०७ विश्वरूपोपाख्याने

॥ ६.७.१ ॥

श्री-राजोवाच—

कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः ।

एतद् आचक्ष्व भगवञ् छिष्याणाम् अक्रमं गुरौ ॥

**श्रीधरः : **

सप्तमे विश्वरूपोऽसौ पौरोहित्ये वृतः सुरैः ।

गुरुणा संपरित्यक्तैः पौरोहित्यम् अथाकरोत् ॥

कस्य हेतोः कस्माद् धेतोर् आत्मनः शिष्याः सुराः परित्यक्ताः । अक्रमम् अपराधम् ॥१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **

सप्तमे गुरुणा त्यक्तैर् देवैर् दैत्य-पराजितैः ।

विश्वरूपो गुरुत्वेन वृतो ब्रह्मोपदेशतः ॥

आत्मनः शिष्याः सुराः ॥१॥

—ओ)०(ओ—

॥ ६.७.२ ॥

श्री-बादरायणिर् उवाच—

इन्द्रस् त्रिभुवनैश्वर्य- मदोल्लङ्घित-सत्पथः ।

मरुद्भिर् वसुभी रुद्रैर् आदित्यैर् ऋभुभिर् नृप ॥

**श्रीधरः : **स इन्द्रो यदा संप्राप्तं वाचस्पतिं नाभ्यनन्दत नादृतवान्, तदा स आङ्गिरसस् ततो निर्गत्य तूष्णीं स्व-गृहम् आययौ[भा।पु। ६.७.९] इत्य् अष्टानाम् अन्वयः । अनादरे हेतुं मदं दर्शयितुं तं विशिनष्टि । त्रि-भुवनैश्वर्य-मदेनोल्लङ्घितः सतां पन्था येन सः ॥२॥

**क्रम-सन्दर्भः : **इन्द्र इति सार्ध-सप्तकम् ।_।_२॥

**विश्वनाथः : **इन्द्रो यदा संप्राप्तं वाचस्पतिं नाभ्यनन्दत् नादृतवान्, तदा स्व-गृहम् आययौ[भा।पु। ६.७.९] इत्य् अष्टानाम् अन्वयः ॥२॥

—ओ)०(ओ—

॥ ६.७.३ ॥

विश्वेदेवैश् च साध्यैश् च नासत्याभ्यां परिश्रितः ।

सिद्ध-चारण-गन्धर्वैर् मुनिभिर् ब्रह्म-वादिभिः ॥

**श्रीधरः : **परिश्रितः परिवृतः ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.४ ॥

विद्याधराप्सरोभिश् च किन्नरैः पतगोरगैः ।

निषेव्यमाणो मघवान् स्तूयमानश् च भारत ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.५ ॥

उपगीयमानो ललितम् आस्थानाध्यासनाश्रितः ।

पाण्डुरेणातपत्रेण चन्द्र-मण्डल-चारुणा ॥

**श्रीधरः : **आस्थानं सभा तस्मिन्न् अध्यासनं सिंहासनं तद् आस्थितः ॥५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आस्थानं सभा तस्मिन्न् अध्यासनं सिंहासनम् आश्रितः ॥५॥

—ओ)०(ओ—

॥ ६.७.६ ॥

युक्तश् चान्यैः पारमेष्ठ्यैश् चामर-व्यजनादिभिः ।

विराजमानः पौलम्या सहार्धासनया भृशम् ॥

**श्रीधरः : **पारमेष्ठ्यैर् महा-राज-चिह्नैः । आसनस्यार्धे स्थितया पौलोम्या सह विराजमानः सन् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **पारमेष्ठ्यैर् महा-राज-चिह्नैः । पौलोम्या शच्या । अर्धम् आसनम् एवासनं यस्यास् तया सह मृगलोचनेतिवद् आसन-प्रदस्य वृत्ताव् अन्तर्भावः ॥६॥

—ओ)०(ओ—

॥ ६.७.७ ॥

स यदा परम् आचार्यं देवानाम् आत्मनश् च ह ।

नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥

**श्रीधरः : **प्रत्य् उत्थानादिना नाभ्यनन्दत नादृतवान् ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आचार्यं बृहस्पतिम् ॥७॥

—ओ)०(ओ—

॥ ६.७.८ ॥

वाचस्पतिं मुनि-वरं सुरासुर-नमस्कृतम् ।

नोच्चचालासनाद् इन्द्रः पश्यन्न् अपि सभागतम् ॥

**श्रीधरः : **न चोच्चचाल आसन एव स्थितोऽपि किञ्चिन् न चलितवान् ॥८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अप्रत्युत्थानम् एव स्पष्टयति—वाचस्पतिम् इति । आसनात् आसनम् आरुह्य स्थितोऽपि किम् अपि नोच्चचाल न पस्पन्द ॥८॥

—ओ)०(ओ—

॥ ६.७.९ ॥

ततो निर्गत्य सहसा कविर् आङ्गिरसः प्रभुः ।

आययौ स्व-गृहं तूष्णीं विद्वान् श्री-मद-विक्रियाम् ॥

**श्रीधरः : **श्री-मदेन या विक्रिया तां विद्वान् जानन् ॥९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ततः सभातः कविः एवं भविष्यतीति भावि-कार्य-विज्ञः । प्रभुः शास्ता समर्थः । विद्वान् गुर्व्-अवमान-हेतुत्वेन जनान् ॥९॥

—ओ)०(ओ—

॥ ६.७.१० ॥

तर्ह्य् एव प्रतिबुध्येन्द्रो गुरु-हेलनम् आत्मनः ।

गर्हयाम् आस सदसि स्वयम् आत्मानम् आत्मना ॥

**श्रीधरः : **प्रतिबुध्यानुस्मृत्य ॥१०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **प्रतिबुद्ध्य श्रीमद् अमदिरानिद्रात इत्य् अर्थः ॥१०॥

—ओ)०(ओ—

॥ ६.७.११ ॥

अहो बत मयासाधु कृतं वै दभ्र-बुद्धिना ।

यन् मयैश्वर्य-मत्तेन गुरुः सदसि कात्कृतः ॥

**श्रीधरः : **मम कृतं कर्म अहो असाधु । यद् यस्माद् दभ्र-बुद्धिनाल्प-मतिना मया कात्-कृतस् तिरस्कृतः ॥११॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कात्-कृतस् तिरस्कृतः ॥११॥

—ओ)०(ओ—

॥ ६.७.१२ ॥

को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टप-पतेर् अपि ।

ययाहम् आसुरं भावं नीतोऽद्य विबुधेश्वरः ॥

**श्रीधरः : **विबुधानां सात्त्विकानां देवानाम् ईश्वरोऽप्य् अहम् ॥१२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **स्व-सम्पत्तिर् एव तिरस्कार-हेतुत्वेन ज्ञात्वा निन्दति—को गृध्येत् वाञ्छेत् ॥१२॥

—ओ)०(ओ—

॥ ६.७.१३ ॥

यः पारमेष्ठ्यं धिषणम् अधितिष्ठन् न कञ्चन ।

प्रत्युत्तिष्ठेद् इति ब्रूयुर् धर्मं ते न परं विदुः ॥

**श्रीधरः : **ननु सिंहासन-स्थो राजाऽभ्युत्थानं न कुर्याद् इति वृद्धा वदन्ति तत्राह—य इति द्वाभ्याम् । धिषणम् आसनम् ॥१३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु सिंहासन-स्थो राजा कम् अपि नाभ्युत्तिष्ठद् इति नीति-शास्त्र-ज्ञा आहुः ? सत्यं, ते भ्राना एवेत्य् आह—ये इति । पारमेष्ठ्यं धिषणं परमेष्ठिनोऽप्य् आसनम् ॥१३॥

—ओ)०(ओ—

॥ ६.७.१४ ॥

तेषां कुपथ-देष्टॄणां पततां तमसि ह्य् अधः ।

ये श्रद्दध्युर् वचस् ते वै मज्जन्त्य् अश्म-प्लवा इव ॥

**श्रीधरः : **कुपथं दिशन्त्य् उपदिशन्त्य् उत्पथ-देष्टारस् तेषां वचः । अश्म-मयः प्लवो येषां ते यथा मज्जन्तं प्लवम् अनु मज्जन्ति तद्वत् ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अश्म-मयः प्लवो येषां ते यथा मज्जन्तं प्लवम् अनु मज्जन्ति तथेति । राजनीत्य्-उपदेष्टृषु स्व-सभ्येषु कोपो व्यञ्जितः ॥१४॥

—ओ)०(ओ—

॥ ६.७.१५ ॥

अथाहम् अमराचार्यम् अगाध-धिषणं द्विजम् ।

प्रसादयिष्ये निशठः शीर्ष्णा तच्-चरणं स्पृशन् ॥

**श्रीधरः : **अगाधा गम्भीरा धिषणा यस्य तम् । निशठः शाठ्य-हीनः सन् ॥१५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तस्माद् अस्यां विपत्तौ कः खलूपायः क्षणं विमृश्य स्वयम् एवाह—अथाहम् इति । निशठः शाठ्य-हीनः सन् ॥१५॥

—ओ)०(ओ—

॥ ६.७.१६ ॥

एवं चिन्तयतस् तस्य मघोनो भगवान् गृहात् ।

बृहस्पतिर् गतोऽदृष्टां गतिम् अध्यात्म-मायया ॥

**श्रीधरः : **अधिकया आत्म-मायया ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **चिन्तयतः चिन्तयन्तं मघवन्तम् अनादृत्य अधिकया आत्मनो मायया ॥१६॥

—ओ)०(ओ—

॥ ६.७.१७ ॥

गुरोर् नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।

ध्यायन् धिया सुरैर् युक्तः शर्म नालभतात्मनः ॥

**श्रीधरः : **गुरोः संज्ञां ज्ञानोपायं परीक्षमाणोऽपि नाधिगतोऽप्राप्तः सन् ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **संज्ञां ज्ञानोपायं परीक्षन् परित ईक्षमाणोऽपि नाधिगतोऽप्राप्तः सन् ॥१७॥

—ओ)०(ओ—

॥ ६.७.१८ ॥

तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् ।

देवान् प्रत्युद्यमं चक्रुर् दुर्मदा आततायिनः ॥

**श्रीधरः : **आततायिन उद्यतास्त्राः ॥१८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.१९ ॥

तैर् विसृष्टेषुभिस् तीक्ष्णैर् निर्भिन्नाङ्गोरु-बाहवः ।

ब्रह्माणं शरणं जग्मुः सहेन्द्रा नत-कन्धराः ॥

**श्रीधरः : **निर्भिन्नान्य् अङ्गान्य् उत्तमाङ्गानि शिरांसि ऊरवो बाहवश् च येषाम् ॥१९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.२० ॥

तांस् तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूर् अजः ।

कृपया परया देव उवाच परिसान्त्वयन् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.२१ ॥

श्री-ब्रह्मोवाच—

अहो बत सुर-श्रेष्ठा ह्य् अभद्रं वः कृतं महत् ।

ब्रह्मिष्ठं ब्राह्मणं दान्तम् ऐश्वर्यान् नाभ्यनन्दत ॥

**श्रीधरः : **वो युष्माकं कृतं करणं महद् अभद्रम् । तद् आह—ब्रह्मिष्ठम् इति । नाभ्यनन्दत नाभिनन्दितवन्तः ॥२१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.२२ ॥

तस्यायम् अनयस्यासीत् परेभ्यो वः पराभवः ।

प्रक्षीणेभ्यः स्व-वैरिभ्यः समृद्धानां च यत् सुराः ॥

**श्रीधरः : **परेभ्यः शत्रुभ्यो वः पराभवैति यद् अयं तस्याऽनयस्यान्यायस्य संबन्धी फल-रूप आसीत् । उक्तं च—

ब्राह्मणं कुल-संपन्नं भक्तं विष्णोर् महात्मनः ।
आयान्तं वीक्ष्य नोत्तिष्ठेत् स दुःखैः परिभूयते ॥इति ।

स्वयम् एव वैरिणो हन्तारो येषां तेभ्यः ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **परेभ्यः, अन्येभ्यः सकाशात्, तेभ्यः ॥२२॥

—ओ)०(ओ—

॥ ६.७.२३ ॥

मघवन् द्विषतः पश्य प्रक्षीणान् गुर्व्-अतिक्रमात् ।

सम्प्रत्य् उपचितान् भूयः काव्यम् आराध्य भक्तितः ।

आददीरन् निलयनं ममापि भृगु-देवताः ॥

**श्रीधरः : **गुरु-तिरस्कार-सत्-काराव् एवापचयोपचय-कारणम् इत्य् असुर-दृष्टान्तेनाह—मघवन्न् इति । द्विषतः शत्रून् । काव्यं भार्गवं गुरुम् एवासेव्योपचितान् । उपचितत्वम् एवाह । आददीरन् गृह्णीयुः ॥२३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **गुरु-तिरस्कार-सत्-काराव् एव विपत्-सम्पदोः कारणम् इत्य् असुर-दृष्टान्तेनैवाह—मघवन्न् इति । अद्यैषां तथाबलं दृश्यते यथा ममापि निलयनं सत्य-लोकम् आददीरन् । तत्र हेतुः—भृगु-देवताः गुरु-भक्ताः ॥२३॥

—ओ)०(ओ—

॥ ६.७.२४ ॥

त्रिपिष्टपं किं गणयन्त्य् अभेद्य-

मन्त्रा भृगूणाम् अनुशिक्षितार्थाः ।

न विप्र-गोविन्द-गव्-ईश्वराणां

भवन्त्य् अभद्राणि नरेश्वराणाम् ॥

**श्रीधरः : **अभेद्यो मन्त्रो येषाम् । अनुशिक्षितार्थाः शिष्याः यतो विप्रा गोविन्दो गावश् चेश्वरो आनुग्राहका येषां तेषाम् एवाभद्राणि न भवन्त्य् अन्येषां तु भवन्ति ॥२४॥

**क्रम-सन्दर्भः : **त्रिपिष्टपम् इति । अत्र गोविन्देति दृष्टान्तेनोपन्यस्तम् ॥२४॥

**विश्वनाथः : **अत्र साम-दान-दण्डा उपाया न सम्भवन्तो दृश्यन्ते । भेदोऽप्य् अशक्य इत्य् आह—न भेद्यो मन्त्रो मन्त्रणा येषां ते । सर्वत्र हेतुः—भृगूनां शुक्राचार्याणाम् अनुशिक्षितम् एव । अर्थः पुरुषार्थत्वेनोपादेयो येषां ते । ननु तर्हि किं वयं मरिष्याम एवेति । तत्र साश्वासम् आह—न विप्रेति । विप्रा गोविन्दो गाव ईश्वरा अनुग्राहका येषां तेषाम् ॥२४॥

—ओ)०(ओ—

॥ ६.७.२५ ॥

तद् विश्वरूपं भजताशु विप्रं

तपस्विनं त्वाष्ट्रम् अथात्मवन्तम् ।

सभाजितोऽर्थान् स विधास्यते वो

यदि क्षमिष्यध्वम् उतास्य कर्म ॥

**श्रीधरः : **तत् तस्मत् । अथानन्तरम् एव भजत । अस्य कर्मासुर-पक्ष-पातम् ॥२५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तत् तस्मत् । अयम् एव सम्प्रत्य् उपाय इत्य् आह—विश्वरूपं गुरुत्वेन भजत । यद् यस्य विश्वरूपस्य कर्मासुर-पक्ष-पातम् ॥२५॥

—ओ)०(ओ—

॥ ६.७.२६ ॥

श्री-शुक उवाच—

त एवम् उदिता राजन् ब्रह्मणा विगत-ज्वराः ।

ऋषिं त्वाष्ट्रम् उपव्रज्य परिष्वज्येदम् अब्रुवन् ॥

**श्रीधरः : **उदिता उक्ताः ॥२६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.२७-२८ ॥

श्री-देवा ऊचुः—

वयं तेऽतिथयः प्राप्ता आश्रमं भद्रम् अस्तु ते ।

कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥

पुत्राणां हि परो धर्मः पितृ-शुश्रूषणं सताम् ।

अपि पुत्रवतां ब्रह्मन् किम् उत ब्रह्मचारिणाम् ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.२९ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।

भ्राता मरुत्पतेर् मूर्तिर् माता साक्षात् क्षितेस् तनुः ॥

**श्रीधरः : **अतिथीनां पितॄणां च प्रशंसार्थम् आहुः—आचार्य उपनीय वेदाध्यापकः । ब्रह्मणो वेदस्य मूर्तिः ॥२९

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **आचार्यो वेदाध्यापकः । ब्रह्मणो वेदस्य । मरुत्पतेर् इन्द्रस्य ॥२९॥

—ओ)०(ओ—

॥ ६.७.३० ॥

दयाया भगिनी मूर्तिर् धर्मस्यात्मातिथिः स्वयम् ।

अग्नेर् अभ्यागतो मूर्तिः सर्व-भूतानि चात्मनः ॥

**श्रीधरः : **धर्मस्यात्मा मूर्तिर् अतिथिः स्वयं साक्षात् । आत्मनः श्री-विष्णोः । यद् वा, आत्मनः स्वस्य । सर्व-भूतेष्व् आत्म-दृष्टिः कर्तव्येत्य् अर्थः ॥३०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अतिथिस् धर्मस्यात्मैव मूर्तिर् इति किं वक्तव्यम् इति भावः । आत्मनः पश्यस्य ॥३०॥

—ओ)०(ओ—

॥ ६.७.३१ ॥

तस्मात् पितॄणाम् आर्तानाम् आर्तिं पर-पराभवम् ।

तपसापनयंस् तात सन्देशं कर्तुम् अर्हसि ॥

**श्रीधरः : **परेभ्यः पराभव एवार्तिस् ताम् ॥३१॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नन्व् अलं धर्मोपदेश-स्तुतिभ्यां, विवक्षितं ब्रूतेत्य् अत आहुः—तस्माद् इति ॥३१॥

—ओ)०(ओ—

॥ ६.७.३२ ॥

वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् ।

यथाञ्जसा विजेष्यामः सपत्नांस् तव तेजसा ॥

**श्रीधरः : **सन्देशम् आहुः—वृणीमह इति ॥३२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **त्वा त्वां गुरुं गुरुत्वेन व्र्णीमहे । प्रयोजनम् आहुर् यथेति ॥३२॥

—ओ)०(ओ—

॥ ६.७.३३ ॥

न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्य्-अभिवादनम् ।

छन्दोभ्योऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥

**श्रीधरः : **ननूपाध्यायत्वे कनिष्ठस्य ममाभिवन्दनं करिष्यथ तच् च गर्हितं तत्राहुः—नेति । अर्थेषु प्रयोजन-निमित्तं यविष्ठानाम् अभिवादनं न निन्दन्ति । किं च, छन्दोभ्यो मन्त्रेभ्योऽन्यत्र वेदान् विहाय वय एव ज्यैष्ठ्यस्य कारणं न तु मन्त्रेषु । अतोऽस्मभ्यं मन्त्र-दातृत्वेन त्वम् एव ज्येष्ठो भविष्यसि ।

यद् वा, छन्दोभ्योऽन्यत्र वेदान् विहाय वय एव ज्यैष्ठ्यस्य कारणं न भवति, किं तु वेदा एव मुख्यं कारणम् । तत् साम्ये तु वयः । वेद-ज्ञत्वाच् च त्वम् एव ज्येष्ठ इत्य् अर्थः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु मां गुरुं कुरुथेति चेत् भ्रातुष्पुत्रत्वेन कनिष्ठस्य कथं ममाभिवादनं करिष्यथ ? इति तत्राहुः—नेति । छन्दोभ्योऽन्यत्र अन्येषु व्यवहारिक-कृत्येषु यविष्ठाङ्घ्र्य्-अभिवादनं न गर्हयन्ति, नापि तु गर्हयन्त्य् एव । यतो वय एव ज्येष्ठ्यत्वस्य कनिष्ठत्वस्य च कारणम् अधिक-वयस्त्वे ज्येष्ठः । अल्प-वयस्त्वे कनिष्ठ इति । छन्दःसु, न तु तत्र छन्दोज्ञत्वम् एव ज्येष्ठत्वस्य कारणम् इत्य् अर्थः । तस्मात् तव वेदज्ञत्वाधिक्यात् त्वम् एवास्माकं पौरोहित्यं कुर्वन् मन्त्र-प्रदो गुरुर् भवेद् इति भावः ॥३३॥

—ओ)०(ओ—

॥ ६.७.३४ ॥

श्री-ऋषिर् उवाच—

अभ्यर्थितः सुर-गणैः पौरहित्ये महा-तपाः ।

स विश्वरूपस् तान् आह प्रसन्नः श्लक्ष्णया गिरा ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.३५ ॥

श्री-विश्वरूप उवाच—

विगर्हितं धर्म-शीलैर् ब्रह्मवर्च-उपव्ययम् ।

कथं नु मद्-विधो नाथा लोकेशैर् अभियाचितम् ।

प्रत्याख्यास्यति तच्-छिष्यः स एव स्वार्थ उच्यते ॥

**श्रीधरः : **निन्दितम् अपीदं युष्मद्-याच्ञा-भङ्ग-भयेन करिष्यामीत्य् आह सार्धेन । विगर्हितं पौरोहित्यं धर्म-शीलैः, अधर्म-हेतुत्वात् । किं च, ब्रह्म-वर्च उपव्ययं पूर्व-सिद्धस्य ब्रह्म-वर्चसो व्यय-करम् । प्रत्याख्यातुं च मादृशो नार्हतीत्य् आह—कथं न्व् इति । तेषां शिक्षणार्हः । स एव प्रत्याख्यानाभाव एव हि शिष्यस्य स्वार्थ उच्यते॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **धर्म-शीलैर् मुनिभिः पौरोहित्यं विगर्हितम् । यतो ब्रह्म-वर्चसः ब्रह्म-तेजस उपव्ययोऽधिक-व्ययो यतस् तत् । किं च, तद् अपि सम्प्रति मम तत् कर्तव्यम् एवाभूद् इत्य् आह कथम् इति । हे नाथाः ! लोकेशैर् युष्माभिस् तच्-छिष्यः, तेषां युष्माकं शिष्यः । तस्मात् स एव प्रत्याख्यानाभाव एव शिष्यस्य स्वार्थः ॥३५॥

—ओ)०(ओ—

॥ ६.७.३६ ॥

अकिञ्चनानां हि धनं शिलोञ्छनं

तेनेह निर्वर्तित-साधु-सत्क्रियः ।

कथं विगर्ह्यं नु करोम्य् अधीश्वराः

पौरोधसं हृष्यति येन दुर्मतिः ॥

**श्रीधरः : **ननु पौरोहित्येन धन-लाभाद् धर्मः सिध्येत् । अन्यथा निर्धनस्य कुतो धर्मः ? अत एव तेन लोको हृष्यति तत्राह । अकिञ्चनानां शिलोञ्छनं हि धनम् । क्षेत्रे स्वाम्य्-उपेक्षित-कणिशोपादानं शिलम् । हट्टादौ पतित-व्रीह्य्-आदेर् उपादानम् उञ्छनम् । इह गृहाश्रमे तेनैव निर्वर्तिता साधूनां सत्-क्रिया येन ॥३६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **ननु पौरोहित्येन धन-लाभाद् धर्मः सिध्येत् । अन्यथा निर्धनस्य कुतो धर्मः ? तत्राह । अकिञ्चनानां शिलोञ्छनम् एव धनम् । क्षेत्रे स्वाम्य्-उपेक्षित-कणिशोपादानं शिलम् । हट्टादौ पतित-व्रीह्य्-आदेर् उपादानम् उञ्छनम् । य्३ पौरोधसेन दुर्मतिः पुमान् एव हृष्यति, न तु सुमतिः । यद् वा, दुष्टा मति एव स्वानुकूल्याद् धृष्यति ॥३६॥

—ओ)०(ओ—

॥ ६.७.३७ ॥

तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् ।

भवतां प्रार्थितं सर्वं प्राणैर् अर्थैश् च साधये ॥

**श्रीधरः : **कियद् एतत् प्रार्थितम् अल्पम् एव । अभ्यधिकम् अपि करिष्यामीत्य् आह—भवताम् इति ॥३७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **न प्रतिब्रूयां न प्रत्याख्यास्ये कियद् एतत् प्रार्थैतम् अत्यल्पम् एव अभ्यधिकम् अपि करिष्यामीत्य् आह—भवताम् इति ॥३७॥

—ओ)०(ओ—

॥ ६.७.३८ ॥

श्री-बादरायणिर् उवाच—

तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महा-तपाः ।

पौरहित्यं वृतश् चक्रे परमेण समाधिना ॥

**श्रीधरः : **परमेण समाधिना परमोद्यमेन ॥३८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **समाधिना चित्तैकाग्र्येण ॥३८॥

—ओ)०(ओ—

॥ ६.७.३९ ॥

सुर-द्विषां श्रियं गुप्ताम् औशनस्यापि विद्यया ।

आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥

**श्रीधरः : **वैष्णव्या श्री-नारायण-कवचात्मिकया ॥३९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.७.४० ॥

यया गुप्तः सहस्राक्षो जिग्येऽसुर-चमूर् विभुः ।

तां प्राह स महेन्द्राय विश्वरूप उदार-धीः ॥

**श्रीधरः : **असुर-चमूर् दैत्य-सेनाः ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तां वैष्णवीं विद्याम् ॥४०॥

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठस्य सप्तमोऽध्यायः सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
विश्वरूपोपाख्याने सप्तमोऽध्यायः ।

॥ ६.७ ॥

(६.८)