुभाभ्याम् तु विना भावं प्रदर्शयेत् ।
पुं-प्रकृत्य्-आत्मकाभ्याम् स धत्ते नित्यं जनार्दनः ॥
यद् अस्याभ्याम् अतीतत्वात् तद्-वशोनानयोर् हरिः ।
श्रीवत्स-कौस्तुभाभ्याम् तु विनाभावः स एव तु ॥ इति च ॥२८-२९॥
**श्रीधरः : **पुनश् च तं पुरो दृष्ट्वा ईक्षणाह्लादेन विवश अवनौ दण्डवत् पतिताः सन्तः, शनैर् उत्थाय तुष्टुवुर् इत्य् अन्वयः । कथं-भूतम् ? श्रीवत्स-कौस्तुभौ विना स्व-तुल्यैः षोडशभिः सुनन्दादिभिः परितः सेवितम् । उन्निद्र-शरद्-अम्बु-रुह-वद् ईक्षणे यस्य तम् ॥२९॥
**क्रम-सन्दर्भः : **आत्मेति युग्मकम् । ईक्षणाह्लादेति वस्तु-स्वाभाव्यात् स्वाभीष्ट-सिद्धि-निश्चयाच् च ॥२९॥
**विश्वनाथः : **श्रीवत्स-कौस्तुभौ विना चतुर्भुजत्वादि स्व-चिह्नवत् तद्-आत्म-तुल्यैः सुनन्दादिभिः परित उपासितम् ॥२८-२९॥
—ओ)०(ओ—
॥ ६.९.३० ॥
श्री-देवा ऊचुः—
नमस् ते यज्ञ-वीर्याय वयसे उत ते नमः ।
नमस् ते ह्य् अस्त-चक्राय नमः सुपुरु-हूतये ॥**
मध्वः : वयः सर्वस्य वयनाद् भगवान् पुरुषोत्तम इति च । मा तन्तु-च्छेदि वयतो धियं मे इति श्रुतिः ॥३०॥
श्रीधरः : यज्ञो वीर्यं स्वर्गादि-फल-जननाय सामर्थ्यं यस्य, तस्मै नमः । वयसे उत तत्-फल-परिच्छेदक-कालात्मनेऽपि । तद्-विघातकेषु दैत्येष्व् अस्तं प्रक्षिप्तं चक्रं येन, एवं-भूतैः प्रभावैः सुपुरुहूतये शोभन-बहु-नाम्ने ॥३०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तेषाम् ईश्वरं-मन्यता-मात्रं व्यञ्जयन्तो यज्ञैर् अस्मद्-आद्य्-उपासकानां फल-प्राप्ति-विघातयोर् भवान् एव हेतुर् इत्य् आहुः—नम इति । यज्ञस्य वीर्यं स्वर्गादि-फलोत्पादन-लक्षणः प्रभावो यस्मात् तस्मै, फल-प्रापकाय इति भावः । उत पुनर् वयसे कालाय स्वर्गादि-फल-नाशकाय च । तथा अस्त्र-चक्राय असुरेषु चक्रं क्षिप्त्वा तेषां निग्राहकाय, अस्माकं पालकाय च । एवं स्वर्गादि-प्रापक इति स्वर्गादि-नाशक इति असुर-संहारक इति देव-पालक इत्य्-आदि नामभिः सुपुरुहूतिर् यस्य तस्मै ॥३०॥
—ओ)०(ओ—
॥ ६.९.३१ ॥
यत् ते गतीनां तिसृणाम् ईशितुः परमं पदम् ।
नार्वाचीनो विसर्गस्य धातर् वेदितुम् अर्हति ॥**
**मध्वः : **देव-लोकात् पितृ-लोकात् निरयाच् चापि यत् परम् ।
तिसृभिः परमं स्थानं वैष्णवं विदुषां गतिः ॥ इति माहात्म्ये ॥३१॥
**श्रीधरः : **ननु मम गुणातीतं रूपं विहाय गुणोपाधिकं यज्ञ-वीर्यत्वादि किम् इति वर्ण्यते ? तत्राहुः—यत् तव गुण-त्रयस्य ईशितुर् नियन्तुस् त्रि-गुणात्मिकानां तिसृणां गतीनां परमं पदं निर्गुण-स्वरूपं, तद् विसर्गस्य आर्वाचीन इदानीं तनो, हे धातः, वेदितुं नार्हति । अतः केवलं तस्मै ते नमोऽस्तु ॥३१॥
**क्रम-सन्दर्भः : **ननु प्रत्यक्षतोऽनुभूयमानम् इदं मद्-रूपं विहाय गुणोपाधिकं यज्ञ-वीर्यत्वादिकं किम् इति वर्ण्यते ? तत्राहुः—यत् त इति ॥३१॥
**विश्वनाथः : **ननु नश्वर-तुच्छ-स्वर्ग-पद-प्राप्त्य्-अर्थम् एव स्तुध्वे, न त्व् अनश्वर-नित्य-सुख-मय-वैकुण्ठार्थम् अत्र को हेतुः ? तत्राहुः—तिसृणां देव-मनुष्य-तिर्यग्-गतीनाम् ईशितुः प्रापकस्य तव यत् परमं पदं वैकुण्ठ-धाम, तत् विसर्गस्य अर्वाचीनोऽस्मादृशो जनो वेदितुम् अनुभवितुं नार्हति । न हि घास-बुषादिकं विना पशुर् अन्यत् क्षीरादिकं वाञ्छति, लभते वा कुतश्चिद् इति भावः ॥३१॥
—ओ)०(ओ—
॥ ६.९.३२ ॥
**ॐ नमस् तेऽस्तु भगवन् ! नारायण ! वासुदेव ! आदि-पुरुष ! महा-पुरुष ! महानुभाव ! परम-मङ्गल ! परम-कल्याण ! परम-कारुणिक ! केवल! जगद्-आधार ! लोकैक-नाथ ! सर्वेश्वर ! लक्ष्मी-नाथ ! **
परमहंस-परिव्राजकैः परमेणात्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्तेऽपावृत आत्म-लोके स्वयम् उपलब्ध-निज-सुखानुभवो भवान्।
**श्रीधरः : **मिताक्षराणि पद्यानि न मीयन्ते हरेर् गुणाः । इति मद्यैर् अतुष्यन्तः सद्यो गद्येन तुष्टुवुः । भक्त्य्-उद्रेकेण बहुधा संबोधयन्तो दुर्ज्ञेयत्वं प्रपञ्चयन्ति—भगवन्न् इत्य्-आदिना । परमं मङ्गलं शुद्धो धर्मो यस्मिन् । आत्म-योगेनाष्टाङ्गेन यः समाधिश् चित्तैकाग्र्यं तेन परिभावितः सुशीलितः परिस्फुटो यः पारमहंस्य-धर्मो भगवद्-भजनं, तेनोद्घाटितं तमो-रूपं कपाटं यस्मिन्, तस्मिन् द्वार-भूते चित्ते अपावृते प्रकटे आत्म-लोके प्रत्यग्-रूपे स्वयम् एवोपलब्धम् अभिव्यक्तं यन् निज-सुखं, तद् अनुभव-रूपो भवान् ॥३३॥
**क्रम-सन्दर्भः : **तमः प्रकृतिर् अज्ञानं वा । आत्म-लोके स्व-स्वरूपे लोके । एष आत्म-लोक एष ब्रह्म-लोक [बृ।आ।उ। ४.३.३२] इति । दिव्ये ब्रह्म-पुरे ह्य् एष परमात्मा प्रतिष्ठितः [मु।उ। २.२.७] इत्य्-आदि-श्रुतौ । यत् तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैभवम् आमनन्ति ॥३३॥ [भगवत्-सन्दर्भः ६१]
**विश्वनाथः : **पुरुहूतय इत्य् उक्तम् अतो बहुभिर् नामभिः सम्बोध्य स्तुवते नम इति । हे भगवन् ! षड्-ऐश्वर्य-परिपूर्ण ! परिपूर्णत्वम् एवाहुः—हे नारायण ! त्वम् एव स्वांशाधिक्य-क्रमेण व्यष्टि-समष्टि-प्रकृत्य्-अन्तर्यामित्वेन क्षीरोद-गर्भोद-करणार्णव-शायी भवसीत्य् अर्थः । ततोऽपि पूर्णत्वात् हे वासुदेव ! व्यूहानाम् आदि-भूत ! ततोऽपि परिपूर्णत्वात् हे आदि-पुरुष ! पर-व्योम-नाथ !
ननु कथम् एवम् अवगम्यते ? तत्राहुः—महा-पुरुषेषु तत्-तद्-भक्तेषु महान्तोऽनुभावा अनुरूप-महा-प्रभावा एव यस्य सः ।
ननु महा-प्रलये मद्-भक्त-मद्-धाम-मद्-आकाराणां का वार्ता ? तत्राहुः—मङ्गलानि प्राकृतानि परम-मङ्गलानि अप्राकृत-मङ्गल-वस्तूनि त्वद्-भक्त-धामादीनि, तेषां परम-कल्याणं कुशलत्वं यतः । तेषां काल-नियम्यत्वाभावाद् इति भावः ।
किं च, अपारैश्वर्य-माधुर्य-सिन्धोस् तव करुणाम् एव बहिर्-दर्शिनो वयं काल-ग्रस्यमाना आश्रयाम इत्य् आहुः—हे परम-कारुणिक ! अन्तर्-दर्शिभिस् तु भवान् उपलब्ध-निज-सुखानुभव एव भवति । कदा ? आत्म-योगैर् यम-नियमादिभिर् यः समाधिश् चित्तैकाग्र्यं तेन परि सर्वतो-भावेन भावितः । कुतः ? परिस्फुटः पारमहंस्य-धर्मो भक्ति-योगः, तेनोद्घाटित-तमः-कपाटं द्वारं यस्य तथाभूते चित्ते चित्त-मन्दिरे अपावृतः अपगतावरणः आत्म-लोके वैकुण्ठ-धामनि वर्तमानः । चित्तस्येतादृशत्वे सति तन्-मध्ये एव सह-वैकुण्ठ-लोको भवान् स्फुरतीति भावः ॥३३॥
—ओ)०(ओ—
॥ ६.९.३३ ॥
**दुरवबोध इव तवायं विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन **
स-गुणम् अगुणः सृजसि पासि हरसि।
**श्रीधरः : **ननु केवलानुभव-रूपत्वे मम सृष्ट्य्-आदि-कर्तृत्वं कथम् ? तत्राहुः—दुरवबोधैव तवायं विहार-योगो यद् यस्माद् अशरणो निराश्रयः । इदं विश्वम् । अनवेक्षितोऽस्माकं समवायो मेलनं साहाय्यं येन सः ॥३३॥
**लघु-भागवतामृतः : **श्री-षष्ठ-स्कन्धे [६.९.३३-३६] च मिथो विरुद्धाचिन्त्य-शक्तित्वं, यथा गद्येषु—दुरवबोध इति ।
विना शरीर-चेष्टत्वं विना भूम्य्-आदि-संश्रयम् ।
विना सहायांस् ते कर्माविक्रियस्य सुदुर्गमम् ॥१०२॥
उक्तो गुण-विसर्गेण देवासुर-रणादिकः ।
तस्मिन् पतित आसक्तः पारतन्त्र्यस् तु तद् भवेत् ।
यदाश्रितेषु देवेषु पारवश्यं कृपा-कृतम् ॥१०३॥
तेन स्व-कृतम् आत्मीय-कृतं शुभ-शुभेतरत् ।
सुख-दुःखादि-रूपं किं फलं स्वीकुरुते भवान् ॥१०४॥
आत्मारामतया किं वा तत्रोदास्तेतराम् इति ।
न विद्मः किन्तु नैवेदं विरुद्धम् उभयं त्वयि ॥१०५॥
तत्र हेतुर् भगवतीत्य्-आदि प्रोक्तं पद-द्वयम् ।
तथैवेश्वर इत्य्-आदि-पदानां पञ्चकं मतम् ॥१०६॥
भगवत्त्वेन सार्वज्ञं सद्-गुणत्वं तथान्यतः ।
ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥१०७॥
यद्यपि ब्रह्मता-हेतोः सर्वत्र स्यात् तटस्थता ।
तथाप्य् आदि-गुण-द्वय्या भवेद् भक्तानुकूलता ॥१०८॥
नन्व् एकस्य स्वरूपस्य द्वैरूप्यं कथम् एकदा ।
तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् ।
विवादस्यानवसरे तस्य तावद् अगोचरे ॥१०९॥
अतोऽचिन्त्यात्म-शक्तिं तां मध्येकृत्यात्र दुर्घटः ।
को न्व् अर्थः स्याद् विरुद्धोऽपि तथैवास्या ह्य् अचिन्त्यता ।
सा च नाना-विरुद्धानां कार्याणाम् आश्रयान् मता ॥११०॥
श्रुतेस् तु शब्द-मूलत्वाद् इति च ब्रह्म-सूत्र-कृत् ।
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।
इति स्कान्द-वचस् तच् च मण्य्-आदिष्व् अपि दृश्यते ॥१११॥
तादृशीं च विना शक्तिं न सिध्येत् परमेशता ।
यतश् चानवगाह्यत्वेनास्य माहात्म्यम् उच्यते ॥११२॥
अज्ञानम् इन्द्र-जालं वा वीक्ष्यते यत्र कुत्रचित् ।
अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥११३॥
तच् च तस्य न हीत्य् आह स्फुटं चोपरतेत्य् अदः ।
तथा भगवतीत्य्-आदि-पदानां षट्-तयस्य च ।
भवेत् प्रयोग-तात्पर्यम् अत्र निष्फलम् एव हि ॥११४॥
तस्मान् न शास्त्र-युक्तिभ्याम् उभयं तद् विरुध्यते ।
तथाप्य् उच्चावच-धियाम् अनेवं-तत्त्व-वेदिनाम् ।
मतानुसारतो भासि रज्जूवत् त्वं तथा तथा ॥११५॥
ननु भोः केवलं ज्ञानं ब्रह्म स्याद् भगवान् पुनः ।
नाना-धर्मेति तत्रापि स्वरूप-द्वयम् ईक्ष्यते ॥
इति प्राह स्वरूपेति तत्-स्वरूपस्य नैव हि ।
कदापि द्वैतम् एकस्य धर्म-द्वयम् इदं ध्रुवम् ॥११६॥
ततो विरोधस् तच्-छक्ति-विलासानां यद् ईक्ष्यते ।
तद् एवाचिन्त्यम् ऐश्वर्यं भूषणं न तु दूषणम् ॥११७॥
परमात्म-सन्दर्भः(६.९.३३-३६) : एवम् एव षष्ठे नवमाध्याये—दुरवबोध इव तवायम् [भा।पु। ६.९.३४]इत्य्-आदिना गद्येन तस्य स-गुण-कर्तृत्वं विरुध्य, पुनर् अथ तत्रभवान् [भा।पु। ६.९.३५]इति गद्येनान्तर्यामितया गुण-विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं सम्भाव्य, न हि विरोध उभयम् [भा।पु। ६.९.३६]इत्य्-आदि-गद्येन तत्र तत्रावितर्क्य-शक्तित्वम् एव च सिद्धान्ते योजितम् ।
तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवति [भा।पु। ६.९.३६] इत्य्-आदिभिर् विशेषणैर् मायायाश् च आत्म-मायाम् [भा।पु। ६.९.३६] इत्यन्तेनदर्शितम् । तत्र स्वरूप-द्वयाभावात् [भा।पु। ६.९.३५] इत्य् अस्य तथाप्य् अचिन्त्य-शक्त्या तत्-कर्तृत्वं तद्-अन्तः-पातित्वं च विद्यते इत्य् अर्थः । सम-विषम-मतीनाम् [भा।पु। ६.९.३७]इति तु गद्यं तथाप्य् उच्चावच-बुद्धीनां तथा स्फुरसीति प्रतिपत्त्य्-अर्थं ज्ञेयम् ।
दुरवबोध इव [भा।पु। ६.९.३४] इति प्राक्तन-गद्ये त्व् अशरीर इति शरीर-चेष्टां विना,अशरण इति भूम्य्-आद्य्-आश्रयं विना इत्य् अर्थः । अथ तत्र इत्य्-आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि स्वरूप-शक्तेर् एव प्राधान्यं2 दर्शितम् ।
अत एव ऋतेऽर्थं यत् प्रतीयेत [भा।पु। २.९.३४3] इत्य्-आदौ मायाया आभास-स्थानीयत्वं प्रदर्श्य तद्-अस्पृश्यत्वम् एव भगवतो दर्शितम् । त्वम् आद्यः पुरुषः साक्षाद् इत्य्-आदौ मायां व्युदस्य चिच्-छक्त्या [भा।पु। १.७.२३4] इत्य् अनेन च तथा ज्ञापितम् । माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७5] इत्य् अनेन च ॥ (परमात्म-सन्दर्भ ९०)
**क्रम-सन्दर्भः : **तद् एवं वैकुण्ठ-विहारो दुर्दर्शोऽपि युक्ति-सिद्ध एव गुणातीतत्वादिना तव योग्यत्वात् । प्रपञ्च-विहारस् तु युक्त्य्-अतीतः, सगुणत्वादिना वैपरीत्याद् इत्य् आहुः—दुरवबोध इति ।
कुलालादिर् हि स-गुणः किञ्चित् स्थानं समवायान्तरं चावलम्ब्य स्व-शरीरं च प्रवर्त्य मृद्-आदि-वस्त्व्-अन्तरेण स-गुणं घटादिकं करोति पाति हरति । त्वं त्व् अगुणश् चाविक्रिय एव च तत्-तद्-अवलम्बनादिकं विनैवेच्छा-मात्रेण आत्मनैव च स-गुणं प्रपञ्चम् इत्य् अर्थः। अशरण इत्य्-आदिकं हि तद्-अभिप्रायेणैवोक्तम् । इवेत्य् अचिन्त्य-शक्तित्वाद् एव तद् अपि नातियुक्त्य्-अगम्यम् इति भावः ॥३३॥
**विश्वनाथः : **किं च, स्वीय-वैकुण्ठ-लोके सदा विहरन्न् आत्मारामो गुणातीतोऽपि प्रपञ्च-लोके अस्मद्-आदि-दुर्ज्ञेय-प्रकारैः सृष्ट्य्-आदिभिर् विहरसीत्य् आहुः—दुरवबोध इति ।
विहार-योगः क्रीडा-युक्तत्वं दुरवबोध इवेति त्वद्-भक्त-विज्ञैः सुबोधोऽप्य् अन्यैर् दुर्बोध इत्य् अर्थः । कुतः ? यद् अशरणो निराश्रय एव अशरीरः शारीर-चेष्टा-रहित एवेति । सृष्टि-कर्ता हि साकार एव सहस्र-शीर्षा इत्य्-आदि श्रुतेः । न अवेक्षितम् अस्माकम् इन्द्रादीनां हस्ताद्य्-अधिष्ठातॄणां समवायः साहाय्यं येन सः । आत्मनैव स्वेनैव आत्मन उपादानत्वेऽप्य् अविक्रियमाणेनैव विवर्त-वादाङ्गीकारत्वे विक्रियमाणत्वं न चित्रम् । चित्रं खलु तद्-अनङ्गीकार एव । अत एव वक्ष्यते गजेन्द्रेण—
नमो नमस् तेऽखिल-कारणाय
निष्कारणायाद्भुत-कारणाय[भा।पु। ८.३.१५]
इति कारणस्याद्भुतत्वम्, उपादानत्वेऽपि निर्विकारत्वम् एवेति । अगुणः सन् सगुणं विश्वं सृजसि । कुलालादिर् हि किञ्चित् स्थानम् अवलम्ब्य स्व-शरीरं च प्रवर्त्य स-सहायो मृद्-आदि-वस्त्व्-अन्तरेण विक्रियमाणेनैव स-गुण एव स-गुणं घटं सृजतीति दृष्टम् । इतीदम् एकं दुर्ज्ञेयत्वं सृष्टौ ॥३३॥
—ओ)०(ओ—
॥ ६.९.३४ ॥
**अथ तत्र भवान् किं देवदत्तवद् इह गुण-विसर्ग-पतितः **
**पारतन्त्र्येण स्व-कृत-कुशलाकुशलं फलम् उपाददाति, **
**आहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उदास्त **
इति ह वाव न विदामः।
**मध्वः : **अथ तत्र भगवान् किं देवदत्तवद् इत्य् आक्षेपः । अचिन्त्य-शक्तेर् अनन्त-गुणस्य कुतः पारतन्त्र्यादिकम् ? इत्य् अभिप्रायः ॥३४॥
**श्रीधरः : **दुर्ज्ञेयान्तरम् आहुः—अथ तत्रेति । यथेह देवदत्तो गृहादि निर्माय तत्रस्व-कृत-शुभाशुभयोः **फलम् **उपादत्ते, एवं भवान् ब्रह्म-स्वरूपो जीव-रूपेण गुण-विसर्गे पतितः सन्न् उपाददाति । यद् वा, समञ्जसम् अप्रच्युतं दर्शनं चिच्-छक्तिर् यस्य स भवान् उदास्ते उदासीनः साक्षितया वर्तत इति ॥३४॥
**क्रम-सन्दर्भः : **किं त्व् इदं तु निर्णेतुं न शक्नुम इति बहिर्-मुखान् आक्षेप्तुं सोल्लुण्ठम् आहुः—अथेति । तत्र सृष्ट्य्-आदौ कर्मणि देवदत्तवत् संसारि-जीव-विशेषवद् अविद्यया गुण-विसर्ग-पतितः सन् स्व-कृत-शुभाशुभयोः फलं देव-तिर्यग्-आद्य्-अवतार-रूपम् उपादत्ते । आहो स्विद् अथवा तद्वद् देवदत्त-रूपत्वेऽपि विद्यया आत्मारामः सन्न् इत्य्-आदि ॥३४॥
**विश्वनाथः : **शिष्टानां पालनं हि दुष्टानां संहारं विना न भवतीत्य् अन्तर्-भूत-संहारकस्य पालनस्यापि दुर्ज्ञेयत्वम् आहुः—अथेति । देवदत्तः प्राकृत-जीवो यथा गृहादिकं निर्माय तत्र मित्र-शत्रूदासीनादि-गहने संसारे प्रविश्य स्व-कृत-धर्माधर्म-फलं सुख-दुःखं भुङ्क्ते, तथैव तत्र भवान् इत्य् आदरे त्वम् अपि गुणेभ्यः सत्त्व-रजस्-तमोभ्यो विविधं सर्गो येषां, तेषु गुण-विसर्गेषु देवासुर-राक्षसादिषु परस्पर-विघातिषु मध्ये पतितः उपेन्द्र-कृष्ण-रामावतारेषु शिष्ट-पालन-दुष्ट-निग्रहयोः प्रवृत्तः, भोगैश्वर्य-सुखं सङ्ग्रामादि-श्रम-दुःखं च यत् प्राप्नोषि, तत् किं पारतन्त्र्येण कर्माधीनत्वेन स्व-कृतयोः पुण्य-पापयोः कुशलाकुशलं सुख-दुःखम् उपाददाति स्वीकरोति, आहो स्वित् किं वा समञ्जस-दर्शनः अप्रच्युत-चिच्-छक्तिकः । उदास्ते साक्षित्वान् न सुखं दुःखं स्वीकरोतीति न विदामः, तत्त्वं न विद्मः ॥३४॥
—ओ)०(ओ—
॥ ६.९.३५ ॥
**न हि विरोध उभयं भगवत्य् अपरिमित-गुण-गण **
ईश्वरेऽनवगाह्य-माहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलिलान्तःकरणाश्रय-दुरवग्रह-वादिनां विवादानवसर उपरत-समस्त-माया-मये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात्।
मध्वः : उपरत-समस्त-माया-मये प्राकृत-स्वभाव-वर्जिते । केवलं स्व्आत्म-मायां निज-सामर्थ्यम् । स्वरूप-द्वयाभावाद् इत्य्-आदि-समाधानम् । स्वतन्त्रः परतन्त्रो वाज्ञोऽज्ञो दुःखी सुखी नु किम् ? इत्य्-आदि संशयः कस्याज्ञानिनां पुरुषे ।
तस्यानन्त-गुणत्वात् पूर्ण-शक्तित्वाच् च हरेः ।
स्वातन्त्र्यादिकम् एवास्य विदो जानन्ति निश्चयात् ।
घटकत्वाद् दुर्घटस्य दुर्जेयत्वाच् च सर्वशः ।
तच्-छक्तेर् अविदो जीवं परतन्त्रं वदन्त्य् अमुम् ।
एवं दुर्घटया शक्त्याज्ञोऽज्ञानां परमेश्वरः ॥३५॥
श्रीधरः : तद् एवं विरोधेन दुर्ज्ञेयत्वम् उक्त्वा तत्-परिकारेण ज्ञान-प्रकारम् आहुः—न हीति । विरुध्यत इति विरोधः । उभयं न विरुद्धम् इत्य् अर्थः । न ह्य् अन्य-दृष्टान्तेन त्वयि विकल्पो युज्यतेऽतर्क्यैश्वर्यत्वाद् इत्य् आहुः—भगवतीति । अपरिमिता गुण-गण यस्य तस्मिन्न् ईश्वरे स्वतन्त्रेऽनवगाह्यम् अतर्क्यं माहात्म्यं यस्य तस्मिन् । विकल्प एवम् एवं वेत्ति, वितर्कः किम् अत्र युक्तम् इति, विचार इत्थम् एवेति । तत्र प्रमाणाभासास् तद्-अनुग्राहकाः । कुतर्काश् चार्वाचीना वस्तु-स्वरूपासंस्पर्शिनो ये विकल्पादयः, ते येषु शास्त्रेषु, तैः कलिलं व्याकुलम् अन्तः-करणम् आश्रयो यस्य दुरवग्रहस्य, तेन वादिनां विवादस्यानवसरे ऽगोचरे ।
ननु श्रद्धा-मात्रम् एतत्, युक्तिर् उच्यताम् । तत्राहुः—उपरतो मायां यः संसारो यस्मिन्, तस्मिन् केवलेऽप्य् आत्म-मायां मध्ये निधाय, को न्व् अर्थः कर्तृत्वादिर् न संभवति । यदि वस्तुतः कर्तृत्वादि भवेत्, तर्हि विरोधः स्यात्, न तु तद् अस्तीत्य् आहुः—स्वरूप-द्वयाभावाद् इति ॥३५॥
**चैतन्य-मत-मञ्जुषा : **एतद् एव दूरे दर्शयति—न हि विरोध उभयम् इत्य्-आदि । स्वरूप-द्वयाभावात्, वस्तुतस् तु एकम् एव रूपम् । अथवा, स्वरूपे द्वयाभावात्, स्वरूपं तावद् एकम् एव भवति, तत् तु श्री-कृष्णाख्यम् एव । अन्यत् तु तदीयम् एव । यद् यद् भवसि, श्री-कृष्ण-रूप एव त्वम्, तत् तद् अनुग्रहणेऽपि भवान् अवशिष्ट एव, त्वं नित्य एव, ता अपि नित्या इत्य् उभय-विरुद्धम् अपि त्वयि न विरोधः । तत्र हेतवः—भगवतीत्य्-आदीनि विशेषणानि । स्वरूप-द्वयाभावाद् इति पृथक् हेतूपन्यासश् च ॥३५॥
**क्रम-सन्दर्भः : **यत्र विद्या सम्भाव्यते तत्राविद्यापि सम्भाविता स्याद् इति माया-शक्ति-वृत्ति-विद्या-शक्ति-मयेश्वर-वादिनाम् उपहासार्थम् इदम् उक्तवन्तः । स्व-मतं पुनः स्फूर्तिम् अभिनयन्त इवाहुः—न हीति ।
उभयम् अपीदं विरुद्धं भगवति नैव विद्यते। तत्र हेतुः—स्वरूप-द्वयाभावात्, संसारि-जीववद्-बद्धत्व-मुक्तत्वावस्था-विशेषाभावात् । बद्धत्वे हि मुक्तत्वं, तथा दिव्यातिदिव्य-तत्-तद्-अवतारादि-लक्षकोऽप्य् अर्थो दुर्घटो न भवति । यत आत्म-मायां निजेच्छा-शक्तिम् अन्तर्धाय मध्ये निधाय, तत्र तत्र सहायत्वेन सम्पाद्य तिष्ठति सतीत्य् अर्थः । उभयत्र हेतवो भगवतीत्य्-आदयः ॥३५॥
**विश्वनाथः : **विरोधम् उक्त्वा भक्तानां मते तस्य परिहारम् आहुः—न हीति । विरुद्ध्यत इति विरोधः । उभयम् आत्मारामत्वम् अप्राकृत-सुख-दुःखित्वं च त्वयि न विरुद्धम् इत्य् अर्थः । न ह्य् अन्य-दृष्टान्तेन त्वयि विकल्पो युज्यते, अतर्क्यैश्वर्यत्वाद् इत्य् अविरोधे हेतुम् आहुः—भगवतीत्य्-आदि । प्रथमं सुख-दुःखित्वं भगवती-पद-द्वयेनाहुः—भगवतीति । ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिर् इति वैष्णवोक्तेर् अप्राकृत-ज्ञानादि-षड्-ऐश्वर्यवत्त्वेनाज्ञान-मूलकं सर्वम् एव प्राकृतं सुख-दुःखं त्वयि नास्तीत्य् अवगतम् ।
ननु तर्ह्य् अन्ये सुख-दुःखे मयि कुतस्त्ये ? तत्राहुः—अपरिगुणित-गुणानां प्रेम-वश्यत्व-भक्त-वात्सल्यादीनां गणा यस्मिन्, तेन ह्य् असुर-राक्षसादिभ्यस् त्वद्-भक्तानां प्रह्लाद-विभीषणादीनां पाण्डव-यादवादीनां नित्य-पार्षदानां साधक-भक्तानाम् अप्य् अनन्तानां भक्ताभासआनाम् अस्मद्-आदि-देवानां च कष्टे वृत्ते सति, तत्-तद्-दुष्ट-संहारार्थ-विविध-प्रयास-ज्ञापितस्य त्वदीय-दुःखस्य तथा तेषाम् एव तत्-तद्-विपद्-उत्तीर्णानाम् अवग्रह-जाज्ज्वल्यमान-सस्यानां कादम्बिनी वृष्यमाणामृत-सिक्तानाम् इव लब्ध-भवद्-दर्शनानां परम-सुखे वृत्ते सत्य् अद्भुतस्य तव सुखस्य च भक्त-वात्सल्य-प्रेम-वश्यतैक-निदानत्वाद् अप्राकृते एव ते सुख-दुःखे भवतः ।
किं च, सुख-दुःखे अपि ते चिन्मय-सुख-रूपे एव प्रेम्नश् चिच्छक्ति-सार-वृत्तित्वात् । किं पुनर् व्रज-देव्य्-आदीनां वैदेह्याश् च सम्भोग-विप्रलम्भ-जनिते सुख-दुःखे । ते तु प्रेम-परम-काष्ठा-मयत्वात् परम-सुख-रूपे एव स्तः । ततश् च चित्-स्वरूपस्य तव चित्-स्वरूपयोः सुख-दुःखयोः रममाणस्यात्मारामत्वं सुख-दुःखवत्त्वम् ऐक्याद् अविरुद्धम् एव प्रतिपादितम् ।
नन्व् एवं कैर् अपि दार्शनिकैर् नाहं निरूप्ये ? तत्राहुः—ईश्वरे त्वयि ईशितव्यानां तेषां निरूपणायोग्यता युक्तैवेति भावः । यतोऽऽनवगाह्यम्, भक्त्याहम् एकया ग्राह्य इति त्वद्-वचनात् तेषां भक्ति-हीनानाम् अवगाहनार्हं माहात्म्यं यस्मिन् ।
ननु युष्मत्-प्रतिपादिते यत् षड्-ऐश्वर्याणां प्रेम्नश् च चिन्मयत्वे तैर् बह्व्य एवानुपपत्तय उद्गृह्यन्ते ? तत्राहुः—अर्वाचीन-वस्तु-स्वरूपासंस्पर्शिनो विकल्पादयो येषु शास्त्रेषु, तैः कलिलं व्याकुलं यद् अन्तःकरणम् एवम् एवं वेति, वितर्कः किम् अत्र युक्तम् इति, विचार इत्थम् एवेति । तत्र प्रमाणाभासास् तद्-अनुग्राहकाः । कुतर्काश् चार्वाचीना वस्तु-स्वरूपासंस्पर्शिनो ये विकल्पादयः, ते येषु शास्त्रेषु, तैः कलिलं व्याकुलम् अन्तः-करणम् आशयः, तत्र आशेरते सदैव शयित्वा तिष्ठन्ति ये दुरवग्रहा दुराग्रहाः, तैर् एव वादिनां नाना-वादोद्ग्राहवतां विवादस्यानवसरे अगोचरे । तत्र विकल्प एवं वा एवं वेत्य् आकारः वितर्कः, किम् अत्र युक्तम् इत्य् अनिश्चयः । विचार इत्थम् एवेति निश्चयः । तत्र प्रमाणाभासाः कुत्सितास् तर्का इति ।
ननु अनुपपत्तौ सत्यां कुतो विवादाभावः ? तत्राहुः—उपरताः समस्ता माया-मयाः मायिकाः पदार्था यत्र तस्मिन्न् इति विवादानां माया-शक्ति-कार्यत्वात् तव तु माया-मायिक-पदार्थातिरिक्त-वस्तुत्वात् कुतो विवाद-प्रसक्ति-सम्भावनापीत्य् अर्थः ।
ननु तद् अपि युष्मत्-साहाय्यथार्थं समुद्र-मन्थनादौ पाण्डव-साहाय्यथार्थं सारथ्य-दूत्यादौ यादव-पालनार्थं जरासन्धाद्य्-उपद्रवोत्थ-भय-पलायनादौ कर्मणि प्रत्यक्षत एव सर्वैर् दृश्यमानं मदीय-दुःखं कथं चिन्मय-सुख-रूपं भवेद् इत्य् अत आहुः—केवले एवेत्य्-आदि । त्वयि माया-शक्ति-विनाभूते सत्य् एव या आत्म-माया अचिन्त्य-योग-माया ताम् अन्तर्धाय मध्ये कृत्वा को नु अर्थो दुर्घट इति त्वद्-अनुभवे सुख-मये कः प्रवेष्टुं शक्नुयाद् इत् नात्र प्रत्यक्षादि-प्रमाणं प्रवर्तत इति भावः । अचिन्त्याः खलु ये भावा न तांस् तर्केण योज्ययेद् इति वचनात् ।
नन्व् अलम् अचिन्त्य-शक्ति-स्वीकारेण मम भगवत्-स्वरूपेण भक्त-वात्सल्योत्थ-सुख-दुःखादिमत्त्वं ब्रह्म-स्वरूपेण सर्वत्र ताटस्थ्याद् आत्मारामत्वम् इति स्वरूप-द्वयस्य क्रमेण धर्म-द्वयम् अस्तु ? तत्राहुः—स्वरूप-द्वयाभावाद् इति । एकस्यैव भगवतस् तव निर्विशेष-ज्ञान-गम्यत्वम् एव ब्रह्मत्वम् अलौकिक-विशेष-ज्ञान-गम्यत्वम् एव भगवत्त्वम् इति दूरवर्तिभिर् ज्ञानिभिर् अलौकिक-विशेष-ग्रहणासमर्थैस् त्वम् एव ब्रह्म-समीप-वर्तिभिर् भक्तैर् अलौकिक-विशेष-ग्रहण-समर्थैर् भगवान् इति त्वम् एवोच्यसे इत्य् अर्थः । तव कृपायाः परमाणुत्व-परम-महत्त्वे एव दूरत्व-समीपत्वयोर् हेतू ज्ञेये ॥३५॥
—ओ)०(ओ—
॥ ६.९.३६ ॥
**सम-विषम-मतीनां मतम् अनुसरसि **
यथा रज्जु-खण्डः सर्पादि-धियाम्।
**मध्वः : **यथा रज्जुः-सर्प-धिया रज्जु-बुद्ध्या गम्यते ।
तथा यथार्थ-बुद्ध्या च मिथ्या बुद्ध्यावगम्यते ।
स्वेच्छयैव महा-विष्णुः फलादश् चानुसारतः ॥ इति तन्त्र-भागवते ॥३६॥
श्रीधरः : अनुग्रह-निग्रहादिकं तु तत्-तन्-मति-भेदेन त्वन्-मायया त्वयि स्फुरतीत्य् आहुः—समा विषमा च मतिर् येषां, तेषां मतम् अभिप्रायम् । सर्पादि-विषया धीर् येषां, तेषां यथारज्जु-खण्डस् तथा तथा भाति । यद् वा, तम् एवाविरोधं पुरुषं मति-भेदेन दर्शयति—सम-विषमेति ॥३६॥
**क्रम-सन्दर्भः : **तर्हि कथम् अन्यथा प्रतीतिर् बहिर्-मुखानाम् ? तत्राहुः—समेति । अनिश्चित-बुद्धीनाम् इत्य् अर्थः ॥३६॥
**विश्वनाथः : **किं च, तद् अपि संसार-परम्परा-सिद्ध्य्-अर्थं तेषाम् अभक्तानां मतं नैवोच्छिन्नीकरोषीत्य् आहुः—समा ब्रह्म-विषयत्वात् विषमा तत्-प्रातिकूल्यवत्त्वाच् च मतिर् येषाम् । यद् वा, स्वरूप-भूताभ्याम् ब्रह्मत्व-भगवत्त्वाभ्याम् समेऽपि एक-रूपेऽपि त्वयि विषमा मायातीतस्य ब्रह्मण एव माया-शावल्ये सति भगवत्त्वम् इत्य् एवं वैषम्यवती मतिर् येषां मतम् अनुसरसि प्राप्नोषि । मतम् एवाहुः—सर्पादि-धियां रज्जु-खण्ड इव ब्रह्मण्य् आत्मारामत्वम् एव सत्यं भक्त-वात्सल्यादीनां तु माया-प्रत्यायितत्वाद् अमूलकं सुख-दुःखादिकम् अलीकम् एवेति नैवास्ति विरोध इति ॥३६॥
—ओ)०(ओ—
॥ ६.९.३७ ॥
स एव हि पुनः सर्व-वस्तुनि वस्तु-स्वरूपः सर्वेश्वरः सकल-जगत्-कारण-कारण-भूतः सर्व-प्रत्यग्-आत्मत्वात् सर्व-गुणाभासोपलक्षित एक एव पर्यवशेषितः।
**श्रीधरः : **तद् एवं विरोधं परिहृत्य निश्चितं परमार्थम् आहुः, स एव हि नाना-रूपेण प्रतीतः । वस्तु-स्वरूपः सद्-रूपः । सर्वेषां गुणानां विषयाणाम् आभासैः प्रकाशैर् उपलक्षितः । ननु तैर् जीव एवोपलक्ष्यते ? न, सर्व-प्रत्यग्-आत्मत्वात् सर्व-जीवान्तर्यामित्वात् । जड-तादात्म्याध्यासेन जीवस्यापि जड-प्रायत्वान् न तेन विना प्रकाश इति भावः । पर्यवशेषितो “नेति नेति” इत्य्-आदि-श्रुतिभिः ॥३७॥
**क्रम-सन्दर्भः : **तद् एव स्थापयितुं जीवन्-मुक्ताद् वैलक्षण्यम् आहुः—स एव हीति ॥३७॥
**विश्वनाथः : **यस्माद् एवं, तस्मात् सर्वज्ञ-मतम् अपहाय तद्-भक्त-सम्मतं मतम् एव वयम् अनुसराम इत्य् आहुः—स एव पूर्वोक्त-भगवत्त्वादि-विशेषेण विशिष्ट एव वस्तु-स्वरूपः । वास्तव-वस्तु-स्वरूपः सर्वेषां प्रत्यग्-आत्मत्वात् इन्द्रियागोचरत्वात् अप्रत्यक्षोऽपि सर्वेषां गुणानां बुद्धीन्द्रियादीनाम् आभासैः प्रकाशैर् उप आधिक्येन लक्षितः ज्ञातः, अनुमित इत्य् अर्थः । यद् उक्तं गुण-प्रकाशैर् अनुमीयते भवान् [भा।पु। १०.२.३५] इति । पर्यवशेषितो माया-मायिक-वस्तु-मात्र-निषेधेन “नेति नेति” इत्य्-आदि-श्रुतिभिर् इति भागवतामृत-दृष्टाः । विना शारीर-चेष्टत्वं विना भूम्यादि-संशयम् । विना सहायांस् ते कर्माविक्रियस्य सुदुर्गमम् इत्य्-आद्याः कारिकाः अनुसृत्य दुरवबोध इत्य्-आदीनि व्याख्यानि ॥३७॥
—ओ)०(ओ—
॥ ६.९.३८ ॥
अथ ह वाव तव महिमामृत-रस-समुद्र-विप्रुषा सकृद् अवलीढया स्व-मनसि निष्यन्दमानानवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृत-मनसः कथम् उ ह वा एते मधुमथन पुनः स्वार्थ-कुशला ह्य् आत्म-प्रिय-सुहृदः साधवस् त्वच्-चरणाम्बुजानुसेवां विसृजन्ति, न यत्र पुनर् अयं संसार-पर्यावर्तः।
**श्रीधरः : **अतस् त्वद्-भक्तिर् एव परम-पुरुषार्थ इत्य् आहुः—अथ हेत्य्-आदि पर्यावर्त इत्य् अन्तेन । यस्माद् एवं-भूतस् त्वं परमेश्वरः । अथ ह वाव, अत एव हि । हे मधु-मथन ! परम-भागवता एते **त्वत्-पादाम्भोजानुसेवां **कथं मुहुर् मुहुर् विसृजन्ति इत्य् अन्वयः । हि यस्मात् । स्वार्थे पुरुषार्थे कुशला निपुणाः । अत एव आत्मा त्वम् एव प्रियः सुहृच् च येषां ते साधवो रागादि-शून्याः ।
तत्र हेतुः—तव महिमैवामृत-रस-समुद्रस् तस्य विप्रुषा बिन्दु-मात्रेण सकृद् अवलीढया आस्वादितया स्व-मनसि निष्यन्दमानम् अतिशयेन स्रवद् यन् निरन्तरं सुखं, तेन विस्मारिता दृष्ट-श्रुत-विषयाः सुख-लेशाभासा येषां ते । अत एव भगवति त्वयि नितरां निरन्तरं निर्वृतं च मनो येषां ते, यत्र यस्याम् अनुसेवायां सत्याम् ॥३८॥
**क्रम-सन्दर्भः : **तद् एवं बहिर्मुखान् आक्षिप्य तद्-भक्तान् स्तुवन्ति—अथ हेति ॥३८॥
**प्रीति-सन्दर्भः (४०) : **तस्मात् प्रीतेर् एव पुरुषार्थ-श्रेष्ठत्वं सिद्धम् । यथाहुर् गद्येन— अथ हेति । सकृद् अपि इति चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् [भा।पु। ७.१५.३५] इतिवद् अत्रापि सूचितम् । आत्मा त्वम् एव प्रियः सुहृच् च येषां ते ॥३८॥
**विश्वनाथः : **तद् एवं बहिर्मुखान् आक्षिप्य तद्-भक्तान् स्तुवन्ति—अथ हेति । सकृद् अप्य् अवलीढया आस्वादितया जनितेन सुखेन प्रेमानन्देन एकान्तिनः तत्-सेवैक-तान-मानसत्वात् देवर्ष्य्-आदीन् अनुपासीनाः, तद् अपि देवर्ष्य्-आदयस् तेषु बहुतरम् एव प्रसीदन्तीत्य् आहुः—सर्वेषां भूतानां प्रिय-सुहृदि सर्वेषाम् आत्मनि चेति । त्वत्-सेवायां सत्यां ते सर्वेऽपि सेविता एव बभूवुर् इति भावः । स्वार्थ-कुशला इति । त्वेन त्वत्-सेवा-त्यागिनः कुयोगि-प्रभृतयः स्वार्थ-घातिन एवेति भावः ॥३८॥
—ओ)०(ओ—
॥ ६.९.३९ ॥
त्रि-भुवनात्म-भवन त्रिविक्रम त्रि-नयन त्रि-लोक-मनोहरानुभाव तवैव विभूतयो दितिज-दनुजादयश् चापि तेषाम् उपक्रम-समयोऽयम् इति स्वात्म-मायया सुर-नर-मृग-मिश्रित-जलचराकृतिभिर् यथापराधं दण्डं दण्ड-धर दधर्थ एवम् एनम् अपि भगवन् जहि त्वाष्ट्रम् उत यदि मन्यसे।
मध्वः : त्रिनयनो नृसिंह-रूपी । विष्णोर् नृसिंह-नामानि त्रिनेत्रोग्रादिकानि तु इति शब्द-निर्णये । विविधं भाव-पात्रत्वात् सर्वे विष्णोर् विभूतयः इति च ॥३९॥
श्रीधरः : प्रस्तुतं विज्ञापयन्ति—त्रिभूवनेत्य्-आदिना यावत् समाप्ति । त्रिभुवनम् आत्मा स्वरूपं भवनं च यस्य । त्रिभुवनस्यात्मा भवनं चेति वा । त्रयो विक्रमा यस्य । त्रीन् लोकान् नयतीति तथा त्रयाणां लोकानां मनो-हरोऽनुभावो यस्य । एवं चतुर्धा संबोध्याहुः—तेषाम् अनुपक्रम-समय भवनं चेति वा । त्रयो विक्रमा यस्य । त्रीन् लोकान् नयतीति तथा त्रयाणां लोकानां मनोहरोऽनुभावो यस्य । एवं चतुर्धा संबोध्याहुः, तेषाम् अनुपक्रम-समय उद्यम-कालो न भवतीति मत्वा हे दण्ड-धर, पूर्वं यथा दण्डं दधर्थ धृतवान् अस्य् एवम् एनं त्वाष्ट्रम् अपि जहि, यदि मन्यसे हन्तुं यदीच्छसि ॥३९॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद्-भक्तेषु मध्ये सकामत्वाद् वयम् एवातिनिकृष्टा इति द्योतयन्तः प्रस्तुतं विज्ञापयन्ति—त्रिभूवनम् आत्म-भवनं यासां त्वद्-भक्ता देव-मनुष्यादयो यत्र स्थित्वा त्वां सेवन्ते, तद् इदम् असुराक्रान्तम् अभूद् इति भावः । त्रिभिर् विक्रमैस् त्रीन् लोकान् नयसीति यद् एव त्रिभुवनं वामनावतारे त्रिभिर् एव पादैः प्रतिगृह्य बलेः सकाशाद् आनीयास्मभ्यं दास्यसीति भावः । त्रिलोकेति सम्प्रत्य् अपि त्रिलोकस्था जनास् तव अनुभावं पश्यन्तु दैत्यं संहरेति भावः ।
ननु पर-हिंसां समुद्दिश्य मां यजध्वे तत्राहुः—तवैव विभूतयो यद्यपि तद् अपि तेषाम् उपक्रम-समयो नायम् इति ज्ञात्वा निवेदयाम इति भावः । तस्मात् हे दण्ड-धर ! पूर्वं दण्डं दधर्थ, **एवम् **अधुनापि उप समीप-काल एव ॥३९॥
—ओ)०(ओ—
॥ ६.९.४० ॥
अस्माकं तावकानां तव नतानां तत-ततां हरे तव चरण-नलिन-युगल-ध्यानानुबद्ध-हृदय-निगडानां स्व-लिङ्ग-विवरणेनात्मसात्-कृतानाम् अनुकम्पानुरञ्जित-विशद-रुचिर-शिशिर-स्मितावलोकेन विगलित-मधुर-मुख-रसामृत-कलया चान्तस् तापम् अनघार्हसि शमयितुम्।
**श्रीधरः : **प्रथमं तावत् त्वदीयानाम् अस्माकम् अन्तस् तापं शमयितुम् अर्हसि । तावकानाम् इत्य् अत्र हेतुः—हे पितः, हे पिता-मह ! तव चरण-नलिन-युगल-ध्यानेनैवानुबद्धो हृदये निगडः शृङ्खला येषाम् । स्व-लिङ्ग-विवरणेन निज-मूर्ति-प्रकटनेन स्वीकृतानाम् । केन ? अनुकम्पयानुरञ्जितं सानुरागं च तद् विशदं रुचिरं शिशिरं च स्मितं, तत्-सहितेनावलोकेन । तथानुकम्पयैव विगलितो मधुरो मुख-रसः प्रिय-वाक्, सैवामृत-कला, तया च ॥४०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **एवं स्तुत्वा कृपावलोक-मधुराश्वास-वाग्-अमृतं प्रार्थयन्ते अस्माकम् इति । हे तततत हे पिता-मह ! तव चरण-नलिन-युगलम् एव ध्यानेनैवानुबद्ध-हृदयस्य निगडः शृङ्खला येषाम् । तव चरणारविन्दान् मनो-मधुपम् आक्रष्टुं न शक्नुम इत्य् अर्थः । स्व-लिङ्ग-विवरणेन निज-मूर्ति-प्रकटनेन विगलितः मुख-चन्द्रान् निःसृतः मधुरो मुख-रसः प्रिय-वाक्, स एवामृत-कला, तया च ॥४०॥
—ओ)०(ओ—
॥ ६.९.४१ ॥
अथ भगवंस् तवास्माभिर् अखिल-जगद्-उत्पत्ति-स्थिति-लय-निमित्तायमान-दिव्य-माया-विनोदस्य सकल-जीव-निकायानाम् अन्तर्-हृदयेषु बहिर् अपि च ब्रह्म-प्रत्यग्-आत्म-स्वरूपेण प्रधान-रूपेण च यथा-देश-काल-देहावस्थान-विशेषं तद्-उपादानोपलम्भकतयानुभवतः सर्व-प्रत्यय-साक्षिण आकाश-शरीरस्य साक्षात् पर-ब्रह्मणः परमात्मनः कियान् इह वार्थ-विशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिर् इव हिरण्य-रेतसः।
**श्रीधरः : **किं च, अस्मद्-अभिप्रायस् त्वया ज्ञायत एव । किम् अत्रास्माभिर् विज्ञापनीयम् ? इत्य् आहुः—अथ हे भगवन् ! तवास्माभिर् इह कियान् वार्थ-विशेषो विज्ञापनीयः स्यात् ? इत्य् अन्वयः । यथा हिरण्य-रेतसोऽग्नेस् तद्-अंश-भूतैर् विस्फुलिङ्गादिभिः प्रकाशो न क्रियते, तथा तवास्माभिः कार्यार्थ-प्रकाशनं न कार्यम् इत्य् अर्थः । अत्र हेतु-गर्भाणि विशेषणानि—अखिल-जगताम् उत्पत्त्य्-आदिषु निमित्तायमानया दिव्य-मायया विनोदो यस्य । अत एव सर्व-जीव-निकायानाम् अन्तर्-हृदयेषु ब्रह्म-स्वरूपेण प्रत्यग्-आत्मान्तर्यामी, तद्-रूपेण च बहिर् अपि प्रधान-रूपेण देश-काल-देहावस्थान-विशेषान् अनुल्लङ्घ्यानुभवतः। कथम् ? तेषाम् उपादानतयोपलम्भकतया च, उपादानस्योपलम्भकतयेति वा । अत एव सर्वेषां प्रत्ययानां बद्ध्यादीनाम् अपि साक्षिणः । साक्षित्वे हेतुः, आकाशवद् अलिप्तं शरीरं स्वरूपं यस्य । अलिप्तत्वे हेतु-द्वयम्, साक्षात् पर-ब्रह्मणो निरुपाधेः परमात्मनः शुद्ध-सत्त्व-मूर्तेश् च ॥४१॥
**क्रम-सन्दर्भः : **अथ भगवन्न् इति सम्बोध्य ब्रह्म-परमात्म-रूपत्वेऽपि भगवद्-रूपत्वस्यैव श्रैष्ठ्यम् अभिप्रेतम् अतः प्रधान-रूपेण चेति सर्व-श्रेष्ठ-रूपेणेति भगवद्-आख्येन चेत्य् अर्थः । आकाश-शरीरस्येति आ सर्वतः काशते विराजते यत्, तत् परं ब्रह्मैव शरीरं यस्येत्य् अर्थः ॥४१॥
**विश्वनाथः : **तव त्वयि कियान् अर्थ-विशेषो विज्ञापनीय इत्य् अन्वयः । प्रत्यग्-आत्मान्तर्यामी तद्-रूपेण बहिर् अपि विषयेषु प्रधानं माया इन्द्रियादिकं तद्-रूपेण देशश् च कालश् च देहस्यावस्थान-विशेषा बाल्यादयश् च तान् अनतिक्रम्य अनुभवतः । तेषां देवादि-जीव-निकायानाम् उपादानतया करणत्वेन उपलम्भकतया प्रकाशत्वे च हृद्-गतं विज्ञापनीयं जानत इत्य् अर्थः । आकाशवद् गुणैर् अलिप्तं शरीरं यस्य हिरण्य-रेतसो वह्नेर् विस्फुलिङ्गादिभिस् तत्-कण-भूतैर् इवास्माभिः ॥४१॥
—ओ)०(ओ—
॥ ६.९.४२ ॥
अत एव स्वयं तद् उपकल्पयास्माकं भगवतः परम-गुरोस् तव चरण-शत-पलाशच्-छायां विविध-वृजिन-संसार-परिश्रमोपशमनीम् उपसृतानां वयं यत्-कामेनोपसादिताः।
**श्रीधरः : **अत एव सर्व-ज्ञत्वाद् एव वयं यत् कामेन यस्य कार्यस्य कामेनोपसादिताः प्रापितास् तद् अस्माकं कार्यं स्वयम् एवोपकल्पय संपादयेति । चरणम् एव शत-पलाशं कमलं तस्य छायां विविधैर् वृजिनैर् यः संसार-परिश्रमस् तस्योपशम-करीम् उपसृतानां प्राप्तानाम् ॥४२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अत एव सर्व-ज्ञत्वाद् एव वयं यत्-कामेन यस्य कामनया चरण-पद्म-च्छायाम् उपसादिताः स्वयं त्वयैव प्रापिताः । तत्-कार्यं स्वयम् एव उपकल्पय सम्पादय । छायां कीदृशीम् ? उपसृतानां भक्तानां परिश्रमोपशमनीयम् ॥४२॥
—ओ)०(ओ—
॥ ६.९.४३ ॥
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवन-त्रयम् ।
ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च ॥**
**श्रीधरः : **पूर्वं भक्तेर् उत्कर्षोक्तेस् तत् काम-शङ्का मा भूद् इति स्वकामं कथयन्ति । अथोऽनन्तरम् एव ॥४३॥
**क्रम-सन्दर्भः : **उत्कण्ठया पुनः स्फुटम् एव निवेदयन्ति । अथो इति ॥४३॥
**विश्वनाथः : **सर्वत्रैव स्तुतिषु शुद्ध-भक्तेर् उत्कर्ष-कथनात् कदाचिद् भक्तिम् एव ददाति भगवांस् तथा सति प्रेमाश्रु-कम्पादिमन्तो वयं स्वर्गीय-सुखेषु वैमुख्योदयात् पृथिव्याम् एव पर्यटिष्यामोऽस्मद्-वैरिण एवामरवतीम् अध्यास्य विराजिष्यन्तः इत्य् आशङ्कया गाम्भीर्याभावेन च स्पष्टम् एव कामम् आहुः—अथो इति ॥४३॥
—ओ)०(ओ—
॥ ६.९.४४ ॥
हंसाय दह्र-निलयाय निरीक्षकाय
कृष्णाय मृष्ट-यशसे निरुपक्रमाय ।
सत्-सङ्ग्रहाय भव-पान्थ-निजाश्रमाप्ताव्
अन्ते परीष्ट-गतये हरये नमस् ते ॥
**मध्वः : **निरुपक्रमोऽरिर् नित्यम् अप्रयत्नो ह्य् उपक्रमेत् ॥ इति च ॥४४॥
**श्रीधरः : **शीघ्रं तद्-वधाय पुनः प्रणमन्ति । हंसाय शुद्धाय हरये आर्ति-हराय ते नमः । शुद्धत्वे हेतवः—दह्र-निलयाय हृदयाकाश-निकेताय । निरीक्षकाय बुद्ध्य्-आदि-साक्षिणे । कृष्णाय सद्-आनन्द-रूपाय ।
कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति निरुक्तेः ।
आर्ति-हरत्वे हेतवः—मृष्टं रुचि-करं यशो यस्य । निरुपक्र-मायादि-शून्याय । सद्भिः सङ्गृह्यत इति तथा तस्मै । भव-पान्थो भव-रूपे पथि वर्तमानस् तस्य जनस्य निजाश्रमाप्तौ स्व-शरण-प्राप्तौ सत्यां संसारस्यान्ते परीष्टा सर्वतः पूजिता उत्तमा गतिः फलं यस् तस्मै ॥४४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तव चरणयोः पतामः शीघ्रं जहीति वैकल्येन श्री-कृष्ण-रूपिणं तं सर्वम् एव स्वाभिलषितम् अभिव्यञ्जयन्तः प्रणमन्ति । हंसाय सारासारौ विमृश्य सार-ग्राहिणे । दह्र-निलयाय अस्मद्-धृदय-सरो-निकेताय । अत्रास्मद्-धृदयेषु प्रस्तुतं कामम् अपि निरीक्षमाणाय । ततश् च मृष्ट-यशसे अस्मन्-महा-विपत्-त्रायकत्व-लक्षणं यशस् ते लोका गायत्व् इति भावः ।
निरुपक्रमाय अस्मन्-निवेदित-कृत्येषूपक्रमं विनैव तत् सम्पादन-समर्थाय । किन्तु सतां भक्तानाम् एव प्रयासेनापि सङ्ग्रहो न चान्य-वस्तूनां यस्य तस्मै । नमोऽकिञ्चन-वित्ताय [भा।पु। १.८.३२] इति वचनात् । किं च, भव-वर्त्मनि ये पान्थास् तेषाम् अस्मद्-आदि-दुर्जीवानां शुद्ध-भक्ति-रहितानाम् अपि निजस्याश्रमस्य प्राप्तौ अविद्यां तीर्त्वा स्वानन्दाधिगमे सतीत्य् अर्थः । संसारस्य अन्ते परि सर्वतो-भावेनेष्टा वाञ्छिता गतिः सायुज्यं सालोक्यं दास्यादि प्रेमा वा यतस् तस्मै ॥४४॥
—ओ)०(ओ—
॥ ६.९.४५ ॥
श्री-शुक उवाच—
अथैवम् ईडितो राजन् सादरं त्रि-दशैर् हरिः ।
स्वम् उपस्थानम् आकर्ण्य प्राह तान् अभिनन्दितः ॥**
**श्रीधरः : **अभिनन्दितः सन्तोषितः ॥४५॥
क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।
—ओ)०(ओ—
॥ ६.९.४६ ॥
श्री-भगवान् उवाच—
प्रीतोऽहं वः सुर-श्रेष्ठा मद्-उपस्थान-विद्यया ।
आत्मैश्वर्य-स्मृतिः पुंसां भक्तिश् चैव यया मयि ॥**
श्रीधरः : मदीयम् उपस्थानं स्तोत्रं तत्-सहितया विद्यया ज्ञानेन । आत्मन ऐश्वर्यम् असंसारित्वं तस्य स्मृतिर् यया । न हि विरोध उभयम् [भा।पु। ६.९.३५] इत्य्-आदिना कर्तृत्व-भोक्तृत्वादेर् मायिकत्वोक्तेः । भक्तिश्च यया भवति ॥४६॥
**क्रम-सन्दर्भः : **आत्मा जीवश् च ईश्वरश् च आत्मेश्वरौ । तयोर् भावः आत्मैश्वर्यम्, उभय-पद-वृद्धिः । तस्य स्मृतिर् विवेको यस्याः । अथ तत्र भवान् किं देवदत्तवद् इत्य्-आदेः ॥४६॥
**विश्वनाथः : **ममोपस्थानं स्तोत्रम् एव विद्या तया । आत्मैश्वर्येति ये माम् अनया स्तुवन्ति, तेषां मद्-ऐश्वर्य-स्मृतिर् भवेत् । आत्मनीवाविक्रियमाणेन स-गुण-मण्डणः सृजसि हरसि पासीत्य् अतर्क्यैश्वर्योक्तेः ॥४६॥
—ओ)०(ओ—
॥ ६.९.४७ ॥
किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।
मय्य् एकान्त-मतिर् नान्यन् मत्तो वाञ्छति तत्त्व-वित् ॥**
**श्रीधरः : **अथाह भगवन्न् इत्य्-आदिना भक्तेः सर्वोत्कर्षोक्तेर् भक्तम् अभिनन्दति—किम् इति ॥४८॥
**चैतन्य-मत-मञ्जुषा : **किं दुरापम् इत्य्-आदि । यदि प्रीते सति यद्यप् न, न किम् अपि दुरापम्, तथापि मय्य् एकान्त-मतिर् नान्यद् वाञ्छन्ति, सकामेषु भवत्सु, तथापि प्रीतो भवामीति भावः ॥४८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **अहो दौर्भाग्यं मूर्खता च युष्माकं, अनया विद्यया मां स्तुत्वापि भक्तिं न प्रार्थयध्वे इत्य् आह—किम् इति ॥४७॥
—ओ)०(ओ—
॥ ६.९.४८ ॥
न वेद कृपणः श्रेय आत्मनो गुण-वस्तु-दृक् ।
तस्य तान् इच्छतो यच्छेद् यदि सोऽपि तथा-विधः ॥**
**श्रीधरः : **यद् उक्तं देवैः स्वयं तद् उपकल्पयास्माकम् इत्य्-आदि तत् संपादनं कृपालोर् ममानुचितम् इत्य् आशयेनाह—न वेदेति द्वाभ्याम् । गुणेषु विषयेषु तत्त्व-दर्शी । तान् विषयान् तथाविधोऽज्ञ एव ॥४८॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **यद्यपि यूयं मूर्खा विषयानभिलषन्तः स्व-भद्राभद्रं न जानीथे, तद् अप्य् अहं तु विज्ञस् तान् कथं युष्मभ्यं ददामि ? न हि माता सुतेभ्यः स्व-हस्तेन विषं ददातीत्य् आह—नेति । गुणान् विषयान् एव वस्तु पुरुषार्थं पश्यतीति स आत्मनः श्रेयो न वेद । तस्य तस्मै तान् एव यो विज्ञोऽपि यच्छेत्, सोऽपि अज्ञ एव ॥४८॥
—ओ)०(ओ—
॥ ६.९.४९ ॥
स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥**
**मध्वः : **यदि सोऽपि तथा-विधः, अत्युत्तमो न भवति चेत् । युष्मत्-कामो मत्-प्रिय एव । अन्यथा न दद्याम् इति भावः ।
विष्णोः प्रियं कामयन्ति दवानैवाप्रियं क्वचित् ।
यद्य् अप्रियं कामयन्ति नरातीशो हितो हि सः ॥ इति तन्त्र-भागवते ॥४९॥
**श्रीधरः : **कर्म न वक्ति प्रवृत्ति-मार्गं न वक्ति हि । अपथ्यं यथा न राति न ददाति । भिषक्तमः सद्-वैद्यः ॥४९॥
**क्रम-सन्दर्भः : **स्वयम् इति । तस्मान् न बुद्धि-भेदं जनयेद् [गीता ३.२८] इत्य्-आदिकम् । असमर्थोपदेष्टृ-विषयं ज्ञेयम् ॥४९॥
**विश्वनाथः : **कर्म न वक्ति प्रवृत्ति-मार्गं नोपदिशति । अपथ्यं यथा न राति, न ददाति । भिषक्तमः सद्-वैद्यः ॥४९॥
—ओ)०(ओ—
॥ ६.९.५० ॥
मघवन् यात भद्रं वो दध्यञ्चम् ऋषि-सत्तमम् ।
विद्या-व्रत-तपः-सारं गात्रं याचत मा चिरम् ॥**
**श्रीधरः : **एवं तत्त्व-कथनेनानौचित्यं परिहृत्य तद् अभिप्रायम् अनुसरन्न् आह—
मघवन्न् इति । विद्यया व्रतैस् तपसा च सारं दृढं गात्रं शरीरं याचत याचध्वम् ॥५०॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **तद् अपि यदि देहारामात्वाद् विषयान् विना मिर्यध्वे तर्हि तत्रोपायं शृणुतेत्य् आह—मघवन्न् इति । विद्यया रतैस् तपसा च सारं दृढं शरीरं याचते याचध्वम् ॥५०॥
—ओ)०(ओ—
॥ ६.९.५१ ॥
स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् ।
यद् वा अश्वशिरो नाम तयोर् अमरतां व्यधात् ॥**
**श्रीधरः, विश्वनाथः : **तत्र तदीयं विद्यातिशयम् आह—स वा इति द्वाभ्याम् । एवं ह्य् अत्र प्रसिद्धा कथा—
निशम्याथर्वणं दक्षं प्रवर्ग्य-ब्रह्म-विद्ययोः ।
दध्यञ्चं समुपागम्य तम् ऊचतुर् अथाश्विनौ ॥
भगवन् देहि नौ विद्याम् इति श्रुत्वा स चाब्रवीत् ।
कर्मण्य् अवस्थितोऽद्याहं पश्चाद् वक्ष्यामि गच्छतम् ॥
तयोर् निर्गतयोर् एव शक्र आगत्य तं मुनिम् ।
उवाच भिषजोर् विद्यां मा वादीर् अश्विनोर् मुने॥
यदि मद्-वाक्यम् उल्लङ्घ्य ब्रवीषि सहसैव ते।
शिरश् छिन्द्यां न सन्देह इत्य् उक्त्वा स ययौ हरिः॥
इन्द्रे गते तथाभ्येत्य नासत्याव् ऊचतुर् द्विजम् ।
तन्-मुखाद् इन्द्र-गदितं श्रुत्वा ताव् ऊचतुः पुनः॥
आवां तव शिरश् छित्त्वा पूर्वम् अश्वस्य मस्तकम् ।
सन्धास्यावस् ततो ब्रूहि तेन विद्यां च नौ द्विज॥
तस्मिन्न् इन्द्रेण सञ्छिन्ने पुनः सन्धाय मस्तकम् ।
निजं ते दक्षिणां दत्त्वा गमिष्यावो यथागतम् ॥
एतच् छ्रुत्वा तदोवाच दध्यङ्ङ् आथर्वणस् तयोः ।
प्रवर्ग्यं ब्रह्म-विद्यां च सत्-कृतोऽसत्य-शङ्कितः ॥ इति ।
ततश् चायम् अर्थः—दध्यङ् निष्कलं शुद्धं ब्रह्माधिगतो ज्ञातवान् । पाठान्तरे तु निष्कृतं नितरां कृतं भवति धनं येन तं प्रवर्ग्यं चाधिगतो ज्ञातवान् । ततोऽश्विभ्यां प्रादाद् इत्य् उत्तरस्यानुषङ्गः । उपदिदेशेत्य् अर्थः । कथं-भूतं ब्रह्म । यद् वै अश्व-शिरसा प्रोक्तत्वाद् अश्व-शिरो-नाम प्रसिद्धम् । तयोर् अमरतां जीवन् मुक्तत्वं व्यधात् । तथा च श्रुतिः—अश्वस्य शीर्ष्णा प्रयदीम् उवाच इति ॥५१॥
**क्रम-सन्दर्भः : **निष्कलं मायातीतम् ।
—ओ)०(ओ—
॥ ६.९.५२ ॥
दध्यङ्ङ् आथर्वणस् त्वष्ट्रे वर्माभेद्यं मद्-आत्मकम् ।
विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वम् अधास् ततः ॥**
**श्रीधरः : **मद्-आत्मकं वर्म श्री-नारायण-कवचं चाधिगत इति पूर्वस्यानुषङ्गः । तत्र हेतुः, यस्मात् त्वष्ट्रे प्रादात् । किं तत् ? यत् त्वष्टा विश्वरूपाय पुत्राय प्रादात् । कीदृषम् ? यत् त्वं ततो विश्वरूपाद् अधा धृतवान् असि । तद् एव विद्यया सारं गात्रं याचध्वम् इत्य् अर्थः ॥५२॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **मद्-आत्मकं वर्म श्री-नारायण-कवचं त्वष्ट्रे प्रादात्, यत् कवचं त्वष्टा विश्वरूपाय स्व-पुत्राय प्रादात् । ततो विश्वरूपात् त्वं यद् अधा धृतवान् असि । अत एव विद्यया सारं गात्रं याचध्वम् इत्य् अर्थः ॥५२॥
—ओ)०(ओ—
॥ ६.९.५३ ॥
येन वृत्र-शिरो हर्ता मत्-तेज-उपबृंहितः
युष्मभ्यं याचितोऽश्विभ्यां धर्म-ज्ञोऽङ्गानि दास्यति ।
ततस् तैर् आयुध-श्रेष्ठो विश्वकर्म-विनिर्मितः ॥**
**मध्वः : **समर्था अपि याचन्ति देव-मुन्य्-आदिकान् क्वचित् ।
आज्ञयैव हरेस् तेषां यशोऽर्थम् अपि नान्यथा ॥ इति च ॥५३॥
श्रीधरः : ननु प्रेष्ठं देहं कथं दास्यति ? तथाह—युष्मभ्यमङ्गान्य् अस्थीनि याचितः सन् दास्यति । यतो धर्म-ज्ञः । विशेषतोऽश्विभ्यां शिष्य-प्रीत्या दास्यति । अस्थीनीत्य् अनेन हेयत्वं दर्शितम् । तैर् अस्थिभिर् विश्वकर्मणा विनिर्मित आयुध-श्रेष्ठो वज्रो भविष्यतीति शेषः ॥५३॥
क्रम-सन्दर्भः : न व्याख्यातम्।
विश्वनाथः : नन्व् एवं को दाता यः स्व-गात्रम् अपि दद्यात् ? तत्राह—युष्मभ्यम् इति । विशेषतोऽश्विभ्यां शिष्य-प्रीत्या दास्यति । अश्विभ्यां हेतुभ्याम् इति वा । तैर् अङ्गैर् अस्थिभिर् भविष्यतीति शेषः ॥५३॥
—ओ)०(ओ—
॥ ६.९.५४ ॥
तस्मिन् विनिहते यूयं तेजो-ऽस्त्रायुध-सम्पदः ।
भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्-परान् ॥**
**श्रीधरः : **येन भवान् वृत्र-शिरो हर्ता हरिष्यति । मम तेजसा उपबृंहितः सन् । तेजश् चास्त्राणि चायुधानि च संपदश् च भूयः प्राप्स्यथ । महा-कायस् त्रि-भुवन-ग्रासी स एवास्मान् हन्याद् इति शङ्काकुल-चित्तान् प्रत्य् आह । मत्-परांश् च केऽपि न हिंसन्त्य् अतो युष्माकं भद्रम् एवेति ॥५४॥
क्रम-सन्दर्भः : न व्याख्यातम्।
**विश्वनाथः : **ननु सर्व-ग्रासिना वृत्रेण सार्धं योद्धुं न शक्नुमस् तस्मात् तं हन्तुं स्वयम् एव यतस्वेत्य् अत आह—न हिंसन्तीति वृत्रस् तद्-वशीभूता असुराश् च मत्सरान् युष्मान् न घ्नन्ति । वृत्रस्य परम-भक्तत्वेन मद्-अर्थं स्व-देहम् अपि जिहासोः । वस्तुतो युष्मासु द्वेषो नास्त्य् एव, यथा युष्माकं तस्मिन्न् इति भावः ॥५४॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
षष्ठस्य नवमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥
—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
भगवद्-उपदेशो नाम
नवमोऽध्यायः ।
॥ ६.९ ॥
(६.१०)