०६ दक्ष-कन्या-वंशः नाम

॥ ६.६.१ ॥

श्री-शुक उवाच—

ततः प्राचेतसोऽसिक्न्याम् अनुनीतः स्वयम्भुवा ।

षष्टिं सञ्जनयाम् आस दुहितॄः पितृ-वत्सलाः ॥

**श्रीधरः : **

षष्ठे दक्षेण सृष्टायां कन्या-षष्ट्यां प्रकीर्तिताः ।

पृथग् वंशा यतो जातो विश्वरूपो कितेः सुतात् ॥

नारदात् पुत्राणां नाशम् आशङ्कमानो दुहितॄर् जनयाम् आस ॥१॥

**क्रम-सन्दर्भः : **धर्मादयो ऽप्य् एते पूर्व-दक्ष-जामातृभ्योऽन्ये इति ज्ञेयाः ॥१॥

**विश्वनाथः : **

षष्ठे दक्षस्य कन्यानां वंशाः पृथग् उदीरिताः ।

यत्रोदितेः सुतात् त्वष्टुर् विश्वरूपोऽभ्यजायत ॥

पुत्र-शोकेन निर्विण्णः पुनर् ब्रह्म-वचनाद् गार्हस्थ्यं कुर्वन् नारदो मयि वैरं न हास्यतीति मत्वा तस्मात् पुत्राणां नाशम् आशङ्कमानः कन्या एव जनयामासेत्य् आह—तत इति । असिक्न्यां भार्यायाम् ॥१॥

—ओ)०(ओ—

॥ ६.६.२ ॥

दश धर्माय कायादाद् द्वि-षट् त्रि-णव चेन्दवे ।

भूताङ्गिरः-कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥

**श्रीधरः : **काय कश्यपाय । द्वि-षट् द्वि-गुणाः षट् द्वादश यासु ताः, त्रयोदशेत्य् अर्थः । इन्दोः सोमाय । त्रि-णव सप्त-विंशतिम् । तार्क्ष्याय नामान्तरं प्राप्ताय कश्यपायैव । अपरा अवशिष्टाश् चतस्रः ॥२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **काय कश्यपाय । द्वि-षट् द्वि-गुणिताः षट् द्वादशेति न्यून-सङ्ख्या व्यवच्छिन्ना तेन त्रयोदशेत्य् अर्थः । इन्दवे सोमाय । त्रि-णव त्रिगुणिता नव सप्त-विंशतितम् । द्वे द्वे इति भूताय द्वे अङ्गिरसे द्वे । अपरा अवशिष्टाश् चतस्रः तार्क्ष्याय तार्क्ष-नाम्ने कश्यपायैव ॥२॥

—ओ)०(ओ—

॥ ६.६.३ ॥

नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु ।

यासां प्रसूति-प्रसवैर् लोका आपूरितास् त्रयः ॥

**श्रीधरः : **सापत्यानाम् अपत्य-सहितानाम् । मे मत्तः शृणु । प्रसूति-प्रसवैः पुत्र-पौत्रादिभिः ॥३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.४-५ ॥

भानुर् लम्बा ककुद् यामिर् विश्वा साध्या मरुत्वती ।

वसुर् मुहूर्ता सङ्कल्पा धर्म-पत्न्यः सुता‘ शृणु ॥

भानोस् तु देव-ऋषभ इन्द्रसेनस् ततो नृप ।

विद्योत आसील् लम्बायास् ततश् च स्तनयित्नवः ॥

**श्रीधरः : **ततो देव-ऋषभात् ॥४-५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.६ ॥

ककुदः सङ्कटस् तस्य कीकटस् तनयो यतः ।

भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस् ततोऽभवत् ॥

**श्रीधरः : **यतः कीकटाद् भुवो दुर्गाणि दुर्गाभिमानिनो देवाः । यामेयो याम्याः पुत्रः स्वर्गस् ततः स्वर्गान् नन्दिः पुत्रोऽभवत् ॥६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यतः कीकटाद् भुवो दुर्गाणि दुर्गाभिमानिनो देवाः । यामेयो याम्याः पुत्रः स्वर्गः ॥६॥

—ओ)०(ओ—

॥ ६.६.७ ॥

विश्वे-देवास् तु विश्वाया अप्रजांस् तान् प्रचक्षते ।

साध्यो-गणश् च साध्याया अर्थसिद्धिस् तु तत्-सुतः ॥

**श्रीधरः, विश्वनाथः : **तत् सुतः साध्यानां सुतः ॥७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.८-९ ॥

मरुत्वांश् च जयन्तश् च मरुत्वत्या बभूवतुः ।

जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥

मौहूर्तिका देव-गणा मुहूर्तायाश् च जज्ञिरे ।

ये वै फलं प्रयच्छन्ति भूतानां स्व-स्व-कालजम् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **यं विदुर् इत्य् अदित्याः पुत्र उपेन्द्र इव जयन्तोऽप्य् उपेन्द्र-संज्ञ इत्य् अर्थः॥८॥

—ओ)०(ओ—

॥ ६.६.१० ॥

सङ्कल्पायास् तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः ।

वसवोऽष्टौ वसोः पुत्रास् तेषां नामानि मे शृणु ॥

**श्रीधरः : **वसोर् वंशस्य भूयस्त्वाद् अन्ते निर्देशः । मे मत्तः ॥१०॥

**क्रम-सन्दर्भः : **वसोर् वंशस्य भूयस्त्वाद् अन्ते निर्देशः मे मत्तः ॥१०॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.११ ॥

द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर् दोषो वास्तुर् विभावसुः ।

द्रोणस्याभिमतेः पत्न्या हर्ष-शोक-भयादयः ॥

**श्रीधरः : **अभिमतिर् नाम पत्नी तस्या हर्षादयः पुत्राः ॥११॥

**क्रम-सन्दर्भः : **अभिमतिर् नाम पत्नी तस्या हर्षादयः ॥११॥

विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.१२ ॥

प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः ।

ध्रुवस्य भार्या धरणिर् असूत विविधाः पुरः ॥

**श्रीधरः : **सहश् च आयुश् च पुरोजवश् च पुत्राः । पुरः पुराणि ॥१२॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.१३ ॥

अर्कस्य वासना भार्या पुत्रास् तर्षादयः स्मृताः ।

अग्नेर् भार्या वसोर् धारा पुत्रा द्रविणकादयः ॥

न व्याख्यातं कतमेन ।

—ओ)०(ओ—

॥ ६.६.१४ ॥

स्कन्दश् च कृत्तिका-पुत्रो ये विशाखादयस् ततः ।

दोषस्य शर्वरी-पुत्रः शिशुमारो हरेः कला ॥

**श्रीधरः : **स्कन्दश् च कृत्तिका-सुतोऽग्नेः पुत्रः । षाण्मातुर इत्य् अग्नि-भूर् इति च प्रसिद्धेः । ततः स्कन्दात् ॥१४॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कृत्तिका चाग्नेर् भार्या ॥१४॥

—ओ)०(ओ—

॥ ६.६.१५ ॥

वास्तोर् आङ्गिरसी-पुत्रो विश्वकर्माकृती-पतिः ।

ततो मनुश् चाक्षुषोऽभूद् विश्वे साध्या मनोः सुताः ॥

**श्रीधरः : **आकृती-पतिः शिल्पाचार्यः । ततो विश्वकर्मणश् चाक्षुषो मनुर् आसीत् ॥१५॥

**क्रम-सन्दर्भः : **ततो मनुर् इत्य् अर्धकम् । अयं ध्रुव-वंशेऽपि पूर्वं जातोऽपि दक्ष-वशिष्ठादिवत् पुनर् अत्र जात इति गम्यते ॥१५॥

**विश्वनाथः : **आक्र्ट्याः पतिः । ततो मनुश् चाक्षुष इति ध्रुव-वंशजोऽप्य् असौ दक्ष-वशिष्ठादिवद् अत्रापि जात इति गम्यते ॥१५॥

—ओ)०(ओ—

॥ ६.६.१६ ॥

विभावसोर् असूतोषा व्युष्टं रोचिषम् आतपम् ।

पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु ॥

**श्रीधरः : **विभावसोर् उषा नाम भार्या । अथ आतपात् पञ्चयामो दिवसो जातः । अत एव रात्रिस् त्रियामा प्रदोष-प्रत्यूषयोर् दिवसस्यावयवत्वात् ॥१६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अथ आतपात् पञ्च-यामः प्रदोष-प्रत्यूषयोर् दिवसावयवत्वात् पञ्च-यामो दिवसः । अत एव रात्रिस् त्रि-यामा ॥१६॥

—ओ)०(ओ—

॥ ६.६.१७ ॥

सरूपासूत भूतस्य भार्या रुद्रांश् च कोटिशः ।

रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥

**श्रीधरः : **भूतस्य द्वे भार्ये तयोर् वंशम् आह—सरूपेति ॥१७॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **भूतस्य द्वे भार्ये । तयोर् मध्ये सरूपा । रैवतादय एकादश रुद्राः ॥१७॥

—ओ)०(ओ—

॥ ६.६.१८ ॥

अजैकपाद् अहिर्ब्रध्नो बहुरूपो महान् इति ।

रुद्रस्य पार्षदाश् चान्ये घोराः प्रेत-विनायकाः ॥

**श्रीधरः : **महान् इत्य् एवम् एकादश-रूपस्य रुद्रस्य । पार्षदाः प्रेतादयः । अन्येऽन्यस्यां जाताः ॥१८॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **महान् इति विशेषणम्, अन्ये रुद्रस्य पार्षदा अन्यस्यां भार्यायाम् ॥१८॥

—ओ)०(ओ—

॥ ६.६.१९ ॥

प्रजापतेर् अङ्गिरसः स्वधा पत्नी पितॄन् अथ ।

अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥

**श्रीधरः : **अङ्गिरसः स्वधा सती चेति द्वे भार्ये तयोर् वंशम् आह—प्रजा-पतेर् इति । स्वधा नाम पत्नी पितॄन् पुत्रत्वेऽकरोत् । अथ सती चाथर्वाङ्गिरसं नाम वेदम् ॥१९॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **अङ्गिरसः स्वधा सती चेति द्वे भार्ये । तयोर् मध्ये स्वधा ॥१९॥

—ओ)०(ओ—

॥ ६.६.२० ॥

कृशाश्वोऽर्चिषि भार्यायां धूमकेतुम् अजीजनत् ।

धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥

**श्रीधरः : **कृशाश्वस्यार्चिर् धिषणेति द्वे भार्ये तयोर् वंशम् आह—कृशाश्व इति ॥२०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कृशाश्वस्यार्चिर् धिषणेति द्वे भार्ये तयोर् मध्ये अर्चिषि ॥२०॥

—ओ)०(ओ—

॥ ६.६.२१ ॥

तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च ।

पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तार्क्षस्य तार्क्ष-नाम्नः कश्यपस्य ॥२१॥

—ओ)०(ओ—

॥ ६.६.२२ ॥

सुपर्णासूत गरुडं साक्षाद् यज्ञेश-वाहनम् ।

सूर्य-सूतम् अनूरुं च कद्रूर् नागान् अनेकशः ॥

**श्रीधरः, विश्वनाथः : **सुपर्णा विनता । अनूरुम् अरुणम् ॥२२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.२३ ॥

कृत्तिकादीनि नक्षत्राण्- ईन्दोः पत्न्यस् तु भारत ।

दक्ष-शापात् सोऽनपत्यस् तासु यक्ष्म-ग्रहार्दितः ॥

**श्रीधरः : **रोहिण्याम् एव प्रेमातिशयेनान्यासाम् उपेक्षणात् कुपितस्य दक्षस्य शापाद् यक्ष्म-ग्रहार्दितः क्षय-रोग-पीडितः सन् तास्व् अनपत्योऽभूत् ॥२३॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.२४ ॥

पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः ।

शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥

**श्रीधरः : **तं दक्षं प्रसाद्य केवलं कला एव लेभे न त्व् अपत्यानि । कथं-भूताः ? क्षये कृष्ण-पक्षे दिताः स्वण्डिताः सतीः । पाठान्तरे क्षये सति पुनर् एधितास् तेनैव वर्धिताः सतीः ॥२४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.२५ ॥

अथ कश्यप-पत्नीनां यत्-प्रसूतम् इदं जगत् ।

अदितिर् दितिर् दनुः काष्ठा अरिष्टा सुरसा इला ॥

न कतमेनापि व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.२६ ॥

मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः ।

तिमेर् यादो-गणा आसन् श्वापदाः सरमा-सुताः ॥

**श्रीधरः : **अल्पत्वेन सुगमत्वाद् यथा-यथं व्युत्क्रमेण तासां वंशान् आह—तिमेर् इत्य्-आदिना ॥२६॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **कला एव लेभे न त्व् अपत्यानि कीदृशीः क्षये कृष्ण-पक्षे दिताः खण्डिताः सतीः । क्षयैधिता इति पाठे क्षये सति पुनर् एधिताः तेनैव वर्धिताः सतीः । सूचीकटाह-क्रमेण तासां वंशान् आह—तिमेर् इत्य्-आदिना ॥२६॥

—ओ)०(ओ—

॥ ६.६.२७ ॥

सुरभेर् महिषा गावो ये चान्ये द्विशफा नृप ।

ताम्रायाः श्येन-गृध्राद्या मुनेर् अप्सरसां गणाः ॥

_न कतमेनापि व्याख्यातम्। _

—ओ)०(ओ—

॥ ६.६.२८ ॥

दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः ।

इलाया भूरुहाः सर्वे यातुधानाश् च सौरसाः ॥

**श्रीधरः : **सौरसाः सुरसायाः पुत्राः ॥२८॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.२९ ॥

अरिष्टायास् तु गन्धर्वाः काष्ठाया द्विशफेतराः ।

सुता दनोर् एक-षष्टिस् तेषां प्राधानिका‘ शृणु ॥

**श्रीधरः : **प्राधानिकान् मुख्यान् अष्टादश शृणु ॥२९॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.३०-३२ ॥

द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः ।

अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः ॥

पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः ।

धूम्रकेशो विरूपाक्षो विप्रचित्तिश् च दुर्जयः ॥

स्वर्भानोः सुप्रभां कन्याम् उवाह नमुचिः किल ।

वृषपर्वणस् तु शर्मिष्ठां ययातिर् नाहुषो बली ॥

_न कतमेनापि व्याख्यातम्। _

—ओ)०(ओ—

॥ ६.६.३३ ॥

वैश्वानर-सुता याश् च चतस्रश् चारु-दर्शनाः ।

उपदानवी हयशिरा पुलोमा कालका तथा ॥

**श्रीधरः, विश्वनाथः : **वैश्वानरो दनोः पुत्रस् तस्य सुताः ॥३३॥

क्रम-सन्दर्भः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.३४ ॥

उपदानवीं हिरण्याक्षः क्रतुर् हयशिरां नृप ।

पुलोमां कालकां च द्वे वैश्वानर-सुते तु कः ॥

**श्रीधरः : **कः प्रजा-पतिः कश्यप उपयेम इत्य् अन्वयः ॥३४॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.३५ ॥

उपयेमेऽथ भगवान् कश्यपो ब्रह्म-चोदितः ।

पौलोमाः कालकेयाश् च दानवा युद्ध-शालिनः ॥

**श्रीधरः : **दानवी-परिणयने हेतुः, ब्रह्मणा चोदित इति ॥३५॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दानवी-परिणये हेतुर् ब्रह्मणा चोदित इति । तयोः षष्ठि-सहस्राणि निवात-कवचा जाताः । तांश् च स्वर्गं गतः सन् तव पितामहोऽर्जुनो जघान ॥३५॥

—ओ)०(ओ—

॥ ६.६.३६ ॥

तयोः षष्टि-सहस्राणि यज्ञ-घ्नांस् ते पितुः पिता ।

जघान स्वर्-गतो राजन्न् एक इन्द्र-प्रियङ्करः ॥

**श्रीधरः : **तयोः षष्टि-सहस्राणि निवात-कवचाः पुत्रा जातास् तांश् च स्वर्गतः संस् ते पिता-महोऽर्जुनो जघान ॥३६॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.३७-३९ ॥

विप्रचित्तिः सिंहिकायां शतं चैकम् अजीजनत् ।

राहु-ज्येष्ठं केतु-शतं ग्रहत्वं य उपागताः ॥

अथातः श्रूयतां वंशो योऽदितेर् अनुपूर्वशः ।

यत्र नारायणो देवः स्वांशेनावातरद् विभुः ॥

विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः ।

धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥

_न कतमेनापि व्याख्यातम्। _

—ओ)०(ओ—

॥ ६.६.४० ॥

विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् ।

मिथुनं च महा-भागा यमं देवं यमीं तथा ।

सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥

**श्रीधरः : **असूयताजनयत् । भुवि वर्तमाना ॥४०॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **नासत्यावश्विनीकुमारौ ॥४०॥

—ओ)०(ओ—

॥ ६.६.४१ ॥

छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः ।

कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥

**श्रीधरः : **ततो विवस्वतः ॥४१॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

—ओ)०(ओ—

॥ ६.६.४२ ॥

अर्यम्णो मातृका पत्नी तयोश् चर्षणयः सुताः ।

यत्र वै मानुषी जातिर् ब्रह्मणा चोपकल्पिता ॥

**श्रीधरः : **चर्षणयः कृताकृत-ज्ञानवन्तः । पश्यति कर्मत्वेन निघण्टाव् उक्तेः । यत्र येषु आत्मानुसन्धान् अविशेषेण मानुषी जातिश् चोपकल्पिता । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इति ॥४२॥

क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **तयोर् अर्यम-मातृकयोः चर्षणयः कृताकृत-ज्ञानवन्तः । यत्र येषु आत्मानुसन्धान-विशेषवत्सु मानुषी-जातिश् चोपकल्पिता । तथा च श्रुतिः—पुरुषत्वे चाविस्तराम् आत्मा इति ॥४२॥

—ओ)०(ओ—

॥ ६.६.४३ ॥

पूषानपत्यः पिष्टादो भग्न-दन्तोऽभवत् पुरा ।

योऽसौ दक्षाय कुपितं जहास विवृत-द्विजः ॥

**श्रीधरः : **कुपितं हरम् इति शेषः । विवृत-द्विजः प्रकटित-दन्तः सन् ॥४३॥

**क्रम-सन्दर्भः : **पुरा पूर्व-जन्मनि ॥४३॥

**विश्वनाथः : **कुपितं रुद्रम् इति शेषः । विवृत-द्विजः प्रकटित-दन्तः ॥४३॥

—ओ)०(ओ—

॥ ६.६.४४ ॥

त्वष्टुर् दैत्यात्मजा भार्या रचना नाम कन्यका ।

सन्निवेशस् तयोर् जज्ञे विश्वरूपश् च वीर्यवान् ॥

श्रीधरः, क्रम-सन्दर्भः : न व्याख्यातम्।

**विश्वनाथः : **दैत्यात्मजा रचना नाम कन्या त्वष्टुर् भार्या । तयोस् ताभ्याम् ॥४४॥

—ओ)०(ओ—

॥ ६.६.४५ ॥

तं वव्रिरे सुर-गणा स्वस्रीयं द्विषताम् अपि ।

विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥

**श्रीधरः : **यद् यदा विमतेनावज्ञातेन बृहस्पतिन परित्यक्तास् तदा द्विषतां शत्रूणां भागिनेयम् अपि विश्वरूपं पौरोहित्ये वृतवन्तः ॥४५॥

क्रम-सन्दर्भः, विश्वनाथः : न व्याख्यातम्।

इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।

षष्ठ-स्कन्धस्य षष्ठोऽयं सङ्गतः सङ्गतः सताम् ॥*॥

—ओ)०(ओ—
इति श्रीमद्-भागवते महा-पुराणे ब्रह्म-सूत्र-भाष्ये पारमहंस्यं संहितायां वैयासिक्यां षष्ठ-स्कन्धे
दक्ष-कन्या-वंशः नाम
षष्ठोऽध्यायः ।

॥ ६.६ ॥

(६.७)