०८ नारायण-वर्मोपदेशः

॥ ६.८.१-२ ॥

श्री-राजोवाच—

यया गुप्तः सहस्राक्षः सवाहान् रिपु-सैनिकान् ।

क्रीडन्न् इव विनिर्जित्य त्रि-लोक्या बुभुजे श्रियम् ॥

भगवंस् तन् ममाख्याहि वर्म नारायणात्मकम् ।

यथाततायिनः शत्रून् येन गुप्तो ञ्जयन् मृधे ॥

**श्रीधरः : **

अष्टमे विश्वरूपस् तु वर्म नारायणात्मकम् ।

इन्द्राय प्राह येनेन्द्रो गुप्तो दैत्यान् अथाजयत् ॥

त्रि-लोक्याः संबन्धिनीं श्रियम् ॥१॥

**क्रम-सन्दर्भः : **ययेति युग्मकम् । यया वर्म-रूपया विद्यया यथा अजयत् तं प्रकारं चाख्याहि ॥१॥

**विश्वनाथः : **

नारायणात्मकं वर्म विश्वरूप उपादिशत् ।

शक्रं येनाजयद् दैत्यान् स इत्य् अष्टम उच्यते ॥१॥

—ओ)०(ओ—

॥ ६.८.३ ॥

श्री-बादरायणिर् उवाच—

वृतः पुरोहितस् त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तद् इहैक-मनाः शृणु ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.४ ॥

श्री-विश्वरूप उवाच—

धौताङ्घ्रि-पाणिर् आचम्य सपवित्र उदङ्-मुखः ।

कृत-स्वाङ्ग-कर-न्यासो मन्त्राभ्यां वाग्-यतः शुचिः ॥

**श्रीधरः : **मन्त्राभ्याम् अष्टाक्षर-द्वादशाक्षराभ्याम् । कृतः स्वाङ्गेषु करयोश् च न्यासो येन ॥४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.५ ॥

नारायण-परं वर्म सन्नह्येद् भय आगते ।

पादयोर् जानुनोर् ऊर्वोर् उदरे हृद्य् अथोरसि ॥

**श्रीधरः : **नारायण-मयं वर्म सन्नह्येद् बध्नीयात् । तत्राष्टाक्षरेण पादाद्य्-अष्टाङ्गेषु न्यासम् आह—पादयोर् इति सार्धेन ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अत्राष्टाक्षरेण पादाद्य्-अष्टाङ्गेषु न्यासम् आह—पादयोर् इति सार्धेन ॥५॥

—ओ)०(ओ—

॥ ६.८.६ ॥

मुखे शिरस्य् आनुपूर्व्याद् ओंकारादीनि विन्यसेत् ।

ॐ नमो नारायणायेति विपर्ययम् अथापि वा ॥

**श्रीधरः : **प्रणव-संपुटितम् ओंकाराद्य्-एकैकम् अक्षरं विन्यसेत् । विपर्ययं यथा भवत्य् एवं शिर-आदि-पादान्तं वा विन्यसेत् । उत्पत्ति-न्यासं संहार-न्यासं व कुर्याद् इत्य् अर्थः ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रणव-संपुटितम् ओंकाराद्य्-एकैकाक्षरं विन्यसेत् । विपर्ययं यथा भवत्य् एवं शिर-आदि-पादान्तं वा विन्यसेत् । प्रक्रमेण सृष्टि-न्यासं व्युत्क्रमेण संहार-न्यासं व कुर्याद् इत्य् अर्थः ॥६॥

—ओ)०(ओ—

॥ ६.८.७ ॥

कर-न्यासं ततः कुर्याद् द्वादशाक्षर-विद्यया ।

प्रणवादि-य-कारान्तम् अङ्गुल्य्-अङ्गुष्ठ-पर्वसु ॥

**श्रीधरः : **द्वादशाक्षरस्योद्धारः प्रणवादि-य-कारान्तम् इति । प्रणव-संपुटितम् एकैकम् अक्षरं दक्षिण-तर्जनी-पर्यन्तम् अङ्गुलीषु । परिशिष्टम् अक्षर-चतुष्टयम् अङ्गुष्ठयोर् आद्य्-अन्त-पर्वसु न्यसेत् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रणवादीति । प्रणव-पुटितम् एकैकम् अक्षरं दक्षिण-तर्जनीम् आरभ्य वाम-तर्जनी-पर्यन्तम् अङ्गुलीषु । परिशिष्टम् अक्षर-चतुष्टयम् अङ्गुष्ठयोर् आद्य्-अन्त-पर्वसु न्यसेत् ॥७॥

—ओ)०(ओ—

॥ ६.८.८ ॥

न्यसेद् धृदय ओंकारं वि-कारम् अनु मूर्धनि ।

ष-कारं तु भ्रुवोर् मध्ये ण-कारं शिखया न्यसेत् ॥

**श्रीधरः : **मन्त्रान्तर-न्यासम् आह—न्यसेद् इति । ष-कारण-कारयोर् विश्लेषेण षड्-अक्षराणि हृदयादिषु न्यसेत् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **मन्त्रान्तरेणापि हृदयादि-न्यासम् आह—न्यसेद् इति ॥८॥

—ओ)०(ओ—

॥ ६.८.९ ॥

वे-कारं नेत्रयोर् युञ्ज्यान् न-कारं सर्व-सन्धिषु ।

म-कारम् अस्त्रम् उद्दिश्य मन्त्र-मूर्तिर् भवेद् बुधः ॥

**श्रीधरः, विश्वनाथः : **म-कारम् अस्त्रम् उद्दिश्य ध्यात्वा ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.१० ॥

सविसर्गं फड्-अन्तं तत् सर्व-दिक्षु विनिर्दिशेत् ।

ॐ विष्णवे नम इति ॥

**श्रीधरः : **तन् म-कारास्त्रं “मः अस्त्राय फट्” इत्य् एवं दिग्-बन्धे विनिर्दिशेत् ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तन् म-कारास्त्रं “मः अस्त्राय फट्” इत्य् एवं सर्व-दिग्-बन्धे विनिर्दिशेत् ॥१०॥

—ओ)०(ओ—

॥ ६.८.११ ॥

आत्मानं परमं ध्यायेद् ध्येयं षट्-शक्तिभिर् युतम् ।

विद्या-तेजस्-तपो-मूर्तिम् इमं मन्त्रम् उदाहरेत् ॥

**श्रीधरः : **ध्येयम् ईश्वर-रूपम् आत्मानं ध्यायेत् । षट्-शक्तिभिर् ऐश्वर्यादिभिर् भग-शब्द-वाच्याभिः । विद्या च तेजश् च तपश् च मूर्तिर् यस्य तम् । इमं वक्ष्यमाणं श्रीमन्-नारायण-कवचाख्यम् ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ध्येयम् ईश्वर-रूपम् आत्मानं ध्यायेद् इत्य् अन्यैर् अधृष्यत्व-कामनया अहङ्ग्रहोपासना । विद्या-तेजस्-तपांसि मूर्तिर् यस्य तम् इमं मन्त्रं नारायण-कवचाख्यम् ॥११॥

—ओ)०(ओ—

॥ ६.८.१२ ॥

ॐ हरिर् विदध्यान् मम सर्व-रक्षां

न्यस्ताङ्घ्रि-पद्मः पतगेन्द्र-पृष्ठे ।

दरारि-चर्मासि-गदेषु-चाप-

पाशान् दधानोऽष्ट-गुणोऽष्ट-बाहुः ॥

**श्रीधरः : **अष्ट-गुणोऽणिमाद्य्-अष्टैश्वर्य-युक्तः ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **समुद्रेण सह नदी नदादिवत् ध्येय-रूपेण सहैक्यं प्राप्तोऽपि पृथग्-भूयापि तिष्ठन् स्वरक्षा-प्रार्थ-मन्त्रम् उदाहरेद् इत्य् आह—हरिर् इति । अष्ट-गुणोऽणिमाद्य्-अष्टैश्वर्य-युक्तः ॥१२॥

—ओ)०(ओ—

॥ ६.८.१३ ॥

जलेषु मां रक्षतु मत्स्य-मूर्तिर्

यादो-गणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटु-वामनोऽव्यात्

त्रिविक्रमः खेऽवतु विश्वरूपः ॥

**श्रीधरः : **यादसां गणा एव वरुणस्य पाशस् तस्मात् ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सामान्येन सर्वतो रक्षां प्रार्थय देश-विशेषेषु तत्-तद्-अधिष्ठातृ-स्वरूपेण भगवता रक्षा-मन्त्रान् आह—जलेष्व् इति त्रिभिः । यादसां गणा एव वरुणस्य पाशस् तस्मात् ॥१३॥

—ओ)०(ओ—

॥ ६.८.१४ ॥

दुर्गेष्व् अटव्य्-आजि-मुखादिषु प्रभुः

पायान् नृसिंहोऽसुर-यूथपारिः ।

विमुञ्चतो यस्य महाट्ट-हासं

दिशो विनेदुर् न्यपतंश् च गर्भाः ॥

**श्रीधरः : **अटवी आजि-मुखं सङ्ग्रामोपक्रमश् च आदिर् येषां तेषु सङ्कट-स्थानेषु ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आजि-मुखं युद्ध-सम्मुख-प्रदेशः ॥१४॥

—ओ)०(ओ—

॥ ६.८.१५ ॥

रक्षत्व् असौ माध्वनि यज्ञ-कल्पः

स्व-दंष्ट्रयोन्नीत-धरो वराहः ।

रामोऽद्रि-कूटेष्व् अथ विप्रवासे

सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥

**श्रीधरः : **असौ प्रसिद्धो वराहो मा माम् अध्वनि रक्षतु । यज्ञैर् अवयव-रूपैः कल्प्यते निरूप्यत इति तथा । उन्नीता उद्धृता धरा येन सः । अद्रि-कूटेषु गिरि-शिखरेषु । रामो जामदग्न्यः ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यज्ञ-कल्पः यज्ञ-स्वरूपः । स्वार्थिक कल्पप् । यद् वा, यज्ञाः कल्पाः समर्था यतः सः । रामो जामदग्न्यः ॥१५॥

—ओ)०(ओ—

॥ ६.८.१६ ॥

माम् उग्र-धर्माद् अखिलात् प्रमादान्

नारायणः पातु नरश् च हासात् ।

दत्तस् त्व् अयोगाद् अथ योग-नाथः

पायाद् गुणेशः कपिलः कर्म-बन्धात् ॥

**श्रीधरः : **उग्र-धर्माद् अभिचारादि-लक्षणात् हासाद् गर्वान् नरोऽवतु । दत्तो दत्तात्रेयः । अयोगाद् योग-भ्रंशात् ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्व-परोद्भवेभ्यः उपद्रवेभ्यो रक्षा-मन्त्रान् आह चतुर्भिः । उग्र-धर्माद् अभिचारादेः । हासाद् गर्वात् । अयोगाद् योग-भ्रंशात् ॥१६॥

—ओ)०(ओ—

॥ ६.८.१७ ॥

सनत्-कुमारोऽवतु कामदेवाद्

धयशीर्षा मां पथि देव-हेलनात् ।

देवर्षि-वर्यः पुरुषार्चनान्तरात्

कूर्मो हरिर् मां निरयाद् अशेषात् ॥

**मध्वः : **सनत्कुमारोऽवतु काम-देवात् ।

सनत्-कुमार-नामा तु ब्रह्मचर्य-वपुर् हरिः ।
सनत्-कुमारम् अपरं ब्रह्म-पुत्रं विवेश सः ।
समां योग्येतरात् कामात् पातु विश्वेश्वरः प्रभुः ॥ इति ।
देवर्षि-वर्यः पुरुषान्तरार्चनात् ।
विष्णोर् अपरिवारत्वदृष्टादेवान्तरार्चनात् ।
महिदासो देव-ऋषि पातु मां विष्णुर् अव्ययः ।
तद्-अनर्पित-कर्मभ्यस् तद्-अस्मरणतस् तथा ॥ इति च ॥१७॥

**श्रीधरः : **पथि यद् देवानां हेलनं नमस्-कारम् अकृत्वा गमनं तस्मात् । पुरुषार्चनस्यान्तराद् देव-पूजाच् छिद्राद् द्वा-त्रिंशद्-अपराध-रूपान् नारदः ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काम-देवात् कन्दर्प-वेगात् । पथि यद् देव-हेलनं नमस्कारम् अकृत्वैव गमनम् । पुरुषार्चनस्यान्तरात् देव-पूजाच् छिद्रात् द्वात्रिंशद्-अपराध-रूपाद् इत्य् अर्थः ॥१७॥

—ओ)०(ओ—

॥ ६.८.१८ ॥

धन्वन्तरिर् भगवान् पात्व् अपथ्याद्

द्वन्द्वाद् भयाद् ऋषभो निर्जितात्मा ।

यज्ञश् च लोकाद् अवताज् जनान्ताद्

बलो गणात् क्रोध-वशाद् अहीन्द्रः ॥

**श्रीधरः : **लोकाज् जनापवादाद् यज्ञः । जन-निमित्तो योऽन्त उपघातस् तस्माद् बल-भद्रोऽवतात् । कृतान्ताद् इति पाठे कृतान्तात् कालाद् रक्षतु । क्रोध-वशात् सर्पाणां गणात् । अहीन्द्रः शेषः ॥१८॥

**क्रम-सन्दर्भः : **यज्ञश् च लोकाद् इत्य् अत्र बलदेवस्य शेषाद् अन्यत्र कृतान्ताद् इत्य् अधिक-शक्तित्वं दर्शितम् । जनान्ताद् इति पाठे जनानाम् अन्तान् नाशाद् इति स एवार्थः ॥१८॥

**विश्वनाथः : **लोकाज् जनापवादात् । जनान्तात् जन-हेतुकोऽन्त उपघातस् तस्मात् । कृतान्ताद् इति च पाठः । क्रोध-वशात् सर्पाणां गणात् । अहीन्द्रः शेषः ॥१८॥

—ओ)०(ओ—

॥ ६.८.१९ ॥

द्वैपायनो भगवान् अप्रबोधाद्

बुद्धस् तु पाषण्ड-गण-प्रमादात् ।

कल्किः कलेः काल-मलात् प्रपातु

धर्मावनायोरु-कृतावतारः ॥

**श्रीधरः : **काल-मल-भूतात् कलेः कल्किः । धर्मावनाय धर्म-रक्षणायोरुर् महान् कृतोऽवतारो येन ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काल-मल-रूपात् कलेः । कल्किः कीदृशः ? धर्मावनेत्य्-आदि ॥१९॥

—ओ)०(ओ—

॥ ६.८.२० ॥

मां केशवो गदया प्रातर् अव्याद्

गोविन्द आसङ्गवम् आत्त-वेणुः ।

नारायणः प्राह्ण उदात्त-शक्तिर्

मध्यन्-दिने विष्णुर् अरीन्द्र-पाणिः ॥

**श्रीधरः : **दिनस्य षट्सु भागेषु क्रमेण प्रातर्-आदि-संज्ञेषु रात्रेश् च प्रदोषादि-संज्ञेषु रक्षा-प्रार्थनम्, मां केशव इति त्रिभिः । आसङ्गवं सङ्गवम् अभिव्याप्य ॥२०॥

**चैतन्य-मत-मञ्जुषा : **गोविन्द आसङ्गवम् आत्त-वेणुर् इत्य्-आदि । वेणु-वादन-शीलो द्विभुजः श्री-गोविन्दः परात्परो नित्य-विग्रहत्वेनास्तु इत्य् अवगतं भवतीति भावः । इयम् एव नारायण-वर्म-हयग्रीव-महा-विद्या ॥२०॥

**क्रम-सन्दर्भः : **अथाप्रकट-लीलायां मन्त्रोपासना-मयीम् आह—मां केशव इति पादोन-त्रयम् । आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-देव एव । तत्-सहपाठात् केशवोऽपि श्री-मथुरा-नाथ एव । तौ हि वृन्दावन-मथुरा-प्रसिद्ध-महा-योग-पीठयोस् तत्-तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः, स्वजन-दृष्ट्यां साक्षाद्-रूपेणैव च । तत्रोत्तर-रूपं ब्रह्म-संहितादौ गोविन्द-स्तवादौ प्रसिद्धम् । अत एवात्रापि साक्षाद्-रूप-वृन्द-प्रकरण एव तौ पठितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-देवतात्वेन, श्री-गोपाल-तापन्य्-आदि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-देवतात्वेन च मन्त्रोपासना-मय्याम् इदम् उदाहृतम्।1 [एतावत्-पर्यन्तं कृष्ण-सन्दर्भे १५३]

अनेन मथुरा-वृन्दावन-नाथयोर् नित्य-प्रकाशत्वं दर्शितम् । प्रातर्-आदयः काला एवं युज्यन्ते । प्राह्णस् तावत् प्रथम-भागः प्रातः-सङ्गवौ तु तस्यैवांशौ मध्याह्नो मध्य-भागः । तृतीय-भागस् त्व् अपराह्णः सायम्-सन्ध्याभ्याम् अवान्तर-भेद-भेद-भिन्नः । रात्रौ च प्रदोषः प्रथम-भागः, मध्य-भागो निशीथः, अर्ध-रात्रस् तु तत्रापि मध्यम-घटिका-द्वयम् । अपर-रात्रस् तु तृतीयो भागः । तस्यैवान्तिमांश-द्वयं प्रत्यूष-प्रभात-सञ्ज्ञम् । यथा सन्ध्याश् च तद्-अवान्तर-भेदा अपि पृथग् गण्यन्त इति । क्रम-गणनायां तु मध्याह्नाद्य्-अतिक्रमापत्तेः । प्राह्ण-कालस् तु स्मृतौ न भिन्नत्वेन गण्यते । तथा हि—

मुहूर्त-त्रितयं प्रातस् तावान् एव तु सङ्गवः ।
मध्याह्नस् त्रि-मुहूर्तोऽथ अपराह्णोऽपि तादृशः ।
सायाह्नस् त्रि-मुहूर्तः स्यात् सर्व-कर्मसु गर्हितः ॥ इति ॥२०॥

**विश्वनाथः : **काल-विशेषेषु तत्-तद्-अधिष्ठातृ-स्वरूपेण भगवता रक्षा-मन्त्रान् आह—माम् इति त्रिभिः । केशवो मधुराधिपतिः । प्रातर् दिनस्य पञ्चम-घटिका-पर्यन्तम् । गोविन्दो वृन्दावनाधिपतिः । आसङ्गवं षष्ठ-घटिकाम् आरभ्य दशम-घटिका-पर्यन्तम् एकादश-घटिकाम् आरभ्य पञ्च-पञ्चदश-घटिका-पर्यन्तं प्राह्नः, तत्र षोडश-घटिकाम् आरभ्य विंशति-घटिका-पर्यन्तं मध्यन्दिनं, तत्र अरीन्द्र-पाणिः चक्र-हस्तः ॥२०॥

—ओ)०(ओ—

॥ ६.८.२१ ॥

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रि-धामावतु माधवो माम् ।

दोषे हृषीकेश उतार्ध-रात्रे

निशीथ एकोऽवतु पद्मनाभः ॥

**श्रीधरः : **त्रि-धामा ब्रह्मादि-त्रि-मूर्तिः श्री-माधवः । दोषे प्रदोषे आर्ध-रात्रे अर्ध-रात्रि-पर्यन्ते काले निशीथे चैक पद्मनाभोऽवतु ॥२१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एकविंश-घटिकाम् आरभ्य पञ्च-विंशति-घटिका-पर्यन्तम् अपराह्नः, तत्र षड्-विंशति-घटिकाम् आरभ्य त्रिंशद-घटिका-पर्यन्तं सायं, तत्र । त्रयः सच्-चिद्-आनन्दा धामानि यस्य सः । षोढा विभक्त-दिवस-रक्षाम् उक्त्वा पञ्चधा विभक्त-रात्रि-रक्षाम् आह—दोषे रात्रेश् चतुर्थ-घटिका-पर्यन्तं प्रदोषस् तत्र । पञ्चम-घटिकाम् आरभ्य चतुर्दश-घटिका-पर्यन्तम् अर्ध-रात्रम् अन्त-भागस्यार्ध-रात्रत्वात् तत्र । पञ्चदश-षोडश-घटिके निशीथः तत्र ॥२१॥

—ओ)०(ओ—

॥ ६.८.२२ ॥

श्रीवत्स-धामापर-रात्र ईशः

प्रत्यूष ईशोऽसि-धरो जनार्दनः ।

दामोदरोऽव्याद् अनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान् काल-मूर्तिः ॥

**श्रीधरः : **अपर-रात्रे ईशः श्रीवत्स-धामा अवतु । प्रत्यूष इशः श्री-जनार्दनः । श्री-दामोदरः प्रभाते श्री-विश्वेश्वरोऽनुसन्ध्यम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **श्रीवत्सो धामनि शरीरे यस्य, निशीथाद् ऊर्ध्वम् अरुणोदयात् प्राक् अपर-रात्रः । प्रत्यूषे रात्रि-शेष-घटिका-चतुष्टये । अनुसन्ध्यं दिन-रात्रि-सन्ध्ययोः ॥२२॥

—ओ)०(ओ—

॥ ६.८.२३ ॥

चक्रं युगान्तानल-तिग्म-नेमि

भ्रमत् समन्ताद् भगवत्-प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्य् अरि-सैन्यम् आशु

कक्षं यथा वात-सखो हुताशः ॥

**श्रीधरः : **युगान्तानल-वत् तिग्मा तीक्ष्णा नेमिर् यस्य तच् चक्रं भगवता प्रयुक्तं सत् अरि-सैन्यं दन्दग्धि दन्दग्धि अतिशयेन दहति । तस्यायं स्वभाव एव, न तु तस्मात् प्रार्थनीयम् इत्य् अर्थः । यद् वा, दन्दग्धीति लोण्-मध्यम-पुरुषः । अत्र त्वम् एवं-भूतं चक्रम् इति स्वरूपम् उक्त्वा संबोध्य प्रार्थ्यतेऽतिशयेन दहेति । कक्षं शुष्क-तृणम् ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भगवद्-अस्त्रैश् च रक्षा-मन्त्रान् आह—चक्रम् इति चतुर्भिः । युगान्तानलवत् तिग्मा तीक्ष्णा नेमिर् यस्य तत् । हे समन्तात् भ्रमत् भ्रमण-शील त्वंचक्रं भगवत्-प्रयुक्तं सत् अरि-सैन्यं दन्दग्धि अतिशयेन दह । कक्षं शुष्क-तृणम् ॥२३॥

—ओ)०(ओ—

॥ ६.८.२४ ॥

गदेऽशनि-स्पर्शन-विस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्य् अजित-प्रियासि ।

कुष्माण्ड-वैनायक-यक्ष-रक्षो-

भूत-ग्रहांश् चूर्णय चूर्णयारीन् ॥

**श्रीधरः : **अशनि-वत् स्पर्शो येषां ते विस्फुलिङ्गा यस्यास् तस्याः संबोधनं हे गदे, त्वम् अजितस्य प्रियासि । अहम् अच्युतस्य दासः । अतः कूश्माण्डादीन् निष्पिण्ढि निष्पिण्ढि सञ्चूर्णय सञ्चूर्णय । अरींश् च चूर्णय चूर्णय । सर्वत्र वीप्साति-शीघ्रत्वाय ॥२४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अशनि-वत् स्पर्शनं येषां ते विस्फुलिङ्गा यतः । हे गदे ! निष्पिण्ढि चूर्णय चूर्णय ॥२४॥

—ओ)०(ओ—

॥ ६.८.२५ ॥

त्वं यातुधान-प्रमथ-प्रेत-मातृ-

पिशाच-विप्रग्रह-घोर-दृष्टीन् ।

दरेन्द्र विद्रावय कृष्ण-पूरितो

भीम-स्वनोऽरेर् हृदयानि कम्पयन् ॥

**श्रीधरः : **हे दरेन्द्र पाञ्चजन्य ! त्वं यातुधानादीन् विद्रावय । विप्र-ग्रहा ब्रह्म-राक्षसाः, येऽन्ये च घोर-दृष्टयस् तान् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दरेन्द्र हे पाञ्चजन्य ! ॥२५॥

—ओ)०(ओ—

॥ ६.८.२६ ॥

त्वं तिग्म-धारासि-वरारि-सैन्यम्

ईश-प्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मन् छत-चन्द्र छादय

द्विषाम् अघोनां हर पाप-चक्षुषाम् ॥

**श्रीधरः : **तिग्मा धारा यस्य हे तिग्म-धार ! असि-वर खड्ग-श्रेष्ठ ! त्वं ममारि-सैन्यं छिन्धि छिन्धि । शत-चन्द्राकाराणि मण्डलानि यस्मिन् हे शत-चन्द्र-चर्मन्, अघोनाम् अघवतां द्विषां चक्षूंषि छादय, पाप-चक्षुषां चोग्र-दृष्टीनां चक्षूंषि हर ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **हे तिग्म-धार ! हे असि-वर ! हे खड्ग-श्रेष्ठ ! हे शत-चन्द्र ! शत-चन्द्राकार-युक्त चक्षूंषि हर आच्छादय च ॥२६॥

—ओ)०(ओ—

॥ ६.८.२७ ॥

यन् नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽंहोभ्य एव च ॥

**श्रीधरः : **यत् येभ्यो भयम् । अंहोभ्यः पापेभ्यम् ॥२७॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.२८ ॥

सर्वाण्य् एतानि भगवन्- नाम-रूपानुकीर्तनात् ।

प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः-प्रतीपकाः ॥

**श्रीधरः : **श्रेयः-प्रतीपका इष्ट-व्याघातकाः ॥२८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **श्रेयसः प्रतीपकाः प्रतिकुलाः ॥२८॥

—ओ)०(ओ—

॥ ६.८.२९ ॥

गरुडो भगवान् स्तोत्र- स्तोभश् छन्दोमयः प्रभुः ।

रक्षत्व् अशेष-कृच्छ्रेभ्यो विष्वक्सेनः स्व-नामभिः ॥

**श्रीधरः : **स्तोत्राणि बृहद्-रथान्तरादि-सामानि तैः स्तोभ्यते संस्तूयत इति स्तोत्र-स्तोभः । छन्दो-मयो वेद-मूर्तिः सुपर्णोऽसि गरुत्मान् इत्य्-आदि श्रुतेः । ऐकपद्य-पाठे स्तोभा गीति-पूरकाक्षराणि । स्तोत्र-स्तोमेति पाठे सामाधार-भूत-ऋक्-समुदायः स्तोमः ॥२९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्तोत्राणि बृहद्-रथान्तरादि-सामानि तैः स्तोभ्यते संस्तूयत इति स्तोत्र-स्तोभः। ऐकपद्य-पाठे स्तोभा गीति-पूरकाक्षराणि । स्तोत्र-स्तोमेति पाठे सामाधार-भूत ऋक्-समुदाय-स्तोमः ॥२९॥

—ओ)०(ओ—

॥ ६.८.३० ॥

सर्वापद्भ्यो हरेर् नाम- रूप-यानायुधानि नः ।

बुद्धीन्द्रिय-मनः-प्राणान् पान्तु पार्षद-भूषणाः ॥

**श्रीधरः : **नामानि च रूपाणि च यानानि च वाहनानि आयुधानि च नो बुद्ध्य्-आदीन् पान्तु । पार्षद-भूषणाः पार्षद-मुख्याश् च पान्तु ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पार्षद-भूषणाः पार्षद-मुख्याः ॥३०॥

—ओ)०(ओ—

॥ ६.८.३१ ॥

यथा हि भगवान् एव वस्तुतः सद् असच् च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशम् उपद्रवाः ॥

**मध्वः : **यथा हि भगवान् एव सद्-असन्-नियामकतया सद्-असद्-रूपे उच्यते ।

सत्येनानेन मां देवः पातु विष्णुश् चतुर्भुजः ॥३१॥

**श्रीधरः : **सच् च असच् च मूर्तामूर्तं यत् तत् सर्वं जगत् ॥३१॥

**क्रम-सन्दर्भः : **यथा येन प्रकारेण ॥३१॥

**विश्वनाथः : **यत् सद्-असद्-रूपं जगत् तद् वस्तुतो भगवान् एव तस्यैव बहिरङ्ग-माया-शक्ति-कार्यत्वात् । सत्येन शपथेनानेन इति यद्य् एवं-भूतो भगवान् सत्यः स्यात् तदास्माकम् उपद्रवो नश्यन्तु । यदि वेदाः पमाणम् इतिवत् ॥३१॥

—ओ)०(ओ—

॥ ६.८.३२-३३ ॥

यथैकात्म्यानुभावानां विकल्प-रहितः स्वयम् ।

भूषणायुध-लिङ्गाख्या धत्ते शक्तीः स्व-मायया ॥

तेनैव सत्य-मानेन सर्व-ज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर् नः सदा सर्वत्र सर्व-गः ॥

**मध्वः : **एकएव परो विष्णुर् भूषाहेति ध्वजेष्व् अजः ।

तत्-तच्-छक्ति-प्रदत्वेन स्वयम् एव व्यवस्थितः ॥
सत्येनानेन मां देवः पातु सर्वेश्वरो हरिः ॥इति च ॥३२॥

**श्रीधरः : **ऐकात्म्यस्यानुभावोऽनुध्यानं येषां तेषाम् । विकल्पो भेदस् तद्-रहितोऽपि ॥३२॥

**क्रम-सन्दर्भः : **यथेति युग्मकम् । ऐकात्म्यानुभावानां केवल-परम-स्वरूप-दृष्टि-पराणां विकल्प-रहितः परमानन्दैक-रस-परम-स्वरूपतया स्फुरन्न् अपि यथा येन प्रकारेण स्वेषु स्व-स्वामितया भजत्सु, **माया **कृपा, तया हेतुना **स्वयं **विचित्र-शक्ति-मयेन स्व-स्वरूपेणैव कारण-भूतेन भूषणाद्य्-आख्याः शक्तीः शक्ति-मयाविर्भावान् धत्ते गोचरति । तेनैव विद्वद्-अनुभव-लक्षणेन सत्य-प्रमाणेन, तद् यदि सत्यं स्यात्, तदेत्य् अर्थः । तैर् एव भूषणादि-लक्षणैः सर्वैः स्वरूपैर् विचित्र-स्वरूपाविर्भावैर् नः पातु

अत एव विष्णु-धर्मे बलि-कृत-चक्र-स्तुतौ—यस्य रूपम् अनिर्देश्यम् अपि योगिभिर् उत्तमैः इत्य्-आद्य्-अनन्तरं च—

भ्रमतस् तस्य चक्रस्य नाभि-मध्ये महीपते ।
त्रैलोक्यम् अखिलं दैत्यो दृष्टवान् भूर्-भुवादिकम् ॥ इति ।

तद् एवम् एव नवमे श्रीमद्-अम्बरीषेणापि चक्रम् इदं स्तुतम् अस्ति । लिङ्गानि गरुडाकार-ध्वजादीनि अनेन यत् क्वचिद् आकस्मिकत्वम् इव श्रूयते, तद् अपि श्री-भगवद्-आविर्भाववज् ज्ञेयम् । अत्र तृतीये—चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे [भा।पु। ३.२८.२८] इत्य् अपि सहायम् । अतो द्वदशेऽपि—स्वात्म-ज्योतिर् विभर्त्य् अजः [भा।पु। १२.११.१०] इत्य्-आदिकं विराड् गतत्वेनोपासनार्थम् अभेद-दृष्ट्या दर्शितम् एव यथा-सम्भवं साक्षाच् छ्री-विग्रहत्वेनाप्य् अनुसन्धेयम् । तथा हि श्री-विष्णु-पुराणे—

आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।
बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिर् ॥ [वि।पु। १.२२.६८] इति ॥३२॥ [भगवत्-सन्दर्भः ४८]

**विश्वनाथः : **ऐकात्म्यं चिन्मयत्वाद् एक-स्वरूपत्वम् अनुभावो लक्षणं यासां, तासां भूषणादीनां शक्तीनां विकल्प-रहितः । स्वस्य तासां च चिद्-रूपत्वं, ताभ्यो भेद-रहितोऽपि भूषणाद्य्-आख्यास् ताः शक्तीर् यथा धत्ते, तथा तेनैव सत्य-मानेन नः पात्व् इत्य् अन्वयः । तत्र भूषणानि कौस्तुभादीन्य् आयुधानि चक्रादीनि लिङ्गानि चतुर्भुजत्वादीनि आख्या नामानि, यासां ताः शक्तीः स्वरूप-शक्ति-वृत्तीर् धत्ते । स्व-मायया स्वरूप-शक्त्या स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः । अतो माया-मयं विष्णुं प्रवदन्ति मनीषिणः इति माध्व-भाष्य-प्रमाणित-श्रुतेः । तेनैव सत्य-मानेन सत्य-रूप-प्रमाणेन भूषणायुधादीनि चतुर्भुजत्वादीनि च स्वरूप-शक्ति-मयत्वात् । स्वेनाभिन्नान्य् एव भगवान् धत्ते इति यदि सत्यं स्यात्, तदा सर्वैर् हरिर् विदध्याद् इत्य्-आदि मन्त्रोक्तेः स्वरूपैः सर्वत्र देशे काले च सर्वगः सन् पातु । सर्वज्ञ इत्य् अस्मन्-मनो-गतम् आस्तिक्यं भगवान् एव जानातीति शपथो ज्ञापितः ॥३२-३३॥

—ओ)०(ओ—

॥ ६.८.३४ ॥

विदिक्षु दिक्षूर्ध्वम् अधः समन्ताद्

अन्तर् बहिर् भगवान् नारसिंहः ।

प्रहापयल् लोक-भयं स्वनेन

स्व-तेजसा ग्रस्त-समस्त-तेजाः ॥

**श्रीधरः : **पुनर् अपि श्री-नृसिंह एव प्रार्थ्यते—विदिक्ष्व् इति । पात्व् इत्य् अनुषङ्गः । यद् वा, नारसिंहः प्रह्रादः । स्वनेन श्री-नृसिंह-नाम-गर्जनेन । स्व-तेजसा स्व-प्रभावेण । ग्रस्तानि समस्तानि दिग्-गज-विष-शस्त्र-जल-वाय्व्-अग्न्य्-आदीनां तेजांसि प्रभावा येन सः ॥३४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **एवं नाना-स्वरूपैः स्व-रक्षां समाप्यापि पुनर् अपि सर्वेषां प्रतिकूलानां भीषणेनैकेनैव नृसिंह-स्वरूपेण स्व-रक्षा-मन्त्रम् एकम् आह—विदिक्ष्व् इति पात्व् इत्य् अनुषङ्गः । यद् वा, नारसिंहः नरसिंह-भक्तः प्रह्लादः स्वनेन श्री-नृसिंह-नाम-गर्जनेन स्व-तेजसा ग्रन्थानि समस्तानां दिग्-गज-विष-शस्त्र-जल-वाय्व्-अग्न्य्-आदीनां तेजांसि प्रभावा येन सः ॥३४॥

—ओ)०(ओ—

॥ ६.८.३५ ॥

मघवन्न् इदम् आख्यातं वर्म नारायणात्मकम् ।

विजेष्यसेऽञ्जसा येन दंशितोऽसुर-यूथपान् ॥

**श्रीधरः, विश्वनाथः : **दंशितः कवचितः ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.३६ ॥

एतद् धारयमाणस् तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥

**श्रीधरः : **सोऽपि साध्वसाद् भयाद् विमुच्यते ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **सोऽपि साध्वसाद् विमुच्यते, किम् उत एतद् धारयमाणः ॥३६॥

—ओ)०(ओ—

॥ ६.८.३७ ॥

न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत् ।

राज-दस्यु-ग्रहादिभ्यो व्याध्य्-आदिभ्यश् च कर्हिचित् ॥

**श्रीधरः : **तस्य तु भयं न भवेद् एव ॥३७॥

**क्रम-सन्दर्भः : **तर्हि कथं विद्याधारिणः फलं नास्तीत्य् आशङ्क्याह—कुतश्चिद् इति ॥३७॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.३८ ॥

इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः ।

योग-धारणया स्वाङ्गं जहौ स मरु-धन्वनि ॥

**श्रीधरः : **एतद् विद्या-प्रभावम् इतिहासेनाह—इमाम् इति सार्धैस् त्रिभिः । मरु-धन्वनि निरुदके देशे । अनेन विद्यायाः क्षेत्र-तीर्थान् अपेक्षत्वं दर्शितम् ॥३८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.३९ ॥

तस्योपरि विमानेन गन्धर्व-पतिर् एकदा ।

ययौ चित्ररथः स्त्रीभिर् वृतो यत्र द्विज-क्षयः ॥

**श्रीधरः : **यत्र द्विजस्य क्षयो देह-त्यागस् तस्योपरि ॥३९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **द्विजस्य क्षयो देह-त्यागः ॥३९॥

—ओ)०(ओ—

॥ ६.८.४० ॥

गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्-शिराः ।

स वालिखिल्य-वचनाद् अस्थीन्य् आदाय विस्मितः ।

प्रास्य प्राची-सरस्वत्यां स्नात्वा धाम स्वम् अन्वगात् ॥

**श्रीधरः : **सद्यस् तत्-क्षणाद् एव गगनान् न्यपतत् । पाठान्तरे अङ्ग-नाभिः सह । वालखिल्योपदेशात् तस्यास्थीनि प्रास्य प्रक्षिप्य विस्मितः सन् स्वं धाम गन्धर्व-लोकं जगाम ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्राची-सरस्वत्याम् इति पुंवद्-भावाभाव आर्षः । स्वं धाम स-विमानोऽन्यथा-गन्तुं नैवापारयिष्यद् इति भावः ॥४०॥

—ओ)०(ओ—

॥ ६.८.४१ ॥

श्री-शुक उवाच—

य इदं शृणुयात् काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.८.४२ ॥

एतां विद्याम् अधिगतो विश्वरूपाच् छतक्रतुः ।

त्रैलोक्य-लक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥

**श्रीधरः : **अधिगतः प्राप्तः सन् ॥४२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठेऽयम् अष्टमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां दशम-स्कन्धे
नारायण-वर्मोपदेशो नाम
अष्टमोऽध्यायः ।

॥ ६.८ ॥

(६.९)

(६.९)


  1. मां केशव इति सार्धकम् । थिस् एन्तिरे पोर्तिओन् इस् इन् प् ओन्ल्य् अन्द् नोत् इन् सोमे ओथेर् एदितिओन्स्। ↩︎